लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः २०२

विकिस्रोतः तः
← अध्यायः २०१ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः २०२
[[लेखकः :|]]
अध्यायः २०३ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं गायकस्य महात्मनः ।
व्रतर्दिनः कथां रम्यां मम प्रसन्नतान्विताम् ।। १ ।।
व्रतर्दीं त्वभवद्भक्तो नाकिरालाख्यपत्तने ।
वैश्यो वीणामृदंगादियावद्वाद्यविशारदः ।। २ ।।
यस्याग्रे बहवः शिष्याः शिष्यिकाश्च वसन्त्यपि ।
अभ्यासार्थं गानकलादीनां गायनशीलिनः ।। ३ ।।
देशदेशान्तरेभ्यश्च समायान्ति व्रतर्दिनम् ।
गानविद्याधिपं श्रुत्वा शिक्षां प्राप्य प्रयान्ति च ।। ४ ।।
अथ राजाऽभवन्निम्बटिकानगरीशासकः ।
पुण्ड्रवर्मा धर्मवाँश्च भगवद्भक्तितत्परः ।। ५ ।।
सौराष्ट्रे गायकश्रेष्ठं श्रुत्वा व्रतर्दिनं नृपः ।
आह्वयामास गीत्यर्थं राजधानीं निजां प्रति ।। ६ ।।
दूतो गत्वाऽऽवेदयत्तं गायकं राजभाषितम् ।
एहि राजोत्सवे राजेत्याह त्वां गायकोत्तम ।। ७ ।।
व्रतर्दी प्रत्युवाचेत्थं न राजोत्सवगायनम् ।
करिष्ये भगवद्भक्तो भवाम्यात्मनिवेदनः ।। ८ ।।
विना हरिं न मे जिव्हा गास्यत्यन्यं कदाचन ।
विना हरिं न मे नेत्रं द्रक्ष्यत्यन्यं कदाचन ।। ९ ।।
विना हरिं न मे चित्तं ध्यायत्यन्यं कदाचन ।
भगवतश्च भक्तानां भक्तोऽहं दास्यसंहितः ।। 3.202.१० ।।
सोऽहं कथं राजगुणान् गायामि मायिकानिह ।
वद त्वं भूभृते दूत नान्यं गास्यति गायकः ।। ११ ।।
व्रतर्दी गायकः कृष्णगायको नान्यगायकः ।
मोक्षगायक एवाऽऽस्ते भक्तानामपि गायकः ।। १ २।।
अभक्तानां गायको न व्रतर्दी भवति क्वचित् ।
इति प्रत्युक्तदूतश्च ययौ राज्ञे न्यवेदयत् ।। १ ३।।
राजा तुतोष सहसा धन्योऽहं भूपतिः सदा ।
मम राज्ये महाभागवतोऽस्ति कृष्णगायकः ।। १४।।
मया भागवतेनापि भवितव्यं प्रमुक्तये ।
वैष्णवेन भवितव्यं श्रोतव्यं कीर्तनं ततः ।। १५।।
व्रतर्दिना प्रगीतं च कृष्णकीर्तनमुत्तमम् ।
श्रोतव्यं सर्वथा पश्चाद् भूत्वा सत्पात्रभूभृता ।। १ ६।।
विचार्येत्थं प्राह दूतं भाव्यं भक्तिमता मया ।
तस्मादागच्छ गेहं मे मां प्रपावय भूभृतम् ।। १७।।
कृत्वा च वैष्णवं भक्तं ततः श्रावय कीर्तनम् ।
इत्येवं ब्रूहि भक्तेशं व्रतर्दिनं प्रयाहि च ।। १८।।
श्रुत्वा दूतो ययौ शीघ्रं राजोक्तं तु व्रतर्दिने ।
कथयामास सर्वं स श्रुत्वा तुतोष गायकः ।। १ ९।।
सज्जो भूत्वा ययौ भूपमन्दिरं गणमण्डितः ।
