लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०३९

विकिस्रोतः तः
← अध्यायः ३८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ३९
[[लेखकः :|]]
अध्यायः ४० →

श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि प्रवक्ष्यामि नरनारायणीकथाम् ।
पुरुषोत्तमबोधाढ्यां ममाऽपारोक्ष्यबोधिनीम् ।। १ ।।
एकदा तु विशालायां दर्शनार्थं महर्षयः ।
ययुर्मम स्वरूपस्य नरनारायणस्य ते ।। २ ।।
तत्र श्रीशंकरश्चापि समायातः सतीयुतः ।
सनत्कुमारः सनकः सनन्दनः समाययौ ।। ३ ।।
अंगिराद्या महर्षिसत्तमाः स्वतःप्रकाशकाः ।
पत्नीव्रतो द्विजश्चान्ये लोमशाद्याः पुरातनाः ।। ४ ।।
तपःसत्रं चिकीर्षन्तोऽपश्यन् धर्मसुतं शुचिम् ।
नारायणं नरं चापि मत्तनुं तापसीं शुभाम् ।। ५ ।।
प्रपूज्य विधिवत् सर्वे स्तोत्रैः संस्तूय वैदिकैः ।
प्रणेमुर्दण्डवत् भक्तिसंयुता योगवित्तमाः ।। ६ ।।
जगदुस्ते हृष्टहृदो नारायणं परं गुरुम् ।
भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम् ।। ७ ।।
नारायणं स्वयं साक्षात् पुराणं परमेश्वरम् ।
श्रेष्ठं तपो भवद्योगो भवज्ज्ञानं तपः परम् ।। ८ ।।
मुक्तिदं तत् तपः श्रेष्ठं यत्र चाऽऽराध्यते भवान् ।
तन्नो ब्रूहि हरे कस्मादिदं प्रवर्तते जगत् ।। ९ ।।
क आत्मा का च मुक्तिर्वै संसारः कोऽस्ति वै कृतः ।
किं तत्परतरं ब्रह्म सर्वं नो वक्तुमर्हसि ।। 3.39.१० ।।
इति पृच्छन्तो मुनयः प्रापश्यन् तं नरायणम् ।
विहाय तापसं वेषं परब्रह्म सनातनम् ।। १ १।।
भ्राजमानं च तेजोभिर्मुक्तमण्डलसेवितम् ।
अक्षरब्रह्मधामस्थं सश्रीवत्सं श्रिया वृतम् ।। १२।।
अनादिश्रीकृष्णनारायणं मां पुरुषोत्तमम् ।
त्वया साकं हसन्तं स्वसर्वायुधसमन्वितम् ।। १ ३।।
दृष्ट्वा शंभ्वादयः सर्वे लक्ष्मि! क्षणं प्रमुग्धताम् ।
अत्यानन्देन मग्नास्ते प्रापुः श्रीपरमेश्वरे ।। १४।।
अथ कृत्वा तिरोभावं दिव्यभावस्य मे तदा ।
नारायणस्तापसोऽभूद् यथा बद्रीतलेऽभवत् ।। १५।।
ततः स्वस्थान् मुनीन् सर्वानाह तत्र नरायणः ।
अदृश्यं मम रूपं तत् परमेश्वरसंज्ञकम् ।। १६।।
यस्मान्मयि राजतेऽत्र प्रकाशितो नरायणः ।
यं न देवा विजानन्ति यतन्तोऽपि विना कृपाम् ।। १७।।
कृपया दर्शनं प्राप्य ब्राह्मीभूता महत्तमाः ।
न संसारं प्रपद्यन्ते ब्रह्मगा ब्रह्मवादिनः ।। १८।।
वक्ष्ये भक्तिमतामद्य तज्ज्ञानं ब्रह्मवादिनाम् ।
आत्माऽयं देहिनां स्वच्छः शुद्धः सूक्ष्मः सनातनः ।। १९।।
तत्र सर्वान्तरः श्रीमद्ब्रह्मनारायणः प्रभुः ।
वर्तते स प्राणरूपः सोऽन्तर्यामी पुमुत्तमः ।।3.39.२०।।
अस्मादक्षरवासाद्वै विश्वानि च भवन्ति हि ।
स मायया नैजतनूः करोति विविधाः सृजौ ।।२१ ।।
कर्मबद्धा हि जीवाद्याः संसरन्ति पुनः पुनः ।
अकर्मबद्धमुक्ताश्च प्रयान्ति तत्परं पदम् ।।२२।।
यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ।
तथा संसारहर्योश्च सम्बन्धो नोपपद्यते ।।२३।।
छायातपौ यथा भिन्नौ तथा संसारशार्ङ्गिणौ ।
एवमात्मा देहिनां च भिन्नः संसाररूपतः ।।२४।।
अहं कर्ता सुखी दुःखी कृशः स्थूलस्तु या मतिः ।
सा चाऽहंकारकर्तृत्वादात्मन्यारोपिता जनैः ।।२५।।
तस्मादज्ञानमूलो हि संसारः कर्मबन्धनः ।
अहंकाराऽविवेकेन कर्मबन्धं करोत्ययम् ।।२६।।
पश्यन्ति ऋषयो भक्ताः परमोपासका जनाः ।
शुद्धात्मनि निजे देवं श्रीपतिं परमेश्वरम् ।।२७।।
प्रकृतिं पुरुषं कालं बुद्ध्वाऽऽत्मानं निजं तथा ।
हरिणा संगतो यश्च शाश्वतानन्दभाग् हि सः ।।२८।।
स्वात्मानमक्षरं ब्रह्म नाऽवबुद्ध्यति चेद् यदि ।
अनात्मन्यात्मविज्ञानं दुःखसंसारदायकम् ।।२९।।
रागद्वेषादयो दोषाः सर्वे त्वज्ञानमाश्रिताः ।
कारयन्ति हि कर्माणि पुण्याऽपुण्यानि देहिनाम् ।।3.39.३०।।
तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ।
तस्माद् भाव्यं ब्रह्मणा वै स्वेनाऽऽत्मना तु साधुभिः ।।३ १।।
परेशेन समं नैजं त्वैक्यं व्याप्यं सुबुद्धिभिः ।
यथा तु भूमसम्पर्कान्नाकाशो मलिनो भवेत्। ।।३ २।।
तथा त्वन्तःकरणोत्थैर्भावैरात्मा न लिप्यते ।
यथा स्वप्रभया सूर्यः प्रकाशते समन्ततः ।।३३।।
तथा ज्ञानमयश्चात्मा तद्युक्तः सम्प्रकाशते ।
ज्ञानरूपस्ततश्चाऽयं चिद्रूपो भववर्जितः ।।३४।।
यथा रञ्जनसान्निध्ये स्फटिको रञ्जनो जनैः ।
लक्ष्यते च तथा चायं भावसन्निधिसद्गुणः ।।३५।।
सोऽहमात्माऽक्षरः शुद्धो नित्यो भक्तो मयाऽनिशम् ।
उपासितव्यो मन्तव्यः श्रोतव्यः परमेश्वरः ।।३६।।
एवं ज्ञाने तु सर्वत्र यदा भात्यस्य माधवः ।
भक्तस्य श्रद्दधानस्य हरिः सम्पद्यते तदा ।।३७।।
स्वस्मिन् सर्वात्मकं ब्रह्मपरं भात्यस्य वै यदा ।
तदा प्रत्यक्षरूपं तं स्वात्मन्येवाऽभिपश्यति ।।३८।।
यदा सर्वेषु भूतेषु परेशं तं प्रपश्यति ।
तदा सर्वत्र भक्तस्य परब्रह्म विकासते ।।३९।।
यदाऽऽत्मस्थो नेतरद्वै स्वयं किमपि पश्यति ।
तदा परेण सम्बद्धः परमेशं प्रपश्यति ।।3.39.४०।।
यदा हृदयकामा वै विलीयन्ते न सन्ति तु ।
तदाऽसावमृतीभूतः परमेशं प्रपश्यति ।।४१ ।।
यदा सर्वस्थितं कृष्णनारायणं प्रपश्यति ।
तदा तद्योगमापन्नस्तत्स्वरूपाय कल्पते ।।४२।।
यदा पश्यति देवेशं परमं पुरुषं प्रभुम् ।
मायामात्रं गतं तस्य नाऽस्य ब्रह्मातिरेकिता ।।४३।।
यदा जन्मजरादुःखव्याधीनामेकभेषजम् ।
स्वज्ञानं ब्रह्मविज्ञानं वर्ततेऽसौ तदा शिवः ।।४४।।
यथा नदीनदाः सर्वे समुद्रे यान्ति विस्तृते ।
तथा भक्ता अक्षरे ब्रह्मणि यान्ति ह्युपास्तिभिः ।।४५।।
अज्ञानमुग्धा विज्ञानं नार्जयन्ति तु यावता ।
अज्ञानतिमिराकृष्टा न यान्ति परमं पदम् ।।४६।।
आत्मज्ञानं विधातव्यं योगो नारायणस्य च ।
उभाभ्यां श्रीहरिश्चाऽस्य परमात्मा प्रकाशते ।।४७।।
