लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४७९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४७८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४७९
[[लेखकः :|]]
अध्यायः ४८० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवदामि कथां वै वाल्मिकेः शुभाम् ।
आसीत् सुमतिनामा तु विप्रो भृगुकुलोद्भवः ।। १ ।।
रूपयौवनसम्पन्ना तस्य कान्ता च कौशुकी ।
तस्यां पुत्रः समुत्पन्नस्त्वग्निशर्मेति नामकः ।। २ ।।
स पित्रा प्रोच्यमानोऽपि वेदाभ्यासं करोति न ।
अथैकदा त्वनावृष्ट्या लोकाः संपीडितास्त्वति ।। ३ ।।
सुमतिः सकुटुम्बो वै वने कृत्वाऽश्रमं स्थितः ।
आभीरैर्दस्युभिः सार्धं संगोऽभूदग्निशर्मणः ।। ४ ।।
वने मार्गेण तेनाऽत्र ये निर्यान्ति जनास्तु तान् ।
अग्निशर्मा क्रूरकर्मा हन्ति हरति तद्धनम् ।। ५ ।।
सप्तर्षयः पथा तेन सुव्रताः समुपस्थिताः ।
अग्निशर्मा हर्तुकामस्ताँस्तु सप्त विलोक्य च ।। ६ ।।
प्राह वस्त्राणि छत्राणि पत्त्राणादीनि यानि वै ।
सर्वाणीमानि मुञ्चध्वमन्यथा मारयामि वः ।। ७ ।।
इति श्रुत्वाऽस्य वचनमत्रिः प्राहाऽग्निनामकम् ।
अस्मत्पीडाकरं पापं ब्राह्मणे वै कथं त्वयि ।। ८ ।।
समुत्पन्नं वयं तीर्थयायिनः स्मस्तपस्विनः ।
अग्निशर्मा तदा प्राह मम माता पिता स्वसा ।। ९ ।।
भार्या सुताः क्षुधिता वै वर्तन्ते पोषयामि तान् ।
विनाऽपहारं कस्माद्वै पोषणं स्याद् वनेऽत्र वै ।। १ ०।।
तस्मात् करोमि पापं त्वविगणय्य शुभाऽशुभम् ।
अत्रिः प्राहाऽग्निशर्माणं शृणु तथ्यं हितं शुभम् ।। १ १।।
पित्रादीननुपृच्छ त्वं स्वकर्मोपार्जितं प्रति ।
युष्मदर्थं क्रियते यत्पापं तत् कस्य कथ्यताम् ।। १ २।।
चेन्न ते कथयन्ति स्म स्वीकुर्वन्ति न चेद् यदि ।
ब्रूयुस्तवैव पापं चेन् मा मृषा प्राणिनोऽवधीः ।। १ ३।।
अग्निशर्मा तदा प्राह मया पृष्टा न ते क्वचित् ।
युष्मद्वचसा पृच्छामि गत्वा भावं कुटुम्बिनाम् ।। १४।।
जानामि तु यथा यूयं तिष्ठध्वमत्र यावता ।
आगच्छामि पुनस्त्वत्रेत्युक्त्वाऽऽशु पितरं ययौ ।। १५।।
पप्रच्छ धर्मघातेन प्राणिहिंसादिकर्मणा ।
मुमहज्जायते पापं कस्यैतत् कथ्यतां मम ।। १६।।
मातरं चापि पप्रच्छ पितरौ प्राहतुश्च तम् ।
तवैव पापं पुत्र स्यान्नावयोरिति वै ततः ।। १७।।
त्वया कृतं त्वया भोग्यं भरणं त्वावयोः कुरु ।
अथ भार्यां जगादैवं साऽऽह पापं तवैव तत् ।।। १८।।
अथ पुत्रान्सुतामाह स्वसारं प्राह तेऽपि तम् ।
ऊचुः पापं तवैवाऽस्ति नाऽस्माकं तन्मनागपि ।। १९।
एवं स्वार्थित्वमाज्ञाय वैराग्येण समन्वितः ।
ऋषीणां पादयोर्नत्वा शोचन्नुवाच तान् द्विजः ।।1.479.२०।
