राजमार्ताण्डः
- श्रीमद्भोजदेवकृतः राजमार्ताण्डः
समाधिपादः
[सम्पाद्यताम्]अथ योगानुशासनम् ॥ १ ॥
अनेन सूत्रेण शास्त्रस्य सम्बन्धभिधेयप्रयोजनान्याख्यायन्ते। अथ शब्दोऽधिकारद्योतको मङ्गलार्थकश्च। योगो युक्तिः समाधनम्। युज् समाधौ अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलैर्येन तदनुशासनम्। योगस्यानुशासनं योगानुशासनम्। तदा शास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः। तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः। तदव्युत्पादनञ्च फलम्। व्युत्पादितस्य योगस्य कैवल्यं फलम्। शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः। अभिधेयस्य योगस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः। एतदुक्तं भवति व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते तत्साधनसिद्दो योगः कैवल्याख्यं फलमुत्पादयति।
तत्र को योगः इत्याह –
योगश्चित्तवृत्तिनिरोधः ॥ २ ॥
चित्तस्य निर्मलसत्त्वपरिणामरूपस्य या वृत्तयोऽङ्गाङ्गिभावपरिणामरूपास्तासां निरोधो बहिर्मुखतया परिणतिविच्छेदादन्तर्मुखतया प्रतिलोमपरिणामेन स्वकारणे लयो योग इत्याख्यायते। स च निरोधः सर्वासां चित्तभूमीनां सर्वप्राणिनां धर्मः कदाचित् कस्याञ्चित् बुद्धिभूमावाविर्भवति। ताश्च क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तस्य भूमयश्चित्तस्यावस्थाविशेषाः। तत्र क्षिप्तं रजस उद्रेकादस्थिरं बहिर्मुखतया सुखदुःखादिविषयेषु विकल्पितेषु व्यवहितेषु संनिहितेषु वा रजसा प्रेरितं। तच्च सदैव दैत्यदानववादीनाम्। मूढं तमस उद्रेकाकृत्याकृत्य विभागमन्तरेण क्रोधादिभिः विरुद्धकृत्येष्वेव नियमितं तच्च सदैव रक्षः पिशाचादीनाम्। विक्षिप्तं तु सत्त्वोद्रेकाद्वैशिष्टयेन परिहृत्य दुःखसाधनं सुखसाधनेष्वेव शब्दादिषु प्रवृत्तं तच्च सदैव देवानाम्। एतदुक्तं भवति रजसा प्रवृत्तिरूपं तमसा परापकारनियतं सत्त्वेन सुखमयं चित्तं भवति। एतास्तिस्रश्चित्तावस्थाः समाधावनुपयोगिन्यः। एकाग्रनिरुद्धरूपे द्वे च सत्त्वोत्कर्षाद्यथोत्तरमवस्थितत्वात् समाधावुपयोगं भजेते। सत्त्वादिक्रमव्युत्क्रमे तु अयमभिप्रायः द्वयोरपि रजस्तमसोरत्यन्तहेयत्वेऽप्येतदर्थं रजसः प्रथममुपादानं यावन्न प्रवृत्तिर्दर्शिता तावन्निवृत्तिर्नं शक्यते दर्शयितुमिति द्वयोर्व्यत्ययेन प्रदर्शनम्। सत्त्वस्य त्वेतदर्थं पश्चात्प्रदर्शनं यत्तस्योत्कर्षेणोत्तरे द्वे भूमी योगोपयोगिन्याविति। अनयोर्द्वयोरेकाग्रनिरुद्धयोर्भूम्योर्यश्चित्तस्यैकाग्रतारूपः परिणामः स योग इत्युक्तं भवति। एकाग्रे बहिर्वृत्तिनिरोधः। निरुद्धे च सर्वावृत्तीनां संस्काराणां च प्रविलय इत्यनयोरेव भूम्योर्योगस्य सम्भवः।
इदानीं सूत्रकारश्चित्तवृत्तिनिरोधपदानि व्याख्यातुकामः प्रथमं चित्तपदं व्याचष्टे –
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥
द्रष्टुः पुरुषस्य तस्मिन्काले स्वरूपे चिन्मात्रतायामवस्थानं स्थितिर्भवति। अयमर्थः उत्पन्नविवेकख्यातेश्चित्संक्रमाभावात् कर्तृत्वाभिमाननिवृत्तौ प्रोच्छन्नपरिणामायां बुद्धौ चाऽत्मानः स्वरूपेणावस्थानं स्थितिर्भवति।
व्युत्थानदशायान्तु तस्य किं रूपम् इत्याह –
वृत्तिसारुप्यमितरत्र ॥ ४ ॥
इतरत्र योगादन्यस्मिन्काले वृत्तयो या वक्ष्यमाणलक्षणास्ताभिः सारूप्यं तद्रपूत्वम्। अयमर्थः यादृश्यो वृत्तयो दुःखमोहसुखाद्यात्मिकाः प्रादुर्भवन्ति तादृग्रूप एव संवेद्यते व्यवहर्तृभिः पुरुषः। तदेवं यस्मिन्नेकाग्रतया परिणते चित्तिशक्तेः स्वस्मिन् स्वरूपे प्रतिष्ठानं भवति यस्मिंश्चेन्द्रियवृत्तिद्वारेण विषयाकारेण परिणते पुरुषस्तद्रपाकार एव परिभाव्यते यथा जलतरङ्गेषु चलत्सु चन्द्रश्चलन्निव प्रतिभासते सच्चित्तम्।
वृत्तिपदं व्याख्यातुमाह –
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥
वृत्तयश्चित्तपरिणामविशेषाः वृत्तिसमुदायलक्षणस्यावयविनो या अवयवभूता वृत्तयस्तदपेक्षया तदप्यप्रत्ययः। एतदुक्तं भवति पञ्च वृत्तयः कीदृश्यः क्लिष्टा अक्लिष्टा क्लेशैर्वक्ष्यमाणलक्षणैराक्रान्ताः क्लिष्टाः। तद्विपरीता अक्लिष्टाः।
एता एव पञ्च वृत्तयः संक्षिप्योद्दिश्यन्ते –
प्रमाणविपर्ययविकल्पनिद्रास्मृतय ॥ ६ ॥
आसां क्रमेण लक्षणमाह –
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥
अत्रातिप्रसिद्धत्वात् प्रमाणानां शास्त्रकारेण भेदलक्षणेनैव गतत्वात् लक्षणस्य पृथक्तल्लक्षणं न कृतम्। प्रमाणलक्षणन्तु अविसंवादिज्ञानं प्रमाणमिति। इन्द्रियद्वारेण बाह्यवस्तूपरागाच्चित्तस्य तद्विषयसामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम्। गृहीतसम्बन्धाल्लिङ्गात् लिङ्गिनि सामान्यात्मनाऽध्यवसायोऽनुमानम्। आप्तवचनं आगमः।
एवं प्रमाणरूपां वृत्तिं व्याख्याय विपर्य्यरूपामाह –
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥
अतथाभूतेऽर्थे तथोत्पद्यानं ज्ञानं विपर्ययः। यथा शुक्तिकायां रजतज्ञानम्। अतद्रूपप्रतिष्ठमिति। तस्यार्थस्य यद्रूयं तस्मिन्रूपे न प्रतितिष्ठति तस्यार्थस्य यत्पारमार्थिकं रूपं न तत्प्रतिभासयतीति यावत्। संशयोऽप्यतद्रूपप्रतिष्ठत्वान्मिथ्याज्ञानम्। यथा स्थाणुर्वा पुरुषो वेति।
विकल्पवृत्तिं व्याख्यातुमाह –
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥
शब्दजनितं ज्ञानं शब्दज्ञानं तदनु पतितुं शीलं यस्य स शब्दज्ञानानुपाती। वस्तुनस्तथात्वमनपेक्षमाणो योऽध्यवसायः स विकल्प इत्युच्यते। यथा पुरुषस्य चैतन्यं स्वरूपमिति। अत्र देवत्तस्य कम्बल इति शब्दजनिते ज्ञाने षष्ठ्या योऽध्यवसितो भेदस्तमिहाविद्यमानमपि समारोप्य प्रवर्त्ततेऽध्यवसायः। वस्तुतस्तु चैतन्यमेव पुरुषः।
निद्रां व्याख्यातुमाह –
अभावप्रययालम्बना वृत्तिर्निद्रा ॥ १० ॥
अभावप्रत्यय आलम्बनं यस्या वृत्तेः सा तथोक्ता। तद्दुक्तं भवति या सन्ततमुद्रिक्तत्वात्तमसः समस्तविषयपरित्यागेन प्रवर्त्तते वृत्तिः सा निद्रा। तस्याश्च सुखमहमस्वाप्समिति स्मृतिदर्शनात् स्मृतेश्चानुभवव्यतिरेकेणानुपपत्तेर्वृत्तित्वम्।
स्मृतिं व्याख्यातुमाह –
अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ ॥
प्रमाणेनानुभूतस्य विषयस्य योऽयमसंप्रमोषः संस्कारद्वारेण बुद्धावारोहः सा स्मृतिः। तत्र प्रमाणविपर्य्यविकल्पा जाग्रदवस्था। त एव तदनुभवबलात् प्रत्यक्षायमाणाः स्वप्नाः। निद्रा तु असंवेद्यमानविषया। स्मृतिश्च प्रमाणविपर्ययविकल्पनिद्रानिमित्ता।
एवं वृत्तीर्व्याख्याय सोपायं निरोधं व्याख्यातुमाह –
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥
अभ्यासवैराग्ये वक्ष्यमाणलक्षणे ताभ्यां प्रकाशवृत्तिनियमरूपा या वृत्तयस्तासां निरोधो भवतीत्युक्तं भवति। तासां विनिवृत्तबाह्यभिनिवेशानां अन्तर्मुखतया स्वकारण एव चित्ते शक्तिरूपतयाऽवस्थानम्। तत्र विषयदोषदर्शनजेन वैराग्येण तद्वैमुख्यमुत्पाद्यते। अभ्यासेन च सुखजनकशान्तप्रवाहप्रदर्शनद्वारेण दृढं स्थैर्य्यमुत्पाद्यते। इत्थं ताभ्यां भवति चित्तवृत्तिनिरोधः।
अभ्यासं व्याख्यातुमाह –
तत्र स्थितौ यत्नाऽभ्यासः ॥ १३ ॥
वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः परिणामः स्थितिस्तस्यां यत्र उत्साहः पुनः पुनस्तत्त्वेन चेतसि निवेशनमभ्यास इत्युच्यते।
तस्यैव विशेषमाह –
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥
बहुकालं नैरन्तर्य्येण आदरातिशयेन च सेव्यमानो दृढ़भूमिः स्थिरो भवति। दार्ढ्याय प्रभवतीत्यर्थः।
वैराग्यस्य लक्षणमाह –
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥
द्विविधो हि विषयो दृष्ट आनुश्रविकश्च। दृष्ट इहैवोपलभ्यमानः शब्दादिः। देवलोकादावानुश्रविकः। अनुश्रूयते गुरुमुखादित्यनुश्रवो वेदस्तत्समधिगत आनुश्रविकः तयोर्द्वयोरपि विषययोः परिणामविरसत्वदर्शनाद्विगतगर्द्धस्य या वशीकारसंज्ञा ममैते वश्या नाहमेतेषां वश्य इति योऽयं विमर्षंस्तद्बैराग्यमुच्यते।
तस्यैव विशेषमाह –
तत्परं पुरुषख्यातेर्गुणवेतृष्ण्यम् ॥ १६ ॥
