लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०७७

विकिस्रोतः तः
← अध्यायः ०७६ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ०७७
[[लेखकः :|]]
अध्यायः ०७८ →

श्रीनारायणीश्रीरुवाच-
साध्वीधर्मान् समस्तान् वै वक्तुमर्हसि माधव ।
साध्व्यः सर्वा भवद्देहाज्जाता मायापरा हि ताः ।। १ ।।
लोकेऽत्र वै कथं ताभिर्वर्तितव्यं निरन्तरम् ।
कृष्णधवा हि त्यागिन्यः सांख्ययोगिन्य एव ताः ।। २ ।।
हरिप्रियाश्च ताः सर्वाः कृष्णकान्ता हि योषितः ।
ब्राह्म्यस्ताश्च महाभागवत्यः सात्त्वत्य एव ताः ।। ३ ।।
सर्वथाऽऽत्मनिवेदिन्यो वर्तेरन् केन चाऽध्वना ।
पातिव्रत्यं कथं तासां विना विवाहितं पतिम् ।। ४ ।।
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं त्यागदीक्षितयोषिताम् ।
दीक्षा विवाह एवास्ति मया साकं हि योजितः ।। ५ ।।
 'ओंनमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
इति मन्त्रेण सा साध्वी विवाहिताऽग्निसन्निधौ ।। ६ ।।
होमं कृत्वा दीक्षिता सा मम मूर्त्या समं तदा ।
पूजयित्वा च मां प्राप्ता निवेदिताऽग्निमण्डपे ।। ७ ।।
मम काषायाम्बराणि स्वीचकार च सा सती ।
गुर्वाज्ञया च मे कान्ता जाताऽस्ति दीक्षितक्षणात् ।। ८ ।।
अतश्चाऽस्याः कृष्ण एव पतिश्चाऽस्मि नरायणः ।
विवाहितैव सा चास्ते पातिव्रत्यं सदा मयि ।। ९ ।।
पालनीयं तया साध्व्या पावन्या मम योषिता ।
ममाऽध्वना हि गच्छेयुर्वर्तेरँश्च ममाऽध्वना ।। 3.77.१० ।।
दिव्यभक्त्या च वर्तेरन् मोक्षाध्वना सदध्वना ।
साधुसेवां प्रकुर्युश्च साधवो मम मूर्तयः ।। १ १।।
निष्कामवृत्त्या वर्तेरन् सेवयेयुस्तथैव च ।
सर्वथाऽऽत्मनिवेदिन्यो भवेयुर्मम मूर्तिषु ।। १ २।।
साध्वीधर्माः स्त्रीधर्मास्ते विवाहे ऋषिभिः कृताः ।
सहधर्मादिचारिण्यो भर्तुर्भवन्ति लग्नके ।। १३।।
तस्माल्लग्नवती पत्नी यथा पत्युर्निदेशिनी ।
तथा त्यागवती साध्वी पत्युर्मेऽस्ति निदेशिनी ।। १४।।
अग्निं साक्षिणमासाद्य गुरुं च पितरावपि ।
गणेशं च तथा मां च पत्नी साध्वी समे ह्युभे ।। १५।।
पातिव्रत्यं परं धर्मं गृह्णीतः स वृषः समः ।
पात्नीव्रत्यं तथा पत्युर्हरेर्मे च समं तथा ।। १६।।
सहधर्मचरी भर्तुर्भवत्यग्न्यादिसन्निधौ ।
सहधर्मचरः पत्न्या भवत्यग्न्यादिसन्निधौ ।। १७।।
सहधर्मचरं कान्तमनुस्मरेत् सदाऽर्पिता ।
सुस्वभावा सुवचना सुवृत्ता सुखदर्शना ।। १८।।
अनन्यचित्ता सुमुखी भर्तुः सधर्मचारिणी ।
भवेत् सद्धर्मपरमा भवेत् सद्धर्मभागिनी ।। १९।।
देवदेवं स्वभर्तारं साध्वी नित्यं विलोकयेत् ।
