लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १३४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १३४
[[लेखकः :|]]
अध्यायः १३५ →

श्रीनारायण उवाच-
कश्यपस्य च तौ पुत्रौ जातमात्रौ महाबलौ ।
हिरण्यसमवर्णाभौ महावीर्यबलोद्धतौ ।। १ ।।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजः स च ।
अप्रमाणशरीरोऽभूत् भ्रूस्तस्य पर्वतीसमा ।। २ ।।
स वै महाजले याति याति पवनमण्डले ।
गमने चान्तरीक्षे च दिवि याति पुनःपुनः ।। ३ ।।
ग्रहवद् भ्रमति व्योम्नि पाताले याति शेषवत् ।
प्रयाति पक्षिवत् मेरौ चाकाशे वैनतेयवत् ।। ४ ।।
अष्टावरणपारं वै याति कृष्णविमानवत् ।
महाकायो हिरण्याक्षो नो गणयति कंचन ।। ५ ।।
यथेच्छति तथा देहे वर्धयति क्षितिश्रवत् ।
यदा यदा विहारार्थे याति लोकान्तरे तदा ।। ६ ।।
चिन्तां करोति सः स्वीयजन्मगृहस्य तत्र वै ।
यदि कश्चिद्धरेन्मे वै गृहं स्वर्णमयं तदा ।। ७ ।।
निराधारो भविष्यामि विचार्याऽऽवर्तते पुनः ।
हिरण्याक्षेण सौधः स्वः कारितो विश्वकर्मणा ।। ८ ।।
मेरोर्नितम्बभूमौ ३ चान्तरीक्षे समस्तरे ।
पृथ्व्या ऊर्ध्व सहस्रं वै योजनानां समान्तरे ।। ९ ।।
योजनदशसाहस्रं परिणाहो गृहस्य वै ।
उच्छ्रायश्च सहस्रं वै योजनानां कृतस्तथा ]। 1.134.१० ।।
यावदिन्द्रस्य सूर्यस्य सोमस्य वरुणस्य च ।
बृहस्पतेर्वेधसश्च स्मृद्धयोऽस्याऽभवँश्च ताः ।। ११ ।।
नूतन मनसो भाव्यं सौम्यं वा सुन्दरं हि यत् ।
दृष्टिपथं चास्य यायाद्भवेत् तन्महतामपि ।। १२।।।
प्रसह्य तत्समानीय गृहे भुंक्ते ह्यकण्टकः ।
एवं स्मृद्ध गृहं तस्य मेरावासीत्स्वरन्यदुत् ।। १३।।।
एवं स्मृद्धं गृहं त्यक्त्वा याति विहारभूमिषु ।
तदा चिन्तां करोत्येव द्रोग्धुर्वै परतो भयम् ।। १४।।
अतः स एकदा सम्यगव्वृधे मेरुवन्महान् ।
उद्धाट्य बाहुसाहस्रे चोत्पाट्य च महीमिमाम् ।। १५।।
सान्तर्द्वीपां सशैलां च मेरोः सौधं वियुज्य च ।
मेरोर्दूरमुभौ नीत्वा प्रविवेश महाजलम् ।। १६ ।।
हाहाकारो महानासीत्पृथ्वीनाशे त्रयोदश ।
लोकाश्चात्राऽवशिष्यन्तेऽन्येषां नाशोऽपि वै भवेत् ।। १७।।
प्राणिसमाश्रिता सर्वा पृथ्वी नीता सपर्वता ।
सवनकानना सर्वा महादैत्येन संधृता ।। १८।।
कराऽऽमलकवन्नीता प्रापिताऽधो महाजलम् ।
ततो देवगणाः सर्वे चुक्रुशुर्भयपीडिताः ।। १९।।
शरणं प्रययुर्देवं नारायणहरिप्रभुम् ।
दुग्धाब्धितीरमासाद्य तुष्टुवुर्बहुविस्तरम् ।।।1.134.२० ।।
रक्ष त्राहि हरे पाहि प्रोच्य पेतुः पदोर्भुवि ।
रक्ष त्राहि हरे पाहि प्रोच्य पेतु पदार्हिकैः ।।२१ ।।
श्रुत्वा नारायणो देवः समागच्छत्पतत्त्रिणा ।
सर्वान् विश्वासयामास ज्ञातवानद्भुतं महत् ।।२२।।
शंखचक्रगदाधारी विश्वरूपी जनार्दनः ।
वाराहरूपमास्थाय संस्थितो देवसंयुतः ।
अनादिमध्यान्तवपुर्महादंष्ट्रो महाभुजः ।। २ ३ ।।
हाहाकारं महाशब्दं कुर्वन्रोमाणि धूनयन् ।
विश्वतः पाणिपाच्चक्षुःसर्वयज्ञमयो हरिः ।
कृष्णवर्णो मेघनीलो बभूव मेरुसन्निभः ।। २४ ।।