तद्वैराग्यं परं प्रकृष्टं प्रथमं वैराग्यं विषयविषयं। द्वितीयं गुणविषयमुत्पन्नगुणपुरुषविवेकख्यातेरेव भवति निरोधसमाधेरत्यन्तानुकूलत्वात्।
एवं योगस्य स्वरूपमुक्त्वा संप्रज्ञातस्वरूपं भेदमाह –
वितर्कविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥ १७ ॥
समाधिरिति शेषः। सम्यक्संशयविपर्ययरहितत्वेन प्रज्ञायते प्रकर्षेण ज्ञायते भाव्यस्य स्वरूपं येन स संप्रज्ञातः समाधिर्भावनाविशेषः। स वितर्कादिभेदाच्चतुर्विधः सवितर्कः सविचारः सानन्दः सास्मितश्च। भावना भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम्। भाव्यं च द्विविधम् ईश्वरस्तत्त्वानि च। तान्यपि द्विविधानि जड़ाजड़भेदात्। जड़ानि चतुर्विंशतिः। अजड़ः पुरुषः। तत्र यदा महाभूतेन्द्रियाणि स्थूलानि विषयत्वेनाऽऽदाय पूर्वापरानुसंधानेन शब्दार्थोल्लेखसंभेदेन च भावना क्रियते तदा सवितर्कः समाधिः। अस्मिन्नेवाऽऽलम्बने पूर्वापरानुसन्धानशब्दोल्लेखशून्यत्वेन यदा भावना प्रवर्त्तते तदा निर्वितर्कः। तन्मात्रान्तःकरणलक्षणं सूक्ष्मविषयमालम्ब्य तस्य देशकालधर्मावच्छेदेन यदा भावना प्रवर्त्तते तदा सविचारः। तस्मिन्नेवावलम्बने देशकालधर्मावच्छेदं विना धार्मिमात्रावभासित्वेन भावना क्रियमाणा निर्विचार इत्युच्यते। एवं पर्यन्तः समाधिर्ग्राह्यसमापत्तिरिति व्यपदिश्यते। यदा तु रजस्तमोलेशानुविद्धमन्तःकरणसत्त्वं भाव्यते तदा गुणभावाच्चितिशक्तेः सुखप्रकाशमयस्य सत्त्वस्य भाव्यमानस्योद्रेकात् सानन्दः समाधिर्भवति। अस्मिन्नेव समाधौ ये बद्धधृतयस्तत्त्वान्तरं प्रधानपुरुषरूपं न पश्यन्ति ते विगतदेहाहङ्कारत्वाद्विदेहशब्दवाच्याः। इयं ग्रहणसमापत्तिः। ततः परं रजस्तमोलेशानभिभूतं शुद्धसत्त्वमालम्बनीकृत्य या प्रवर्त्तते भावना तस्यां ग्राह्यस्य सत्त्वस्य न्यग्भवात् चितिशक्तेरुद्रेकात् सत्तामात्रावशेषत्वेन समाधिः सास्मित इत्युच्यते। न चाहङ्कारास्मितयोरभेदः शङ्कनीयः। यतो यत्रान्तः करणमहमिति उल्लेखेन विषयान् वेदयते सोऽहङ्कारः। यत्रान्तर्मुखतया प्रतिलोमपरिणामे प्रकृतिलीने चेतसि सत्तामात्रं अवभाति साऽस्मिता। अस्मिन्नेव समाधौ ये कृतपरितोषा परं परमात्मानं पुरुषं न पश्यन्ति तेषां चेतसि स्वकारणे लयमुपागते प्रकृतिलया इत्युच्यन्ते। ये परं पुरुषं ज्ञात्वा भावनायां प्रवर्त्तन्ते तेषामियं विवेकख्यातिर्ग्रहीतृसमापत्तिरित्युच्यते। तत्र संप्रज्ञाते समाधौ चतस्रोऽवस्थाः शक्तिरूपतयाऽवतिष्ठन्ते। तत्रैकैकस्यास्त्याग उत्तरोत्तरा इति चतुरवस्थोऽस्यं संप्रज्ञातः समाधिः।
असंप्रज्ञातमाह –
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥
विरम्यतेऽनेनेति विरामो वितर्कादिचिन्तात्यागः विरामश्चासौ प्रत्ययश्चेति विरामप्रत्ययस्तस्याभ्यासः पौनःपुन्येन चेतसि निवेशनम्। तत्र या काचित् वृत्तिरुल्लसति तस्या नेति नेतीतिनैरन्तर्येण पर्युदसनं तत्पूर्वः संप्रज्ञातसमाधेः संस्कारशेषोऽन्यस्तद्विलक्षणोऽसंप्रज्ञात इत्यर्थः। न तत्र किञ्चिद्वेद्यम् संप्रज्ञायते इति असंप्रज्ञातो निर्बीजः समाधिः। इह चतुर्विधश्चित्तस्य परिणामः। व्युत्थानं समाधिप्रारम्भो एकाग्रता निरोधश्च। तत्र क्षिप्तमूढ़े चित्तभूमी व्युत्थानं। विक्षिप्ताभूमिः सत्वोद्रेकात् समाधिप्रारम्भः। निरुद्धैकाग्रते च पर्य्यन्तभूमी। प्रतिपरिणामञ्च संस्काराः। तत्र व्युत्थानजनिताः संस्काराः समाधिप्रारम्भजैः संस्कारैः प्रत्याहन्यन्ते। तज्जाश्चैकाग्रताजैः निरोधजनितैरेकाग्रताजाः संस्काराः स्वरूपञ्च हन्यन्ते। यथा सुवर्णसम्वलितं ध्मायमानं सीसकमात्मानं सुवर्णमलञ्च निर्दहति। एवमेकाग्रता जनितान् संस्कारान् निरोधजाः स्वात्मानञ्च निर्दहन्ति।
तदेवं योगस्य स्वरूपं भेदं संक्षेपेणोपायञ्च अभिधाय विस्तररूपेणोपायं योगाभ्यासप्रदर्शनपूर्वकं वक्तुमुपक्रमते –
भवप्रययो विदेहप्रकृतिलयानाम् ॥ १९ ॥
विदेहा प्रकृतिलयाश्च वितर्कादिभूमिकासूत्रे व्याख्याताः तेषां समाधिर्भवप्रत्ययः भवः संसारः स एव प्रत्ययः कारणं यस्य स भवप्रत्ययः। अयमर्थः अधिमात्रान्तर्भूता एव ते संसारे तथाविधसमाधिभाजो भवन्ति। तेषां परतत्त्वादर्शनाद्योगाभासोऽयम्। अतः परतत्त्वज्ञाने तद्भावनायाञ्च मुक्तिकामेन महान्यत्नो विधेय इत्येतदर्थमुपदिष्टम्।
तदन्येषान्तु –
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥
विदेहप्रकृतिलयव्यतिरिक्तानां योगिनां श्रद्धादिपूर्वकः श्रद्धादयः पूर्वे उपाया यस्य स श्रद्धादिपूर्वकः। ते च श्रद्धादयः क्रमादुपायोपेयभावेन प्रवर्त्तमानाः संप्रज्ञातसमाधेरुपायतां प्रतिपद्यन्ते। तत्र श्रद्धा योगविषये चेतसः प्रसादः। वीर्य्यमुत्साहः। स्मृतिरनुभूतासंप्रमोधः। समाधिरेकाग्रता। प्रज्ञा प्रज्ञातव्यविवेकः। तत्रश्रद्धावतो वीर्य्यं जायते योगविषये उत्साहवान् भवति। सोत्साहस्य च पाश्चात्यानुभूतिषु भूमिषु स्मृतिरुत्पद्यते तत्स्मरणाच्च चेतः समाधीयते। समाहितचित्तश्च भाव्यं सम्यग्विवेकेन जानाति। त एते संप्रज्ञातस्य समाधेरुपायाः। तस्याभ्यासात् पराच्च वैराग्यात् भवत्यसंप्रज्ञातः।
उक्तोपायवतां योगिनां उपायभेदाद्भेदानाह –
तीव्रसंवेगानामासन्नः ॥ २१ ॥
समाधिलाभः इति शेषः। संवेगः क्रियाहेतुर्दृढ़तरः संस्कारः। स तीव्रो येषामधिमात्रोपायानां तेषामासन्नः समाधिलाभः समाधिफलाऽऽसन्नं भवति शीघ्रमेव सम्पद्यत इत्यर्थः।
के ते तीव्रसंवेगा इत्यत आह –
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥
तेभ्य उपायेभ्यो मृद्वादिभेदभिन्नेभ्य उपायवतां विशेषो भवति। मृदुर्मध्योऽधिमात्र इत्युपायभेदाः। ते प्रत्येकं मृदुसंवेदमध्यसंवेगतीव्रसंवेगभेदात् त्रिधा। तद्भेदेन च नवयोगिनो भवन्ति। मृदूपायोमृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च। मध्योपायोमृत्युसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च। अधिमात्रोपायोमृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च। अधिमात्रोपाये तीव्रसंवेगे च महान् यत्नः कर्त्तव्य इति भेदोपदेशः।
इदानीमेतदुपायविलक्षणं सुगममुपायान्तरं दर्शयितुमाह –
ईश्वरप्रणिधानाद्वा ॥ २३ ॥
ईश्वरो वक्ष्यमाणलक्षणः तत्र प्रणिधानं भक्तिविशेषो विशिष्टमुपासनं सर्वक्रियाणां तत्रार्पणं विषयसुखादिकं फलमनिच्छन् सर्वाः क्रियास्तस्मिन्परमगुरावर्पयति तत् प्रणिधानं समाधेस्तत्फललाभस्य च प्रकृष्ट उपायः।
ईश्वरस्य प्रणिधानात् समाधिलाभ इत्युक्तं तत्रेश्वरस्य स्वरूपं प्रमाणं प्रभावं वाचकं उपासनाक्रमं तत्फलञ्च क्रमेण वक्तुमाह –
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४ ॥
क्लिश्नन्तीति क्लेशा अविद्यादयो वक्ष्यमाणाः। विहितप्रतिषिद्धव्यामिश्ररूपाणि कर्माणि। विपच्यन्त इति विपाकाः कर्मफलानि जात्यायुर्भोगाः। आ फलविपाकाच्चित्तभूमौ शेरत इत्याशया वासनाख्याः संस्कारास्तैरपरामृष्टस्त्रिष्वपि कालेषु च संस्पृष्टः। पुरुषविशेषः अन्येभ्यः पुरुषेभ्यो विशिष्यत इति विशेषः। ईश्वर ईशनशील इच्छामात्रेण सकलजगदुद्धरणक्षमः। यद्यपि सर्वेषामात्मनां क्लेशादिस्पर्शो नास्ति तथापि चित्तगतास्तेषामपदिश्यते। यथा योद्धृगतौ जयपराजयौ स्वामिनः। अस्य तु त्रिष्वपि कालेषु तथाविधोऽपि क्लेशादिपरामर्शो नास्ति। अतः स विलक्षण एव भगवानीश्वरः। तस्य च तथाविधमैश्वर्य्यमनादेः सत्त्वोत्कर्षात्। तस्य सत्त्वोत्कर्षश्च प्रकृष्टाज्ज्ञानादेव। न च अनयोर्ज्ञानैश्वर्य्ययोरितरेतराश्रयत्वं परस्परानपेक्षत्वात्। ते द्वे ज्ञानैश्वर्ये ईश्वरसत्त्वे वर्तमाने अनादिभूते तेन च तथाविधेन सत्त्वेन तस्यानादिरेव सम्बन्धः प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणानुपपत्तेः यथेतरेषां प्राणिनां सुखदुःखमोहात्मकतया परिणतं चित्तं निर्मले सात्त्विके धर्मात्मप्रख्ये प्रतिसंक्रान्तं चिच्छायासंक्रान्ते संवेद्यं भवति नैवमीश्वरस्य तस्य केवल एव सात्त्विकः परिणाम उत्कर्षवाननादिसंबन्धेन भोग्यतया व्यवस्थितः अतः पुरुषान्तरविलक्षणतया स एवेश्वरः। मुक्तात्मानां तु पुनः क्लेशादियोगस्तैस्तैः शास्त्रोक्तैरुपायैर्निवर्तितः। अस्य पुनः सर्वदैव तथाविधत्वान्न मुक्तात्मतुल्यत्वम्। न चेश्वराणामनेकत्वं तेषां तुल्यत्वे भिन्नाभिप्रायत्वात्कार्यस्यैवानुपपत्तेः। उत्कर्षापकर्षयुक्तत्वे च एवोत्कृष्टः स एवेश्वरस्तत्रैव काष्ठाप्राप्तत्वादैश्वर्यस्य।
