लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २१८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २१८
[[लेखकः :|]]
अध्यायः २१९ →

श्रीनारायण उवाच-
अथ पुरीं समाद्रष्टुं ब्रह्मा पत्न्या सहाऽऽययौ ।
भवो भवान्या सहितोऽनन्तो धर्मश्च भास्करः ।। १ ।।
हुताशश्च कुबेरश्च वरुणः पवनो यमः ।
रुद्राश्चैकादश चन्द्रो महेन्द्रो वसवस्तथा ।। २ ।।
आदित्याः किन्नरा दैत्या गन्धर्वा आययुस्तदा ।
विमानस्थैर्वटमूले स्थितः कृष्णश्च वन्दितः ।। ३ ।।
स्तुतस्तैर्द्वारिका दृष्टा रम्या चातिमनोहरा ।
मुक्तामाणिक्यहीरकरत्नराजिविराजिता ।। ४ ।।
परितश्चतुरस्रा च दशयोजनविस्तृता ।
साप्तभिः परिखाभिश्च गंभीराभिः सुवेष्टिता ।। ५ ।।
प्राकारैर्नवभिर्युक्ता जलक्रीडासरोवरैः ।
विविधैर्जलपद्मैश्च कल्हारैः कमलैस्तथा ।। ६ ।।
सर्वतोभद्रवृक्षैश्च पुष्पोद्यानैः समन्ततः ।
शोभिता फुल्लपुष्पैश्चाऽनिलैश्च सुरभीकृता ।। ७ । ।
मन्दचन्दनवृक्षैश्च तुलसीद्रुभिरञ्चिता ।
आमोदिता सुगन्धिभिः पवनैर्मन्दशीतलैः ।। ८ ।।
नारिकेलतरुषण्डैः पूगाभिरतिशोभिता ।
लक्षाधिगुणगुवाकद्रुमैश्चापि विभूषिता ।। ९ ।।
ततोऽपि च चतुर्गुणचूतवृक्षैः सुमण्डिता ।
प्रकाशिता परितश्च तावद्भिः पनसद्रुमैः ।। 1.218.१० ।।
तथा तालद्रुमैर्युक्ताऽश्वत्थबदरिकादिभिः ।
वटैराम्रातकैर्बिल्वैर्जम्बूकदम्बवंशकैः ।। ११ ।।
शाल्मलीतिन्तिडीनागरंगैर्जम्बीरदाडिमैः ।
चम्पकैर्बकुलैर्नागेश्वरैरर्जुनखर्जुरैः । । १ २।।
इक्षुभिः कांचनैर्हरीतकीधात्रीभिरिन्दुभिः ।
शालैः प्रियालैर्हिन्तालैः शिशिरैः सप्तपर्णकैः ।। १३ ।।
वल्लीभिः परितो व्याप्ता स्वर्णकलशमण्डिता ।
नवलक्षैः रम्यसौधैः रम्योच्चमन्दिरैर्युता ।। १४।।
रत्नेन्द्रसारनिर्माणमुक्तामाणिक्यभूषिता ।
माणिक्यहीरकरत्नस्वर्णकलशमन्दिरा ।। १५ ।।
मणिनिर्मितसोपानकपाटभित्तिकायुता ।
हरिन्मणिकृतस्तम्भश्वेतस्फटिकसत्तला ।। १६ ।।
चित्रविचित्रसुसूक्ष्मवस्त्रचामरदर्पणा ।
पद्मरागपरिक्लृप्तप्रांगणा श्वेतसद्गृहा ।। १७। ।
इन्द्रनीलमणिव्याप्तरथ्यावीथीसमन्विता ।
रत्नखचितमध्यादिराजमार्गादिशोभिता ।। १८ ।।
ग्रीष्ममध्याह्नसूर्याभा ज्वलिता रत्नतेजसा ।
गवाक्षलक्षसंयुक्तमहत्सौधादिपंक्तिका ।। १ ९।।
हस्तिशाला वाजिशाला हंसगरुडजालिका ।
दृष्टैवं द्वारिका रम्या देवैः सर्वैः समागतैः ।। 1.218.२० ।।
आनर्तः शुशुभे देशः शतयोजनभूतले ।
द्वारिकया मिलितश्च द्विगुणवत् स लक्ष्यते ।। २१ ।।
अथ कृष्णः प्रसस्मार वसुदेवं च देवकीम् ।