राजा तं मानयामास भक्तं व्रतर्दिनं मुहुः ।। 3.202.२० ।।
ययाचे तु ततो वैष्णवत्वं च दीक्षणं नृपः ।
व्रतर्दी तूर्णमाश्रुत्य धृत्वा दत्वा जलं करे ।। २१ ।।
नृपाय प्रददौ मन्त्रं श्रावयामास सत्वरम् ।
'ओमनादिकृष्णनारायणः स्वामी पतिश्च मे' ।।२२।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
राजा गृहीत्वा मन्त्रं च कण्ठीं दधार तौलसीम् ।।।२३।।
मूर्तिं मे बालकृष्णस्य जगृहे गायकाऽर्पिताम् ।
राज्ञी कन्याश्च पुत्राश्च राज्ञः कुटुम्बकं तथा ।।२४।।
सर्वे भृत्यास्तथा दास्योऽभवँस्तत्र हि वैष्णवाः ।
हरये चार्पितं वारि फलं चान्नं च चन्दनम् ।।२५।।
व्रतर्दी प्रददौ राजकुटुम्बाय प्रसादकम् ।
भुक्त्वा पीत्वा प्रसादं च सभां चक्रे ततो नृपः ।।२६।।।
मध्यसिंहासने कृष्णमस्थापयत् सुशोभितम् ।
राजा कृष्णस्य सेवायां धृत्वा छत्रमनुत्तमम् ।। २७।।
अतिष्ठत्तत्कुटुम्बं च चामरे व्यजने तथा ।
वेत्रं च नक्तकं धूपपात्रं ध्वजं पताकिकाम् ।।२८।।
दर्पणं पानपात्रं च ताम्बूलपात्रकं तथा ।
सुगन्धसारपात्रं च तैलसारं च चन्दनम् ।।२९।।
पूजापात्रं पुष्पहारान् धृत्वाऽतिष्ठद् यथायथम् ।
पूजयित्वा बालकृष्णं व्रतर्दी गायनं व्यधात् ।। 3.202.३०।।
 एहि कृष्ण एहि कृष्ण कान्त एहि एहि ।
देहि कृष्ण देहि कृष्ण दर्शनं सुदेहिन् ।।३ १ ।।
नवीनभक्तमण्डलं विधेहि दिव्यसत्कुलम् ।
जहीहि जन्मवासनां प्रदेहि धामवासनम् ।।
एहि कृष्ण० ।। ३२।।
त्वमेव मुक्तसत्पतिस्त्वमेव धामसद्गतिः ।
त्वमेव चावतारधृक् त्वमेव सर्वसाक्षदृक् ।।
एहि कृष्ण० ।।३३।।
पुरा भवान् पुमुत्तमस्ततो भवान्नरोत्तमः ।
ततो भवान् जनार्दनस्ततोऽस्ति सर्वमर्दनः ।।
एहि कृष्ण० ।।३४।।
प्रसन्नमानसो भवान् सुसम्पदां प्रदो भवान् ।
निजाऽर्थ्यसौख्यदो भवान् निजात्मशान्तिदो भवान् ।।
एहि कृष्ण० ।।३५।।
राधारमापतिर्भवान् प्रमासतीपतिर्भवान् ।
सतां श्रियाः पतिर्भवाँश्च माणिकीपतिर्भवान् ।।
एहि कृष्ण० ।।३६।।
ब्रह्मप्रियापतिर्भवान् हरिप्रियापतिर्भवान् ।
अजाप्रजापतिर्भवान् व्रतर्दिनः पतिर्भवान् ।।
एहि कृष्ण० ।।३७।।
निधिश्च तेजसां भवान् निधिश्चमत्कृतां भवान् ।
निधिः परामुदा भवान् निधिः पराविदां भवान् ।।
एहि कृष्ण० ।।३८।।
सुतो वृषस्य वै भवान् सुतश्च गोपजो भवान् ।
सुतश्च काश्यपो भवाँश्च कम्भरासुतो भवान् ।।
एहि कृष्ण० ।।३९।।
सदैव चित्सु वर्तसेऽप्यचित्सु वर्तसे हरे ।
प्रवर्तसे प्रवर्तसे स्वभक्तमण्डले हरे ।।
एहि कृष्ण एहि कृष्ण कान्त एहि एहि ।
