लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३०४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३०५
[[लेखकः :|]]
अध्यायः ३०६ →


श्रीनारायण उवाच- -
शृणु लक्ष्मि! ब्रह्मणस्तु पुत्रीणां प्राक् चतसृणाम् ।
त्रयोदश्या अधिमासे व्रतेन पुरुषोत्तमः ॥ १ ॥
स्वयं पतिरभूत् ताभ्यो ददौ धामाक्षरं गृहम् ।
भुक्तिं मुक्तिं ददौ ताभ्यः शाश्वतीं कृपया प्रभुः ॥ २ ॥
आद्ये कृते युगे लक्ष्मि! सृष्ट्यर्थं ब्रह्मणा पुरा ।
बालाः सनकसनन्दसनातनसनद्भिधाः ॥ ३ ॥
सृष्टाश्चत्वार ऐश्वर्यबलतेजःसमन्विताः ।
दाम्पत्यर्थे च तेषां वै चतस्रः शक्तयः कृताः ॥ ४ ॥
नाम्ना जया च ललिता पारवती प्रभा शुभाः ।
सदृशास्ते सदृश्यस्ताः मानस्यो मानसाश्च ते ॥ ५ ॥
कृत्वा चतुर्युगलानि प्रसन्नोऽभूदतीव सः ।
जातमात्राणि चैतानि विज्ञानवन्ति वीक्ष्य वै ॥ ६ ॥
नियोक्तुं सृष्टिकार्ये तान् प्रत्येकं प्राह विश्वसृट् ।
सनक त्वं गृहाणैनां जयां त्वदर्थकल्पिताम् ॥ ७ ॥
सनन्दन गृहाणैनां ललितां ते प्रकल्पिताम् ।
सनातन गृहाणैनां दत्ता पारवतीं च ते ॥ ८ ॥
सनत् गृहाण ते दत्तां प्रभां सहचरीं कुरु ।
युगलं युगलं भूत्वा चत्वारि युगलानि वै ॥ ९ ॥
सृजन्तु मानसीं सृष्टिं सर्वा युगलरूपिणीम् ।
गोलोकादीदृशी प्राप्ता गृहधर्मपरम्परा ॥ १० ॥
वैकुण्ठेऽपि तथा दृष्टा गृहधर्मपरम्परा ।
वयं कृष्णाज्ञया गृह्यान् धर्मान् गृह्णीम आदरात् ॥ १ १॥
तथा पुत्रा! भवन्तोऽपि गृहीत्वा पितृसम्मतान् ।
गृहधर्मान् पालयित्वा भवन्तु सुखिनोऽत्र वै ॥ १२॥
नियुज्य भवतः सृष्टिकार्येऽप्यहं मनाक् पुनः ।
सृष्टिभारेण रहितो भवामीति कृतार्थकः ॥ १३॥
गृहधर्मे सदा पुत्रा वंशा भवन्ति तारकाः ।
गृहधर्मे योषितोऽपि भवन्ति सुखदायिकाः ॥ १४॥
गृहधर्मे यज्ञयागक्रिया जायन्त आदरात् ।
अतिथेः पूजनं देवपूजनं साधुपूजनम् ॥ १५॥
सत्कारोऽन्याश्रमिणां द्युप्रदं दानं च जायते ।
कामधर्मोऽप्यवितः स्यादर्थश्चोपार्जितो भवेत् ॥ १६ ॥
पुरुषार्थत्रयं मोक्षः पश्चाल्लभ्येत शाश्वतः ।
गृहधर्मं विना गुणप्रवाहविरमो न वै ॥ १७॥
बाल्ये वा यौवने ज्ञानं जायते न विरामदम् ।
तस्माद् भोगं प्रदायैव मानसं वै प्रशान्तयेत् ॥ १८॥
प्रशान्तमानसानां तु मोक्षो भवति शाश्वतः ।