उग्रसेनं यादवाँश्च पाण्डवाँश्च समातृकान् ।। २२।।
नन्दं यशोदां गोपालान् गन्धर्वान् किन्नरान् मुनीन् ।
आययुः संस्मृताः सर्वे कृष्णकृष्णेतिवादिनः ।। २३ ।।
कृष्णप्रतापाद् दिव्यास्ते दिव्यव्योमगतिप्रभाः ।
विद्याधर्यश्च किन्नर्यो नर्तक्यो गायिकास्तथा ।।२४।।
गायका वाद्यभाण्डाश्च भट्टा गणकभिक्षुकाः ।
अनेकदेशवासीया भूपा वैद्याश्च भूसुराः ।।२५।।
न्यासिनो यतयो वानप्रस्थाश्च ब्रह्मचारिणः ।
अवधूतास्तथा सिद्धा आययुर्मुनयस्तथा ।। २६।।
सनन्दः सनकः सनातनः सनत्कुमारकः ।
सनत्सुजातश्च वोढा पञ्चशिखस्तथाऽऽसुरिः ।। २ ७।।
ब्रह्मचर्यव्रतपाला आययुर्लक्षशो जनाः ।
दशसाहस्रशिष्याढ्यो दुर्वासास्तत्र चाययौ ।। २८ ।।
पत्नीव्रतो महाब्रह्मस्वरूपो भगवान्स्वयम् ।
लक्षशिष्यसहितश्चाययौ कृष्णनिकेतनम् ।। २९ ।।
लक्षशिष्यैः कश्यपश्च वाल्मोकश्च सहस्रयुक् ।
लक्षशिष्यैर्गौतमश्च कोटिदेवैर्बृहस्पतिः । । 1.218.३० ।।
शुक्रोऽपि कोटिशिष्यैश्च भरद्वाजः सलक्षकः ।
अंगिरोऽयुतशिष्यैश्च वसिष्ठोऽयुतशिष्यकः ।। ३१ ।।
प्रचेताः शतशिष्यैश्च पुलस्त्यश्च सहस्रयुक् ।
अगस्त्योऽयुतशिष्यश्च पुलहश्च सहस्रयुक् ।। ३ २।।
शतशिष्यः क्रतुश्चाऽत्रिर्भृगुश्चापि तथाऽनुगः ।
तथा सहस्रशिष्यश्च मरीचिस्तत्र चाययौ ।। ३३ ।।
पञ्चशतानुगः शतानन्दश्च पाणिनिस्तथा ।
सहस्रशिष्यैर्युक्तश्च ऋष्यशृंगो विभाण्डकः ।। ३४।।
कात्यायनस्तथा याज्ञवल्क्यः सहस्रवान् ययौ ।
सहस्रशिष्यकैर्व्यासो गर्गः शिष्यैः शताधिकैः ।। ३५ ।।
गालवश्च शतेनापि सौभरिर्विंशतिर्जनैः ।
लोमशो दशलक्षैश्च मार्कण्डेयस्त्रिलक्षकैः ।। ३६ ।।
सान्दीपनिर्देवलश्च स्वशिष्यैश्च शतैः शतैः ।
बोढुः पञ्चशिखश्चैतौ षष्टिशिष्यप्रशिष्यकैः ।। ३७।।
नरो नारायणश्चैतौ तापसैर्बहुसंख्यकैः ।
विश्वामित्रस्तथा वत्सः ययौ शिष्यसहस्रकैः ।। ३८ ।।
जरत्कारुरास्तीकश्च पर्शुरामश्च दक्षकः ।
संवर्तो जैमिनिश्चापि पैलश्चापि निजानुगैः ।। ३९ ।।
उपमन्युः शुकदेवः कचो गौरमुखस्तथा ।
लालायनाद्याश्चाप्यन्येऽश्वत्थामा द्रोण इत्यपि ।।1.218.४० ।।
कृपो भीष्मश्च कर्णश्च तथाऽन्ये युगदेवताः ।
सुदिव्यौ कम्भरागोपालाख्यौ शिष्यैः समाययुः ।।४ १ ।।
साध्या विश्वे मरुतश्च यक्षाश्च वास्तुकर्मणि ।
चारणाः पितरो रुद्रा मातृका दिक्प्रपालकाः ।।४२।।
चतुःखनिजदेह्याद्याः पातालादिगतास्तथा ।
ग्रहनक्षत्रताराश्च कृष्णवास्तौ समाययुः ।।४३। ।
वसवो निधयश्चैव परे सप्तर्षयस्तथा ।
प्रजापतयो मनवो वालखिल्याः समग्रत ।। ४४।।