हरेर्योगात्समग्राण्यैश्वर्याण्यस्य भवन्ति च ।
देहेऽत्रैवाऽथवा देहान्तेऽपि हरेः स्वनुग्रहात् ।।४८।।
यत्तत् सर्वमतं दिव्यमैश्वर्यं तदवाप्नुयात् ।
तदैश्वर्यप्रदाता सः सर्वेषां परमेश्वरः ।।४९।।
सर्वभूतेषु सर्वात्मा सर्वस्थः सर्वतोमुखः ।
सर्वरूपः सर्वरसः सर्वगन्धोऽजरोऽमरः ।।3.39.५० ।।
सर्वतः पाणिपादः सोऽन्तर्यामी श्रीसनातनः ।
अपाणिपादो जवनो ग्रहीता हृदि संस्थितः ।।५१।।
अचक्षुरपि द्रष्टा सः चाऽकर्णश्च शृणोत्यपि ।
वेत्त्ययं सर्वमेवेदं न तं जानाति कश्चन ।।५२।।
परमेशं महानाथं वदन्ति विमलाशयाः ।
पश्यन्ति ऋषयो हेतुं यदैश्वर्यमनुत्तमम् ।।५३।।
विदित्वा तस्य सायुज्यं लभन्ते तत्र वेशिताः ।
ये तन्मायामतिक्रान्ता या चास्ते बन्धरूपिणी ।।५४।।
ते लभन्ते परंधाम निर्वाणं हरिणा सह ।
प्रसादात्तस्य ते यान्ति पुनरावृत्तिमेव न ।।५५।।
एतज्ज्ञानं पुत्रशिष्ययोगिभ्यो देयमेव ह ।
मोक्षदं परमं शान्तिप्रदं वै ब्रह्मवित्तमाः! ।।५६।।
अन्यच्चापि प्रशृणुत परमेशात्ततोऽभवत् ।
कालाख्यः पुरुषश्चापि पौरुषी प्रकृतिस्तथा ।।५७।।
ताभ्यां प्रधाना पुरुषस्ताभ्यां हिरण्मयोऽप्यजा ।
हिरण्मयी च ताभ्यां तु विराड् वैराजिकेति च ।।५८।।
ताभ्यां त्रिदेवताश्चातो नरनारीमयं जगत् ।
एवं हरेः सर्वमिदं तस्माद् ब्रह्ममयं जगत् ।।५९।।
हरिस्त्वात्माऽस्ति भूतानां ज्ञाताऽऽत्मा परमेश्वरः ।
द्विजाः शृणुत चाथापि हरेरिच्छा ह्यभूत्पुरा ।।3.39.६०।।
माया सा दिव्यरूपाऽपि जीवकर्मान्विता सती ।
सत्त्वकर्मात्मिका सत्त्वा रजःकर्मा तु राजसी ।।६१।।
तमःकर्मयुता सा च तामसी कर्मरूपिणी ।
जीवानां कर्मणां यादृग् रूपं सा तादृशी जनैः ।।६२।।
गीयते रक्तकाचाढ्य तेजो रक्तं यथेतिवत् ।
वस्तुतः शुद्धरूपा सा किन्तु जीवानुवेशिता ।।६३।।
कर्मानुसारफलदा सा माया त्रिप्रकारिणी ।
मूला शुद्धाऽथ विषमा कर्मानुसारयायिनी ।।६४।।
महत्तत्त्वं च बुद्ध्याख्यं प्रकाशयति वै ततः ।
महत्तत्त्वादहं बुद्धिश्चाभिमानात्मिका ततः ।।६५।।
ततः षोडशको गणस्तन्मात्रेन्द्रियमानसः ।
तन्मात्रेभ्यश्च भूतानि स्थूलानि गुणवन्ति च ।।६६।।
स्थूलेभ्यस्तु जायन्ते तज्जगत् खलु ।
जडात्मकं ह्यपि व्याप्तं चेतनैः कुरुते क्रियाः ।।६७।।
कर्मानुगुणं सरणं संसारो वासनामयः ।
साऽपि कालस्य वशगा ह्यविवेकसमुद्भवा ।।६८।।
मनःसाहाय्यमासाद्य प्रवर्तयति देहिनः ।
तस्मान्मनो नियम्यैव वासनां क्षपयेद् बुधः ।।६९।।
कालमायाऽतीतरूपो भूत्वा भजेत माधवम् ।
नास्ति तस्मात्परं किंचित् तं भजित्वा विमुच्यते ।।3.39.७०।।
नाऽयं तपोभिर्विविधैर्न दानेन न चेज्यया ।
शक्यो हि मानवैर्ज्ञातुमृते भक्तिमनुत्तमाम् ।।७ १ ।।
स वै समग्रभूतानामन्तस्तिष्ठति सर्वतः ।
तं सर्वसाक्षिणं ज्ञात्वा मुच्यते सर्वबन्धनात् ।।७२।।