तस्मात् कुर्वन्तु कार्याणि सृष्टिध्रौव्याणि पुत्रकाः! ॥ १९॥
इति वै ब्रह्मणः श्रुत्वा वचो विश्वसृजः सुताः ।
चत्वारः पूर्वत एव ज्ञानिनो योगिनस्तथा ॥२० ॥
ब्रह्मवेत्तार एवैते मोक्षमर्थे विनिश्चिताः ।
न कर्मणा भवेन्मोक्षः कर्म वै बन्धनं पितः ॥२१॥
तत्रापि गृह्यकर्माणि बन्धनान्येव सन्ति वै ।
नारीधर्मो विनिवृत्तेः कारणं जायते नहि ॥ २२॥
कर्मोत्तरं पुनः कर्म कारयत्येव रागतः ।
धर्मार्थकामनास्तत्र सान्ता भवन्ति नैव हि ॥२३॥
विना ज्ञानं पितस्तस्माद् गृहधर्मो भयावहः ।
गृहधर्मो भाररूपो यथा त्यक्तुं त्वयेष्यते ॥२४॥
तथाऽस्माभिश्च तं वोढुमाद्यतो नैव चेष्यते ।
पुत्रा यत् तारकाः प्रोक्तास्तारकं ज्ञानमेव ह ॥२५ ॥
तद्वै पुत्राभिधानं स्यात् ज्ञानिनां योगिनां तथा ।
कर्मिणां तु सुताः पुत्रा न चिकीर्षालयात्मनाम् ॥२६ ॥
वंशस्तु ब्रह्मविज्ञानि मुक्ताः सन्तो भवन्तु नः ।
ब्रह्ममार्गप्रदेष्टारो ब्रह्मलोकनिवासिनः ॥२७॥
अध्रुवस्याऽन्वयस्याऽर्थे करिष्यामो न गृह्यकम् ।
योषित्संगो बही रम्यः परिणामेऽन्तरेऽसुखः ॥२८॥
कस्तां सेवेत तत्त्वज्ञः सुखं नैजं विहाय वै ।
आत्मसुखं परं प्रोक्तं तदन्यत्सुखमन्तकृत् ॥२९ ॥
गृहधर्मे यज्ञयागा ये तु प्रोक्ताः पितामह ।
ब्रह्माराधनकार्यस्य कूलयाऽपि समा न ते ॥३०॥
ब्रह्माराधनमेवात्र क्रतुर्नो ज्ञानिनां मतः ।
कृते ब्रह्माराधने तु कृतमातिथ्यपूजनम् ॥३ १॥
कृतं च देवपूजादि कृतं साधुप्रपूजनम् ।
सत्कृते तु हरौ नित्यं सत्कृतं सर्वमेव ह ॥३२॥
दानं तु ब्रह्मविज्ञानं कृतं स्याच्छाश्वतं पितः ।
स्वर्गे तल्लभ्यमेवाऽन्यन्मोक्षस्थानं तदेव ह ॥३३॥
यन्न दुःखादिसंभिन्नं न चान्ते ग्रस्यते तु यत् ।
सत्यसंकल्पलब्धिकृत् तत्स्वर्गे शाश्वतं पदम् ॥ ३४॥
कालधर्मः सतृष्णस्य नाऽऽत्मारामस्य कस्यचित् ।
अर्थश्चान्नजलवस्त्रैर्नान्यैरर्थैः प्रयोजनम् ॥३५॥
एवं वै वर्तमानस्य मोक्षः करतले स्थितः ।
गृहधर्मेण गुणकृत्प्रवाहस्य विसर्जनम् ॥३६॥
आशामात्रं प्रबोद्धव्यं मग्ना वै गुणधर्मिणः ।
येषां बाल्यं न वै चास्ति यौवनं त्वागतं नहि ॥३७॥
सर्वदात्मनि चास्त्येव विरामो भोगवर्जितः ।
मानसं ब्रह्मणा सम्यग् रञ्जितं शान्तिविग्रहम् ॥३८॥
तेषां मोक्षः सदेहे वा विदेहे वा न शिष्यते ।