देहि कृष्ण देहि कृष्ण दर्शनं सुदेहिन्' ।।3.202.४०।।
इत्येवं मां प्रार्थयत् स लक्ष्मि गीतिप्रमंगलम् ।
अकरोन्मां स्मरँस्तत्र व्रतर्दी प्रेमपूरितः ।।४१ ।।
गायिका गायकाश्चाप्यपूरयन् गीतिकास्वरान् ।
श्रुत्वाऽहं प्रेमरशनाऽऽकृष्टो मूर्तेर्द्रुतं बहिः ।।४२।।
आविर्जातोऽतिसुभगो मनोहरः सुयौवनः ।
रूपरूपानुरूपश्चाऽवयवैः पुष्ट उज्ज्वलः ।।४३।।
श्रिया च राधया युक्तो हारमुकुटशोभितः ।
सर्वाऽऽभूषाभिरामश्च सर्वशृंगारशोभनः ।।४४।।
प्रसन्नहास्यवदनो दिव्यतेजोऽभिदीपितः ।
सर्वसुगन्धवात्सल्यलावण्याऽऽनन्दसंभृतः ।।४५।।
सर्वकामप्रपूरश्च सभानन्दविवर्धनः ।
निरोधयन् सभास्थानां चेतांसि मयि संस्थितः ।।४६।।
अक्षरे परमे व्योम्नि यत्सुखं परमात्मनः ।
तत्समस्तं सभास्थेभ्यो ददौ क्षणं कृपावशः ।।४७।।
दिव्यतायास्तिरोभावं क्षणोत्तरं व्यधां रमे ।
राधारमायुतं मां ते व्यलोकयन् नृपादयः ।।४८।।
मुमुहुर्मम रूपे ते हृत्सु न्यधुश्च मां हि ते ।
पुपूजुः सर्वभावैश्च वरार्थं नोदिताश्च ते ।।४९।।
वव्रुर्मुक्तिं परां सेवामददां च तथाऽस्त्विति ।
तिरोभावं द्रुतं चापि सभाऽऽश्चर्यपराऽभवत् ।।3.202.५०।।
व्रतर्दिनः प्रतापेन ह्यवापुः कृष्णदर्शनम् ।
भेजुस्ते मां दिव्यभावैरनन्यभावनैः सदा ।।५१ ।।
पातिव्रत्येन मां भेजुर्नृपाद्या वैष्णवास्ततः ।
परिहारोऽभवद् भक्तो मुमुदे दर्शनान्मम ।।।५२।।
पारितोषिकमासाद्य ययौ समण्डलो निजम् ।
आलयं स वितर्दी वै नृपो नृपालयं ययौ ।।५३।।
अथ काले ततः प्राप्ते नृपादीन् भक्तमण्डलम् ।
निन्ये धामाऽक्षरं मे च व्रतर्दिमण्डलं तथा ।।५४।।
तथा ये ये वैष्णवाश्चाऽभवन् वै लक्षशो जनाः ।
चमत्कारं स्मरन्तो मे भजन्तो मां निरन्तरम् ।।५५।।
निन्ये तान्मेऽऽक्षरं लोकं शाश्वतं धाम चोत्तमम् ।
शृणु लक्ष्मि जना लोके भवन्ति त्यागवृत्तयः ।।५६।।
तीव्रत्यागविरागस्य स्नेहो मय्यतिशोभते ।
रागिणस्तु स्मृतिर्नित्यं विषयाणां प्रजायते ।।५७।।
तुच्छार्थस्नेहबद्धास्ते कृष्णस्नेहं न कुर्वते ।
कृष्णे स्नेहविहीनास्ते मोक्षं फलं न यन्ति वै ।।५८।।
तस्मात् स्नेहः सदा कार्यो मयि श्रीपरमात्मनि ।
हातव्यश्चान्त्यजः स्नेहो मम माहात्म्यवेदिना ।।५९।।
आत्मज्ञानेन च त्याज्यः स्नेहो मायिकवस्तुषु ।
आत्माऽयं सच्चिदानन्दो जडाद्भिन्नः शरीरतः ।।3.202.६० ।।
नाऽस्य देहो न सौधश्च न कुटुम्बं न वाटिकाः ।
न जातिर्न कुलं योगो धनं नाऽस्य च सम्पदः ।।६१ ।।