शुश्रूषां परिचर्यां च कुर्याद् दिव्यक्रियाऽन्विता ।।3.77.२०।।
नाऽन्यभावा ह्यविमनाः सुभावा सुखदायिनी ।
पुत्रवक्त्रमिवाऽभीक्ष्णं भर्त्राननं विलोकयेत् ।।२१ ।।
नमेत् सुनियमाढ्या च भर्तारं धर्मचारिणी ।
ज्ञात्वा दम्पतीधर्मांश्च सहधर्मान् निजाश्रितान् ।।२२।।
मत्वैव धर्मपरमा भवेत् भर्तुसमव्रता ।
देवदेवं हि भर्तारं सेवेत शान्तिसंयुता ।।२३।।
सुप्रसन्नमुखी भर्तुर्भवेदेवापि शिक्षिता ।
ताडितोक्ता परुषाणि वश्या तथापि नित्यदा ।।२४।।
नान्यं नरं स्पृशेत् साध्वी निरीक्षेत न कामतः ।
हास्यभावादिभिश्चापि नान्येन सह वर्तयेत् ।।२५।।
भर्तृवर्जं प्रियं नास्ति यस्या उच्छिष्टमेव तत् ।
भर्तृयुक्तं प्रियं सर्वं महाप्रसाद एव तत् ।।२६।।
भर्त्राज्ञा भगवत्स्वाज्ञा भर्ता श्रीपरमेश्वरः ।
भर्त्रारोहा भवेद् या सा भवेद्वै धर्मचारिणी ।।२७।।
दरिद्रं व्याधितं दीनं दुःखितं श्रमितं मृदुम् ।
पतिं कान्तमुपास्ते या सा भवेद् धर्मभागिनी ।।२८।।
पुत्रिणी कन्यका माता चानपत्या च निष्फला ।
पतिप्रिया पतिप्राणा या सा स्याद् धर्मभागिनी ।।२९।।
दास्यं भृत्यत्वमेवापि कैंकर्यं कुर्वती च या ।
शुश्रूषणं परिचर्यां कुर्वती धर्मभागिनी ।।3.77.३०।।
विनीता कोमलवृत्तिः स्निग्धा पत्यौ स्थिराशया ।
पत्यर्थकृतसर्वस्वा सा भवेद् धर्मभागिनी ।।३ १।।
न कामेषु न भोगेषु नैश्वर्येषु सुखेषु न ।
स्पृहा यस्या यथा कान्ते सा साध्वी धर्मभागिनी ।।३२।।
प्रागुत्थानप्रिया प्रातर्गृहसेवापरायणा ।
सम्मार्जनप्रलेपादिशुद्धिपरा च या सदा ।।३३।।
अग्निकार्यपरा चापि देवकार्यपरा तथा ।
कर्तव्यार्थपरा या स्यात् सा भवेद् धर्मभागिनी ।।३४।।
देवताऽतिथिभृत्यानां पत्युर्वृद्धजनस्य च ।
यथापेक्षं प्रदत्त्वैव जलादि तोषयेत्तु या ।।३५।।
तान् सर्वान् भोजयित्वैव शेषान्नं भुंक्त एव या ।
तुष्टपुष्टकुटुम्बा च सा भवेद्धर्मभागिनी ।।३६।।
श्वश्रूश्वशुरयोः पादौ सेवमाना नता सदा ।
मातृपितृपरा नित्यं सा भवेद्धर्मभागिनी ।।३७।।
साधून् दीनाननाथाँश्च बिभर्त्यन्नादिभिस्तु या ।
यथाशक्ति स्वामिधर्मा सा भवेद्धर्मभागिनी ।।३८।।
ब्रह्मिष्ठावत् पतिस्था या पत्यन्यं पुरुषं क्वचित् ।
अपि चतुःखनिस्थं वै नेक्षते बद्धनेत्रिका ।।३९।।
दुर्लभा तादृशी लोके विना लक्ष्मीं हृदि स्थिताम् ।
विना सतीं शंभुहृत्स्थां चाऽदृश्यभावमास्थिताम् ।।3.77.४०।।
व्रतं चरति या स्वाम्यं दुश्चरं पतिनोदितम् ।
पतिचित्ता पतिहिता सा भवेद्धर्मभागिनी ।।४१।।
पुण्यमेतत् स्वर्गमेतत् तपश्चैतद् व्रतं च तत् ।
