लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २३०

विकिस्रोतः तः
← अध्यायः २२९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २३०
[[लेखकः :|]]
अध्यायः २३१ →

श्रीनारायण उवाच-
शंखोद्धारं महातीर्थं शंखासुरोऽत्र शार्ङ्गिणा ।
उद्धारितोऽस्ति कृष्णेन तत्र गच्छेत्तु मुक्तये ।। १ ।।
प्रभासाद्यानि तीर्थानि गंगाद्या आपगास्तथा ।
शैलाः समुद्राः क्षेत्राणि दिव्याश्चैत्यद्रुमास्तथा ।। २ ।।
अश्वमेधादयो यज्ञा महेन्द्राद्याश्च देवताः ।
भृग्वाद्याः ऋषयश्चैव गन्धर्वास्तुम्बुरुप्रथाः ।। ३ ।।
धनेशाश्च कुबेराद्या विश्वक्सेनादिपार्षदाः ।
ब्रह्मविष्णुमहेशाश्च सिद्धाश्चाप्सरसस्तथा ।। ४ ।।
पर्योऽथ किं बहुक्तेन त्रैलोक्यं जडचेतनम् ।
अध्यात्मसंसर्गगतं शंखोद्धारे प्रतिष्ठति ।। ५ ।।
ये स्मरन्ति गृहे नित्यं शंखोद्धारं महत्सरः ।
तेषां न पुनरावृत्तिर्यावदाभूतसंप्लवम् ।। ६ ।।
ये तु स्मरन्ति मनसा शंखोद्धारं च शंखिनम् ।
कुलकोटिशतैर्युक्ताः कृष्णलोके वसन्ति ते ।। ७ ।।
यत्फलं तु सरस्वत्यां सूर्यग्रहणकोटिभिः ।
यो यतीन् भोजयेद् भक्त्या नित्यमब्दशतं नरः ।। ८ ।।
शंखोद्धारे च नुः स्नातुः कलां नार्हन्ति षोडशीम् ।
त्रीणि कोटीनि सार्धानि तीर्थानां च मम प्रिये ।। ९ ।।
शंखोद्धारे निवासोऽस्ति सर्वतीर्थफलं ततः ।
ब्रह्महत्यासहस्राणि चाऽगम्याऽगमनानि च ।। 1.230.१० ।।
पापानि नाशमायान्ति शंखोद्धारजलस्पृशेः ।
यो दद्याद् गां गृहं स्वर्णे लभते कोटिजं फलम् ।। ११ ।।
कुरुक्षेत्रस्य वासेन गंगायां मरणेन च ।
गोमतीस्नानमात्रेण फलं शंखस्थदर्शनात् ।। १२।।
जलमध्ये समुद्रस्य द्वारका चातिदुर्जया ।
तस्या मध्ये स्थितो देवः शंखी पापप्रणाशनः ।। १ ३।।
ततः पिण्डारकं तीर्थं गच्छेद्वै पापनाशकम् ।
यत्र कृष्णश्चतुर्बाहुः स्वयं सन्तिष्ठते सदा ।। १४।।
सरित् रुक्मवती यत्र तत्र स्नात्वा विमुच्यते ।
अगस्त्यस्य ऋषेस्तत्र तडागं लोकविश्रुतम् ।। १५।।
स्नात्वा श्राद्धं तथा कृत्वा पितॄन्वै मोचयेत् सुतः ।
यज्ञवाटस्तथा तीर्थं यत्र पूर्वः प्रजापतिः ।। १६ ।।
यज्ञं चकार विधिना सवलोकहिताय वै ।
यज्ञनाशयितुर्हस्तौ यत्र दैत्यस्य कर्तितौ ।। १७।।
विष्णुना देवदेवेन तद्दृष्ट्वा मुच्यते ह्यघात् ।
पितरस्तत्र पिण्डान् वै समिच्छन्ति सुतृप्तये ।। १८।।
वैशाखे तु कृते श्राद्धे मुच्यते पातकत्रयात् ।
दानं श्राद्धं व्रतं जापस्तर्पणं कार्यमित्यपि ।। १९।।
अश्वमेधसहस्रस्य राजसूयशतस्य च ।
पदे पदे फलं स्याच्च द्वारकां गच्छतस्तु नुः ।।1.230.२०।।
पिण्डारकं स्मरतश्च तत्फलं भवति ध्रुवम् ।
श्रीकृष्णं मन्दिरे दृष्ट्वा शंखोद्धारे तु शंखिनम् ।। २१ ।।