एवमीश्वरस्य स्वरूपमभिधाय प्रमाणमाह –
तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥
तस्मिन्भगवति सर्वज्ञत्वस्य यद्बीजमतीतानागतादिग्रहणस्याल्पत्वं महत्त्वं च मूलत्वाद्बीजमिव बीजं तत्तत्र निरतिशयं काष्ठां प्राप्तम्। दृष्टा ह्यल्पत्वमहत्त्वादीनां धर्माणां सातिशयानां काष्ठाप्राप्तिः। यथा परमाणाबल्पत्वस्याऽऽकाशे परममहत्त्वस्य। एवं ज्ञानादयोऽपि चित्तधर्मास्तारतम्येन परिदृश्यमानाः क्वचिन्निरतिशयतामासादयन्ति। यत्र चैते निरतिशयाः स ईश्वरः। यद्यपि सामान्यमात्रेऽनुमानमात्रस्य पर्यवसितत्वान्न विशेषावगतिः संभवति तथाऽपि शास्त्रादस्य सर्वज्ञत्वादयो विशेषा अवगन्तव्याः। तस्य स्वप्रयोजनाभावे कथं प्रकृतिपुरुषयोः संयोगवियोगावापादयतीति नाऽऽशङ्कनीयं तस्य कारुणिकत्वाद्भूतानुग्रह एव प्रयोजनम्। कल्पप्रलयमहाप्रलयेषु निःशेषान्संसारिण उद्धरिष्यामीति तस्याध्यवसायः। यद्यस्येष्टं तत्तस्य प्रयोजनम्।
एवमीश्वरस्य प्रमाणमभिधाय प्रभावमाह –
पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥
आद्यानां स्रटृ़णां ब्रह्मादीनामपि स गुरुरुपदेष्टा। यतः स कालेन नावच्छिद्यते अनादित्वात्। तेषां पुनरादिमत्त्वादस्ति कालेनावच्छेदः।
एवं प्रभावमुक्त्वोपासनोपयोगाय वाचकमाह –
तस्य वाचकः प्रणवः ॥ २७ ॥
इत्थमुक्तस्वरूपस्येश्वरस्य वाचकोऽभिधायकः प्रकर्षेण नूयते स्तूयतेऽनेनेति नौति स्तौतीति वा प्रणव ओंकारः तयोश्च वाच्यवाचकभावलक्षणः सम्बन्धो नित्यः संकेतेन प्रकाश्यते न तु केनचित्क्रियते यथा पितापुत्रयो र्विद्यमान एव संबन्धोऽस्यायं पिताऽस्यायं पुत्र इति केनचित्प्रकाश्यते।
उपासनमाह –
तज्जपस्तदर्थभावनम् ॥ २८ ॥
तस्य सार्धत्रिमात्रस्य प्रणवस्य जपो यथावदुच्चारणं तद्वाच्यस्य चेश्वरस्य भावनं पुनः पुनश्चेतसि विनिवेशनमेकाग्रताया उपायः। अतः समाधिसिद्धये योगिना प्रणवो जप्यस्तदर्थ ईश्वरश्च भावनीय इत्युक्तं भवति।
उपासनायाः फलमाह –
ततः प्रत्यक्त्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥
तस्माज्जपात्तदर्थभावनाच्च योगिनः प्रत्यक्चेतनाधिगमो भवति विषय प्रातिकूल्येन स्वान्तःकरणाभिमुखमञ्चति या चेतना दृक्शक्तिः सा प्रत्यक्चेतना तस्या अधिगमो ज्ञानं भवति। अन्तराया वक्ष्यमाणास्तेषामभावः शक्तिप्रतिबन्धोऽपि भवति।
अथ केऽन्तराया इत्याशङ्कायामाह –
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चितविक्षेपास्तेऽन्तरायाः ॥ ३० ॥
नवैते रजस्तमोबलात्प्रवर्तमानाश्चित्तस्य विक्षेपा भवन्ति। तैरेकाग्रताविरोधिभिश्चित्तं विक्षिप्यत इत्यर्थः। तत्र 1 व्याधिर्धातुवैषम्यनिमित्तो ज्वरादिः। 2 स्त्यानमकर्मण्यता चित्तस्य। 3 उभयकोट्यालम्बनं ज्ञानं संशयः योगः साध्यो न वेति। 4 प्रमादोऽननुष्ठानशीलता समाधिसाधनेष्वौदासीन्यम्। 5 आलस्यं कायचित्तयोर्गुरुत्वं योगविषये प्रवृत्त्यभावहेतुः। 6 अविरतिश्चित्तस्य विषयसंप्रयोगात्मा गर्धः। 7 भ्रान्तिदर्शनं शुक्तिकायां रजतवद्विपर्ययज्ञानम्। 8 अलब्धभूमिकत्वं कुतश्चिन्निमित्तात्समाधिभूमेरलाभोऽसंप्राप्तिः। 9 अनवस्थितत्वं लब्धायामपि समाधिभूमाव चित्तस्य तत्राप्रतिष्ठा। त एते समाधेरेकाग्रताया यथायोगं प्रतिपक्षत्वादन्तराया इत्युच्यन्ते।
चित्तविक्षेपकारकानन्यानप्यन्तरायान्प्रतिपादयितुमाह –
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥
कुतश्चिन्निभित्तादुत्पन्नेषु विक्षेपेषु एते दुःखादयः प्रवर्तन्ते। तत्र दुःखं चित्तस्य राजसः परिणामो बाधनालक्षणः। यद्बाधात्प्राणिनस्तदपघाताय प्रवर्तन्ते। दौर्मनस्यं बाह्याभ्यन्तरैः कारणैर्मनसोदौस्थ्यम्। अङ्गमेजयत्वो सर्वाङ्गीणो वेपथुरासनमनः स्थैर्यस्य बाधकः। प्राणो यद्बाह्यं वायुमाचामति स श्वासः। यत्कौष्ठ्यं वायुं निःश्वसिति सः प्रश्वासः। त एते विक्षेपैः सह प्रवर्तमाना यथोदिताभ्यासवैराग्याताभ्यां निरोद्धव्या इत्येषामुपदेशः।
सोपद्रवविक्षेपप्रतिषेधार्थमुपायान्तरमाह –
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥
तेषां विक्षेपाणां प्रतिषेधार्थमेकस्मिन्कस्मिंश्चिदभिमते तत्त्वेऽभ्यासश्चेतसः पुनः पुनर्निवेशनं कार्यः। मद्बलात् प्रत्युदितायामेकाग्रतायां विक्षेपाः प्रशममुपायन्ति।
इदानीं चित्तसंस्कारापादकपरिकर्मकथनमुपायान्तरमाह –
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चितप्रसादनम् ॥ ३३ ॥
मैत्री सौहार्दम्। करुणा कृपा। मुदिता हर्षः। उपेक्षौदासीन्यम्। एता यथाक्रमं सुखितेषु दुःखितेषु पुण्यवत्सु अपुण्यवत्सु च विभावयेत्। तथा हि सुखितेषु साधु एषां सुखित्वमिति मैत्रीं कुर्यान्न तु ईर्ष्याम्। दुःखितेषु कथं नु नामैषां दुःखनिवृत्तिः स्यादिति कृपामेव कुर्यान्न ताटस्थ्यम्। पुण्यवत्सु पुण्यानुमोदनेन हर्षमेव कुर्यान्न तु किमेते पुण्यवन्त इति विद्वेषम्। अपुण्यवत्सु चौदासीन्यमेव भावयेन्नानुमोदनं न वा द्वेषम्। सूत्रे सुखदुःखादिशब्दैस्तद्वन्तः प्रतिपादिताः। तदेवं मैत्र्यादिपरिकर्मणा चित्ते प्रसीदति सुखेन समाधेराविर्भावो भवति। परिकर्म चैतद्बाह्यं कर्म। यथा गणिते मिश्रकादिव्यवहारो गणितनिष्पत्तये संकलितादिकर्मोपकारकत्वेन प्रधानकर्मनिष्पत्तये भवति एवं द्वेषरागादिप्रतिपक्षभूतमैत्र्यादिभावनया समुत्पादितप्रसादं चित्तं संप्रज्ञातादिसमाधियोग्यं संपद्यते। रागद्वेषावेव मुख्यतया विक्षेपमुत्पादयतः। तौ चेत्समूलमुन्मूलितौ स्यातां तदा प्रसन्नत्वान्मनसो भवत्येकाग्रता।
उपायान्तरमाह –
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥
प्रच्छर्दनं कौष्ठ्यस्य वायोः प्रयत्नविशेषान्मात्राप्रमाणेन बहिर्निःसारणम्। विधारणं मात्राप्रमाणेनैव प्राणस्य वायोर्बहिर्गतिविच्छेदः। स च द्वाभ्यां प्रकाराभ्यां बाह्यस्याभ्यन्तरापूरणेन पूरितस्य वा तत्रैव निरोधेन। तदेवं रेचकपूरककुम्भकभेदेन त्रिविधः प्राणायामश्चित्तस्य स्थितिमेकाग्रतया निबध्नाति सर्वासामिन्द्रियवृत्तिनां प्राणवृत्तिपूर्वकत्त्वात्। मनः प्राणयोश्च स्वव्यापारे परस्परमेकयोगक्षेमत्वात्क्षीयमाणः प्राणः समस्तेन्द्रियवृत्तिनिरोधद्वारेण चित्तस्यैकाग्रतायां प्रभवति। समस्तदोषक्षयकारित्वं चास्याऽऽगमे श्रूयते। दोषकृताश्च सर्वा विक्षेपवृत्तयः। अतो दोषनिर्हरणद्वारेणाप्यस्यैकाग्रतायां सामर्थ्यम्।
इदानीमुपायान्तरप्रदर्शनोपक्षेपेण संप्रज्ञातस्य समाधेः पूर्वाङ्गं कथयति –
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ॥ ३५ ॥
विषया गन्धरसरूपस्पर्शशब्दास्ते विद्यन्ते फलत्वेन यस्याः सा विषयवती प्रवृत्तिर्मनसः स्थैर्यं करोति। तथा हि नासाग्रे चित्तं धारयतो दिव्यगन्धसंविदुपजायते। तादृश्येव जिह्वाग्रे रससंवित्। ताल्वग्रे रूपसंवित्। जिह्वामध्ये स्पर्शसंवित्। जिह्वामूले शब्दसंवित्। तदेव तत्तदिन्द्रियद्वारेण तस्मिंस्तस्मिन्दिव्यविषये जायमाना संविच्चित्तस्यैकाग्रताया हेतुर्भवति। अस्ति योगस्य फलमिति योगिनः समाश्वासोत्पादनात्।
एवंविधमेवोपायान्तरमाह –
विशोका वा ज्योतिष्मती ॥ ३६ ॥
प्रवृत्तिरुत्पन्ना चित्तस्य स्थितिनिबन्धिनीति वाक्य शेषः। ज्योतिः शब्देन सात्त्विकः प्रकाश उच्यते। स प्रशस्तो भूयानतिशयवांश्च विद्यते यस्यां सा ज्योतिष्मति प्रवृत्तिः। विशोका विगतः सुखमयत्वाभ्यासवशाच्छोको रजः परिणामो यस्याः सा विशोका चेतसः स्थितिनिबन्धिनी। अयमर्थः हृत्पद्मसंपुटमध्ये प्रशान्तकल्लोलक्षीरोदधिप्रख्यं चित्तसत्त्वं भावयतः प्रज्ञालोकात्सर्ववृत्तिपरिक्षये चेतसः स्थैर्यमुत्पद्यते।
उपायान्तरप्रदर्शनद्वारेण संप्रज्ञातसमाधेर्विषयं दर्शयति –
वीतरागविषयं वा चित्तम् ॥ ३७ ॥