धर्माऽधर्मकुलोत्थाश्च वसन्ताद्याः षडर्तवः ।
कामाद्याश्चाप्सरसश्च पर्यो देव्यश्च दासिका । ।४५।।
साधवो यतयः साध्व्यः सन्यासिन्यो विरागिकाः ।
सांख्ययोगिन्य एवेयुः कृष्णो वास्तुं करोति वै ।।४६।।
अवधूत्यस्तथा चण्ड्यो दुर्गा माया रमादिकाः ।
लक्ष्म्यो जयाविजयाद्याः सख्यो माणिक्यकन्यकाः । ।४७।।
प्रभा च पार्वती गायत्री सावित्री सरस्वती ।
गोप्यो गोपा गोलोकस्थास्तथा वैकुण्ठवासिनः । ।४८।।
कुमार्यश्च कुमाराश्च ब्रह्मचारिण्य इत्यपि ।
शक्तयः स्मृद्धयः सिद्धिमूर्तयश्चाययुस्तदा । ।४९।।
तत्त्वानि वेदशास्त्राणि विद्याश्च विविधाः शुभाः ।
गुणा ऐश्वर्यसामर्थ्यमुक्तमुक्तान्य आययुः ।।1.218.५० ।।
चत्वार आश्रमा वर्णा दीना अनाथदेहिनः ।
लोकाऽलोका आययुर्वै कृष्णो वास्तुं करोति यत् ।।५१।।
शृणु लक्ष्मि! यत्र सर्वतीर्थतीर्थेश्वरेश्वराः ।
समाययुश्च सा भूमिर्वर्णनीया मया किमु ।।५२।।
सर्वतीर्थपरा श्रेष्ठा द्वारिका बहुपुण्यदा ।
यस्यां प्रवेशमात्रेण जन्ममृत्युविनाशनम् ।।५३ ।।
दानं श्राद्धं देवपूजाऽनन्तगुणफलप्रदम् ।
तीर्थानां तीर्थरूपं तत् किं तीर्थं द्वारकापरम् ।।५४।।
उग्रसेनो महाराजः सदा कृष्णाज्ञयाऽवसत् ।
स्वालयं द्वारकामध्ये महेन्द्रभवनात्परम् ।।५५।।
सहस्रैर्द्वारपालैश्च द्वारं ददर्श रक्षितम् ।
अभ्यन्तरं च शिबिरं द्वारेभ्यः षड्भ्य एव च ।।५६।।
मन्दिराणां शतकैश्चरत्नफलशशालिनाम् ।
मत्तायुतगजेन्द्राणां तुरगाणां तथाऽयुतम् ।।५७।।
उष्ट्राणामयुतं चापि रथानामयुतं तथा ।
अर्धलक्षं सारथीनां ददर्श राजपुंगवः ।।।५८।।
ददर्शाभ्यन्तरे रम्ये देवौघमुनिसंस्थिताम् ।
सुधर्माख्यां सभां दिव्यां स्वर्णसिंहासनान्विताम् ।।५९।।
शुद्धांशुकैः परिष्कृतां रत्नतेजःसमुज्ज्वलाम् ।
प्रविवेश सभां रम्यां शुश्राव शंखसद्ध्वनिम् ।।1.218.६० ।।
निनादं च दुन्दुभीनां मुनीनां वेदघोषणाम् ।
श्रुत्वा सभां प्रविशन्तं ह्युग्रसेनं हरिर्बलः ।।६ १ ।।
ब्रह्मा शिवस्तथा विष्णुः शेषश्च देवपुंगवाः ।
समुत्तस्थुः सुराः सर्वे मुनयो मानवास्तथा ।।६२।
रत्नसिंहासने रम्ये समुवास नृपेश्वरः ।
उग्रसेनश्च देवानां हरेर्गर्गस्य चाऽऽज्ञया ।। ६३ ।।
सप्ततीर्थोदकपूर्णकुंभेन तत्र नारदः ।
चकार वेदमन्त्रैश्च नृपस्याप्यभिषेचनम् ।। ६४।।
तस्मै वस्त्रयुगं दत्तं वरुणेन महात्मना ।
माल्यं च पारिजातानां चन्दनं रत्नभूषणम् ।। ६५।।
रत्नछत्रादिकं तस्मै बलदेवो ददौ पृथक् ।
ददौ कमण्डलुं ब्रह्मा त्रिशूलं च महेश्वरः ।।६६ ।।