भर्ता ह्येव परो देवो यस्या नारायणः स्वयम् ।।४२।।
पतिर्देवो हि नारीणां पतिर्गुरुः पतिर्गतिः ।
पतिर्बन्घुः पतिर्भाग्यं पतिः प्राणः परायणः ।।४३।।
पतिप्रसादः स्वर्गोऽस्ति निरयः पत्यतोषणम् ।
अकार्यं चाप्यधर्मं वा प्राणनाशकरं च वा ।।४४।।
पतिर्ब्रूयात् तथा कुर्यात् पातिव्रत्यं परो वृषः ।
दारिद्र्यं व्याधिरापद्वा शत्रुता शापदग्धता ।।४५।।
विचित्तत्वं च वा पत्युः सर्वं स्वानुगुणं क्रियात् ।
सुभाग्यं सर्वमेवैतन्मत्वा सेवेत वै पतिम् ।।४६।।
एवं सर्वस्वार्पणा या वर्तते पतिगामिनी ।
आपद्धर्माननुप्रेक्ष्य सा प्रातिव्रत्ययोगिनी ।।४७।।
पतिश्चाऽहं सदा साध्व्या यथा लोके विवाहितः ।
साध्वी मदर्थमेवाऽत्र वर्तेत मत्परायणा ।।४८।।
मदर्थस्नानशुद्धिश्च मदर्थाऽमलतान्विता ।
मदर्थं च कृतवेषा मदर्थं रूपशालिनी ।।४९।।
मदर्थसर्वसंस्कारा साध्वी मे वै पतिव्रता ।
रक्ताम्बरा मदर्थं काषायवस्त्रा मदर्थिनी ।।3.77.५०।।
पुण्ड्रचन्द्रादियुक्ता च मदर्थं गन्धयोगिनी ।
मदर्थं पुष्पहारा च मदर्थं माल्यधारिणी ।।५१।।
मदर्थं कण्ठपद्धस्तभूषा साध्वी पतिव्रता ।
मदर्थं भोजनाहारा मदर्थं पानयोगिनी ।।५२।।
मदर्थं कृतशृंगारा मदर्थं भोगवाहना ।
मदर्थं कृदलंकारा साध्वी सा मे पतिव्रता ।।५३।।
मदर्थं केशवेषा च मदर्थं कृतकञ्चुकी ।
मदर्थं कृतशाटी च मदर्थं कटिवस्त्रिणी ।।१४।।
मदर्थं करपादा च मदर्थकृतमस्तका ।
मदर्थकृत्कबन्धा च मदर्थान्तरचारिणी ।।५५।।
मदर्थगुणभावा च मदर्थानन्दवर्षिणी ।
मन्नामगुणमग्ना च साध्वी सा मे पतिव्रता ।।५६।।
मदर्थनित्यसत्त्वस्था मदर्थनित्यराजसी ।
मदर्थरोधसंयुक्ता मदर्थस्नेहरक्षिणी ।।५७।।
मदर्थहृदया नित्यं मदर्थकामकारिणी ।
एवं वै वर्तमाना या सा मे हरिव्रता सती ।।५८।।
अपि पुण्यमपि धर्मं कर्म चाचरणं शुभम् ।
यद्वाऽन्यत् कुर्वती साध्वी शीलसौभाग्ययोगिनी ।।५९।।
मत्परा स्यान्मद्विश्रान्ता मत्प्राणा मल्लयान्विता ।
मन्मूर्तिरेव वर्तेत सा साध्वी मे हरिव्रता ।।3.77.६ ०।।
मदर्थत्यागधर्मा च मदर्थसत्यशालिनी ।
मदर्थं च कृतस्वापा मदर्थं जाग्रति स्थिता ।।६ १ ।।
मदर्थं व्यापृता चास्ते मदर्थं विनिवृत्तिका ।
एवं मदर्थसन्तोषा मदर्थाऽहिंसनव्रता ।।६२।।
मदर्थयज्ञसन्न्यासा मदर्थहोमसत्क्रिया ।
मदर्थं ब्रह्मचर्यस्था मदर्थं चाऽपरिग्रहा ।। ६३।।
मदर्थशौचाचारा च मदर्थं तपआस्थिता ।
मदर्थं स्वाध्यायपरा मदर्थोपासनायुता ।।६४।।
मदर्थेन्द्रियव्यापारा मदर्थमानसा सदा ।
मदर्थाऽहं चन्तना च मदर्थनिर्णयान्विता ।।६५।।
मदर्थसत्त्वयत्ना च मदर्थभावनाश्रया ।