मनसः स्थितिनिबन्धनं भवतीति शेषः। वीतरागः परित्यक्तविषयाभिलाषस्तस्य यच्चित्तं परिहृतक्लेशं तदालम्बनीकृतं चेतसः स्थितिहेतुर्भवति।
स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥
प्रत्यस्तमितबाह्येन्द्रियवृत्तेर्मनोत्मात्रेणैव यत्र भोक्तृत्वमात्मनः स स्वप्नः। निद्रा पूर्वोक्तलक्षणा। तदालम्बनं स्वप्नालम्बनं निद्रालम्बनं वा ज्ञानमालम्ब्यमानं चेतसः स्थितिं करोति।
नानारुचित्वात्प्राणिनां यस्मिन्कस्मिंश्चिद्वस्तुनि योगिनः श्रद्धा भवति तस्य ध्यानेनापीष्टसिद्धिरिति प्रतिपादयितुमाह –
यथाभिमतध्यानाद्वा ॥ ३९ ॥
यथाभिमतवस्तुनि बाह्ये चन्द्रादावाभ्यन्तरे नाडीचक्रादौ वा भाव्यमाने चेतः स्थिरीभवति।
एवमुपायान्प्रदर्श्य फलदर्शनायाऽऽह –
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥
एभिरुपायैश्चित्तस्य स्थैर्य भावयतो योगिनः सूक्ष्मविषयभावनाद्वारेण परमाण्वन्तो वशीकारोऽप्रतिघातरूपो जायते न क्वचित्तपरमाणुपर्यन्ते सूक्ष्मे विषयेऽस्य मनः प्रतिहन्यत इत्यर्थः। एवं स्थूलमाकाशादिपरममहत्पर्यन्तं भावयतो न क्वचिच्चेतसः प्रतिघात उत्पद्यते सर्वत्र स्वातन्त्र्यं भवतीत्यर्थः।
एवमेभिरुपायैः संस्कृतस्य चेतसः कीदृग्रूपं भवतीत्याह –
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥
क्षीणा वृत्तयो यस्य तत्क्षीणवृत्ति तस्य ग्रहीतृग्रहणग्राह्येषु आत्मेन्द्रियविषयेषु तत्स्थतदञ्जनता समापत्तिर्भवति। तत्स्थत्वं तत्रैकाग्रता तदञ्जनता तन्मयत्वं क्षीणभूते चित्ते विषयस्य भाव्यमानस्यैवोत्कर्षः तथाविधा समापत्तिः तद्रूपः परिणामो भवतीत्यर्थः। दृष्टान्तमाह अभिजातस्येव मणेर्यथाऽभिजातस्य निर्मलस्य स्फटिकमणेस्तत्तदुपाधिवशात्तत्तद्रूपापत्तिरेवं निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपापत्ति। यद्यपि ग्रहीतृग्रहणग्राह्येषु इत्युक्तं तथाऽपि भूमिकाक्रमवशाद्ग्राह्यग्रहणग्रहीतृषु इति बोध्यम्। यतः प्रथमं ग्राह्यनिष्ठ एव समाधिस्ततो ग्रहणनिष्ठस्ततोऽस्मितामात्ररूपो ग्रहीतृनिष्ठ केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वासंभवात्। ततश्च स्थूलसूक्ष्मग्राह्योपरक्तं चित्तं तत्र समापन्नं भवति। एवं ग्रहणे ग्रहीतरि च समापन्नं तद्रूपपरिणामत्वं बोद्धव्यम्।
इदानीमुक्ताया एव समापत्तेश्चातुर्विध्यमाह –
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥
श्रोत्रेन्द्रियग्राह्यः स्फोटरूपो वा शब्दः। अर्थो जात्यादिः। ज्ञानं सत्त्वप्रधाना बुद्धिवृत्तिः। विकल्प उक्तलक्षणः। तैः संकीर्णा यस्यामेते शब्दादयः परस्पराध्यासेन प्रतिभासन्ते गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्यनेनाऽऽकारेण सा सवितर्का समापत्तिरुच्यते।
उक्तलक्षणविपरीतां निर्वितर्कामाह –
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३ ॥
शब्दार्थस्मृतिप्रविलये सति प्रत्युदितस्पष्टग्राह्याकारप्रतिभासितया न्यग्भूतज्ञानांशत्वेन स्वरूपशून्येव निर्वितर्का समापत्तिः।
भेदान्तरं प्रतिपादयितुमाह –
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥
एतयैव सवितर्कया निर्वितर्कया च समापत्त्या सविचारा निर्विचारा च व्याख्याता। कीदृशी सूक्ष्मविषया सूक्ष्मस्तन्मात्रेन्द्रियादिर्विषयो यस्याः सा तथोक्ता। एतेन पूर्वस्याः स्थूलविषयत्वं प्रतिपादितं भवति। सा हि महाभूतेन्द्रियालम्बना। शब्दार्थविषयत्वेन शब्दार्थविकल्पसहितत्वेन देशकालधर्माद्यवच्छिन्नः सूक्ष्मोऽर्थः प्रतिभाति यस्यां सा सविचारा। देशकालधर्मादिरहितो धर्मिमात्रतया सूक्ष्मोऽर्थस्तन्मात्रेन्द्रियरूपः प्रतिभाति यस्यां सा निर्विचारा।
अस्या एव सूक्ष्मविषयायाः किंपर्यन्तः सूक्ष्मविषय इत्याह –
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥
सविचारनिर्विचारयोः समापत्त्योर्यत्सूक्ष्मविषयत्वमुक्तं तदलिङ्गपर्यवसानं न क्वचिल्लीयते न वा किंचिल्लिङ्गति गमयतीत्यलिङ्गं प्रधानं तत्पर्यन्तं सूक्ष्मविषयत्वम्। तथा हि गुणानां परिणामे चत्वारि पर्वाणि विशिष्टलिङ्गमविशिष्टलिङ्गं लिङ्गमात्रमलिङ्गं चेति। विशिष्टलिङ्गं भूतेन्द्रियाणि। अविशिष्टलिङ्गं तन्मात्रेन्द्रियाणि। लिङ्गमात्रं बुद्धिः। अलिङ्गं प्रधानमिति। नातः परं सूक्ष्ममस्तीत्युक्तं भवति।
एतासां समापत्तिनां प्रकृते प्रयोजनमाह –
ता एव सबीजः समाधिः ॥ ४६ ॥
ता एवोक्तलक्षणाः समापत्तयः सह बीजेनाऽऽलम्बनेन वर्तत इति सबीजः संप्रज्ञातः समाधिरित्युच्यते सर्वासां सालम्बनत्वात्।
अथेतरासां समापत्तीनां निर्विचारफलत्वान्निर्विचारायाः फलमाह –
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥
निर्विचारत्वं व्याख्यातम्। वैशारद्यं नैर्मल्यम्। सवितर्कां स्थूलविषयामपेक्ष्य निर्वितर्कायाः प्राधान्यम्। ततोऽपि सूक्ष्मविषयायाः सविचारायाः ततोऽपि निर्विकल्परूपाया निर्विचारायाः तस्यास्तु निर्विचारायाः प्रकृष्टाभ्यासवशाद्वैशारद्ये नैर्मल्ये सत्यध्यात्मप्रसादः समुपजायते। चित्तं क्लेशवासनारहितं स्थितिप्रवाह योग्यं भवति। एतदेव चित्तस्य वैशारद्यं यत्स्थितौ दार्ढ्यम्।
तस्मिन्सति किं भवतीत्याह –
ऋतंभरा तत्र प्रज्ञा ॥ ४८ ॥
ऋतं सत्यं बिभर्ति कदाचिदपि न विपर्ययेणाऽऽच्छाद्यते सा ऋतंभरा प्रज्ञा तस्मिन्सति भवतीत्यर्थः। तस्माच्च प्रज्ञालोकात्सर्वं यघावत्पश्यन्योगी प्रकृष्टं योगं प्राप्नोति।
अस्याः प्रज्ञान्तराद्वैलक्षण्यमाह –
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥
श्रुतमागमज्ञानम् अनुमानमुक्तलक्षणम् ताभ्यां या जायते प्रज्ञा सा सामान्यविषया। न हि शब्दलिङ्गयोरिन्द्रियवद्विशेषप्रतिपत्तौ सामर्थ्यम्। इयं पुनर्निर्विचारवैशारद्यसमुद्भवा प्रज्ञा ताभ्यां विलक्षणा विशेषविषयत्वात्। अस्यां हि प्रज्ञायां सूक्ष्मव्यवहितविप्रकृष्टानामपि विशेषः स्फुटेनैव रूपेण भासते। अतस्तस्यामेव योगिना परः प्रयत्नः कर्तव्य इत्युपदिष्टं भवति।
अस्याः प्रज्ञायाः फलमाह –
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥
तया प्रज्ञया जनितो यः संस्कारः सोऽन्यान्व्युत्थानजान्समाधिजांश्च संस्कारान्प्रतिबध्नाति स्वकार्यकरणाक्षमान्करोतीत्यर्थः। यतस्तत्त्वरूपतयाऽऽनया जनिताः संस्कारा बलबत्त्वादतत्त्वरूपप्रज्ञाजनितान्संस्कारान्बाधितुं शक्नुवन्ति। अतस्तामेव प्रज्ञामभ्यसेदित्युक्तं भवति।
एवं संप्रज्ञातं समाधिमभिधायासंप्रज्ञातं वक्तुमाह –
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१ ॥
तस्यापि संप्रज्ञातस्य निरोधे प्रविलये सति सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयाद्या या संस्कारमात्राद्वृत्तिरुदेति तस्यास्तस्या नेति नेतीति केवलं पर्युदसनान्निर्बीजः समाधिराविर्भवति। यस्मिन्सति पुरुषः स्वरूपनिष्ठः शुद्धो भवति।
तदत्राधिकृतस्य योगस्य लक्षणं चित्तवृत्तिनिरोधपदानां च व्याख्यानमभ्यासवैराग्यलक्षणं तस्योपायद्वयस्य स्वरूपं भेदं चाभिधाय संप्रज्ञातासंप्रज्ञातभेदेन योगस्य मुख्यामुख्यभेदमुक्त्वा योगाभ्यासप्रदर्शनपूर्वकं विस्तरेणोपायान्प्रदर्श्यं सुगमोपायप्रदर्शनपरतयेश्वरस्य स्वरूपप्रमाणप्रभाववाचकोपासनाक्रमं तत्फलानि च निर्णीय चित्तविक्षेपांस्तत्सहभुवश्च दुःखादीन्विस्तरेण च तत्प्रतिषेधोपायानेकत्त्वाभ्यासमैत्र्यादीन्प्राणायामादीन्संप्रज्ञातासंप्रज्ञातपूर्वाङ्गभूतविषयवती प्रवृत्तिरित्यादीन् च आख्यायोपसंहारद्वारेण च समापत्तीः सलक्षणाः सफलाः स्वस्वविषयसहिताश्चोक्त्वा संप्रज्ञातासंप्रज्ञातयोरुपसंहारमभिधाय सबीजपूर्वको निर्बीजः समाधिरभिहित इति व्याकृतो योगपादः।
साधनपादः
[सम्पाद्यताम्]तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १ ॥
तदेवं प्रथमे पादे समाहितचित्तस्य सोपायं योगमभिधाय व्युत्थितचित्तस्यापि कथमुपायाभ्यासपूर्वको योगः स्वास्थ्यम् उपयातीति तत्साधनानुष्ठानप्रतिपादनाय क्रियायोगमाह।
तपः शास्त्रान्तरोपदिष्टं कृच्छ्रचान्द्रायणादि। स्वाध्यायः प्रणवपूर्वाणां मन्त्राणां जपः। ईश्वरप्रणिधानं सर्वक्रियाणां तस्मिन्परमगुरौ फलनिरपेक्षतया समर्पणम्। एतानि क्रियायोग इत्युच्यते।
