लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २२३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २२३
[[लेखकः :|]]
अध्यायः २२४ →


श्रीनारायण उवाच-
ततो गच्छेन्महालक्ष्मि तीर्थं विष्णुपदोद्भवम् ।
यत्र गंगा समुत्पन्ना विष्णुपादाश्रया च या ।। १ ।।
एकदा खलु दुर्वासा यात्रार्थं समुपागतः ।
तच्छ्रुत्वा सहसोत्थाय भगवान् रमया युतः ।। २ ।।
ययौ चातिथ्यविध्यर्थं दुर्वाससं प्रति प्रभुः ।
गृहिणी न गृहे यस्य सत्पात्रगमनं च न ।। ३ ।।
तस्य देवा न गृह्णन्ति पितरश्चोदकं तथा ।
इति कृत्वा ययतुस्तौ श्रीश्च कृष्णश्च हर्षितौ ।। ४ ।।
रथमारुह्य श्रीकृष्णो रुक्मिण्या सहितो ययौ ।
समुद्रस्य तटे श्रान्तं स्नातं ज्वलनमोजसा ।। ५ ।।
प्रणम्य भगवान् भक्त्या पप्रच्छाऽनामयं तथा ।
मुनिरुवाच कुशलं क्व वासः कृष्ण तेऽधुना ।। ६ ।।
कति दारा धनान्येव कच्चित्ते कुशलं सदा ।
कृष्ण प्राह भवदाशीर्वादैर्वै कुशलं मम ।। ७ ।।
दर्शनाच्च विशेषेण पावितं मे कुलं त्वया ।
समुद्रेण प्रदत्ता मे भूमिस्तु दशयोजना ।। ८ ।।
दशयोजने भूभागे पुरी हेममयी मया ।
कारिता तत्र प्रासादा नवलक्षाणि कारिताः ।। ९ ।।
तस्यां वसामि संहृष्टो निर्भयस्ते प्रसादतः ।
दुर्वासाः प्राह श्रुत्वा तत् संख्यां वदस्व मे तव ।। 1.223.१०
यावत्यश्च महिष्यो वै पुत्राः परिजनास्तथा ।
श्रीकृष्णः प्राह भगवन् कृपया ते मम गृहे ।। ११
सन्ति षोडशसाहस्रं भार्याश्चाष्टाधिकं शतम् ।
एकैकस्यां दश पुत्राः कन्या चैका प्रजा मम ।। १२।
षट् पंचाशत् ज्ञातयो मे सन्ति परिजनास्तथा ।
इयं मुख्या मम पत्नी रुक्मिणी या रमा स्मृता ।। १३।
भवान् मुनिप्रपूज्योऽस्ति समागच्छतु मे गृहम् ।
शिरसाऽऽधाय पादास्तु ततो यामि पवित्रताम् ।। १४।
दुर्वासाः प्राह भो कृष्ण सदाऽक्षमो भवाम्यहम् ।
क्षणे रुष्टो भवाम्येव किं मां नयसि केशव ।। १५।
नय मां यदि मद्वाक्यं करोषि सहभार्यया ।
यदि मां नेतुकामोऽसि सभार्यस्त्वं रथं वह ।। १६।।
श्रुत्वा कृष्णः प्रसन्नोऽभूत् रुक्मिण्या सहितस्तदा ।
रथधुर्योऽभवच्छीघ्रं पावितोहमिति ब्रुवन् ।। १७।।
तदा च ऋषिवर्यः संयुज्य कृष्णं च रुक्मिणीम् ।
रथे स्थित्वाऽऽगृह्य रज्जुं याहि याहीत्यभाषत ।। १८।।
देवैश्च कुसुमैः कृष्ण पूज्यमानो जगाम ह ।
वाह्यमाने रथे ताभ्यां रुक्मिणी तृषिताभवत् ।। १९।।
प्राह कान्तं जलं देहि तृषा मां बाधतेऽधुना ।
तच्छ्रुत्वा पृथिवी कृष्णस्तताड पादलत्तया ।।1.223.२०।।
भूमिर्भिन्ना ततो गंगा निर्गता शीतला तदा ।
सुगन्धसलिला श्वेता जलरूपा बभौ शुभा ।।२१।।
अपृष्ट्वा च मुनिं पयौ रुक्मिणी जाह्नवी जलम् ।
दृष्ट्वा ऋषिश्चुकोपाऽऽशु शशाप परमेश्वरीम् ।।२२।।
मामपृष्ट्वा पीतवती जलं तस्माच्च तत्फलम् ।