मायाहीनो भवाम्येवेत्यात्मानं चिन्तयेत् सदा ।
एतादृशं निजं मत्वा दैहिकं नहि संस्मरेत् ।।६२।।
कुटुम्बिनो न स्मर्तव्याः पूर्वजाश्चाद्यजा अपि ।
भगवद्भक्तिहीना ये ये तु बन्धनकारिणः ।।६३।।
यत्स्मृत्या बन्धनं वै स्यात् स्मर्तव्या न तथा क्वचित् ।
श्राद्धकाले प्रस्मर्तव्यास्तृप्त्यर्थं मुक्तयेऽपि च ।।६४।।
यज्ञे दाने तीर्थकार्ये धर्मकार्ये व्रतादिषु ।
स्मर्तव्यास्तृप्तये तेषां मुक्तये मन्दिरे हरेः ।।६५।।
अन्यथा रागवशतः स्मर्तव्या न कदाचन ।
स्मर्तव्याः साधवो दिव्याः स्मर्तव्याः प्रतिमा मम ।।६६।।
ब्रह्मप्रियास्तथा साध्व्यः स्मर्तव्या मोक्षसिद्धये ।
ज्ञानिभिर्ज्ञानविज्ञानैर्विस्मर्तव्यास्तु बान्धवाः ।।६७।।
बन्धनस्य प्रदा नार्यो नराश्चापि कुटुम्बिनः ।
विषया मोक्षविघ्नाश्च विस्मर्तव्याः समस्ततः ।।६८।।
ब्रह्मदृष्ट्या येन सर्वे पुत्राद्या विस्मृताः खलु ।
तस्य प्रीतिर्हरौ स्याच्च मोक्षप्रदेषु सत्सु च ।।६९।।
सर्वै सन्तो भवन्त्येव दिव्या ब्रह्मनिवासिनः ।
यथा हरिस्तथा सन्तः स्मर्तव्या मोक्षदा हि ते ।।3.202.७०।।
आश्रयणीयाः सततं साधवश्च हरिस्तथा ।
भजनीयः स्वयं साक्षाद्धरिश्चाऽहं जनार्दनः ।।७१ ।।
एवंविधस्य भक्तस्य भीर्न कालस्य कर्मणाम् ।
मायाया यमराजस्य भीर्नापि बन्धनस्य च ।।७२।।
अनादिश्रीकृष्णनारायणेच्छा भक्तयोगिनः ।
प्रारब्धं खलु मन्तव्यं नेतरत् पापिजीववत् ।।७२।।
एतादृशः प्रवन्द्यो वै सर्वेषां पूज्य एव सः ।
गृहस्थो वा यतिर्वा स विशेषो नाऽत्र विद्यते ।।७४।।
एवंविधस्य भक्तस्य समलोष्ठादिकस्य च ।
पत्तलाब्जरजो मूर्ध्ना धारयन्ति सुरादयः ।।७५।।
सर्वदा च सुरैरस्य दर्शनं क्रियते प्रगे ।
मम प्रतापमालम्ब्य कुर्वन् भक्तिं स्थितो गृहे ।।७६।।
त्यागे बा प्रस्थितश्चाऽयं पारं यात्यञ्जसाऽम्बुधेः ।
एतादृशो मम भक्तो देहान्ते चिन्मयाकृतिः ।।७७।।
ब्रह्ममुक्तो दिव्यदेहः सेवायां धाम्नि मे भवेत् ।
तस्य वै दर्शनं मायापापकालादिनाशकृत् ।।७८।।
कर्मनाशकरं लक्ष्मि तुल्यं ममेक्षया मतम् ।
सर्वक्रिया मदर्थं वै यस्य तस्याऽहमच्युतः ।।७९।।
सर्वथा तु वशीभूतः प्रवर्ते तस्य गोचरः ।
यो भक्तो यद्दिनाल्लक्ष्मि सत्संगं प्रकरोति वै ।।3.202.८ ०।।
तत आरम्य कुरुते विवेकं गुणदोषयोः ।
ईदृग्गुणान् लब्धवाँश्च त्यक्तवान् दुर्गुणानिमान् ।।८ १।।
प्रतिवर्षं व्यतिरेकं विचिन्तयति लाभकृत् ।
सत्संगस्य प्रतापेन सतां हरेश्च सेवया ।।८२।।
गुणाः प्राप्ता इमे सर्वे दोषा गताश्च ते मम ।