स किमर्थ इत्यत आह –
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २ ॥
क्लेशा वक्ष्यमाणस्तेषां तनूकरणं स्वकार्यकारणप्रतिबन्धः। समाधिरुक्तलक्षणस्तस्य भावना चेतसि पुनः पुनर्निवेशनं सोऽर्थः प्रयोजन यस्य स तथोक्तः। एतदुक्तं भवति एते तपः प्रभृतयोऽभ्यस्यमानाश्चित्तगतानविच्चादीन्क्लेशाञ्छिथिली कुर्वन्तः समाधेरुपकारकतां भजन्ते। तस्मात्प्रथमतः क्रियायोगवधानपरेण योगिना भवितव्यमित्युपदिष्टम्।
क्लेशतनूकरणार्थ इत्युक्तं तत्र के क्लेशा इत्यत आह –
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३ ॥
अविद्यादयो वक्ष्यमाणलक्षणाः पञ्च। ते च बाधनालक्षणं परितापमुपजनयन्तः क्लेशशब्दवाच्या भवन्ति। ते हि चेतसि प्रवर्तमानाः संत्कारलक्षणं गुणपरिणामं दृढ़यन्ति।
सत्यपि सर्वेषां तुल्ये क्लेशत्वे मूलभूतत्वादविद्यायाः प्राधान्यं प्रतिपादयितुमाह –
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥
अविद्या मोहः अनात्मन्यात्माभिमान् इति यावत्। सो क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां प्रत्येकं प्रसुप्ततन्वादिभेदेन चतुर्विधानाम्। अतो यत्राविद्या विपर्ययज्ञानरूपा शिथिली भवति तत्र क्लेशानामस्मितादीनां नोद्भवो दृश्यते। विपर्ययज्ञानसद्भावे च तेषामुद्भवदर्शनात्स्थितमेव मूलत्वमविद्यायाः। प्रसुप्ततनुविच्छिन्नोदाराणामिति। तत्र ये क्लेशाश्चित्तभूमौ स्थितः प्रबोधकाभावे स्वकार्यं नाऽऽरभन्ते ते प्रसुप्ता इत्युच्यन्ते। यथा बालावस्थायां बालस्य हि वासनारूपेण स्थिता अपि क्लेशाः प्रबोधकसहकार्यभावे नाभिव्यज्यन्ते। ते तनवो ये स्वस्वप्रतिपक्षभावनया शिथिलीकृतकार्यसंपादनशक्तयो वासनावशेषतया चेतस्यवस्थिताः प्रभूतां सामग्रीमन्तरेण स्वकार्यमारब्धुमक्षमाः। यथाऽभ्यासवतो योगिनः। ते विच्छिन्ना ये केनचिद्बलवता क्लेशेनाभिभूतशक्तयस्तिष्ठन्ति यथा द्वेषावस्थायां रागः रागावस्थायां वा द्वेषः न ह्यनयोः परस्परविरुद्धयोर्युम्पत्संभवोऽस्ति। त उदारा ये प्राप्तसहकारिसंनिधयः स्वं स्वं कार्यमभिनिर्वर्तयन्ति यथा सदैव योगपरिपन्थिनो व्युत्थानदशायाम्। एषां प्रत्येकं चतुर्विधानामपि मूलभूतत्वेन स्थिताऽप्यविद्याऽन्वयित्वेन प्रतीयते। न हि क्वचिदपि क्लेशानां विपर्ययान्वयनिरपेक्षाणां स्वरूपमुपलभ्यते। तस्यां च मिथ्यारूपायामविद्यायां सम्यग्ज्ञानेन निवर्तितायां दग्धबीजकल्पानामेषां न क्वचित्प्ररोहोऽस्ति अतोऽविद्यानिमित्तत्वमविद्यान्वयश्चैतेषां निश्चियते। अतः सर्वेऽपि अविद्याव्यपदेशभाजः। सर्वेषां च क्लेशानां चित्तविक्षेपकारित्वायोगिना प्रथममेव तदुच्छेदे यत्नः कार्य इति।
अविद्याया लक्षणमाह –
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५ ॥
अतस्मिंस्तदिति प्रतिभासोऽविद्येत्यविद्यायाः सामान्यलक्षणम्। तस्या एव भेदप्रतिपादनम् अनित्येषु घटादिषु नित्यत्वाभिमानोऽविद्येत्युच्यते। एवमशुचिषु कायादिषु शुचित्वाभिमानः दुःखेषु च विषयेषु सुखत्वाभिमानः अनात्मनि शरीर आत्मत्वाभिमानः। एतेनापुण्ये पूण्यभ्रमोऽनर्थे चार्थभ्रमो व्याख्यातः।
अस्मितां लक्षयितुमाह –
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६ ॥
दृक्शक्तिः पुरुषः दर्शनशक्ति रजस्तमोभ्यामनभिभूतः सात्त्विकः परिणामोऽन्तः करणरूपः अनयोर्भोग्यभोक्तृत्वेन जडाजत्वेनात्यन्तभिन्नरूपयोरेकताभिमानोऽस्मितेति उच्यते। यथा प्रकृतिवता कर्तृत्वभोक्तृत्वरहितेनाऽपि कर्त्र्यहं भोक्त्र्यहमित्यभिमन्यते। सोऽयमस्मिताख्यो विपर्यासः क्लेशः।
रागस्य लक्षणमाह –
सुखानुशयी रागः ॥ ७ ॥
सुखमनुशेत इति सुखानुशयी सुखज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गर्धो रागसंज्ञकः क्लेशः।
द्वेषस्य लक्षणमाह –
दुःखानुशयी द्वेषः ॥ ८ ॥
दुःखमुक्तलक्षणं तदभिज्ञस्य तदनुस्मृतिपूर्वकं तत्साधनेषु अनभिलषतो योऽयं निन्दात्मकः क्रोधः स द्वेषलक्षण क्लेशः।
अभिनिवेशस्य लक्षणमाह –
स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥ ९ ॥
पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलाद्भयरूपः समुपजायमानः शरीरविषयादिभिः मम वियोगो मा भूदिति अन्वहमनुबन्धरूपः सर्वस्यैवाऽऽकृमेर्ब्रह्मपर्यन्तं निमित्तमन्तरेण प्रवर्तमानोऽभिनिवेशाख्यः क्लेशः।
तदेवं व्युत्थानस्य क्लेशात्मकत्वादेकाग्रताभ्यासकामेन प्रथमं क्लेशाः परिहर्तव्याः। न चाज्ञातानां तेषां परिहार कर्तुं शक्य इति तज्ज्ञानाय तेषामुपदेशं क्षेत्रं विभागं लणणं चाभिधाय स्थूलसूक्ष्मभेदभिन्नानां तेषां प्रहाणोपायविभागमाह –
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥
ते सूक्ष्माः क्लेशा ये वासनारूपेणैव स्थिता न वृत्तिरूपं परिणाममारभन्ते ते प्रतिप्रसवेन प्रतिलोमपरिणामेन हेयास्त्यक्तव्याः। स्वकारणास्मितायां कृतार्थं सवासनं चित्तं यदा प्रविष्टं भवति तदा कुतस्तेषां निर्मूलानां संभवः।
स्थूलानां हानोपायमाह –
ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥
तेषां क्लेशानामारब्धकार्याणां याः सुखदुःखमोहात्मिका वृत्तयस्ता ध्यानेनैव चित्तैकाग्रतालक्षणेन हेया हातव्या इत्यर्थः। चित्तपरिकर्माभ्यासमात्रेणैव स्थूलत्त्वात्तासां निवृत्तिर्भवति। यथा वस्त्रादौ स्थूलो मलः प्रक्षालनमात्रेणैव निवर्तते यस्तु तत्र सूक्ष्मः स तैस्तैरुपायैरुत्तापनप्रभृतिभिरेव निवर्तयितुं शक्यते।
एवं क्लेशानां तत्त्वमभिधाय कर्माशयस्याभिधातुमाह –
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥
कर्माशय इत्यनेन तस्य स्वरूपमभिहितम्। यतो वासनारूपाण्येव कर्माणि क्लेशमूल इत्यनेन कारणमभिहितम्। यतः कर्मणां शुभाशुभानां क्लेशा एव निमित्तम्। दृष्टादृष्टजन्मवेदनीय इत्यनेन फलमुक्तम्। अस्मिन्नेव जन्मनि अनुभवनीयो दृष्टजन्मवेदनीयः। जन्मान्तरानुभवनीयोऽदृष्टजन्मवेदनीयः। तथा हि कानिचित्पुण्यानि कर्माणि देवताराधनादीनि तीव्रसंवेगेन कृतानीहैव जन्मनि जात्यायुर्भोगलक्षणं फलं प्रयच्छन्ति यथा नन्दीश्वरस्य भगवन्महेश्वराराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादूर्भूताः। एवमन्येषां विश्वामित्रादीनां तपः प्रभावाज्जात्यायुषी। केषांचिज्जातिरेव यथा तीव्रसंवेगेन दुष्टकर्मकृतां नहुषादीनां जात्यन्तरादिपरिणामः। उर्वश्याश्च कार्तिकेयवने लतारूपतया। एवं व्यस्तसमस्तरूपत्वेन यथायोगं योज्यम्।
इदानीं कर्माशयस्य स्वभेदभिन्नस्य फलमाह –
सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३ ॥
मूलमुक्तलक्षणाः क्लेशाः। तेष्वनभिभूतेषु सत्सु कर्मणां कुशलाकुशलरूपाणां विपाकः फलं जात्यायुर्भोगा भवन्ति। जातिर्मनुष्यत्वादिः। आयुश्चिरकालमेकशरीरसम्बन्धः। भोगा विषया इन्द्रियाणि सुखसंविद्दुःखसंविच्च कर्मकरणभावसाधनव्युत्पत्त्या भोगशब्दस्य। इदमत्र तात्पर्यम् चित्तभूमावनादिकालसंचिताः कर्मवासना यथा यथा पाकमुपयान्ति तथा तथा गुणप्रधानभावेन स्थिता जात्यायुर्भोगलक्षणं स्वकार्यमारभन्ते।
उक्तानां कर्मफलत्वेन जात्यादीनां स्वकारणकर्मानुसारिणां कार्यकर्तृत्वमाह –
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥
ह्लादः सुखं परितापो दुःखं ह्लादपरितापौ फलं येषां ते तथोक्ताः। पुण्यं कुशलं कर्म। तद्विपरीतमपुण्यं ते पुण्यापुण्ये कारणं येषां ते तेषां भावस्तस्मात्। एतदुक्तं भवति पुण्यकर्मारब्धा जात्यायुर्भोगा ह्लादफला अपुण्यकर्मारब्धास्तु परितापफलाः। एतच्च प्राणिमात्रापेक्षया द्वैविध्यम्।
योगिनस्तु सर्वं दुःखमित्याह –
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ १५ ॥