मुखां वाराहरूपं वै देहो नारायणात्मकः ।
शंखचक्रगदाखड्गशक्तिचर्मादिधृक्प्रभुः ।
जगाम तरसा व्योम्नाऽधोऽधोऽधो यन्महाजलम् । । २५ ।।
तस्य गतौ गतो भ्रान्तश्चक्रितोऽभून्महाऽनिलः ।
तदाधारा गृहाश्चापि कृष्यन्ते स्माऽस्य पृष्ठतः ।। २६ ।।
महाजलं यदा देवः प्रविष्टश्च तदाऽसुरः ।
भयेन तरसा व्याप्तोऽप्यभूद् युद्धाय तत्परः । । २७ ।।
पृथ्वीं कुक्षौ तदाऽऽस्थाप्य हिरण्याक्षो महासुरः ।
मेरुवज्जगृहे देहं गदां शैत्याचलोपमाम् । । २८ । ।
भ्रामयित्वा महादैत्यो युयोध जगदीश्वरम् ।
गदायुद्धं शतवर्षं बहुजातं विनाशकम् । । २९ ।।
तदा वाराहरूपोऽसौ हरिर्मेरुसमोऽभवत् ।
दंष्ट्रो च वर्धिता दीर्घा वज्रातिवज्रनिष्ठुरा ।। 1.134.३० ।।
पञ्चहिमालयस्थूला दशहिमाद्रिदीर्घिका ।
दंष्ट्राग्रं तु महातीक्ष्णं शतगव्यूतिमानवत् । । ३१ ।।
बलं वैराजदेहस्य प्राविर्भाव्य तदा हरिः ।
दंष्ट्रया तं महादैत्यं पफाड परमेश्वरः ।। ३२ ।।
मरणेऽकारि दैत्येन महारावो भयानकः ।
त्रासकृद्बाह्यसृष्टीनां वैराजेश्वरवासिनाम् ।। ३३ ।।
देवानामाह्लादकृच्च दैत्यादीनां भयंकरः ।
अव्याप्नोत्सर्वसृष्ट्यादावुत्सवोऽभूत् स्थले स्थले । । २४ ।।
संचूर्णितमहागात्रो ममार दितिजोऽधमः ।
पतितां धरणीं दृष्ट्वा स्वर्णसौधं च तत्र वै ।। ३५ ।।
दंष्ट्रयोद्धृत्य देवेशो ह्याजगाम भुवस्तलम् ।
मेरौ यथाऽभवल्लग्ना तथा पृथ्वीं सुयुज्य च । । ३६ ।।
तथैव दृश्यरूपोऽसौ जगाम वै स्वकं गृहम् ।
तत्र क्षीरनिधेस्तीरे क्रोडरूपं महाहरिम् ।। ३७ ।।
दृष्ट्वा वै देवता भक्तिनम्रास्तुष्टुवुरादरात् ।
नमो महावराहाय सुयज्ञमूर्तये नमः ।। ३८ ।।
नमो मेरुस्वरूपाय दैत्यघ्नाय नमोनमः ।
नमो महासुदंष्ट्राय धरणीधारिणे नमः । । ३९ ।।
समग्रवेदवेदांगमूर्तये ते नमोनमः ।
नमः सहस्रहस्ताय नमो विश्वस्वरूपिणे ।।1.134.४० ।।
सर्गस्थितिस्वरूपाय नमः कालस्वरूपिणे ।
नूत्नरूपधृते ते च सर्वत्राऽत्रे नमोनमः ।।४१ ।।
श्रीभूलीलारमालक्ष्मीकंभरापतये नमः ।
नमः शान्तस्वरूपाय सर्वान्तर्यामिणे नमः ।।४२।।
इति स्तुत्वा तया देवैर्मुनिभिः ऋषिभिर्भुवा ।
वाराहस्य हरेः पूजा कृतास्रक्चन्दनादिभिः ।।४३।।
समर्च्यमानस्तैर्देवैस्तेषामिष्टं वरं ददौ ।
यदा यदा च देवानामृषीणां मत्कलात्मनाम् ।।४४।।
आपदायात्तदा रक्षां करिष्ये स्मारितो यदा ।
इत्यभिधाय गन्धर्वैरप्सरोभिर्महर्षिभिः ।।४५।।
गीयमानस्स्तूमानस्तत्रैवान्तरधीयत ।
एवं क्रोडावताराश्च कल्पे कल्पे तदन्तरे ।। ४६ ।।
भवन्ति मे जलयोगे महाकार्ये ह्युपस्थिते ।
एतत्ते सर्वमाख्यातं वाराहं वैभवादिकम् ।।४७।।
हिरण्याक्षाद्बलिनोऽपि हिरण्यकशिपोर्वधे ।
नारसिंहं धृतं रूपं वक्ष्ये लक्ष्मि! शृणु प्रिये ।।४८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने स्ववैमानिकप्रासादेन सह पृथ्वीं नीतवतो हिरण्याक्षस्य वाराहरूपेण महाजले कृतसंहारादिवर्णननामा चतुस्त्रिंशदधिकशततमोऽध्यायः ।। १३४ ।।