लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २२४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २२४
[[लेखकः :|]]
अध्यायः २२५ →

श्रीनारायण उवाच-
ततो गच्छेन्महादिव्यं गोपीतडागतीर्थकम् ।
यत्र कृष्णेन गोपीनां प्रथमं मेलनं ह्यभूत् ।। १ ।।
श्रायणे तत्र दानेन स्नानेन जपनेन च ।
मुक्तिं वै मानवो याति श्राद्धेन भजनेन च ।। २ ।।
श्रीकृष्णो द्वारिकासंस्थश्चोद्धवं भक्तपुंगवम् ।
गोकुलं प्रेषयामास गोपीनां सुहृदां तथा ।। ३ ।।
गोपानां च प्रियं कर्तुं वक्तुं च कुशलं स्वकम् ।
आगतं चोद्धवं दृष्ट्वा सोत्कण्ठा गोकुलागृहाः ।। ४ ।।
उद्धवं पूजयामासुर्वस्त्रालंकारभोजनैः ।
भुक्तवन्तं च विश्रान्तं यशोदा सुतवत्सला ।। ५ ।।
पप्रच्छाऽनामयं नन्दः पप्रच्छ कुशलं हरेः ।
कश्चिदास्ते सुखं कृष्णो रामश्च सुखमेधते ।। ६ ।।
कश्चित्स्मरति श्रीकृष्णश्चात्रत्यान् स्वप्रियान् जनान् ।
कच्चिदेष्यति श्रीकृष्णस्तारयिष्यति नोऽसुखात् ।। ७ ।।
कच्चित् कृष्णकुटुम्बं च सुसुख्यास्ते तथोद्धव ।
इति पृष्ट्वा स्नेहबाष्पपूर्णाक्षौ संबभूवतुः ।। ८ ।।
उद्धवस्तौ तथा ताँश्च गोकुलस्थान् जनाँस्तदा ।
मधुरैः कृष्णसन्देशैः स्नेहप्लुतैरजीजनत् ।। ९ ।।
नमस्कुर्वन्ति पितृभ्यां कृष्णो रामो वधूजनः ।
अनामयं च पृच्छन्ति तिष्ठन्ति क्षेमतश्च ते ।। 1.224.१ ०।।
समेष्यति द्रुतं कृष्णः सह रामेण गोकुलम् ।
विधास्यति सुखं सर्वं करिष्यति च वो हितम् ।। १ १।।
इति श्रीकृष्णसन्देशैः समाश्वास्योद्धवश्च तान् ।
सुखं सुष्वाप चैकान्ते श्रमनाशाय वै सः ।। १२।।
तावद् गोप्यो रथं दृष्ट्वा मुहुः सूर्यसमोज्ज्वलम्
कस्याऽयं कश्चागतोऽत्र विस्मिताश्चाययुस्तदा ।। १३।।
परस्परं समागत्य सर्वास्ता व्रजयोषितः ।
विविक्ते कृष्णसन्देशं प्रप्रच्छुः शोककर्षिताः ।। १४।।
कृष्णः कच्चित् सुखमास्ते कथं नात्र समागतः ।
अस्मत्प्राणान्परिगृह्य गतः कथं न चाऽऽगतः ।। १५।।
इति स्मृत्वा तदा गोप्यो रुरुदुः शोकमोहिताः ।
ईक्षमाणाः कृष्णदासं कृष्णस्नेहवशीकृताः ।। १६।।
आश्वासयामास ताश्चोद्धवो वाक्यैः सुखावहैः ।
कृष्णोऽपि च दिवारात्रं युष्मान्स्मृत्वा पुनः पुनः ।। १७।।
कन्दर्पपीडितो दुःखी भवते चिन्तयन् हि वः ।
तावद् गोप्योऽभवन् व्यग्राः प्राहुर्वाक्यानि नैकधा ।। १८।।
निर्दयोऽस्मान् परिगृह्य पश्चाच्च परित्यज्य सः ।
गतो पुनर्न चायाति पूतनाघ्नस्य का प्रिया ।। १९।।
गम्यते यत्र तत्रैव नूतना प्राप्यते प्रिया ।
नागरस्त्रीसंवृतस्य नास्त्यस्माभिः प्रयोजनम् ।।1.224.२०।।
किं कर्तव्यं क्व गन्तव्यं कथं मिलिष्यति प्रभुः ।
विलपन्त्य इति वाक्यैः स्मरन्त्यो रुरुदुर्हरिम् ।। २१ ।।
भक्तिमेकान्तिकीं तासां दृष्ट्वोवाच तदोद्धवः ।
सर्वासां सफलं जन्म जीवितं यौवनं धनम् ।।।२२ ।।
यासां भवति श्रीकृष्णे भक्तिरव्यभिचारिणी ।
ताश्च प्राहुर्नयाऽस्माँस्त्वं यत्रास्ते प्राणवल्लभः ।। २३ ।।
तासां भावं दृढं ज्ञात्वोद्धवश्च बाढमाह ताः ।
उद्धवेन समं सर्वा जग्मुः कृष्णेक्षणेच्छया । । २४।।।
गायन्त्यः कृष्णगीतानि ययुस्ता द्वारकां प्रति ।
अध्वश्रमो न वै स्पृष्टः कृष्णमानसयोगतः ।। २५।।