विवेकिनः परिज्ञातक्लेशादिविवेकस्य दृश्यमात्रं सकलमेव भोगसाधनं सविषं स्वाद्वन्नमिव दुःखमेव प्रतिकूलवेदनीयमेवेत्यर्थः। यस्मादत्यान्ताभिजातो योगी दुःखलेशेनाप्युद्विजते। यथाऽक्षिपात्रमूर्णातन्तुस्पर्शमात्रेणैव महतीं पीड़ामनुभवति नेतरदङ्गं तथा विवेकी स्वल्पदुःखानुबन्धेनापि उद्विजते। कथमित्याह परिणामतापसंस्कारदुःखै। विषयाणामुपभुज्यमानानां यथायथं गर्धाभिवृद्धेस्तदप्राप्तिकृतस्य दुःखस्यापरिहार्यतया दुःखान्तरसाधनात्वाच्चास्त्येव दुःखरूपतेति परिणामदुःखत्वम्। उपभुज्यमानेषु सुखसाधनेषु तत्प्रतिपन्थिनं प्रति द्वेषस्य सर्वदैवावस्थितत्वात्सुखानुभवकालेऽपि तापदुःखं दुष्परिहरमिति तापदुःखता। संस्कारदुःखत्वं च स्वाभिमतानभिमतविषयसंनिधाने सुखसंविद्दुःखसंविच्चोपजायमाना तथाविधमेव स्वक्षेत्रे संस्कारमारभते। संस्काराच्च पुनस्तथाविधसंविदनुभव इत्यपरिमितसंस्कारोत्पत्तिद्वारेण संसारानुच्छेदात्सर्वस्यैव दुःखत्वम्। गुणवृत्तिविरोधाच्चेति। गुणानां सत्त्वरजस्तमसां या वृत्तयः सुखदुःखमोहरूपाः परस्परमभिभाव्याभिभावकत्वेन विरुद्धा जायन्ते तासां सर्वत्रैव दुःखान्वेधाद्दुःखत्वम्। एतदुक्तं भवति ऐकान्तिकीमात्यन्तिकीं च दुःखनिवृत्तिमिच्छतो विवेकिन उक्तरूपकारणचतुष्टयं यावत्सर्वे विषया दुखःरूपतया प्रतिभान्ति तस्मात्सर्वकर्मविपाको दुःखरूप एवेत्युक्त भवति।
तदेवमुक्तस्य क्लेशकर्माशयविपाकराशेरविद्याप्रभवत्वादविद्यायाश्च मिथ्याज्ञानरूपतया सम्यग्ज्ञानोच्छेद्यत्वात्सम्यग्ज्ञानस्य च साधनहेयोपादेयावधारणरूपत्वात्तदभिधानायाऽऽह –
हेयं दुःखमनागतम् ॥ १६ ॥
भूतस्यातिक्रान्तत्वादनुभूयमानस्य च त्यक्तुमशक्यत्वादनागतमेव संसारदुःखं हातव्यमित्युक्तं भवति।
हेयहेतुमाह –
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥
द्रष्टा चिद्रूपः पुरुषः दृश्यं बुद्धिसत्त्वं तयोरविवेकख्यातिपूर्वको योऽसौ संयोगो भोग्यभोक्तृत्वेन संनिधानं स हेयस्य दुःखस्य गुणपरिणामरूपस्य संसारस्य हेतुः कारणं तन्निवृत्त्या संसारनिवृत्तिर्भवतीत्यर्थः।
द्रष्टृदृश्ययोः संयोग इत्युक्तं तत्र दृश्य स्वरूपं कार्यं प्रयोजनं चाऽऽह –
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ १८ ॥
प्रकाशः सत्त्वस्य धर्मः क्रिया प्रवृत्तिरूपा रजसः स्थितिर्नियमरूपा तमसः ताः प्रकाशक्रियास्थितयः शीलं स्वाभाविकं रूपं यस्य तत्तथाविधमिति स्वरूपमस्य निर्दिष्टम्। भूतेन्द्रियात्मकमिति। भूतानि स्थूलसूक्ष्मभेदेन द्विविधानि पृथिव्यादीनि गन्धतन्मात्रादीनि च। इन्द्रियाणि बुद्धीन्द्रियकर्मेन्द्रियान्तःकरणभेदेन त्रिविधानि। उभयमेतद्ग्राह्यग्रहणरूपात्मा स्वरूपाभिन्नाः परिणामो यस्य तत्तथाविधमित्यनेनास्य कार्यमुक्तम्। भोगः कथितलक्षणः अपवर्गो विवेकख्यातिपूर्विका संसारनिवृत्तिः तौ भोगापवर्गावर्थः प्रयोजनं यस्य तत्तथाविधं दृश्यमित्यर्थः।
तस्य च दृश्यस्य नानावस्थारूपपरिणामात्मकस्य हेयत्वेन ज्ञातव्यत्वात्तदवस्थाः कथयितुमाह –
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९ ॥
गुणानां पर्वाण्यवस्थाविशेषाश्चत्वारो ज्ञातव्या इत्युपदिष्टं भवति। तत्र विशेषा महाभूतेन्द्रियाणि अविशेषास्तन्मात्रान्तःकरणानि लिङ्गमात्रं बुद्धिः अलिङ्गमव्यक्तमित्युक्तम्। सर्वत्र त्रिगुणरूपस्याव्यक्तस्यान्वयित्वेन प्रत्यभिज्ञानादवश्यं ज्ञातव्यतेन योगकाले चत्वारि पर्वाणि निर्दिष्टानि।
एवं हेयत्वेन दृश्यस्य प्रथमं ज्ञातव्यात्वात्तदवस्थासहितं व्याख्यायोपादेयं द्रष्टारं व्याकर्तुमाह –
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥
द्रष्टा पुरुषो दृशिमात्रश्चेतनामात्रः। मात्रग्रहणं धर्मधर्मिनिरासार्थम्। केचिद्धि चेतनामात्मनो धर्ममिच्छन्ति। स शुद्धोऽपि परिणामित्वाद्यभावेन स्वप्रतिष्ठोऽपि प्रत्ययानुपश्यः प्रत्यया विषयोपरक्तानि ज्ञानानि तानि अनु अव्यवधानेन प्रतिसंक्रमाद्यभावेन पश्यति। एतदुक्तं भवति जातविषयोपरागायामेव बुद्धौ संनिधिमात्रेणैव पुरुषस्य दृष्टृत्वमिति।
स एव भोक्तेत्याह –
तदर्थ एव दृश्यस्याऽऽत्मा ॥ २१ ॥
दृश्यस्य प्रागुक्तलक्षणस्याऽऽत्मा यत्स्वरूपं स तदर्थस्तस्य पुरुषस्य भोक्तृत्वसंपादनं नाम स्वार्थपरिहारेण प्रयोजम्। न हि प्रधानं प्रवर्तमानमात्मनः किंचित्प्रयोजनमपेक्ष्य प्रवर्तते किंतु पुरुषस्य भोक्तृत्वं संपादयितुमिति।
यद्येवं पुरुषस्य भोगसंपादनमेव प्रयोजनं तदा संपादिते तस्मिंस्तन्निष्प्रयोजनं विरतव्यापारं स्यात् तस्मिंश्च परिणामशून्ये शुद्धत्वात्सर्वे द्रष्टारो बन्धरहिताः स्युः ततश्च संसारोच्छेद इत्याशङ्क्याऽऽह –
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२ ॥
यद्यपि विवेकख्यातिपर्यन्ताद्भोगसंपादनात्मकपि कृतार्थं पुरुषं प्रप्ति तन्नष्टं विरतव्यापारं तथाऽपि सर्वपुरुषसाधारणत्वादन्यान्प्रत्यनष्टव्यापारमवतिष्ठते। अतःप्रधानस्य सकलभोक्तृसाधारणत्वान्न कृतार्थता न कदाचिदपि विनाशः। एकस्य मुक्तौ वा न सर्वमुक्तिप्रसङ्ग इत्युक्तं भवति।
दृश्यद्रष्टारौ व्याख्याय संयोगं व्याख्यातुमाह –
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥
कार्यद्वारेणास्य लक्षणं करोति स्वशक्तिर्दृश्यस्य स्वभावः स्वामिशक्तिर्द्रष्टुः स्वरूपं तयोर्द्वयोरपि संवेद्यसंवेदकत्वेन व्यवस्थितयोर्या स्वरूपोपलब्धिस्तस्याः कारणं यः स संयोगः। स च सहजभोग्यभोग्क्तृभावस्वरूपान्नान्यः। न हि तयोर्नित्ययोर्व्यापकयोश्च स्वरूपादतिरिक्तः कश्चित् संयोगः। यदेव भोग्यस्य भोग्यत्वं भोक्तृश्च भोक्तृत्वमनादिसिद्धं स एव संयोगः।
तसयापि कारणमाह –
तस्य हेतुरविद्या ॥ २४ ॥
या पूर्वं विपर्यासात्मिका मोहरूपाऽविद्या व्याख्याता सा तस्याविवेकख्यातिरूपस्य संयोगस्य कारणम्।
हेयं हानक्रियाकर्मोच्यते किं पुनस्तद्धानमित्यत आह –
तदभावात्संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २५ ॥
तस्या अविद्यायाः स्वरूपविरुद्धेन सम्यग्ज्ञानेनोन्मूलिताया योऽयमभावस्तस्मिन्सति तत्कार्यस्य संयोगस्याप्यभावस्तद्धानमित्युच्यते। अयमर्थः नैतस्य मूर्त्तद्रव्यवत्परित्यागो युज्यते किंतु जातायां विवेकख्यातावविवेकनिमित्तः संयोगः स्वयमेव निवर्तत इति तस्य हानम्। यदेव च संयोगस्य हानं तदेव नित्यं केवलस्यापि पुरुषस्य कैवल्यं व्यपदिश्यते।
तदेवं संयोगस्य स्वरूपं कारणं कार्यं चाभिहितम्। अथ हानोपायकथनद्वारेणोपादेयकारणमाह –
विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥
अन्ये गुणा अन्यः पुरुष इत्येवंविधस्य विवेकस्य या ख्यातिः प्रख्या साऽस्य हानस्य दृश्यदुःख परित्यागस्योपायः कारणम्। कीदृशी अविप्लवा न विद्यते विप्लवो विच्छेदोऽन्तराऽन्तरा व्युत्थानरूपो यस्याः साऽविप्लवा। इदमत्र तात्पर्यम् प्रतिपक्षभावनाबलादविद्याप्रविलये विनिवृत्तज्ञातृत्वकर्तृत्वाभिमानायाः रजस्तमोमलानभिभृताया बुद्धेरन्तर्मुखा या चिच्छायासंक्रान्तिः सा विवेकख्यातिरुच्यते। तस्यां च संततत्वेन प्रवृत्तायां सत्यां दृश्यस्याधिकारनिवृत्तिर्भवत्येव कैवल्यम्।
उत्पन्नविवेकख्यातेः पुरुथस्य यादृशी प्रज्ञा भवति तां कथयन्विवेकख्यातेरेव स्वरूपमाह –
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥
तस्योत्पन्नविवेकज्ञानस्य ज्ञातव्यविवेकरूपा प्रज्ञा प्रान्तभूमौ सकलसालम्बनसमाधिभूमिपर्यन्ते सप्तप्रकारा भवति। तत्र कार्यविमुक्तिरूपा चतुष्प्रकारा 1 ज्ञातं मया ज्ञेयं न ज्ञातव्यं किंचिदस्ति। 2 क्षीणा मे क्लेशा न किंचित्क्षेतव्यमस्ति। 3 अधिगतं मया ज्ञानं 4 प्राप्त मया विवेकख्यातिरिति। प्रत्ययान्तरपरिहारेण तस्यामवस्थायामीदृश्येव प्रज्ञा जायते। ईदृशी प्रज्ञा कार्यविषयं निर्मलं ज्ञानं कार्यविमुक्तिरित्युच्यते। चित्तविमुक्तिस्त्रिधा 5 चरितार्था मे बुद्धिर्गुणा हताधिकारा गिरिशिखरनिपतिता इव ग्रावाणो न पुनः स्थितिं यास्यन्ति 6 स्वकारणे प्रविलयाभिमुखानां गुणानां मोहभिधानमूलकारणाभावान्निष्प्रयोजनत्वाच्चामीषां कुतः प्ररोहो भवेत् 7 सात्मीभूतश्च मे समाधिस्तस्मिन्सति स्वरूपप्रतिष्ठोऽहमिति। ईदृशी त्रिप्रकारा चित्तविमुक्तिः। तदेवमीदृश्यां सप्तविधप्रान्तभूमिप्रज्ञायामुपजातायां पुरुषः कुशलः इत्युच्यते।
विवेकख्यातिः संयोगाभावहेतुरित्युक्तं तस्यास्तूत्पत्तौ किं निमित्तमित्यत आह –
