रामायणम्/युद्धकाण्डम्/सर्गः १३०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १२९ रामायणम्
सर्गः १३०
वाल्मीकिः
सर्गः १३१ →
रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः ६.१३०.००१
हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा 6.127.1 ६.१३०.००१
दैवतानि च सर्वाणि चैत्यानि नगरस्य च ६.१३०.००२
सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ६.१३०.००२
राजदारास्तथामात्याः सैन्याः सेनागणाङ्गनाः ६.१३०.००३
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् ६.१३०.००३
भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ६.१३०.००४
विष्टीरनेकसाहस्रीश्चोदयामास वीर्यवान् ६.१३०.००४
समीकुरुत निम्नानि विषमाणि समानि च ६.१३०.००५
स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम् ६.१३०.००५
सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा ६.१३०.००६
ततोऽभ्यवकिरंस्त्वन्ये लाजैः पुष्पैश्च सर्वतः ६.१३०.००६
समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे ६.१३०.००७
शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति ६.१३०.००७
स्रग्दाममुक्तपुष्पैश्च सुगन्धैः पञ्चवर्णकैः ६.१३०.००८
राजमार्गमसंबाधं किरन्तु शतशो नराः ६.१३०.००८
मत्तैर्नागसहस्रैश्च शातकुम्भविभूषितः ६.१३०.००९
अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः ६.१३०.००९
निर्ययुस्त्वरया युक्ता रथैश्च सुमहारथाः ६.१३०.००९
ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः ६.१३०.०१०
कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः ६.१३०.०१०
अश्वानां खुरशब्देन रथनेमिस्वनेन च ६.१३०.०११
शङ्खदुन्दुभिनादेन संचचालेव मेदिनी ६.१३०.०११
कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत् ६.१३०.०१२
द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः ६.१३०.०१२
माल्यमोदक हस्तैश्च मन्त्रिभिर्भरतो वृतः ६.१३०.०१३
शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः ६.१३०.०१३
आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः ६.१३०.०१४
पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम् ६.१३०.०१४
शुक्ले च वालव्यजने राजार्हे हेमभूषिते ६.१३०.०१५
उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः ६.१३०.०१५
भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः ६.१३०.०१६
प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह ६.१३०.०१६
समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् ६.१३०.०१७
कच्चिन्न खलु कापेयी सेव्यते चलचित्तता ६.१३०.०१७
न हि पश्यामि काकुत्स्थं राममार्यं परंतपम् ६.१३०.०१७
अथैवमुक्ते वचने हनूमानिदमब्रवीत् ६.१३०.०१८
अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम् ६.१३०.०१८
सदा फलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान् ६.१३०.०१९
भरद्वाजप्रसादेन मत्तभ्रमरनादितान् ६.१३०.०१९
तस्य चैष वरो दत्तो वासवेन परंतप ६.१३०.०२०
ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम् ६.१३०.०२०
निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् ६.१३०.०२१
मन्ये वानरसेना सा नदीं तरति गोमतीम् ६.१३०.०२१
रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति ६.१३०.०२२
मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः ६.१३०.०२२
तदेतद्दृश्यते दूराद्विमलं चन्द्रसंनिभम् ६.१३०.०२३
विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् ६.१३०.०२३
रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना ६.१३०.०२४
धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् ६.१३०.०२४
एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ ६.१३०.०२५
सुग्रीवश्च महातेजा राक्षसेन्द्रो विभीषणः ६.१३०.०२५
ततो हर्षसमुद्भूतो निस्वनो दिवमस्पृशत् ६.१३०.०२६
स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तितः ६.१३०.०२६
रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः ६.१३०.०२७
ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे ६.१३०.०२७
प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः ६.१३०.०२८
स्वागतेन यथार्थेन ततो राममपूजयत् ६.१३०.०२८
मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजः ६.१३०.०२९
रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः ६.१३०.०२९
ततो विमानाग्रगतं भरतो भ्रातरं तदा ६.१३०.०३०
ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम् ६.१३०.०३०
आरोपितो विमानं तद्भरतः सत्यविक्रमः ६.१३०.०३१
राममासाद्य मुदितः पुनरेवाभ्यवादयत् ६.१३०.०३१
तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् ६.१३०.०३२
अङ्के भरतमारोप्य मुदितः परिषष्वजे ६.१३०.०३२
ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः ६.१३०.०३३
अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत् ६.१३०.०३३
सुग्रीवं कैकयी पुत्रो जाम्बवन्तं तथाङ्गदम् ६.१३०.०३४
मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे ६.१३०.०३४
ते कृत्वा मानुषं रूपं वानराः कामरूपिणः ६.१३०.०३५
कुशलं पर्यपृष्हन्त प्रहृष्टा भरतं तदा ६.१३०.०३५
विभीषणं च भरतः सान्त्वयन् वाक्यमब्रवीत् ६.१३०.०३६
दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् ६.१३०.०३६
शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् ६.१३०.०३७
सीतायाश्चरणौ पश्चाद्ववन्दे विनयान्वितः ६.१३०.०३७
रामो मातरमासाद्य विषण्णं शोककर्शिताम् ६.१३०.०३८
जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् ६.१३०.०३८
अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् ६.१३०.०३९
स मातॄश्च तदा सर्वाः पुरोहितमुपागमत् ६.१३०.०३९
स्वागतं ते महाबाहो कौसल्यानन्दवर्धन ६.१३०.०४०
इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् ६.१३०.०४०
तन्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः ६.१३०.०४१
आकोशानीव पद्मानि ददर्श भरताग्रजः ६.१३०.०४१
पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् ६.१३०.०४२
चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् ६.१३०.०४२
अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः ६.१३०.०४३
एतत्ते रक्षितं राजन् राज्यं निर्यातितं मया ६.१३०.०४३
अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः ६.१३०.०४४
यस्त्वां पश्यामि राजानमयोध्यां पुनरागतम् ६.१३०.०४४
अवेक्षतां भवान् कोशं कोष्ठागारं पुरं बलम् ६.१३०.०४५
भवतस्तेजसा सर्वं कृतं दशगुणं मया ६.१३०.०४५
तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् ६.१३०.०४६
मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः ६.१३०.०४६
ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः ६.१३०.०४७
ययौ तेन विमानेन ससैन्यो भरताश्रमम् ६.१३०.०४७
भरताश्रममासाद्य ससैन्यो राघवस्तदा ६.१३०.०४८
अवतीर्य विमानाग्रादवतस्थे महीतले ६.१३०.०४८
अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम् ६.१३०.०४९
वह वैश्रवणं देवमनुजानामि गम्यताम् ६.१३०.०४९
ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ६.१३०.०५०
उत्तरां दिशमुद्दिश्य जगाम धनदालयम् ६.१३०.०५०
पुरोहितस्यात्मसमस्य राघवो बृहस्पतेः शक्र इवामराधिपः ६.१३०.०५१
निपीड्य पादौ पृथगासने शुभे॑ सहैव तेनोपविवेश वीर्यवान् 6.127.64 ६.१३०.०५१