सदा मुक्तः स वै प्रोक्तः सदा मुक्तः स वै मतः ॥३९॥
हर्षाऽमर्षभयोद्वेगैरस्पृष्टो मुक्त एव सः ।
तस्मान्नार्हा वयं सृष्टौ वयं ब्रह्माधिकारिणः ॥४०॥
निर्द्वन्द्वा द्वन्द्व शून्याँश्च करिष्यामोऽपरानपि ।
अयं वै पितृतत्पितृपितृपितृपितुः पितुः ॥४१ ॥
पुरुषोत्तमसंज्ञस्य धर्मोऽस्त्युपनिषन्मयः ।
यास्यामो येन पुरतस्तस्यैव परमात्मनः ॥४२॥
यद्वै पश्चात्प्रकर्तव्यं तदद्यैव विधीयताम् ।
यदि स्यात् तद्विधानस्य साधनं स्वीयकोशगम् ॥४३॥
अस्माकं तु पितुश्चानुग्रहेणाऽऽत्मनि संयमः ।
सहोत्थ एव सुखदो वर्तते मोक्षसाधकः ॥४४॥
तस्मादाबाल्यतो मोक्षे वत्स्यामो नान्यथा पितः ।
अस्मन्मोक्षे तव मोक्षो भविष्यति न संशयः ॥४५॥
वयं पुत्रास्तारकाः स्मो यथार्था इति विद्धि वै ।
इमाः कन्यास्तु योगिन्यो ज्ञानविज्ञानमूर्तयः ॥४६॥
ब्रह्मैव संप्रपत्स्यन्ते स्वल्पकालेन मा शुचः ।
इति संभाष्य पुत्रास्ते ययुर्विष्णुपदीं प्रति ॥४७॥
जया च ललिता पारवती प्रभेति कन्यकाः ।
अध्यात्मयोगसम्पन्नाः सस्मरुः पुरुषोत्तमम् ॥४८॥
कृष्णनारायणं त्वाराधयामासुः सदाऽऽदरात् ।
जपं चक्रुः ओंश्रीकृष्णनारायणाय ते नमः ॥४९॥
एवं वै वर्तमानाभिर्घोषणा दुन्दुभेः श्रुता ।
सत्यलोके त्रयोदश्यां प्रातरेव कृपामयी ॥५ ० ॥
या काचिद् ब्रह्मसम्पन्ना यद्वा ब्रह्मवियोगिनी ।
सद्योजाता कुमारी वा वरारोहा विरागिणी ॥५ १ ॥
स्थवीरा वा सुभगा वा सुवासिनी विवासिनी ।
सरागा वाऽऽत्मरागा वा कैवल्येहावती च वा ॥५ २ ॥
अनाथा वा सनाथा वा संस्कृता वाऽप्यसंस्कृता ।
सुस्थाना वाऽकृतस्थानाऽथवा प्रस्थानशालिनी ॥५३ ॥
वाग्दाना वाऽप्यदाना वा दानार्हा दानवर्जिता ।
दानार्थे निर्मिता चापि कुर्यात् त्रयोदशीव्रतम् ॥ ५४॥
तासामभीष्टदाताऽस्मि श्रीकृष्णः पुरुषोत्तमः ।
अधिमासेऽत्र यस्यै यन्नवं नवमपेक्ष्यते ॥५५ ॥
अगम्यं वा सुगम्यं वा लभ्यं चालभ्यमित्यपि ।
पुण्यलभ्यं द्रव्यलभ्यं लभ्यं यत्साधनैरपि ॥५६॥
अतर्क्यं वा प्रतर्क्यं वा शाश्वतं चाऽध्रुवं तथा ।
भोग्यं चाऽभोग्यमेवाऽन्यद् यद्यद् वाञ्छति या हृदि ॥५७ ॥
तत्तत्सर्वं प्रदास्येऽहं प्रसन्नः पुरुषोत्तमः ।
त्रयोदश्यां कृतेनैकभुक्तेन च व्रतेन वै ॥५८॥
निशीथभोजनेनैव फलाहारेण वा व्रतम् ।
कुर्याद्वै श्रद्धया युक्त मम पूजनपूर्वकम् ॥५९॥
