लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४८०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४७९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४८०
[[लेखकः :|]]
अध्यायः ४८१ →

श्रीनारायण उवाच-
शृणु पृथ्व्यां शुभं तीर्थमवन्तीनगरं रमम् ।
यत्रास्ते त्वापगा शिप्रा तां ययौ राम एकदा ।। १ ।।
सतीयः सलक्ष्मणश्च तर्पयामास पूर्वजान् ।
लक्ष्मणं तु ततः शिप्राजलमानेतुमुक्तवान् ।। २ ।।
लक्ष्मणस्तदनादृत्योवाच सीतां वदाऽधुना ।
यद्यहं वारानयेयं सीता किं ते करिष्यति ।। ३ ।।
राम नाहं दासभावं सर्वकालं करोमि ते ।
इयं सुपुष्टा सुदृढा मत्तोऽपि पीवरा ह्यतः ।। ४ ।।
वद राघव सीतां त्वमनया किं करिष्यसि ।
लक्ष्मणोक्तमपूर्वं तच्छ्रुत्वा रामश्च जानकी ।। ५ ।।
संतस्थतुर्विमनसौ सीता वै जलमाददे ।
तत्र पीत्वाऽथ भुक्त्वा च महाकालेश्वरं ययु ।। ६ ।।
तत्र विभावरीं नीत्वा रामः प्राहाऽनुजं प्रगे ।
उत्तिष्ठ वत्स सौमित्रे व्रजामोऽन्यस्थलं वनम् ।। ७ ।।
सौमित्रिरब्रवीद् रुष्टो नाऽहं गन्ता कथंचन ।
व्रज त्वमनया सार्धं भार्यया प्रियया तव ।। ८ ।।
नाहमग्रं वनं यामि न वाऽयोध्यां कदापि वै ।
एवं ब्रुवाणं सौमित्रिमुवाच भगवान् स्वयम् ।। ९ ।।
शनैरायाहि सौमित्रे सीतया सह मेऽनुज ।
कथं वै वर्तसे रोषे कथं वा सह निर्गतः ।। 1.480.१० ।।
यतस्त्वया प्रगन्तव्यं शनैः शनैस्तपस्विना ।
लक्ष्मणः प्राह यद्येवं करिष्ये न वचस्तव ।। ११ ।।
कैंकर्यं न करिष्ये ते तदा यामि वनं सह ।
तथास्त्विति प्राह रामो लक्ष्मणस्तु शनैर्ययौ ।। १२।।
अथाऽब्रवीत् पुनर्नाऽहं गन्ताऽस्मि वै त्वया वनम् ।
इत्युक्त्वा निषसादाऽसौ रामो याति पुरः पुरः ।। १ ३।।
अथोत्थाय धनुः कृत्वा सज्यं तत्र नियोज्य च ।
शरं विचारयामास रामं हत्वाऽथ जानकीम् ।। १४।।
वशं करोमि चारण्ये तापसः सर्वदा सुखी ।
रामः शीघ्रं प्रयात्येव सीताऽपि याति वेगतः ।।१५।।
लक्ष्मणः सशरं चापि कृत्वा मोक्तुं शशाक न ।
अहो भ्राता कथं वध्यो माताऽत्र जानकी हि मे ।। १६।।
पूज्या कथं वशं नेया का मे भ्रान्तिरियं न्वहो ।
पुनश्चैवं विचार्याऽपि शराऽधीनमनाः पुनः ।। १७।।
पुनर्दयालुहृदयस्तावत् प्लक्षतरुं पुरः ।
रामो ददर्श तं गत्वा निषसाद् हि तद्भुवि ।। १८।।
सीताऽप्यागत्य विश्रान्ता लक्ष्मणोऽपि शनैर्ययौ ।
रामः प्राह कथं भ्रातः कृतं वै सशरं धनुः ।। १ ९।।
