लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १४८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४७ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १४८
[[लेखकः :|]]
अध्यायः १४९ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायाणीश्रि त्वं हृदुत्थवैकृतानि तु ।
शरीरोत्थानि चान्यानि शकुनस्फुरणानि च ।। १ ।।
शरीरे स्फुरिते मूर्घ्नि पृथ्वीलाभो भवेदपि ।
ललाटे स्थानवृद्धिः स्यान्भ्रूनसोः प्रियसंगमः ।। २ ।।
नेत्रस्फुर्तौ भृत्यलाभो दृगुपान्ते धनागमः ।
ऊर्ध्वे मध्ये चापगमो द्रव्यस्यैव प्रजायते ।। ३ ।।
दृङ्मूले स्फुरिते लक्ष्मि जयः शीघ्रं भवेदिति ।
अधःस्फुर्तौ स्त्रिया भोगः श्रवणान्ते प्रिया श्रुतिः ।। ४ ।।
नासिकायां प्रीतिसौख्यं प्रजाप्तिरधरोष्ठजे ।
कण्ठस्फुर्तौ भोगलब्धिर्भोगवृद्धिस्तथांऽसयोः ।। ६ ।।
बाह्वोः स्फुर्तौ सुहृत्स्नेहो हस्तयोस्तु धनागमः ।
पृष्ठस्फुतौ न विजयो वक्षःस्फुर्तौ जयो भवेत् ।। ६ ।।
कुक्षिस्फुर्तौ प्रीतिलाभः स्तने स्त्रीप्रसवो भवेत् ।
नाभिस्फुर्तौ स्थानहानिरन्त्रस्फुर्तौ धनागमः ।। ७ ।।
जानुसन्धौ परैः सन्धिर्बलिभिश्च समागमः ।
जङ्घास्फुर्तौ खण्डभागेविनाशः स्यान्न संशयः ।। ८ ।।
पादयोः स्फुरणे लक्ष्मि धिष्ण्यस्थानमवाप्नुयात् ।
पादतलस्फुरे चाध्वप्रवासो लाभकृद् भवेत् ।। ९ ।।
वामे नार्या सदा लाभा दक्षे पुंसः स्फुरादयः ।
अलाभदा विपर्यस्ता भवेयुर्नात्र संशयः ।। 3.148.१० ।।
अनिष्टस्फुर्तिजनने हवनं तर्पणं तथा ।
सुवर्णेन प्रकर्तव्यं दानं च भोजनादिकम् ।। ११ ।।
शान्तिस्तत्र वैष्णवी वा रौद्री कार्या सुखाप्तये ।
अथ हृदुत्थविकृताकारान् निद्रामयान् शृणु ।। १ २।।
अनिष्टान् दुष्टफलदान् दृष्ट्वा शान्तिं प्रकारयेत् ।
नाभिं विनाऽन्यगात्रेषु तृणवृक्षांकुरोद्भवः ।। १ ३।।
चूर्णनं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा ।
मलिनाम्बरधारित्वमभ्यंगः पङ्कमर्दनम् ।। १४।।
पंके च मग्नता चोच्चैः पातो दोलाधिरोहणम् ।
अर्जनं पक्वलौहानामश्वानां मारणं तथा ।। १५।।
रक्तपुष्पद्रुमाणां च मण्डलस्याऽधिरोहणम् ।
वराहर्क्षखरोष्ट्राणां तथा चारोहणक्रिया ।। १ ६।।
भक्षणं पक्वमांसानां तैलस्य कृसरस्य च ।
नर्तनं हसनं चापि विवाहो गीतमित्यपि ।। १७।।
तन्त्रीवाद्यविहीनानां वाद्यानामभिवादनम् ।
स्रोतोऽवगाहनं चापि स्नानं गोमयवारिभिः ।। १८ ।।
पंकेन स्नानमेवापि धूलीतोयेन वापि च ।