तस्याऽन्तरे सर्वमिदं स तु सर्वान्तकः परः ।
तमेव गृणन्ति शास्त्राणि सत्येकं परमेश्वरम् ।।७३ ।।
यजन्ति विविधैर्यज्ञैर्ब्राह्मणाः सत्रकोटिभिः ।
ध्यायन्ति तं योगिजना भजन्ते साधवोऽमलाः ।।७४।।
सर्वदेवतनुः सोऽयं धार्मिकास्तमुपासते ।
तेभ्यो ददाति तत्स्थानमानन्दं परमं पदम् ।।७५।।
नरा नार्योऽपि कर्मस्था भक्तिमन्तो ह्यकल्मषाः ।
पूजयन्ति च तं भक्त्या ते प्रयान्ति परां गतिम् ।।७६।।
इत्येवमृषयो बुद्ध्वा तं परेशं प्रभुं हरिम् ।
सर्वान्तर्यामिणं ध्यात्वा प्रयान्तु परमं पदम् ।।७७।।
इत्युक्त्वा बदरीनाथः शिवराजि ऋषीश्वरान् ।
पुनश्च दर्शयामास तापसे वर्ष्मणि प्रभुम् ।।७८।।
कोटिकन्दर्पशोभाढ्यं श्रीसमेतं परात्परम् ।
अनेकैश्वर्यसञ्जुष्टं राजाधिराजशोभिनम् ।।७९।।
अनादिश्रीकृष्णनारायणात्मकं सुसुन्दरम् ।
सर्वकान्तं सर्वदिव्यलावण्यमधुतान्वितम् ।।3.39.८ ०।।
अनन्तमुक्तमुक्तानीसेवितं पारमेश्वरम् ।
अवतारादिभिश्चापि व्यूहैर्नुतं स्तुतं तथा ।।८१ ।।
परब्रह्मात्मकं दिव्यं सर्वेश्वरादिसेवितम् ।
सर्वश्रीसंभृतं धामेश्वरं श्रीपुरुषोत्तमम् ।।८२।।
ऋषयस्ते हरेः रूपं दृष्ट्वा तृप्ताः सुखान्विताः ।
यावत्तपःफलं प्राप्ता मुदितास्तुष्टुवुः पुनः ।।८३।।
त्वं प्रभुस्त्वं परब्रह्म त्वं कृष्णस्त्वं नरायणः ।
नारायणः परज्योतिर्भवानक्षरधामवान् ।।८४।।
त्वं हिरण्मयरूपश्च विष्णुस्त्वं व्यापको भवान् ।
सर्वदेवमयस्त्वं च तापसस्त्वं परेश्वर ।।८५।।
त्वा दृष्ट्वा कृतकृत्याः स्मस्त्वां प्राप्य पुरुषोत्तमम् ।
मायापारं गताः स्मोऽद्य कृपा तेऽसीममुक्तिदा ।।८६।।
यदिच्छया समायाताश्चात्र पूर्णो मनोरथः ।
नेतरच्छिष्यते कार्यं कर्तव्यं दर्शनात्परम् ।।८७।।
अलौकिकं परं रूपं सदैवं भातु नः प्रति ।
इत्येवमेव वाञ्च्छामो वरं देहि वरं हि नः ।।८८।।
इत्येवं शिवराज्ञीश्रि! स्तुत्वा मौनं च तस्थिरे ।
ततो दिव्यं परब्रह्मरूपं तत्र तिरोऽभवत् ।।८९।।
अहं वै तापसो जातः सद्यो नारायणात्मकः ।
बदर्यधःस्थितस्ते च पुपूजुर्मां तथाविधम् ।।3.39.९० ।।
आज्ञामादाय च ययुर्भजन्तो मां निजालयान् ।
त्वं विजानाहि तद्रूपं मम नारायणात्मकम् ।।९१ ।।
तापसं लोकरक्षार्थं धर्मरक्षाकरं सदा ।
नरनारायणात्मानं चान्तर्यामिणमेव माम् ।।९२।।
पुरुषोत्तमसंज्ञं च विजानाहि पतिं तव ।
एतज्ज्ञानं समगृह्य शंकराद्यास्ततो भुवि ।।९३ ।।
उपादिदिशुः ऋषयो मुक्तिं ददुश्च सर्वतः ।
देहिभ्यो ब्रह्मधान्येव ममोपासनकारिणः ।।९४।।
पठनाच्छ्रवणाच्चैतत्स्मरणादपि मुक्तिदम् ।
सर्वानन्दप्रदं लक्ष्मि! ज्ञातव्यं न यतः परम् ।।९५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने बदर्यां तपोऽर्थं प्राप्तानां महर्षीणां नरनारायणे परब्रह्मरूपदर्शनात् तृप्तानां मानवेभ्यश्चोपदेशनमित्यािनिरूपणनामा नवत्रिंशोऽध्यायः ।। ३९ ।।