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥ २८ ॥
योगाङ्गानि वक्ष्यमाणानि तेषामनुष्ठानाज्ज्ञानपूर्वकादभ्यासादा विवेकख्यातेरशुद्धिक्षये चित्तसत्त्वस्य प्रकाशावरणलक्षणक्लेशरूपाशुद्धिश्रये या ज्ञानदीप्तिस्तारतम्येन सत्त्विकः परिणामो विवेकख्यातिपर्यन्तः स तेस्याः ख्यातेर्हेतुरित्यर्थः।
योगाङ्गानुष्ठानादशुद्धिक्षय इत्युक्तं कानि पुनस्तानि योगाङ्गानीति तेषामुपद्देशमाह –
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २९ ॥
इह कानिचित्समाधेः साक्षादुपकारकत्वेनान्तरङ्गाणि यथा धारणादीनि। कानिचित्प्रतिपक्षभूतहिंसादिवितर्कोन्मूलनद्वारेण समाधिमुपकुर्वन्ति। यथा यमनियमादीनि। तत्राऽऽसनादिनामुत्तरोत्तरमुपकारकत्वम्। तद्यथा सत्यासनजये प्राणायामस्थैर्यम्। एवमुत्तरत्रापि योज्यम्।
क्रमेणैषां स्वरूपमाह –
अहिंसासत्यस्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३० ॥
तत्र प्राणवियोगप्रयोजनव्यापारो हिंसा। सा च सर्वानर्थहेतुः। तदभावोऽहिंसा। हिंसायाः सर्वकालं परिहार्यत्वात्प्रथमं तदभावरूपाया अहिंसाया निर्देशः। सत्यं वाङ्मनसयोर्यथार्थत्वम्। स्तेयं परस्वापहरणं तदभावोऽस्तेयम्। ब्रह्मचर्यमुपस्थसंयमः। अपरिग्रहो भोगसाधनानामनङ्गीकारः। त एतेऽहिंसादयः पञ्च यमशब्दवाच्या योगाऽङ्गत्वेन निर्दिष्टाः।
एषां विशेषमाह –
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ ३१ ॥
जातिर्ब्राह्मणत्वादिः। देशस्तीर्थादिः। कालश्चतुर्दश्यादिः। समयो ब्राह्मणप्रयोजनादिः। एतैश्चतुर्भिरनवच्छिन्नाः पूर्वोक्ता अहिंसादयो यमाः सर्वासु क्षिप्तादिषु चित्तभूमिषु भवा महाव्रतमित्युच्यन्ते। तद्यथा ब्राह्मणं न हनिष्यामि तीर्थे न कंचन हनिष्यामि चतुर्दश्यां न हनिष्यामि देवब्राह्मणप्रयोजनव्यतिरेकेण कमपि न हनिष्यामीति। एवं चतुर्विधावच्छेदव्यतिरेकेण किंचित्क्वचित्कदाचित्कस्मिंश्चिदर्थे न हनिष्यामीत्यनवच्छिन्नाः। एवं सत्यादिषु यथायोगं योज्यम्। इत्थमनियतीकृताः सामान्येनैव प्रवृत्ता महाव्रतमित्युच्यते न पुनः परिच्छिन्नावधारणम्।
नियमानाह –
शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२ ॥
शौचं द्विविधं बाह्यमाभ्यन्तरं च। बाह्यं मृज्जलादिभिः कायादिप्रक्षालनम्। आभ्यन्तरं मैत्र्यादिभिश्चित्तमलानां प्रक्षालनम्। संतोषस्तुष्टिः। शेषाः प्रागेव कृतव्याख्यानाः। एते शौचादयो नियमशब्दवाच्याः।
कथमेषां योगाङगत्वमित्यत आह –
वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३ ॥
वितर्क्यंन्त इति वितर्का योगपरिपन्थिनो हिंसादयस्तेषां प्रतिपक्षभावने सति यदा बाधा भवति तदा योगः सुकरो भवतीति भवत्येव यमनियमानां योगाङ्गत्वम्।
इदानीं वितर्काणां स्वरूपं भेदप्रकारं कारणं फलं न क्रमेणाऽऽह –
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ ३४ ॥
एते पूर्वोक्ताः वितर्काः हिंसादयः प्रथमं त्रिधा भिद्यन्ते कृतकारितानुमोदिता भेदेन। तत्र स्वयं निष्पादिताः कृताः। कुरु कुर्विति प्रयोजकव्यापारेण समुत्पादिताः कारिताः। अन्येन क्रियमाणाः साध्वित्यङ्गीकृता अनुमोदिताः। एतच्च त्रैविध्यं परस्परव्यामोहनिवारणायोच्यते। अन्यथा मन्दमतिरेवं मन्येत न मया स्वयं हिंसा कृतेति नास्ति मे दोष इति। एतेषां कारणप्रतिपादनाय लोभक्रोधमोहपूर्वका इति। यद्यपि लोभक्रोधौ प्रथमं निर्दिष्टौ तथाऽपि सर्वक्लेशानां मोहस्यानात्मनि आत्माभिमानलक्षणस्य निदानत्वात्तस्मिन्सति स्वपरविभागपूर्वकत्वेन लोभक्रोधादीनामुद्भवान्मूलत्वमवसेयम्। मोहपूर्विका सर्वा दोषजातिरित्यर्थः। लोभस्तृष्णा। क्रोधः कृत्याकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मः। प्रत्येकं कृतादिभेदेन त्रिप्रकारा अपि हिंसादयो मोहादिकारणत्वेन त्रिधा भिद्यन्ते। एषामेव पुनरवस्थाभेदेन त्रैविध्यमाह मृदुमध्याधिमात्राः। मृदवो मन्दा न तीव्रा नापि मध्याः। मध्या नापि मन्दा नापि तीव्राः। अधिमात्रास्तीव्राः। पाश्चात्त्या नव भेदाः। इत्थं त्रैविध्ये सति सप्तविंशतिर्भवति। मृद्वादीनामपि प्रत्येकं मृदुमध्याधिमात्रभेदात्त्रैविध्यं संभवति। तद्यथायोगं योज्यम्। तद्यथा मृदुमृदुर्मुदमध्यो मृदुतीव्र इति। एषां फलमाह दुःखाज्ञानानन्तफलाः। दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः। अज्ञानं मिथ्याज्ञानं संशयविपर्ययरूपं ते दुःखाज्ञाने अनन्तमपरिच्छिन्नं फलं येषां ते तथोक्ताः। इत्थं तेषां स्वरूपकारणादिभेदेन ज्ञातानां प्रतिपक्षभावनया योगिना परिहारः कर्तव्य इत्युपदिष्टं भवति।
एषामभ्यासवशात्प्रकर्षमागच्छतामनुनिष्पादिन्यः सिद्धयो यथा भवन्ति तथा क्रमेण प्रतिपादयितुमाह –
अहिंसाप्रतिष्ठायां तत्सन्निधा वैरत्यागः ॥ ३५ ॥
तस्याहिंसां भावयतः संनिधौ सहज विरोधिनामप्यहिनकुलादीनां वैरत्यागो निर्मत्सरतयाऽवस्थानं भवति। हिंस्रा अपि हिंस्रत्वं परित्यजन्तीत्यर्थः।
सत्याभ्यासवतः किं भवतीत्याह –
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६ ॥
क्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति तस्य तु सत्याभ्यासवतो योगिनस्तथा सत्यं प्रकृष्यते यथा क्रियायामकृतायामपि योगी फलमाप्नोति। तद्वचनाद्यस्य कस्यचित्क्रियामकुर्वतोऽपि क्रियाफलं भवतीत्यर्थः।
अस्तेयाभ्यासवतः फलमाह –
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७ ॥
अस्तेयं यदाऽभ्यस्यति तदाऽस्य तत्प्रकर्षान्निरभिलाषस्यापि सर्वतो दिव्यानि रत्नानि उपतिष्ठन्ते।
ब्रह्मचर्याभ्यासस्य फलमाह –
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८ ॥
यः किल ब्रह्मचर्यमभ्यस्यति तस्य तत्प्रकर्षान्निरतिशयं वीर्यं सामर्थ्यमाविर्भवति। वीर्यनिरोधो हि ब्रह्मचर्यं तस्य प्रकर्षाच्छरीरेन्द्रियमनः सु वीर्यं प्रकर्षमागच्छति।
अपरिग्रहाभ्यासस्य फलमाह –
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥ ३९ ॥
कथमित्यस्यभावः कथंता जन्मनः कथंता जन्मकथंता तस्याः संबोधः सम्यग्ज्ञानं जन्मान्तरे कोऽहमासं कीदृशः किंकार्यकारीति जिज्ञासायां सर्वमेव सम्यग्जानातीत्यर्थः। न केवलं भोगसाधनपरिग्रह एव परिग्रहो यावदात्मनः शरीरपरिग्रहोऽपि परिग्रह भोगसाधनत्वाच्छरीरस्य। तस्मिन्सति रागानुबन्धाद्वहिर्मुखायामेव प्रवृत्तौ न तात्त्विकज्ञानप्रादुर्भावः। यदा पुनः शरीरादिपरिग्रहनैरपेक्ष्येण माध्यस्थ्यमवलम्बते तदा मध्यस्थस्य रागादित्यागात्सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसंबोधः।
उक्ता यमानां सिद्धयः। अथ नियमानामाह –
शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥
यः शौचं भावयति तस्य स्वाङ्गेष्वपि कारणस्वरूपपर्यालोचनद्वारेण जुगुप्सा घृणा समुपजायतेऽशुचिरयं कायो नात्राऽऽग्रहः कार्य इति अमुनैव हेतुना परैरन्यैश्च कायवद्भिरसंसर्गः संसर्गाभावः संसर्गपरिवर्जनमित्यर्थः। यः किल स्वमेव कायं जुगुप्सते तत्तदवद्यदर्शनात्स कथं परकीयैस्तथाभूतैः कायैः संसर्गमनुभवति।
शौचस्यैव फलान्तरमाह –
सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ ४१ ॥
भवन्तीति वाक्यशेषः। सत्त्वं प्रकाशसुखाद्यात्मकं तस्य शुद्धी रजस्तमोभ्यामनभिवः सौमनस्यं खेदाननुभवेन मानसी प्रीतिः। एकाग्रता नियतेन्द्रियविषये चेतसः स्थैर्यम्। इन्द्रियजयो विषयपराङ्गमुखाणामिन्द्रियाणामात्मनि अवस्थानम्। आत्मदर्शने विवेकख्यातिरूपे चित्तस्य योग्यत्वंसमर्थत्वम्। शौचाभ्यसवत एते सत्त्वशुद्ध्यादयः क्रमेण प्रादुर्भवन्ति। तथा हि सत्त्वशुद्धेः सौमनस्यं सौमनस्यादैकाग्र्यमैकाग्र्यादिन्द्रियजय इन्द्रियजयादात्मदर्शनयोग्यतेति।
संतोषाभ्यासवतः फलमाह –
संतोषादनुत्तमः सुखलाभः ॥ ४२ ॥
संतोषप्रकर्षेण योगिनस्तथाविधमान्तरं सुखमाविर्भवति। यस्य बाह्यं सुखं लेशेनापि न समम्।
तपसः फलमाह –
कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ ४३ ॥
तपः समभ्यस्यमानं चेतसः क्लेशादिलक्षणाशुद्धिक्षयद्वारेण कायेन्द्रियाणां सिद्धिमुत्कर्षमादधाति। अयमर्थः चान्द्रायणादिना चित्तक्लेशक्षयस्तत्क्षयादिन्द्रियाणां सूक्ष्मव्यवहितविप्रकृष्टदर्शनादिसामर्थ्यमाविर्भवति। कायस्य यथेच्छमणुत्वमहत्त्वादीनि।