मातुः प्रवेशो जठरे चितारोहणमित्यपि ।। १ ९।।
इन्द्रध्वजाभिपतनं पतनं चन्द्रसूर्ययोः ।
दिव्यान्तरिक्षभौमानामुत्पातानां च दर्शनम् ।।3.148.२० ।।
देवद्विजातिभूपालगुरूणां क्रोधनं तथा ।
आलिङ्गनं कुमारीणां पुरुषाणां तु मैथुनम् ।।२१ ।।
हानिश्चापि स्वगात्राणां विरेकवमनादिकम् ।
दक्षिणाशाभिगमनं व्याधिनाऽभिभवोऽपि च ।।२२।।
पुण्यहानिः फलहानिः स्वप्ने गृहस्य मार्जनम् ।
गृहस्य पतनं क्रीडा पिशाचैर्वानरैः सह ।।२३।।
ऋक्षक्रव्यादकुनरैः कुस्त्रीभी रमणं तथा ।
परादभिभवश्चापि पराच्च दुःखसंभवः ।।२४।।
काषायाम्बरधारित्वं काषायिस्त्रीसमागमः ।
स्नेहपानं स्नेहमग्नता रक्तपुष्पलेपनम् ।।२५।।
भोजनानां भ्रष्टता च काष्ठानां दर्शनं तथा ।
गन्त्रीणां मार्गभ्रंशश्च बहुसंयावभोजनम् ।।२६।।
वेश्यानां दर्शनं तासां स्तन्यपानं तथा खलु ।
शतघ्नीनां स्फोटनादि तथोच्छिष्टादिभोजनम् ।।२७।।
रंगकारगृहाणां च दर्शनं घातकस्य च ।
तडागानां प्रवाहेषु पतनं सस्यदाहनम् ।।२८।।
कलहश्च जलैर्नौकाभरणं चान्धदर्शनम् ।
कालीकट्यां निषदनं ह्युपानत् मस्तके स्थितम् ।।२९।।
विरुद्धाक्षरविन्यासा प्रवासे निजदर्शनम् ।
चित्रमूर्त्यदृश्यता च गणेशशवमस्तकम् ।।3.148.३०।।
उष्ट्रस्य दर्शनं भोज्यभक्षणे विघ्नता तथा ।
मुण्डनं चाब्धिपतनं लिंगाद् रक्तस्रवस्तथा ।।३ १।।
जीर्णाम्बरधरत्वं च गुरोर्विप्रस्य क्रुद्धता ।
भषमाणश्वाऽवलोकः फणाध्रग्रहणं मृतिः ।।३२।।
चन्द्रशालादितश्चापि शिलासु पतनं तथा ।
वनिमार्जाराऽवलोकः कृष्णपुंकृतलक्ष्यकम् ।।३३।।
निशानं धूष्कृतीनां च मृषाऽऽयुधस्य स्फोटनम् ।
तक्रकृसराप्राशश्च वस्तूनां विगमोऽपि च ।।३४।।
शत्रूणां दर्शनं चापि विष्टायां पादपातनम् ।
षटपदीयजन्तूनां च विष्ठायां दर्शनं तथा ।।३५।।
यवनाद्यैः कृतं कर्णनासिकयोश्च कर्तनम् ।
नग्नं स्वदर्शनं तैलाक्तं रक्तस्त्रीसुयोजनम् ।।३६।।
मुकुटादेः पश्चभागे विवर्तनं प्रपातनम् ।
शिखाप्रपातनं कल्गेः प्रपातनं दतामपि ।।३७।।
लिंगस्य पतनं चापि पत्नीप्रज्वलनं तथा ।
गलपाशावलोकश्च ताडने मरणं तथा ।।३८।।
गोस्त्रीवधादिकं स्वप्ने महोत्पातादिदर्शनम् ।
पितॄणां दर्शनं चापि परदेशपलायनम् ।।३९।।
सर्वैः कृतस्तिरस्कारः शवाधिरोहणं तथा ।
शत्रुभिश्च धृतश्चापि द्रव्यस्य तु भुवस्तलात् ।।3.148.४०।।
भूत्वा पिपीलिका यानं वृश्चिका वा तथाविधम् ।
पत्न्याः पलायनं चापि सर्वस्वनाशसूचकम् ।।४१ ।।
कन्यावैधव्यभावश्च देवालयविनाशनम् ।