लक्ष्मणो व्रीडया नम्रः क्षणमात्रं बभूव ह ।
अन्तर्गतं विदित्वैव रामः प्रोवाच भूस्थितिम् ।।1.480.२०।।
न ते लक्ष्मण! दोषोऽस्ति क्षेत्रस्याऽस्य हि चेष्टितम् ।
अस्मिन् क्षेत्रे न सौभ्रात्रं सर्वो हि स्वार्थतत्परः ।।२१ ।।
परस्परं न मन्यन्ते स्वार्थनिष्ठैकहेतवः ।
न शृण्वन्ति पितुः पुत्राः पुत्राणां च तथा पिता ।।२२।।
न च शिष्यो गुरोर्वाक्यं गुरुर्वा शिष्यसेवनम् ।
स्वार्थानुबन्धिनी प्रीतिर्न कश्चित् कस्यचित् प्रियः ।।२३।।।
एतादृशं बलं त्वस्या भूमेरस्ति ममाऽनुज ।
न च ते तत्र दोषोऽस्ति मा व्रीडां व्रज चाऽनघ ।।२४।।
श्रुत्वा नत्वाऽऽह सौमित्रिः कथं त्वेतादृशं स्थलम् ।
संजातं यज्जडमपि चेतनान् नः प्रबाधते ।।२५।।
रामः प्राह पुरा त्वत्र घोरखनकनामकः ।
राक्षसोऽभून्महापुष्टः सप्ततालप्रमाणवान् ।।२६।।
कामरूपधरो व्योम्ना नगरेषु गृहेषु च ।
अवातराते चोड्डीय बलाद् भक्ष्यं जनादिकम् ।।२७।।
अपाहरति क्रौर्येण बालान्नारीश्च गोवृषान् ।
एकगव्यूतिभूमौ स वने कृत्वाऽऽश्रमं खलः ।।२८।।
अदृश्यरूपश्चरति पक्ष्यादिकांश्च खादति ।
क्वचिद् भवति शार्दूलो मृगो वा गवयः क्वचित् ।।२९।।
क्वचिद् राजा क्वचिद् विप्रः क्वचिन्नारी सुरूपिणी ।
क्वचित् सर्पः क्वचित् कीशः क्वचिद् रूक्षो भवत्यपि ।।1.480.३ ०।।
यथा यस्य भवेद् योग्यं रूपं तद्वान् भवत्यसौ ।
मिलित्वा चाप्युषित्वा च सहयानं विधाय च ।।३ १ ।।
करोति हिंसनं तेषां विश्वस्य तान् प्रखादति ।
क्वचित्तु कृत्रिमं रम्यं पत्तनं नगरं शुभम् ।।३२।।
प्रदर्शयति प्रजया शोभितं त्वैन्द्रजालिकम् ।
यत्राऽऽपणेषु वणिजां दृश्यन्ते ह्युद्यमा नवाः ।।३३ ।।
कुमाराणां शुभाः शाला उद्यानानि वनानि च ।
मन्दिराणि सुरम्याणि राजसैन्यं महत्तमम् ।।३४।।
एवं गान्धर्वनगरं विधापयति वै क्वचित् ।
अथैकदा श्रीगोपालः कम्भराभार्यया पुनः ।।३५।।
तीर्थयात्राकृते तेन पथा दिव्या विनिर्गतः ।
श्रीकृष्णांशः श्रीगोपालो लक्ष्म्यंशा कम्भरा सती ।।३६।।
दृष्टौ घोरखननेन मार्गगौ रक्षसा वने ।
अतितेजस्विनौ शान्तौ सुप्रभौ सूर्यवर्चसौ ।।३७।।
तावत्तु स मनश्चक्रे विश्वास्य योग्यकर्मणा ।
रक्षसा चिन्तितं त्वेतौ देवभाग्यौ यतो मया ।।३८।।
दैवजुष्टं सुनगरं सोत्सवं संविधाय च ।
आतिथेयेन विधिना सन्मान्यौ भक्ष्यकोत्तमौ ।।३९।।
इति विचार्य कृतवान् नगरं दिव्यमानवम् ।
दिव्यराजोपकरणं यज्ञशालादिशोभितम् ।।1.480.४०।।