तस्या नेता गमयिता त्राता पोष्टा च भद्रकृत् ।
आश्रयदस्तथा त्वानन्दयिताऽस्मि परेश्वरः ॥ ६० ॥
नरा नार्योऽथवा चान्ये पूजयन्त्यधिमासके ।
त्रयोदश्यां चन्दनाद्यैर्यथेष्टं वितराम्यहम् ॥ ६१ ॥
अष्टोत्तरशतेनापि षट्पंचाशद्भिरेव वा ।
द्वात्रिंशद्भिश्चोपचारैः षोडशाद्यैश्च वस्तुभिः ॥६ २ ॥
यथालब्धैश्च वा पत्रपुष्पजलान्नतण्डुलैः ।
मानसैर्वा पूजयन्तु प्रेमोपायनकैश्च माम् ॥६ ३ ॥
पुष्पांजलिं च वा प्रेमांजलिं ददतु मे जनाः ।
तेषामपि करिष्यामि मानसं दानपूरितम् ॥ ६ ४॥
मा संकोचं प्रकुर्वन्तु वदन्तु धारयन्तु वा ।
संकल्पयन्तु हृद्ये वितरिष्याम्यधिव्रते ॥ ६५ ॥
श्रुत्वैवं दुन्दुभिं प्रातस्त्रयोदश्यां हरिश्रितम् ।
जया च ललिता तत्राऽऽययुः पारवती प्रभा ॥६ ६ ॥
नेमुस्तं दुन्दुभिं चाथ पप्रच्छुः किं ददासि वै ।
दुन्दुभिः प्राह नाकं वा ददामि पुरुषोत्तमम् ॥ ६७॥
त्रयोदशीव्रतमूल्यं कृष्णनारायणं पतिम् ।
ददामि संपदस्तस्य धामाऽप्यक्षरसंज्ञितम् ॥६८ ॥
अधिमासेऽधिकदाता भवामि स्वल्पके व्रते ।
प्रकटोऽहमधिमासात्मकोऽस्मि सृष्टिमण्डले ॥ ६ ९॥
स्वर्गे सत्यं पारमेष्ठ्यं वैराजं भौमनं ध्रुवम् ।
गोलोकं चापि वैकुण्ठं ददामि ब्रह्मशाश्वतम् ॥७ ० ॥
भवत्यः किन्नु वाञ्छन्ति ददामि व्रतसत्फलम् ।
श्रुत्वा तदा चतस्रस्ताः प्राहुस्तं दुन्दुभिं मुदा ॥७ १ ॥
जातमात्रा वयं सर्वा असंस्कृताः स्म वै ततः ।
संस्कृताः स्याम कृष्णेन संगता धाम संगताः ॥७२॥
कृष्णनारायणः सोऽस्मानवाप्नोतु परेश्वरः ।
दास्यस्तस्य भवामोऽद्य व्रतेनेच्छाम एव तत् ॥७३ ॥
दुन्दुभिश्च तदा प्राह भवत्यश्चाद्य वै मुदा ।
स्नात्वा प्रातश्चार्चयन्तु सौवर्णं पुरुषोत्तमम् ॥ ७४॥
यथालब्धोपचारैश्च मानसैर्भावगर्भितैः ।
प्रेमक्षुधाश्रयः कृष्णनारायणो ग्रहीष्यति ॥७९॥
कृष्णनारायणयोग्या यूयं स्थ दिव्यविग्रहाः ।
कृत्वा व्रतार्चने त्वद्य प्राप्नुवन्तु हरिं वरम् ॥७६॥
इत्युक्त्वा दुन्दुभिस्तस्मात् स्थानादन्यत्र वै ययौ ।
जया च ललिता चक्रुः पारवती व्रतं प्रभा ॥७७॥
तास्तु स्नात्वा गृहं गत्वा कृत्वा मण्डपमुत्तमम् ।
त्रयोदश्यां प्रातरेव पुपूजुः पुरुषोत्तमम् ॥७८॥
मध्ये सिंहासनं कृत्वा कानकीं प्रतिमां हरेः ।
तत्र विन्यस्य चावाह्य ददुर्जलादिकं मुदा ॥७९॥