रक्तस्रावो रक्तरोगः क्षयरोगस्य दर्शनम् ।।४२।।
मृतगर्भप्रसवश्च गर्भिणीमरणं तथा ।
विमानपतनं चापि शकटीभंग इत्यपि ।।४३।।
व्याघ्रधृतिः सिंहकृतं मारणं स्वस्य वै वने ।
मकरैर्धर्षणं चापि गह्वरे पतनं तथा ।।४४।।
खाते रोधस्तथा नैजे भवने रोधनं तथा ।
पादयोर्बन्धनं चापि विदायं बहुभिर्जनैः ।।४५।।
चाण्डालीभोग एवापि चाण्डालभोग इत्यपि ।
भूतानां दर्शनं स्वप्ने भयदाऽरण्यदर्शनम् ।।४६ ।।
हिंस्राणां दर्शनं चापि वह्निमध्ये प्रवेशनम् ।
यानेन स्वर्गगमनं श्मशानगमनं तथा । । ४७ ।।
याम्यावलोकनं चापि कालपुरुषदर्शनम् ।
प्रेतस्य दर्शनं स्वप्ने पाशधरस्य दर्शनम् । ।४८ ।।
राजदूतस्याऽवलोको गरुडस्यापि दर्शनम् ।
तुलसीभक्षणं चापि गोमयैर्भूविलेपनम् ।।४९ । ।
झंझावातेनोह्यमानत्वं च यन्त्रेण कर्षणम् ।
समाजे कर्चनं चापि पादैः प्रदलनं तथा । ।3.148.५ ० ।।
वमनं रक्तकमिश्रं वमने कीटदर्शनम् ।
कृष्णसर्पस्य दंशश्च भोजने कृमिदर्शनम् । ।५ १ ।।
अद्रीणां चालनं चापि भवनानां च चालनम् ।
कन्यानां बालसूतिश्च स्त्रीणां विकृतसूतिता ।। ५२ ।।
नराणां श्मश्रुप्रपातः स्त्रीणां श्मश्रुप्ररोहणम् ।
नराणां स्त्रीवेषवत्त्वं स्त्रीणां पुरुषवेषिता ।।५ ३ ।।
अस्तनीत्वं तथा स्त्रीणां नराणां स्तनयुक्तता ।
स्वप्ने चेद् दृश्यते त्वेतद् देशहानिर्महाभयम् ।। ५४।।
राजा स्वप्ने हतो दृष्टो राज्यनाशो भवेद्ध्रुवम् ।
वृक्षाणां गमनं चापि वल्लीनां गमनं तथा ।। ५५ ।।
कन्यानां गमनं चापि विदेशं प्रति दृश्यते ।
लक्ष्मीहानिश्च दुर्भिक्षं भवेदेव न संशयः । ।५ ६।।
सरितां गमनं चाप्युद्वेलताऽब्धेः समन्ततः ।
जलेन प्रलयस्तत्र खण्डस्य च क्षितेरपि ।।५७।।
पृथिव्या वा प्रलयः स्यान्नात्र कार्या विचारणा ।
देवालयानां गमनं चाद्रीणां गमनं तथा ।।५८ ।।
शिलासैन्यविहारश्च देशनाशफलो भवेत् ।
दुर्गे शब्दास्तु जायन्तेऽज्ञाता भयावहा यदि ।।५९ ।।
दुर्गनाशभयं तत्र राज्यनाशभयं भवेत् ।
कक्षासु गर्जना रात्रावाकस्मिकी भवेद् यदि ।। 3.148.६० ।।
रोगव्याप्तिर्महामारी प्रजानाशोऽति जायते ।
हसन्ति गृहकोणेषु वानराः ऋक्षका यदि ।। ६१ ।।
गृहं शून्यं भवेदेव मासान्ते नात्र संशयः ।
मुण्डी रक्ताम्बरः स्वप्ने दृश्यते दण्डधृग् यदि ।। ६२ ।।
मरणं तत्र जायेत विनाशः सम्पदामपि ।
वनदेव्यो यत्र शुष्काः क्षीणाश्च वृद्धकन्यकाः ।। ६३ । ।
सगर्भा शुष्कदेहाश्च दृश्यन्ते स्वप्नके यदि ।