शेषाणां खलु दोषाणां नाशने यत्नवान् भवेत् ।।८३।।
शेषाणां सद्गुणानां संग्रहणे यत्नवान् भवेत् ।
एवं प्रयत्नशीलस्य गुणाः स्युर्मम तुष्टिदाः ।।८४।।
दोषाणां प्रक्षयः स्याच्च दिव्यताऽत्र भवेत्तथा ।
कृष्णसुखं चोत्तमं च जायतेऽस्य हि शाश्वतम् ।।८५।।
मनो निर्वासनं स्याच्च निःसंकल्पं स्थिरं भवेत् ।
अनेकेषु चरित्रेषु कृष्णनारायणस्य मे ।।८६।।
मनश्चावर्तयेन्नित्यं रममाणं मयि क्रियात् ।
महाशान्तिमयं स्याद् यत् त्यागिनां गृहिणामपि ।।८७।।
देहयात्रामात्ररूपो व्यवहारस्तु बाह्यतः ।
कर्तव्यो नटवल्लक्ष्मि मनो धार्यं हरौ मयि ।।८८।।
चरित्राणि सतां नारायणस्य कृष्णयोषिताम् ।
भक्तानां श्रीहरेश्चापि चिन्तनीयानि सर्वदा ।।८९।।
मनो निर्वासनं तेन भवेन्मोक्षे यथा सुखम् ।
तेषां समागमः कार्यो मोक्षकृद् यत्फलं भवेत् ।।3.202.९० ।।
व्रतर्दिनः प्रसंगेन गायकस्य नृपोत्तमः ।
पुण्ड्रवर्मा ययौ मुक्तिं तथाऽन्ये च सहस्रशः ।।९१ ।।
अतः सेव्या मम भक्ताः सत्याश्चोन्मूलिताशयाः ।
दिव्यक्रिया मम ध्यानपराश्चाश्रिततारकाः ।।९२।।
अन्तरायविहीनाश्च सर्वविघ्नविवर्जिताः ।
धर्मं भागवतं दिव्यं मम सेवां समाश्रिताः ।।९ ३।।
सतामाश्रयकरणात् प्रसन्नतासमर्जनात् ।
आज्ञानुवृत्तिकरणाद्धामाऽक्षरं करे भवेत् ।।९४।।
एवं लक्ष्मि भूतले वा स्वर्गे सत्ये विकुण्ठके ।
गोलोके चाऽक्षरे श्वेतद्वीपे श्रीपुरकेऽमृते ।।९५।।
अव्याकृते बदर्यां वा ये वर्तन्ते मदाश्रिताः ।
मुक्ता मुक्तानिकाः सर्वे सर्वस्वाऽर्पणकृष्णकाः ।।९६।।
शाश्वतानन्दभोक्तारस्तथा व्रतर्दिगायकाः ।
सर्वे मुक्तिं मम प्राप्ताः शाश्वंतानन्दसेविनः ।।९७।।
ये ये कलाविदो लोकेऽर्पयन्ति तत्कला मयि ।
ते ते यान्त्यक्षरं धाम कृपया मे न संशयः ।।९८।।
येषामग्रे च यो धर्मो गुणः कला क्रिया तथा ।
साधनं श्रीहरिं प्रसादयितुं वै स्वकं भवेत् ।।९९।।
तेन प्रसादनीयः श्रीकृष्णनारायणो हरिः ।
प्रसादनीयाः सन्तश्च नरैश्च योषितांगणैः ।।3.202.१ ००।।
तदा दिव्यो भवेद् भावो देहो मनस्तथाऽऽन्तरम् ।
गुणाः क्रिया वर्तनं च सेवा दिव्याः समस्ततः । । १०१ ।।
हरेर्भूत्वा हरिं प्राप्य मोदते स समर्पकः ।
पठनाच्छ्रवणाल्लक्ष्मि तथैव मोदते मयि ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने व्रतर्दिनामकगायकभक्तस्य योगेन पुण्ड्रवर्मनृपस्य सप्रजस्य वैष्णवत्वं मोक्षणं चेत्यादिनिरूपणनामा द्व्यधिकद्विशततमोऽध्यायः ।। २०२ ।।