पिण्डारके चतुर्बाहूम् वीक्ष्य मुक्तिमवाप्नुयात् ।
श्रीः कृष्णश्चक्रतीर्थं च पिण्डारकं च गोमती ।।२२।
गोपीचन्दनमेवापि तुलसी दुर्लभा कलौ ।
तानि मिलन्ति तु द्वारवत्यां कृष्णप्रसंगतः ।।२३।।
वर्द्धिनी द्वारका गंगा लक्ष्मीर्गोविन्द इत्यपि ।
गोमती गोपिकातालमृत्तिका चेति दुर्लभाः ।।२४।।
यस्य जागरणं जातं वर्धिनी द्वादशीदिने ।
पुनर्जन्मकृतं दग्धं तेन भक्तेन सर्वथा ।।।२५।।।
त्रिस्पृशावासरे येन कृतं जागरणं प्रिये ।
केशवस्य शरीरे वै स लीनो भवति ध्रुवम् ।।२६ ।।
कृष्णाय प्रेंखा दातव्या तस्याः पुण्यमनन्तकम् ।
स्वर्णप्रेंखा राजतीं वा काष्ठीया वा तथाऽऽम्बरी ।। २७।।
देया वै विष्णवे तस्याः फलं वैकुण्ठवासनम् ।
प्रेंखायां च हरिं कृष्णमान्दोलयेन्मुहुः शनैः ।। २८।।
कुर्याज्जागरणं चैव मोक्षदं पुण्यमत्र यत् ।
कन्यादानं गयाश्राद्धमश्वत्थारोपणं तथा ।।२९।।।
द्वादश्यां जागरश्चापि वाजिमेधाऽयुतैः समम् ।
निमिषे निमिषे लक्ष्मि! चाश्वमेधफलं भवेत् ।।1.230.३० ।।
सर्वे देवाश्च तीर्थानि मुक्ताश्च मुनयस्तथा ।
समायान्ति जागरणे ह्येकादश्यां निशि प्रभोः ।।३ १ ।।
यावत्पदानि गृहतः कृष्णस्याऽऽयतनं प्रति ।
जागरार्थं गच्छतश्च पादयोः पांसवः खलु ।।३२।।
स्पृशन्ति यावत्संख्यानि तावत्सहस्रवत्सराः ।
दिविं भोगान् प्रभुक्त्वा च गोलोकं धाम चाप्नुयात्। ।। ३२ ।।
एकदा शंकरं देवी पार्वती प्राह जागरे ।
कथं शंभो वादयन् वै रात्रौ डमरुं नृत्यसि ।।३४।।
शंभुः प्राह मया देवी हरिवासरजागरः ।
क्रियते कृष्णतुष्ट्यर्थं यत्राऽऽलस्यं भवेन्नहि ।।३५।।
यथाकथंचिदपि तु जागरितव्यमेव वै ।
संगीतेन सुनृत्येन कीर्तनेन सुरासतः ।।।३६ ।।
नरनारीसमुदायकृतोत्सवेन क्रीडया ।
कथया वार्तया तालीवादनेन च सेवया ।।३७।।
कृष्णं स्मरता भक्तेन जागरितव्यमेव यत् ।
यत्राऽऽलस्यं प्रमादो वा भवेन्नैव तथाऽऽचरेत् ।। ३८ । ।
इत्यहं कृष्णतुष्ट्यर्थं करोमि नृत्यजागरम् ।
त्वया पुनरिदं कार्यं स्मर्तव्यः कमलापतिः । । ३९ ।।
एकादश्यां न भोक्तव्यं कर्तव्यो जागरस्तथा ।
गोष्ठ्यां समागतस्तत्र सोपि याति परां गतिम् । । 1.230.४० ।।
मेरुमन्दरमात्राश्च कृताः पापस्य राशय ।
कृष्णजागरणे सर्वे उह्यन्ति तूलराशिवत् ।। ४१ ।।
सर्वतीर्थक्रतुभ्योऽपि जागरः कृष्णवल्लभः ।
सर्वे देवाः समायान्ति जागरे कृष्णवल्लभे ।। ४२।।
नार्यो भवन्ति हृद्याश्च जागरे कृष्णवल्लभाः ।
इत्युक्त्वा च हरोपि विरराम कृष्णवल्लभे! ।। ४३ । ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्वारिकायां शखोद्धारतीर्थपिण्डारकतीर्थरुक्मवती-
सरिदगस्त्यतडागयज्ञतीर्थैकादशीद्वादशीव्रतजागरणादिप्रशंसननामा त्रिंशदधिकद्विशततमोऽध्यायः । । २३० । ।