पार्वती रत्नमाल्यं च मुकुटं कृष्ण एव सः ।
स्वर्णभूषाश्च राजेन्द्राः प्रजाश्चोपायनानि च ।। ६१७ ।।
अन्ये चतुर्दशलोकवासाश्च यौतकं ददुः ।
वसुदेवो ददौ तस्मै श्वेतं तु चामरद्वयम् ।।६८ ।।
नन्दो ददौ कामधेनुं यशोदा रत्नमालिकाम् ।
दधार छत्रमक्रूरो भक्त्या श्रीकृष्णदेशनात् ।।६ ९ ।।
रत्नसिंहासने रम्ये राजा ददर्श दर्पणम् ।
शुश्राव पुण्यवाचश्च भट्टभिक्षुकवेदिनाम् । ।1.218.७० ।।
ददुः शुभाशिषस्तस्मै देवाश्च मुनयो द्विजाः ।
ब्राह्मणोभ्यो भिक्षुकेभ्यो ददौ रत्नानि कोटिशः । ।७ १ । ।
वस्त्रान्नभोजनपानस्वर्णपात्राणि भूरिशः ।
सर्वेभ्यो दानपात्रेभ्यो ददौ दानानि माधवः ।। ३२ ।।
वास्तुयज्ञं हरिः कृष्णश्चकार सर्वमंगलः ।
भोजयामास सर्वांश्चाऽन्नानि तद्रुचिराणि वै ।।७३ ।।
सभायां श्रीकृष्णदेवं नेमुर्लोकनिवासिनः ।
प्राहुश्च भगवन् रम्या द्वारिकाऽतिमनोहरा । ।७४। ।
तव बाहुपरित्राणा पावनी पापनाशिनी ।
पुरी नैतादृशी चात्र ब्रह्माण्डेऽन्या हि वर्तते ।।७५ । ।
अस्माकं यानि भौमानि विस्मृतान्येव दर्शनात्। ।
नैतादृशं परं दिव्यं स्थानं क्वापि विलोक्यते । ।७६ । ।
इत्येवं सा प्रशंसिता नगरी द्वारका सुरैः ।
अथ कृष्ण उपदाश्च तेभ्यो दातुं प्रचक्रमे । ।७७। ।
तदा ब्रह्मादयो देवा ईश्वरा लोकपालकाः ।
ऋषयो मुनयो देव्यो देवजातय एव याः । ।७८। ।
समुद्राः सरितो दिव्याः पर्वताः क्षेत्रभूमयः ।
अरण्यानि च धामानि पूर्यो वनानि चापगाः । ।७९ । ।
सरांसि च तडागाश्च शिखराणि च कन्दराः ।
देवालयास्तथा खाता अखाताः पावनस्तराः ।।1.218.८० ।।
मूर्तिमन्तो हरिं नत्वा प्रार्थयामासुरादरात् ।
भगवन्परमेशान तवाशिषः शुभावहाः ।।८ १ ।।
श्रेयोमोक्षप्रदाः सर्वा उपदा नातिरिच्यते ।
उपदास्तु चार्थयामो यदि ते रोचते प्रभो ।।८२।।
दिव्यरूपैः सदाऽस्माभिः स्थेयं चात्र पदे तव ।
तव योगान्महानन्दो भविष्यत्येव नः सदा ।।८३ ।।
पावनाश्च भविष्यामस्तीर्थसंघास्तवस्पृशेः ।
द्वारकायां सदाऽस्माँस्त्वं रक्षय श्रीहरे प्रभो ।।८४।।
कृपां कुरु कृपानाथ वत्स्यामोऽत्र पदे तव ।
अन्यत्राऽस्मासु पापिष्ठाः पापानि क्षालयन्ति वै ।। ८५ ।।
दत्वा नो यान्ति ते सर्वे वयं पापेन चावृताः ।
तव पादे पतिष्यामः क्षालयिष्याम एव च ।।८६ ।।
पापानि च भविष्यामो पावनानि पदे तव ।
तस्मात्प्रभो सदाऽऽवास देहि चात्र पुरे तव ।।८७।।
यत्र क्वापि प्रसीम्न्यत्र वने तीरे बहिस्तथा ।
परितः पार्श्वतश्चापि निवत्स्यामः सुखं सदा ।।८८। ।
दर्शनं ते करिष्यामोऽमृतं पास्याम एव ते ।