मदर्थैश्वर्यसिद्धिश्च मदर्थध्यानसंस्थिता ।।६६।।
मदर्थशुक्लमार्गस्था मदर्थाऽतिथिपूजना ।
मदर्थपाचनकार्या मदर्थाहारगोचरा ।।६७।।
मदर्थगृहशालाढ्या मदर्थगीतिकीर्तना ।
मदर्थं नृत्यभावस्था मदर्थं च कथाश्रवा ।।६८।।
मदर्थं च महोत्साहा मदर्थतीर्थचारिणी ।
मदर्थं कृतयात्रा च मदर्थपुष्पवाटिका ।।६९।।
मदर्थं कृतव्यापारा मदर्थक्रयविक्रया ।
मदर्थं कृषियत्नाढ्या मदर्थं राष्ट्ररक्षिणी ।।3.77.७०।।
मदर्थं सेवनं यस्या मदर्थं भृत्यतान्विता ।
मदर्थं दास्यमापन्ना मदर्थं सर्वसंविधा ।।७ १।।
मदर्थगमनाऽऽदाना? मदर्थाऽऽलोचनान्विता ।
एवं मदर्थतां प्राप्ता साध्वी सा मे हरिव्रता ।।७२।।
मदर्थं कार्तिकव्रता मदर्थं पौषतापसी ।
मदर्थं चैत्रपुण्याढ्या मदर्थं श्रावणीस्थिता ।।७३ ।।
मदर्थं दीपदा चापि मदर्थं पंक्तिभोजना ।
मदर्थं शिष्यतां प्राप्ता मदर्थं गुरुतां गता ।।७४।।
मदर्थं सर्वशिष्याभिः समन्विताऽपि सेविका ।
गुर्वी गुरुपदं प्राप्ता मन्मूर्तिश्चापि सा सती ।।७५।।
साध्वी साध्वीसमाचारा सा साध्वी मे हरिव्रता ।
एवंविधा त्यागधर्मा मम लक्ष्मि पतिव्रता ।।७६।।
राधासख्यस्तथा लक्ष्मीसख्यः श्रीसख्य इत्यपि ।
माणिकीसख्य एवापि सतीसख्यश्च याः शुभाः ।।७७।।
सावित्रीसख्य एवापि सीतासख्यश्च यास्तथा ।
भक्तिसख्यश्च याः सर्वा नारायण्यश्च या मताः ।।७८।।
वासुदेव्यस्तथा कार्ष्ण्यो ब्रह्मप्रियाश्च यास्तथा ।
वैष्णव्यो भगवत्यश्च ब्राह्म्यो मुक्तान्य इत्यपि ।।७९।।
यास्तथा पारमेश्वर्यं ईशान्यश्चापि योषितः ।
ईश्वर्यश्चापि सर्वास्ताः साध्व्यो मे वै पतिव्रताः ।।3.77.८० ।।
यासां यदर्थं सर्वस्वं कान्तार्थं सर्वमेव मे ।
इत्यन्योन्यं साधुसाध्वीभावोऽहं परमेश्वरः ।।८१।।
मां विना नहि साध्व्यस्तास्ता विना नहि चास्म्यहम् ।
परस्परानुयोगस्था भोगमुक्तिप्रदा नृणाम् ।।८२।।
देवानामीश्वराणां च सिद्धानां ब्रह्मवादिनाम् ।
सर्वेषां देहिनः चापि भोगदा मुक्तिदा वयम् ।।८३।।
निबोध लक्ष्मि माहात्म्यं ते सखीनां तवापि च ।
ममापि मम मुक्तानां माहात्म्यं चावधेहि तत् ।।८४।।
अहं सन् भगवान् साक्षात्परब्रह्मपरेश्वरः ।
चित् साध्वी त्वं सतीवर्गा ब्रह्मप्रिया हरिप्रियाः ।।८५।।
तद्योगेन सदानन्दो महानन्दाऽस्ति चावयोः ।
शाश्वतानन्द एवाऽस्ति तद्भोक्ता मुक्त एव ह ।।८६।।
अहं साधुः रमा साध्वी लक्ष्मीः सती सदाऽस्ति वै ।
श्रीः सम्पत् माणिकी सौख्यं पञ्चैतद् दैवतं परम् ।।८७।।
साधुः सर्वविधं सौख्यं ददाति च करोति च ।
साध्वी सर्वविधं सौख्यं ददाति च करोति च ।।८८।।