न मे माता न च पिता न भार्या न च मे सुतः ।
सुता स्वसा न मे त्वस्ति यतस्ते स्वार्थमात्रकाः ।।२१ ।
भवन्तः शरणायातं तत्पापात् त्रातुमर्हथ ।
अत्रिस्तं प्राह वृक्षाऽधः स्थित्वा ध्यानं समाचर ।।२२।
कृष्णनारायणमूर्तेः पापपुञ्जं प्रणाशय ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।। २३।।
जप त्वं श्रद्धया शश्वत् तुलसीमालया करे ।
श्रीकृष्णो हि स्वयं त्वत्र तवोद्धारं करिष्यति ।।२४।।
इत्युक्त्वा प्रययुः सर्वे सोऽपि ध्यानपरोऽभवत् ।
तद्ध्यानस्थोऽभवद् योगी वत्सराणि त्रयोदश ।।२५।।
ध्याने स्थितः सदा मन्त्रं जजाप सस्वरः स वै ।
वम्रीभिस्तु कृतस्तस्योपरि वल्मीक उच्छ्रयः ।।।६।।
सोऽपि तत्र निश्चलः सन् ध्यायन् जजाप तत्तथा ।
नोत्थितो न.जलं वान्यत् पपौ चखाद वा क्वचित् ।।२७।।
अथैते ऋषयस्तेन पथा निर्ययुरन्तिकात् ।
शुश्रुवुस्तद्ध्वनिं मन्त्रजपस्य विस्मयं गताः ।।२८।।
दृष्ट्वा वल्मीकमेवैते तदन्तःस्थं जडं यथा ।
गंगाजलेन संस्कृत्योत्थापयामासुरीश्वराः ।।२९।।
स चोत्थितः शनैस्तस्मान्नमश्चक्रे मुनीश्वरान् ।
प्राहाऽहं तारितः पापात् संसाराद् घोरकर्मणः ।।1.479.३०।।
जपामि तं कृष्णमन्त्रं समुद्धृतः कृपालुभिः ।
प्रसादाद् भवतां ज्ञानं मया तथ्यं समर्जितम् ।।३ १ ।।
अन्ते मोक्षगतिं यायां कुर्वन्त्वनुग्रहं मयि ।
इत्युक्त्वा मुनिचरणप्रक्षालनजलं पपौ ।।३२।।
मुनयस्तं जगदुश्च वाल्मीकिरिति नामतः ।
ययुस्ते मुनयः सत्यं वाल्मीकिस्तु हरिं भजन् ।।३३।।
त्रिकालज्ञानमासाद्य रामकाव्यं चकार ह ।
येनोद्धारं गमिष्यन्ति देहिनोऽसंख्यसंख्यकाः ।।३४।।
यावज्जीवं ब्रह्मव्रतं पश्चाद्रक्षन् स भक्तराट् ।
पालयामास कृष्णस्य पातिव्रत्यं हि शाश्वतम् ।।३५।।
प्रातः स्नानं चकाराऽसौ सन्ध्यां चकार भावतः ।
विष्णुं शिवं गणपतिं पार्वतीं त्वनलं रविम् ।।३६ ।।
रामादित्यं सप्तदेवान् पुपूज प्रत्यहं ऋषिः ।
षोडशोत्तमवस्तुसंयुक्तभावैः शुभाऽऽन्तरैः ।।३७।।
वन्यैः फलैस्तथा कन्दैः पत्रैर्बीजादिभिः सदा ।
नैवेद्यं त्वर्पयामास जलं कूपोदकं तथा ।। ३८।।
वन्यचन्दनकाष्ठैश्च धूपं दीपं चकार सः ।
वल्कलादीनि वस्त्राणि ददौ रामाय पूजने ।।३ ९।।
वल्लीतन्तूपनीतं ददौ पुष्पाणि भावतः ।
मिष्टं मधु ददौ क्षौद्रं तत्कालीनं फलादिकम् ।।1.479.४०।।
अकृष्टपच्यमृष्यन्नं सूर्यपक्वं ददौ मुदा ।
वह्निपक्वानि शिङ्ग्वादिबीजानि प्रददौ तथा ।।४१ ।।
मृगाश्च पक्षिणश्चान्ये पशवो भयवर्जिताः ।
रामनामश्रवास्तत्र समायान्ति मुमुक्षवः ।।४२।।
तिष्ठन्ति स्थैर्यभावेन यावत्पूजा प्रवर्तते ।
रात्रौ वसन्ति तत्रैव रामनामश्रवोत्सुकाः ।।४३ ।।