पादप्रक्षालनपूतं वहिष्यामः शिरःसु च ।।८९ ।।
सार्थक्यं जन्मनामत्र यास्यामस्तव पादयोः ।
इत्यर्थनां हरिः श्रुत्वा प्राह सर्वान् प्रभून् तदा ।। 1.218.९० ।।
सर्वे वसन्तु सुखिनो द्वारिकायां यथायथम् ।
नारदोऽयं मम भक्तः स्थलीः सन्दर्शयिष्यति ।। ९१ ।।
तीर्थानि तानि युष्माकं भविष्यन्ति च नामभिः ।
तत्र तत्र स्थले स्थेयं मया सह निरन्तरम् ।। ९ २।।
इत्याज्ञां समनुप्राप्य श्रीकृष्णस्य परात्मनः ।
सर्वदेवाधितीर्थानि न्यूषुरानर्तभूस्तरे ।। ९ ३।।
पूर्वे नगरपर्यन्तं दक्षिणे रैवताचलम् ।
उत्तरेनारायणाख्यसरोऽवधि भूवत्सलम् ।। ९४।।
सर्वं तीर्थमयं देवमयं पदे पदेऽभवत् ।
ततः कृष्णश्च तान् सर्वानाहूय कृतवासकान् ।। १५।।
भावतः पूजनं कृत्वा भोजयामास सद्रसान् ।
सदन्नानि सुमुन्यन्नोत्तमानि पेयवारि च ।। ९६ ।।
पूजां चकार सर्वेषां मुनीनां च यथायथम् ।
मणिरत्नं प्रवालं च सुवर्णं परमं धनम् ।। ९७।।
मुक्तामाणिक्यहीरादि ह्यागतेभ्यो ददौ मुदा ।
गजरत्नं धेनुरत्नं घोटकाँश्च मनोहरान् ।। ९८।।
आसनानि च पात्राणि भूषणानि मणींस्तथा ।
धान्यान्यपि च सस्यानि वस्त्राणि च ददौ बहून् ।।९ ९ ।।
यानानि वाहनान्येव विमानानि च माधवः ।
दापयामास सामग्रीर्गृहयोग्याश्च केशवः ।। 1.218.१० ०।।
दुन्दुभीन्वादयामास कारयामास मंगलम् ।
सर्वांश्च भोजयामास वासयामास सर्वतः ।। १०१ ।।
अथ तीर्थानि चाहूय भगवानाह तत्त्वतः ।
कलौ समागते पापा भविष्यन्ति च मानवाः ।। १० २।।
द्वारिका दिव्यनगरी तेषामुद्धारहेतवे ।
सर्वतीर्थाधिवासेयं मया वै स्थापिता भुवि ।। १०३ ।।
कलिकल्मषकृष्णा ये जनाश्चात्र जले स्थले ।
तीर्थविधिं करिष्यन्ति यास्यन्ति धाम ते मम ।। १ ०४।।
जन्ममृत्युजराव्याधिहरं हर्षकरं परम् ।
शोकसन्तापहरणं कर्ममूलनिकृन्तनम् ।। १ ०५।।
द्वारिकास्थं परंब्रह्म भगवन्तं च मां हरिम् ।
ध्यायं ध्यायं च मां भक्तिं लब्ध्वा यान्तु परं पदम् ।। १ ०६।।
यदा कलिः समायाति धर्ममूलनिकृन्तनः ।
स्त्रीपुंसोर्नियमौ नास्ति जातीनां नियमोऽपि न ।। १ ०७।।
विप्रे सन्ध्यादिकं नास्ति चिह्नं यज्ञोपवीतकम् ।
यज्ञसूत्रं च तिलकं शेषं लुप्तं भविष्यति ।। १ ०८।।
दिवा व्यवायनिरता विरता धर्मकर्मणि ।
भविष्यन्ति तथा चौरा नरा नार्यो गृहे गृहे ।। १ ०९।।
यज्ञानां च व्रतानां च तपसां लोप एव च ।
स्वच्छन्दगामिनीनारीवशे पतिः सदा भवेत् ।। 1.218.११० ।।
ताडयेद् भर्त्सयेद् वा स्त्री पतिं नारी प्रधानभूः ।
कलौ च योषितः सर्वा जारसेवासु तत्पराः ।। ११ १ ।।