सती सत्यं वर्तयति सम्पद् भद्रत्वमुत्तम् ।
रक्षत्येव ततः सौख्यं प्रवर्तत हि शाश्वतम् ।।८९।।
सर्वदा मुक्तितुल्यं वै परब्रह्मभृतं महत् ।
एवं लक्ष्मि सदा साध्वी पारब्राह्मी सती मम ।।3.77.९० ।।
सर्वानन्दपरिपूर्णा मोदते स्वामिना मया ।
अनादिश्रीकृष्णनारायणेन परमात्मना ।।९१ ।।
देहश्चाऽयं नरो नारी नात्मा नारी नरोऽपि वा ।
आत्मारामा मुनयश्च साधवः साध्विकास्तथा । ।९२।।
ब्रह्मात्मनिष्ठा मद्योगा मद्भावा मच्छ्रयास्तथा ।
नरा नार्यः शेषभूतास्तेषु नारायणोऽस्म्यहम् ।।९३ ।।
नरमाश्रयति या सा नारी चात्मा मदाश्रितः ।
एवं सर्वे तथाऽऽत्मानो नार्यश्चाश्रयधर्मतः ।।९४।।
आश्रयदो नरश्चाऽहं नारायणः पतिः प्रभुः ।
एवं तत्त्वं विदित्वेह साध्वी सौभाग्ययोगिनी ।।९५।।
मम कान्तां विदित्वा स्वां पातिव्रत्यं सदाऽऽचरेत् ।
अलोककान्ता सा साध्वी कृष्णकान्ता पतिव्रता ।।९६।।
लोके युवा भवेत् कान्तो युवत्या देहयोगतः ।
अहन्तु सर्वदा कान्तो गर्भे बाल्ये च यौवने ।।९७।।
वार्धक्ये मरणे चापि प्रेते लोकान्तरेऽपि च ।
संसारे स्वर्गलोकादौ मोक्षेऽपि कान्त एव ह ।।९८।।
सर्वात्मनां भवाम्येव सर्वात्मना हि शाश्वतः ।
आत्मन्यहं सदा चास्मि नियामकोऽन्तरे स्थितः ।।९९।।
तथा तत्रापि नित्यं वै कान्तोऽस्मि कान्तता मयि ।
कान्तात्वं मम योगेन चात्मस्वेव हि विद्यते ।। 3.77.१० ०।।
एवं शाश्वतिकः कान्तः सर्वासां संभवाम्यहम् ।
मत्कान्त्या कान्तिमन्तो वै मुक्ताः सर्वे तथेश्वराः ।। १०१ ।।
देवाश्च मानवाद्याश्च तिर्यञ्चस्तरवोऽपि च ।
जडाश्च चेतनाश्चापि माया च मायिका अपि ।।; १०२।।
मत्कान्त्या कान्तिमन्तो ये ताः कान्ता मे निसर्गतः ।
एवं कान्तात्मकं सर्वं वैधव्यं नास्ति वै क्वचित् ।। १० ३।।
तस्मात् साध्व्यो भजेयुर्मां कान्तं सौभाग्ययोजिताः ।
एवं लक्ष्मि रहस्यं वै साध्वीनां तु मयेरितम् ।। १ ०४।।
सर्वात्मनां चेरितं च गूढं तत्त्वार्थसंभृतम् ।
तस्मान्मदो न कर्तव्यः पुमानहमिति क्वचित् ।। १ ०५।।
आत्माऽहमिति कृत्वैव भजनीयः पतिः प्रभुः ।
अनादिश्रीकृष्णनारायणश्चाऽहं पतिः परः ।। १ ०६।।
साध्वीरहस्यमेतद्वै ज्ञात्वा ये यास्तथा प्रजाः ।
मंस्यन्ते चाऽऽचरिष्यन्ति ते प्राप्स्यन्ति परां गतिम् ।। १ ०७।।
भुक्तिं मुक्तिं तथाऽऽप्स्यन्ति सुखं चाऽऽनन्दमित्यपि ।
मम योगं शाश्वतं च निर्वाणपदमुत्तमम् ।। १०८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सतीसाध्वीनां पातिव्रत्यपराकाष्ठादिविज्ञाननिरूपणनामा सप्तसप्ततितमोऽध्यायः ।। ७७ ।।