पञ्चामृतजलैः स्नानं कारयित्वाऽम्बराणि च ।
आभूषणानि सर्वाणि कुंकुमचन्दनादिकम् ॥८ ० ॥
धूपदीपसुनैवेद्यजलपुष्पफलादिकम् ।
ताम्बूलव्यजनच्छत्रचामराऽऽरार्त्रिकादिकम् ॥८ १ ॥
प्रदक्षिणं स्तुतिं क्षान्तिं चार्घ्यं पुष्पांजलिं ददुः ।
देवदेव हरे कृष्णनारायण जगत्प्रभो! ॥८२॥
दासीनां ते कराऽऽदानं कुरु स्मो दास्य एव ह ।
एवं संकल्प्य कुसुमाञ्जलीन् सगद्गदा ददुः ॥८३ ॥
मध्याह्नेप्येवमेवेश प्रपूज्याऽभोजयन् हरिम् ।
सायं चापि समर्च्यैव चक्रुर्नीराजनं हरेः ॥८४॥
ददुश्च भोजनं मिष्टं तृप्तस्तुष्टौऽभवद्धरिः ।
चक्रुस्ता जागरं रात्रौ नक्तं कृत्वा हरेः पुरः ॥८५॥
ननृतुस्ता जगुर्गीतिं मधुरां तालमिश्रिताम् ।
तावत् प्राविर्बभूवेशः श्रीकृष्णपुरुषोत्तमः ॥८६॥
चतुःस्वरूपो भगवान् प्रत्येकां तामुपाददे ।
चतूरूपैश्चतस्रस्ता वामे निधाय मालिकाः ॥८७॥
ताभिर्दत्ता नामयित्वा कंधरां समुपाददे ।
प्रसन्नश्च मुहुस्ताश्च पस्पर्शाऽऽश्लिष्टवान् मुदा ॥८८॥
अगम्यं चाऽवितर्क्यं चाऽभूतं चावर्ण्यमेव च ।
ताभ्यो दत्वा सुखं शीघ्रं निधाय गरुडोपरि ॥८९॥
नत्वा तु वेधसं प्राप्य यौतकं चाशिषस्तथा ॥
विधिना ब्रह्मणा ताश्च नारायणाय चार्पिताः ॥९०॥
विवाहयित्वा प्रययौ कृष्णकान्तः स्वमन्दिरम् ।
यदक्षरं परं धाम ब्रह्म व्यापकमुत्तमम् ॥९१॥
अन्यधामानि यस्माद्वै प्राविर्भूतानि तद्वरम् ।
ययौ ताभिस्तु पत्नीभिः श्रीकृष्णपुरुषोत्तमः ॥९२॥
जया च ललिता पारवती प्रभाऽम्बरे परे ।
व्योम्नि मुक्तान्य एवैता जाताः पत्न्यो हरेश्च ताः ॥९३॥
दिव्या दिव्यप्रियतुल्या मोदन्तेऽक्षरधामगाः ।
एवं कृत्वा त्रयोदश्यां व्रतं श्रीपुरुषोत्तमे ॥९४॥
मासि श्रीकृष्णपूजां च कृत्वाऽवापुः परं पदम् ।
स्वल्पस्यापि फलं नित्यं दिव्यं वै चाप्यनन्तकम् ॥९५॥
श्रोष्यन्तीमं पठिष्यन्त्यध्यायं ये कृष्णमानसाः ।
तेषामपि फलं तद्वद् भविष्यति न संशयः ॥९६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये चतुःसनकादिकाद्यर्थमुत्पादितानां ब्रह्मपुत्रीणां जयाललितापारवतीप्रभाभिधानानां पुरुषो-त्तममासत्रयोदशीव्रतेनश्रीपुरुषोत्तमधाम्नि श्रीकृष्ण-नारायणस्य पत्नीत्वप्राप्तिः, सनकादीनां तु वैराग्य-वृत्तिरित्यादिनिरूपणनामा पञ्चाधिक-त्रिशततमोऽध्यायः ॥ १.३०५ ॥