भग्नपादाश्च खञ्ज्यश्च वृक्ण्यः शृंगककुद्मिकाः ।। ६४।।
अनावृष्टिहता लोका म्रियन्तेऽत्र न संशयः ।
गावो यत्र विशस्यन्ते म्लेच्छैः स्वप्नेऽवलोक्यते ।।६५।।
तत्र म्लेच्छोपद्रवाश्च जायन्ते नात्र संशयः ।
क्रव्यादा यत्र दृश्यन्ते नगरोपरि यूथशः ।।६६।।
नगरस्य विनाशः स्याद् रक्षा रुद्रमखैर्भवेत् ।
उज्ज्वला उज्जलाः कन्या रुदन्ति यान्ति यत्स्थलात् ।।६७।।
तत्र विद्याविनाशः स्यादुद्योगानां विनाशनम् ।
कलाकौशल्यनाशश्च दारिद्र्यं रंकताऽऽपतेत् ।।६८।।
विधवानां मण्डलानि दृश्यन्ते यत्र चाभितः ।
कबन्धानां मण्डलानि तत्र नाशो हि संगरात् ।।६९।।
अनृतौ पशवो यत्र स्खलन्ति पाशवीषु वै ।
धर्मभंगो भवेद् देशे म्लेच्छाचारविवर्धनम् ।।3.148.७०।।
एवमादीनि चान्यानि कुष्ठादिदर्शनं तथा ।
दुःस्वप्नानि भवेयुश्च द्राक् तेषां कथनं वरम् ।।७१ ।।
भूयः प्रस्वापनं चापि कल्कस्नानं तिलैरपि ।
होमोवह्नौ ब्राह्मणानां सतां पूजा सुरार्चनम् ।।७२।।
स्तुतिः श्रीहरिकृष्णस्य वासुदेवस्य पूजनम् ।
नागेन्द्रमोक्षश्रवणं बालकृष्णस्य पूजनम् ।।७३।।
रुद्रयागो विष्णुयागश्चोत्सवो हरिकीर्तनम् ।
कारयेत् स्वगृहे लक्ष्मी कथां नारायणाश्रिताम् ।।७४।।
लक्ष्मीनारायणसंहितायाः पारायणं महत् ।
भये महति सम्प्राप्ते कारणीयं भयापहम् ।।७५।।
स्वप्नं तु प्रथमे यामे सम्वत्सरे फलप्रदम् ।
षड्भिर्मासैर्द्वितीये तु त्रिभिर्मासैस्तृतीयके ।।७६।।
चतुर्थे मासमात्रेण प्रातर्दशाहकृत्फलम् ।
स्वप्नद्वये शुभाशुभे रात्रौ स्यातां तदा फलम् ।।७७।।
पश्चाद् दृष्टस्य जायेत प्राग्दृष्टं लोपमीयते ।
एतेषामसतां स्वप्ने दर्शने तन्निवारणम् ।।७८।।
ग्रहयज्ञं विष्णुयज्ञं रुद्रयज्ञं सतीमखम् ।
पितृयज्ञं भोज्ययज्ञं दानपुण्यं समाचरेत् ।।७९।।
राज्ञा धर्मप्रसक्तेन प्रजानां च हितेप्सुना ।
ग्रहयज्ञाः प्रकर्तव्या लक्षहोमसमन्विताः ।।3.148.८०।।
नदीनां संगमे चापि देवानामग्रतस्तथा ।
तटाकसन्निधौ दैवतीर्थे भूमिं परीक्षयेत् ।।८१ ।।
खनेत् कुण्डं हस्तमात्रं चाष्टोत्तरसहस्रकम् ।
हवनं तत्र कर्तव्यं शान्तिस्तेन प्रजायते ।।८२।।
द्विगुणं लक्षहोमे च कोटिहोमे चतुर्गुणम् ।
अष्टौ वै ऋत्विजः कार्या मूलक्षीरफलाशनाः ।।८३।।
रत्नानि दानयोग्यानि मण्डपे सन्निधापयेत् ।
गायत्र्या दशसाहस्रं मानस्तोकेन षड्गुणः ।।८४।।
त्रिंशद् ग्रहादिमन्त्रैश्च चत्वारो विष्णुदैवतैः ।
कुष्माण्डैर्जुहुयात् पञ्च कुसुमाद्यैस्तु षोडश ।।८५।।