नगरेशः स्वयं भूत्वा नीत्वाऽर्घ्यं च तयोः पुरः ।
ययौ दूरं सुसत्कारं कृत्वाऽऽनिनाय तौ गृहम् ।।४१ ।।
आश्चर्यं परमं तौ तु प्रापतुर्दम्पती तदा ।
पूजितौ भोजितौ पादसंवाहितौ प्रतोषितौ ।।।४२।।
विश्रान्तौ विश्रमितौ निद्रिताविव बभूवतुः ।
तावत् स राक्षसो यातो ग्रहीतुं हेतिमुल्बणम् ।।४३।।
दम्पत्योर्विशसनार्थं तत्क्षणे कम्भरां सतीम् ।
प्राह गोपालकृष्णः स पश्य कपटसेवकम् ।।४४।।
आनेतुं कम्भरालक्ष्मि! गतोऽसौ करवालकम् ।
राक्षसोऽयं महादुष्टो बहूनत्ति छलाद् वने ।।४५।।
तस्य नाशो मया कार्यस्तदर्थं त्वहमागतः ।
स्वस्था भव क्षणं साध्वि! पश्य कार्यं क्षणं मम ।।४६।।
यावदेवं हि भगवान् निवेदयति पत्निकाम् ।
तावत् संगृह्य सुतीक्ष्णं करवालं समागतः ।।४७।।
अथोत्थाय तदा तूर्णं गोपालकृष्ण एव तम् ।
अदृश्येन स्वरूपेण पत्न्या सह स्थलान्तरम् ।।४८।।
अपसृतश्च शय्यायां दृष्टौ तथा यथा पुरा ।
करवालेन शय्यायां मत्वा जघान यावता ।।४९।।
करवालं तदा शय्याघट्टितं च द्विधाऽभवत् ।
अर्धं हस्तगतं रक्षःपादयोः पतितं च सत् ।।1.480.५०।।
पदाग्रौ छेदयामास यदर्धं त्वग्रभागकम् ।
तत्तु प्रोड्डीय च गले तीक्ष्णाग्रं लग्नमुल्बणम् ।।५१ ।।
गलो भिन्नश्चोत्पतितो राक्षसः क्षणमूर्छितः ।
दयायुक्कंभरालक्ष्मीर्जलं पातुं च तं ययौ ।।५२।।
तावद्दधार बाहुभ्यां मुमुर्षुर्वैरभावतः ।
भक्ष्येच्छया निजग्रासं कर्तुं यावत् समिच्छति ।।५३।।
तावत् तयाऽभिशप्तः स मरणं याहि राक्षस ।
एतादृशेऽत्र नगरे शाठ्यं करोषि सर्वथा ।।५४।।
वञ्चयसिच्छलधर्मा तस्मात्ते भूमिका सदा ।
छलात्मिका वञ्चयित्री कापट्यक्रूरतायुता ।।५५।।
सदैव भवतु क्रूरधर्मणस्ते निवासतः ।
अन्येऽप्यत्र भुवो योगाच्छलक्रौर्यादिधर्मिणः ।।५६।।
भविष्यन्ति न सन्देहो मित्राणि शत्रवो यथा ।
स्वकीयाः परकीयाश्च संगदोषाद्धि राक्षसाः ।।५७।।
तेन पापेन तु पुनर्नारका दुःखभोगिनः ।
तव भूमिगता सर्वे भविष्यन्ति जनाऽधमाः ।।५८।।
इतिशप्तो यदा देव्या राक्षसस्तावदेव तु ।
प्राणाँस्तत्याज स क्रूरो नगरं विलयं गतम् ।।।५९।।
भूमिररण्यरूपा सा समभूत् केवला स्थली ।
तदा सा कम्भरालक्ष्मीर्विशेषाश्चर्यसंप्लुता ।।1.480.६०।।
अभवद् देवदेवाय पप्रच्छ जालकं नु किम् ।
गोपालकृष्णः प्रोवाच राक्षसस्यैन्द्रजालिकम् ।।६१ ।।
सर्वमासीन्मया पूर्वं ज्ञातमेव हि सुन्दरि ।
राक्षसोऽयं मृतः स्वस्य हस्तेनैव यतः पुनः ।।६२।।
यास्यति राक्षसीं योनिं रामहस्तेन वै पुनः ।