कृष्णवियोगरूपं त्वं प्राप्नुहीति ब्रुवन् रथात् ।।२३।।
समुत्तीर्याऽतिरक्ताक्षो भूमावेवाऽध्यतिष्ठत ।
श्रीकृष्णस्तं विनयेन तुष्टाव रमयायुतः ।।२४।।
ऋषिवर्य यथार्थं ते वाक्यं भवतु सर्वथा ।
रुक्मिणी मद्वियुक्ताऽस्तु वनेऽत्र जलरूपिणी ।।२५।।
गंगया सह नित्यं वै गंगारूपेण तिष्ठतु ।
यत्र जलं विनिर्भिद्य भूमिं प्रकटतां गतम् ।।२६।।
तज्जलं रुक्मिणी रूपं तीर्थं समस्तु शाश्वतम् ।
अत्रैव रुक्मिणीवासो मन्दिरेऽस्तु सदा वने ।।२७।।
मोक्षश्चापि तैर्थिकानां चास्तु रमाप्रसादनात् ।
दुर्वासाश्च तदा प्राह कृष्ण प्रातर्निशामुखे ।।२८।।
रुक्मिण्यास्तव योगोऽस्तु नित्यं करोम्यनुग्रहम् ।
इत्युक्त्वा प्रययौ तस्मात्स्थलान्मुनिस्तदाऽत्रिजः ।। २९।।
रुक्मिणी संस्थिता तत्रोद्यानप्रासादपुंगवे ।
जलरूपा द्वितीयेन रूपेणापि प्रतिष्ठिता ।।1.223.३ ०।।
तीर्थं तज्जलरूपं वै विष्णुपादोदकं स्मृतम् ।
मुख्यरूपेण महिषी सदा कृष्णस्य सेवने ।। ३१ ।।
सदा तिष्ठतु प्रासादे इत्यप्यनुग्रहं व्यधात् ।
दुर्वासा वरदानं तद्गत्वा पूजामवाप्य च ।। ३२।।
ययौ कैलासमेवाऽस्मात्स्थानात् कृष्णो गृहं ययौ ।
रुक्मिणी च त्रिरूपाऽभूत् कृष्णापादोदके जलम् ।। ३३ ।।
तत्रोद्यानस्थसौधे सा मूर्तिरूपा द्वितीयका ।
तृतीया च महाराज्ञी श्रीकृष्णे नित्ययोगिनी ।। ३४।।
इत्येवं रुक्मिणीतीर्थं कृष्णपादोदकं हि तत् ।
गंगारूपं समजनि स्नातुर्मोक्षप्रदं शुभम् ।। ३५।।
श्राद्धकर्तुश्च पितॄणामक्षय्यपुण्यदं तथा ।
अक्षय्यतृप्तिदं चापि तथा गोलोकधामदम् ।। ३६।।
दानं होमं जपं ध्यानं पूजां चार्घं करोति यः ।
तत्सर्वमक्षयपुण्यप्रदं भवति तत्स्थले ।। ३७।।
यत्र साक्षाच्छ्रिया युक्तः कृष्णो वसति सर्वदा ।
तत्र किं वै भवेन्न्यूनं गोलोकात्तीर्थवासिनाम् ।। ३८ ।।
तीर्थकृतोऽपि न न्यूनं गोलोकात्प्राप्यते फलम् ।
भोजनं विविधं दद्याद् दक्षिणां स्वर्णराजतीम् । ।३९।।
दीनान्धकृपणेभ्यश्च दानं देयं विधानतः ।
उपानहौ प्रदातव्ये जलकुंभः सवस्त्रकः ।। 1.223.४० ।।
दध्योदनं प्रदातव्यं धान्यानि विविधानि च ।
रक्तवस्त्रं तथा शाटी कंचुकी घर्घरी तथा ।।४ १ ।।
रुक्मिण्यै संप्रदातव्या भूषाः शृंगारकाणि च ।
पूजयेद् विप्रयुगलं विष्णुर्मे प्रीयतामिति ।।४२।।
एवं तीर्थे कृते तत्र पितरस्त्रिकुलोद्भवाः ।
तृप्ता यान्ति हरेर्लोकं प्रसन्नः श्रीयुतो हरिः ।।४३ ।।
इह कामान् सदा भुक्त्वा भुक्त्वा स्वर्गादिवैभवान् ।
अन्ते यान्ति हरेर्धाम रुक्मिणीतीर्थपावनाः ।।४४।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दुर्वासोरथवहनकर्मणि व्यापृतायाः रुक्मिण्यास्तृषानिवृत्त्यर्थं श्रीकृष्णचरणघातनिःसृत गंगाजलाख्यरुक्मिणीतीर्थ रुक्मिणीत्रिस्वरूपता चेति निरूपणनामा त्रयोविंशत्यधिकद्विशततमोऽध्यायः ।। २२३ ।।