सम्प्राप्ता मयखनिततडागस्य तटे तु ताः ।
उद्धवः प्रणिपत्याह तिष्ठन्तु चात्र गोपिकाः ।। २६ ।।
निवेदयितुं गच्छामि कृष्णो हितं विधास्यति ।
उक्त्वैवं च ययौ कृष्णं प्रत्युद्धवो जगाद च ।। २७।।
सरस्तटे स्थिता गोप्यो यथेच्छसि तथा कुरु ।
कृष्णः शीघ्रं तडागं वै नरयानेन संययौ । । २८ । ।
आयान्तं प्राणरूपं तं भ्राजमानं विभूषितम् ।
ज्वलत्किरीटमुकुटहारमकरकुण्डलम् । । २९ । ।
श्रीवत्सांकं महाबाहुं पीताम्बरसुवाससम् ।
सातपत्रसुचामरस्वर्णयष्टिसुनक्तकम् । । 1.224.३० । ।
दृष्ट्वा कान्तं च ताः परिषस्वजिरे समन्ततः ।
हस्ते पृष्ठे स्तने गण्डे कण्ठे मूर्ध्नि कपोलके । । ३१ । ।
मुखे नेत्रे चिबुकेंऽसे उरस्युरौ च पार्श्वयोः ।
कट्यां सक्थ्नि पदे चाग्रे वस्त्रे धौत्रे तथोदरे । । ३२। ।
स्पृष्ट्वाऽऽश्लिष्य मुहुः कृष्ण चुचुम्बः प्रेमविह्वलाः ।
प्रियं प्रियाश्चिरं दृष्ट्वा मुमुहुः रुरुदुर्भृशम् ।। ३३ । ।
हा नाथ कान्त हा स्वामिन् हा व्रजेश मनोहर ।
सर्वास्त्वया परित्यक्ताः कथं रुष्टोऽसि शुष्कहृत् ।। ३४। ।
पितृमातृपरित्यागिन् भक्तत्यागिन् जनार्दन ।
परित्यक्ता वयं कृष्ण पुनर्नाऽवेक्षितास्त्वया । । ३५। ।
कथं सह्यो विरहस्ते कथं नेष्याम आर्तिहन् ।
दिवसान्नाथविधुरान् यथेच्छसि तथा कुरु । । ३६। ।
भावज्ञो भगवाँस्तासां श्रुत्वा ता अन्वशिक्षत ।
भवतीनां वियोगो मे कदाचिदपि नास्ति वै ।। ३७। ।
अहं सर्वान्तरात्माऽस्मि भवतीनां विशेषतः ।
पतिरूपेण मे योगो वित्थ भवति सर्वदा । । ३८। ।
कामः सुखं सदानन्दो मत्तः सर्वं प्रवर्तते ।
एतज्ज्ञात्वा महासाध्व्यो मा कुरुध्वं वृथा शुचम् ।।३ ९।।
इति कृष्णवचः श्रुत्वा समाश्लिष्य मुहुर्मुहुः ।
दीर्घविरहजं तापं तत्यजुश्चातिनिर्वृताः ।।1.224.४०।।
अद्य नः सफलं जन्म त्वद्य नः सफला दृशः ।
पश्यामस्त्वां हरे कृष्ण प्राहुश्चेति च ता मुहुः ।।४१।।
कृष्णः प्राह च ताः सर्वास्तडागं चात्र कारये ।
गोपीतडागनाम्ना वै प्रसिद्धिं यास्यति ध्रुवम् ।।४२।।।
यत्र मद्दर्शनं जातं पूर्णकामाः कृता मया ।
मया सहैव स्नानं च कुर्वन्त्वद्य हि गोपिकाः ।।४३।।
इति कृत्वा हरिः स्नातो गोपिकाभिः समं तदा ।
भोजिता गोपिकास्तत्र मिष्टान्नैः पिण्डकादिभिः ।।४४।।
विहृत्यैवं जले कृष्णो नित्यं चायाति मन्दिरम् ।
सर्वाश्च स्म सुखयति कामेन सुखदो हरिः ।। ४५।।
श्रावणस्य सिते पक्षे स्नात्वा सरसि वै पितॄन् ।
तर्पयिष्यति द्वादश्यां तेषां तृप्तिस्तु शाश्वती ।।४६।।
दानं दद्यात्तथा पितॄनुद्दिश्य मां विचिन्त्य यः ।
लभते वैष्णवं लोकं पितृभिः सह शाश्वतम् ।।४७।।
अर्घं देयं तथा कार्यं श्राद्धं देया च दक्षिणा ।
पायसान्नं घृतं भोजनीयं सशर्करं शुभम् ।।४८।।
वस्त्रं छत्रं कम्बलं च शाटी कंचुकी घर्घरी ।
दाने देयास्तडागेऽत्र स्मृत्वा मां भवतीस्तथा ।।४९।।
पुत्रपौत्रसमायुक्ता धनधान्यसमन्विताः ।
भुक्त्वा भोगान्बहूनत्राऽन्ते प्राप्स्यन्त्यक्षरं पदम् ।।1.224.५०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने उद्धवेन सह गोकुलगोपीनां कृष्णेन सह गोपीतडाके समागमेन तीर्थमाहात्म्यकथननामा चतुर्विंशत्यधिकद्विशततमोऽध्यायः ।। २२४ ।।