आवयोर्दर्शनसेवाफलेन स मरिष्यति ।।६३।।
तदा यास्यति मुक्तिं स सोऽथ द्वीपे तु दक्षिणे ।
वर्तिष्यते यदा रामो गमिष्यति हनिष्यति ।।६४।।
इत्युक्त्या तौ ययतुश्च सा भूमिः राक्षसी पुरा ।
शप्ताऽस्ति तेन योगेन लक्ष्मणाऽत्र मनस्तव ।।६५।।
कुविचारं तु कृतवन्नात्र दोषो मनाङ् तव ।
देशः कालः क्रिया संगो मन्त्रो ध्यानं च दक्षिणम् ।।६६।।
गुरुश्चैते यादृशाः स्युस्तथा फलन्ति शिष्यके ।
राक्षसस्य निवासेन भूमिः सा शापिता ह्यभूत् ।।६७।।
भूमेर्योगेन सौमित्रे क्रूरं ते मानसं ह्यभूत् ।
गता भूमिस्तु सा भ्रातः स्वस्थो भव सुखान्वितः ।।६८।।
सीतायाः पातिव्रत्यस्य बलेन मानसं न वै ।
विकृतिं तु समापन्नं ममापि मानसं न वै ।।६९।।
येषां पत्नीव्रतं नित्यं पातिव्रत्यं दृढं तथा ।
तेषां मनसि भूम्यादि प्रसंगो नैव रोहति ।।1.480.७०।।
त्वं चापि वर्तसे भ्रातर्ब्रह्मचारी सुतापसः ।
अतस्ते धैर्यमद्यापि सुस्थितं विकृते हृदि ।।७१ ।।
अन्ये तु कलहं कुर्युरवश्यमीदृशस्थले ।
विनाशफलमाप्नुयुर्नास्ति तत्र हि संशयः ।।७२।।
पातिव्रत्येन धर्मेण भवन्ति सुखिनो जनाः ।
पतिः कृष्णः परब्रह्म नारायणो हरिः प्रभुः ।।७३।।
सीता पतिव्रता यस्मादहं वनेऽपि मोदवान् ।
तादृशश्च व्रतधर्ता भ्राता मेऽत्र वचस्करः ।।७४।।
नास्ति .दुःखं महारण्ये त्रयाणामेकवर्तिनाम् ।
स्वर्गं मोक्षो गृहं राज्य सहैवास्ति वने मम ।।७५।।
इत्येतत्कथितं त्वत्र भूबलं प्राक् सुशापितम् ।
अत्राऽस्माकं पादस्पर्शो जातस्तस्माच्छनैः शनैः ।।७६।।
भूबलं क्रूरता रूपं लयमेष्यति कालतः ।
भविष्यति शुभं तीर्थमवन्तीमण्डलं महत् ।।७७।।
इत्युक्त्वा प्रययुरग्रे वनेषु वनचारिणः ।
इति ते कथितं लक्ष्मि पतिव्रताप्रशापनम् ।।७८।।
पातिव्रत्यबलं चापि देशाद्यनभिभावितम् ।
पठनाच्छ्रवणात्त्वस्य मतिस्तु विमला भवेत् ।।७९।।
देशकालादिसम्प्राप्तः पराभवो न दुःखयेत् ।
धर्मे मतिर्भवेत्पुष्टा व्रतादौ विमला भवेत् ।।1.480.८०।।
यथेष्टफलदं त्वस्य स्मरणं शान्तिदं भवेत् ।
स्वर्गदं मोक्षदं चापि शाश्वतानन्ददं भवेत् ।।८१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने अवन्तीयात्रायां लक्ष्मणस्य मनःपरिवर्तनोत्तरं भुवि तत्र घोरखनकराक्षसवासेन गोपालकृष्णकृततन्नाशेन च शापितभूमि तथा लक्ष्मणमानसदुष्टता सीतायाः पातिव्रत्यं चेत्यादिनिरूपणनामाऽशीत्यधिकचतुश्श्ततमोऽध्यायः ।। ४८० ।।