तेभ्यो रामप्रसादं स पत्रं पुष्पं फलं जलम् ।
कन्दं कणादिकं दत्वा ततो भुंक्तेऽतिहर्षतः ।।४४।।
वन्या अतिथयः क्वापि समागच्छन्ति दैवतः ।
कृष्णरूपाँस्तु तान्मत्वा सेवते परमादरात् ।।४५।।
न विस्मरति रटनं रामरामेति वै क्षणम् ।
जाताऽस्य जपसामर्थ्याद् वाक्सिद्धिरन्यदुर्लभा ।।४६ ।।
उपतिष्ठन्ति रत्नानि वाल्मीक्यभीप्सितानि वै ।
एकदा स ग्रीष्मकाले वने शुष्केऽतितापने ।।४७।।
फलपत्रदलहीने न लब्ध्वा वै फलादिकम् ।
शुशोच श्रीहरेर्नित्यनैवेद्यार्थं करोमि किम् ।।४८।।
नास्ति पत्रादिकं भक्ष्यं कृष्णार्पणं ददामि किम् ।
इति सञ्चिन्त्य मनसा तिष्ठत्यूटजसन्निधौ ।।४९।।
करोति श्रीकृष्णनारायणरामहरेविभो ।
भावनां मे ग्रसित्वाऽद्य सन्तुष्टो भव केशव ।।1.479.५०।।
एवं वदति तत्रैव कश्चिद् गोपाल आगतः ।
दोग्ध्र्या गवा युतो वत्सतरासंयुक्तथाऽन्तिकम् ।।।५१ ।।
तमुवाच मुने त्वत्र स्थातुमिच्छामि वै क्षणम् ।
यास्ये वनान्तरं क्षण विश्रम्य तव चाश्रमे ।।।५२।।
इत्युक्त्वाऽश्वत्थछायायां स्थितः क्षणं गवा युतः ।
दुदोह पर्णपुटे तां दुग्धं तस्मै ददौ मुदा ।।५३।।
वाल्मीकस्त्वतिसंहृष्टो जग्राह पूजनाय तत् ।
देवेभ्यस्त्वर्पयित्वा तत् प्रासादिकं विभज्य च ।।५४।।
कृष्णनैवेद्यसंपूतं पपौ तस्मै ददौ तथा ।
तावत्तद्धृदये जातः प्रकाशोऽक्षरब्रह्मणः ।।५५।।
दिव्यं चक्षुः समुद्भूतं निरावरणसत्प्रभम् ।
गोपालं तं ददर्शाऽसौ श्रीकृष्णं राधिकापतिम् ।।।५६।।
कामधेनुयुतं भक्तनैवेद्यार्थं समागतम् ।
पुनर्गोपालमेवैनं ददर्श मायया हरेः ।।५७।।
अत्याश्चर्यभरश्चाऽयं तुष्टाव परमेश्वरम् ।
नित्यतृप्तिस्तथा जाता दुग्धेनाऽस्य हि शाश्वती ।।५८।।
कृष्णनारायणस्तावददृश्योऽभूत् क्षणान्तरे ।
वाल्मीकस्तं दिव्यरूपं स्मारंस्मारं ननर्त ह ।।५९।।
नित्यं सस्मार तं कृष्णं दिव्यं भक्तदयाकरम् ।
स एव रामरूपेण वल्मीकेन व्यलोकि वै ।।1.479.६ ०।।
भविष्यच्चरितं सर्वमदर्शि करगं यथा ।
नित्यं स राथयामास रामादित्यस्य चिन्तनम् ।।६ १ ।।
अन्ते ययौ हरेर्धाम वैकुण्ठं शाश्वतं पदम् ।
नहि पापकृतां चापि कृष्णभक्तावसद्गतिः ।।६२ ।।
अन्योद्धारमपि कर्तुं समर्था भगवज्जनाः ।
कामः क्रोधो मनोजीवश्चेन्द्रियाणि च वासनाः ।।६ ३ ।।
त एव सन्ति तद्रूपाः किन्तु कृष्णसमागमात् ।
जायन्ते दिव्यरूपास्ते सर्वेषां मुक्तिदायकाः ।।६ ४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽग्निशर्मणः पातिव्रत्यतपसा वाल्मीकित्वं सर्वज्ञत्वं मुक्तिश्च, सप्तर्षियोगाद् ऋषित्वं, गोपालधेनुरूपेण कृष्णदर्शनं चेत्यादिनिरूपणनामैकोनाशीत्यधिकचतुश्शततमोऽध्यायः ।।४७९।।