शतपुत्रसमस्नेहस्तासां जारे भविष्यति ।
ददाति पतये भक्ष्यं यथाभृत्याय कोपतः ।। ११ २।।
सस्मिता सामृतदृष्ट्या जारं पश्यति कामतः ।
विषदृष्ट्या क्रूरदृष्ट्या पतिं पश्यति रोषतः ।। ११३।।
सततं गौरवं तस्या स्नेहं जारे च तादृशे ।
पत्यौ करप्रहारं च नित्यं नित्यं करोति वै ।। १ १४।।
मिष्टान्नं श्रद्धया भक्त्या जाराय प्रददाति च ।
वेषयुक्ता च सततं जारसेवनतत्परा ।। १ १५।।
प्राणा बन्धुर्गतिश्चात्मा कलौ जारश्च योषितः ।
लुप्ता चातिथिसेवा च प्रलुप्तं विष्णुसेवनम् ।। १ १६।।
पितृदेवार्चनं लुप्तं भविष्यति कलौ युगे ।
विष्णुवैष्णवयोर्द्वेषकर्तारो मानवाः कलौ ।। १ १७।।
भविष्यन्ति वामधर्मग्रहितारो जनास्तदा ।
शालग्रामं च तुलसीं कुशं गंगोदकं तथा ।। १ १८।।
न स्पृशेन्मानवो धूर्तो म्लेच्छाचारपरायणः ।
कलेः पञ्चसहस्रोर्ध्वं मदर्चा तु विलुप्यति ।। ११ ९।।
चतुःसहस्रकालोर्ध्वं गंगा यमी सरस्वती ।
तीर्थानि विष्णुभक्ताश्च विनंक्ष्यन्ति भुवस्तले ।। 1.218.१२० ।।
एतदन्ते कलौ सर्वे पग्स्परविमिश्रिताः ।
एकवर्णा भविष्यन्ति चाण्डाला बलिनः शठाः ।। १२१ ।।
पित्रोः सेवा गुरोः सेवा सेवा च देवविप्रयोः ।
विवर्ज्यते जनैः सर्वैश्चातिथीनां तथैव च ।। १२२ ।।
सस्यहीना भवेत् पृथ्वी वृष्टिहीना वसुन्धरा ।
फलहीनास्तथा वृक्षा जलहीनास्तथाऽऽपगाः ।। १२२३ ।।
वेदहीनो ब्राहणश्च बलहीनश्च भूपतिः ।
जातिहीना जनाः सर्वे म्लेच्छा भूपतयस्तथा । । १२४ । ।
भृत्यवत् ताडयेत् तातं पुत्रः शिष्यस्तथा गुरुम् ।
कान्तं च ताडयेत् कान्ता लुब्धकुक्कुटवद् गृही । । १२५ ।।
धर्मो लयं यदा यातो भविष्यति तदा जनाः ।
हृद्येषु मृषाकल्पा भविष्यन्ति कलौ युगे ।। १२६ ।।
स्वार्थ एव सुसम्बन्धो भविष्यति नवो नवः ।
प्रतारकाः कलिपुष्टा भविष्यन्ति गुरूत्तमाः ।। १२७ ।।
अधमेभ्योप्यधमाश्च नीचकर्माण एव च ।
हरेर्भक्तिं विना नैव तरिष्यन्ति कलौ खलाः ।। १२८ ।।
तेषामुद्धरणार्थाय द्वारका सर्वपावनी ।
सर्वतीर्थमयी भूमिः कालेयतारणक्षमा ।। १२९ ।।
यत्र नास्ति कलेर्लेशस्तादृशी स्थापिता भुवि ।
तत्र स्नानं दर्शनं च व्रतं चार्चनमर्थनम् ।। 1.218.१३० । ।
भजनं जलपानं च रजःस्नानं च कीर्तनम् ।
करिष्यन्ति जना भावात् ते यास्यन्ति परं पदम् । । १३१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दिव्यद्वारिकावर्णनं श्रीकृष्णत्मताऽसंख्यसुरमुन्याद्यागमनतत्पूजनतन्निवसन तत्तीर्थमाहात्म्यकलितारणप्रतापाश्चेत्यादिनिरूपणनामाऽष्टादशाधिकद्विशततमोऽध्यायः ।। २१८ ।।