होतव्या दशसाहस्रं बादरैर्जातवेदसि ।
श्रियो मन्त्रेण होतव्याः सहस्राणि चतुर्दश ।।८६।।
शेषाः पञ्चसहस्राणि होतव्यास्त्विन्द्रदैवतैः ।
हुत्वा शतसहस्रं तु पुष्यस्नानं समाचरेत् ।।८७।।
कुंभैः षोडशसंज्ञैश्च सहिरण्यैः सुमंगलैः ।
स्नापयेद् यजमानं तु ततः शान्तिर्भवेद् ध्रुवम् ।।८८।।
हस्त्यश्वरथयानानि भूमिवस्त्रधनानि च ।
अनडुद्गोशतं दद्यात् ऋत्विजां चात्र दक्षिणाम् ।।८९।।
मासे पूर्णसमाप्तौ तु लक्षहोमः प्रकीर्तितः ।
कोटिहोमविधानं तु शृणु लक्ष्मि नदीतटे ।।3.148.९०।।
ऋत्विजः षोडश तत्र दीक्षा साम्वत्सरी मता ।
चैत्रे वा कार्तिके होमारंभं कृत्वा तु वत्सरम् ।।९१ ।।
कारयेत् यजमानस्तु पयोभक्षी फलाशनः ।
यवादिव्रीहयो माषास्तिलाश्च सर्षपास्तथा ।।९२।।
पालाशाः समिधः शस्ता वसोर्धारा तथोपरि ।
आद्यमासे तु ऋत्विग्भ्यो दद्याद्वै क्षीरभोजनम् ।।९३।।
द्वितीये कृसरां दद्याद्धर्मकामार्थसाधिनीम् ।
तृतीये मासि संयावं चतुर्थे मोदकान् शुभान् ।।९४।।
पञ्चमे दधिभक्तं च षष्ठे तु सक्तुभोजनम् ।
पूपाँश्च सप्तमे दद्यादष्टमे घृतपूपकान् ।।९५।।
मिष्टौदनं च नवमे दशमे यवमिष्टकम् ।
एकादशे माषवटान् द्वादशे षड्रसान् दिशेत् ।।९६।।
अहतवासाः संवीतो दिनार्धं जुहुयाच्छुचिः ।
इन्द्राद्यादिसुराणां च प्रीणनं सार्वकामिकम् ।।९७।।
सर्वदानानि देवानामग्निष्टोमं च कारयेत् ।
विधिना कारयेत्तत्र पूर्णाहुतिं शते शते ।।९८।।
सहस्रे द्विगुणा देया यावच्छतसहस्रकम् ।
पुरोडाशो देवताभ्यो देयः समर्चयेद् द्विजान् ।।९९।।
सुरान् पितॄन् तर्पयेच्च पिण्डार्पणैर्विधानतः ।
होमान्ते दक्षिणां दद्यात्तुला शिक्यद्वयान्विताम् ।। 3.148.१० ०।।
बध्वाऽऽत्मानं तोलयेच्च पत्नीं च तोलयेत्तथा ।
सुवर्णेन रजतेन शर्कराभिश्च हीरकैः ।।१ ०१ ।।
दद्याद् दानं राजसूयफलं स्याद् विघ्ननाशकम् ।
प्रीयतां श्रीहरिकृष्णः सर्वयज्ञेश्वरः प्रभुः ।। १ ०२।।
इत्युक्त्या प्रणमेद् विप्रान् भोजयेल्लक्षमानवान् ।
सर्वोपघाता नश्यन्ति पुण्यान्यस्य भवन्ति च ।।१ ०३।।
न शोचेज्जन्ममरणे कृताकृतविचारणे ।
यथाशक्ति प्रकुर्याद्वा ग्रहादिमखमुत्तमम् ।। १ ०४।।
सर्वतीर्थविधानस्य सर्वयज्ञविधेः फलम् ।
एवं कृत्वाऽऽप्नुयाल्लक्ष्मि! श्रवणात्पठनादपि ।। १ ०५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने दुःस्वप्नाद्युपघात तच्छान्त्यर्थकग्रहयज्ञादिनिरूपणनामा अष्टचत्वारिंशदधिकशततमोऽध्यायः ।। १४८ ।।