स्वाध्यायस्य फलमाह –
स्वाध्यायादिष्टदेवतासंप्रयोगः ॥ ४४ ॥
अभिप्रेतमन्त्रजपादिलक्षणे स्वाध्याये प्रकृष्यमाणे योगिन इष्टयाऽभिप्रेतया देवतया संप्रयोगो भवति। सा देवता प्रत्यक्षीभवतीत्यर्थः।
ईश्वरप्रणिधानस्य फलमाह –
समाधिसिद्विरीश्वरप्रणिधानात् ॥ ४५ ॥
ईश्वरे यत्प्रणिधानं भक्तिविशेषस्तस्मात्समाधेरुक्तलक्षणस्याऽऽविर्भावो भवति। यस्मात्स भगवानीश्वरः प्रसन्नः सन्नान्तरायरूपान्क्लेशान्परिहृत्य समाधिं संबोधयति।
यमनियमानुक्त्वाऽऽसनमाह –
स्थिरसुखमासनम् ॥ ४६ ॥
आस्यतेऽनेनेत्यासनं पद्मासनदण्डासनस्वस्तिकासनादि। तद्यदा स्थिरं निष्कम्पं सुखमनुद्वेजनीयं च भवति तदा योगाङ्गतां भजते।
तस्यैव स्थिरसुखत्वप्राप्त्यर्थमुपायमाह –
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ ४७ ॥
तदासनं प्रयत्नशैथिल्येनाऽऽनन्त्यसमापत्त्या च स्थिरं सुखं भवतीति संबन्धः। यदा यदाऽऽसनं बध्नामीतीच्छां करोति प्रयत्नशैथिल्येऽपि अक्लेशेनैव तदा तदाऽऽसनं संपद्यते। यदा चाऽऽकाशादिगत आनन्त्ये चेतसः समापत्तिः क्रियतेऽव्यवधानेन तादात्म्यमापद्यते तदा देहाहंकाराभावान्नाऽऽसनं दुःखजनकं भवति। अस्मिंश्चाऽऽसनजये सति समाध्यन्तरायभूता न प्रभवन्ति अङ्गमेजयत्वादयः।
तस्यैवानुनिष्पादितं फलमाह –
ततो द्वन्द्वानभिघातः ॥ ४८ ॥
तस्मिन्नासनजये सति द्वंद्वैः शीतोष्णक्षुत्तृष्णादिभिर्योगी नाभिहन्यत इत्यर्थः।
आसनजयानन्तरं प्राणायाममाह –
तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ ४९ ॥
आसनस्थैर्ये सति तन्निमित्तकः प्राणायामलक्षणो योगाङ्गविशेषोऽनुष्ठेयो भवति। कीदृशः श्वासप्रश्वासयोर्गतिविच्छेदलक्षणः। श्वासप्रश्वासौ निरुक्तौ। तयोस्त्रिधा रेचनस्तम्भनपूरणद्वारेण बाह्याभ्यन्तरेषु स्थानेषु गतेः प्रवाहस्य विच्छेदो धारणं प्राणायाम उच्यते।
तस्यैव सुखावगमाय विभज्य स्वरूपं कथयति –
बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ ५० ॥
बाह्यवृत्तिः श्वासो रेचकः। अन्तर्वृत्तिः प्रश्वासः पूरकः। अन्तस्तम्भवृत्तिः कुम्भकः। तस्मिञ्जलमिव कुम्भे निश्चलतया प्राणा अवस्थाप्यन्त इति कुम्भकः। त्रिविधोऽयं प्राणायामो देशेन कालेन संख्यया चोपलक्षितो दीर्घसूक्ष्मसंज्ञो भवति। देशेनोपलक्षितो यथा नासाप्रदेशान्तादौ। कालेनोपलक्षितो यथा षट्त्रिंशन्मात्रादिप्रमाणः। संख्ययोपलक्षितो यथा इयतो वारान्कृत एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातोभवतीति। एतज्ज्ञानाय संख्याग्रहणमुपात्तम्। उद्घातो नाम नाभिमूलात्प्रेरितस्य वायोः शिरसि अभिहननम्।
त्रीन्प्राणायामानभिधाय चतुर्थमभिधातुमाह –
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१ ॥
प्राणस्य बाह्यो विषयो नासाद्वादशान्तादिः। आभ्यन्तरो विषयो हृदयनाभिचक्रादिः। तौ द्वौ विषयावाक्षिप्य पर्यालोच्य सः स्तम्भरूपो गतिविच्छेदः स चतुर्थः प्राणायामः। तृतीयस्मात्कुम्भकाख्यादयमस्य विशेषः स बाह्याभ्यन्तरविषयावपर्यालोच्यैव सहसा तप्तोपलनिपतितजलन्यायेन युगपत्स्तम्भवृत्त्या निष्पद्यते। अस्य तु विषय द्वयाक्षेपक निरोधः। अयमपि पूर्ववद्देशकालसंख्याभिरूपलक्षितो द्रष्टव्यः।
चतुर्विधस्यास्य फलमाह –
ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥
ततस्तस्मात्प्राणायामात्प्रकाशस्य चित्तसत्त्वगतस्य यदावरणं क्लेशरूपं तत्क्षीयते विनश्यतीत्यर्थः।
फलान्तरमाह –
धारणासु च योग्यता मनसः ॥ ५३ ॥
धारणा वक्ष्यमाणलक्षणस्तासु प्राणायामैः क्षीणदोष मनो यत्र यत्र धार्यते तत्र स्थिरी भवति न विक्षेपं भजते।
प्रत्याहारस्य लक्षणमाह –
स्वविषयासंप्रयोगे चितस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४ ॥
इन्द्रियाणि विषयेभ्यः प्रतीपमाह्रियन्तेऽस्मिन्निति प्रत्याहारः। स च कथं निष्पद्यत इत्याह चक्षुरादीनामिन्द्रियाणां स्वविषयो रूपादिस्तेन संप्रयोगस्तदाभिमुख्येन वर्तनं तदभावस्तदाभिमुख्यं परित्यज्य स्वरूपमात्रेऽवस्थानं तस्मिन्सति चित्तस्वरूपमात्रानुकारीणीन्द्रियाणि भवन्ति। यतश्चित्तमनु वर्तमानानि मधुकरराजमिव मधुमक्षिकाः सर्वाणीन्द्रियाणि प्रतीयन्तेऽतश्चित्तनिरोधे तानि प्रत्याहृतानि भवन्ति। तेषां तत्स्वरूपानुकारः प्रत्याहारः उक्तः।
प्रत्याहारफलमाह –
ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥
अभ्यस्यमाने हि प्रत्याहारे तथा वश्यानि आयत्तानीन्द्रियाणि संपद्यन्ते यथा बाह्यविषयाभिभमुखतां नीयमानान्यपि न यान्तीत्यर्थः।
तदेवं प्रथमपादोक्त योगस्याङ्गभूतक्लेशतनूकरणफलं क्रियायोगमभिधाय क्लेशानामुद्देशं स्वरूपं कारणं क्षेत्रं फलं चोक्त्वा कर्मणामपि भेदं कारणं स्वरूपं फलं चाभिधाय विपाकस्य स्वरूपं कारणं चाभिहितम्। ततस्त्याज्यत्वात्क्लेशादीनां ज्ञानव्यतिरेकेण त्यागस्याशक्यत्वाज्ज्ञानस्य न शास्त्रायत्तत्वाच्छास्त्रस्य च हेयहानकारणोपादेयोपादानकारणबोधकत्वेन चतुर्व्यूहत्वाद्धेयस्य च हानव्यतिरेकेण स्वरूपानिष्पत्तेर्हानसहितं चतुर्व्यूहं स्वस्वकारणसहितमभिधायोपादेयनकारणभूताया विवेकख्यातेः कारणभूतानामन्तरङ्गबहिरङ्गभावेन स्थितानां योगाङ्गानां यमादीनां स्वरूपं फलसहितं व्याकृत्याऽऽसनादीनां धारणापर्यन्तानां परस्परमुपकार्योपकारकभावेनावस्थितानामुद्देशमभिधाय प्रत्येकं लक्षणकरणपूर्वकं फलमभिहितम्। तदयं योगो यमनियमादिभिः प्राप्तबीजभाव आसनप्राणायामैरङ्कुरितः प्रत्याहारेण पुष्पितो ध्यानधारणासमाधिभिः फलिष्यतीति व्याख्यातः साधनपादः।
विभूतिपादः
[सम्पाद्यताम्]देशबन्धश्चित्तस्य धारणा ॥ १ ॥
तदेवं पूर्वोद्दिष्टं धारणाद्यङ्गत्रयं निर्णेतुं संयमसंज्ञाविधानपूर्वकं बाह्याभ्यन्तरादि सिद्धिप्रतिपादनाय लक्षयितुमुपक्रमते।
तत्र धारणायाः स्वरूपमाह –
तत्र प्रत्ययैकतानता ध्यानम् ॥ २ ॥
तत्र तस्मिन्प्रदेशे यत्र चित्तं धृतं तत्र प्रत्ययस्य ज्ञानस्य यैकतानता विसदृशपरिणामपरिहारद्वारेण यदेव धारणायामालम्बनीकृतं तदालम्बनतयैव निरन्तरमुत्पत्तिः सा ध्यानमुच्यते।
चरमं योगाङ्गं समाधिमाह –
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३ ॥
तदेवोक्तलक्षणं ध्यानं यत्रार्थमात्रनिर्भासमर्थाकारसमावेशादुद्भूतार्थरूपंन्यग्भूतज्ञानस्वरूपत्वेन स्वरूपशून्यतामिवाऽऽपद्यते स समाधिरित्युच्यते। सम्यगाधीयत एकाग्री क्रियते विक्षेपान्परिहृत्य मनो यत्र स समाधिः।
उक्तलक्षणस्य योगाङ्गत्रयस्य व्यवहाराय स्वशास्त्रे तान्त्रिकीं संज्ञां कर्तुमाह –
त्रयमेकत्र संयमः ॥ ४ ॥
एकस्मिन्विषये धारणाध्यानसमाधित्रयं प्रवर्तमानं संयमसंज्ञया शास्त्रे व्यवह्रियते।
तस्य फलमाह –
तज्जयात्प्रज्ञालोकः ॥ ५ ॥
तस्य संयमस्य जयादभ्यासेन सात्म्योपादनात्प्रज्ञाया विवेकख्यातेरालोकः प्रसवो भवति। प्रज्ञा ज्ञेयं सम्यगवभासयतीत्यर्थः।
तस्योपयोगमाह –
तस्य भूमिषु विनियोगः ॥ ६ ॥
तस्य संयमस्य भूमिषु स्थूलसूक्ष्मालम्बनभेदेन स्थितासु चित्तवृत्तिषु विनियोगः कर्तव्यः अधरामधरां चित्तभूमिं जितां जितां ज्ञात्वोत्तरस्यां भूमौ संयमः कार्यः। न ह्यनात्मीकृताधरभूमिरुत्तरस्यां भूमौ संयमंकुर्वाणः फलभाग्भवति।
साधनपादे योगाङ्गान्यष्टावुद्दिश्य पञ्चानां लक्षणं विधाय त्रयाणां कथं न कृतमित्याशङ्क्याऽऽह –
त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ७ ॥
पूर्वेभ्यो यमादिभ्यो योगाङ्गेभ्यः पारम्पर्येण समाधेरुपकारकेभ्यो धारणादियोगाङ्गत्रयं संप्रज्ञातस्य समाधेरन्तरङ्गं समाधिस्वरूपनिष्पादनात्॥
तस्यापि समाध्यन्तरापेक्षया बहिरङ्गत्वमाह –
तदपि बहिरङ्गं निर्बीजस्य ॥ ८ ॥
निर्बीजस्य निरालम्बनस्य शून्यभावनापरपर्यायस्य समाधेरेतदपि योगाङ्गत्रयं बहिरङ्गं पारम्पर्येणोपकारकत्वात्।
इदानीं योगसिद्धिराख्यातुकामः संयमस्य विषयपरिशुद्धिं कर्तुं क्रमेण परिणामत्रयमाह –
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचितान्वयो निरोधपरिणामः ॥ ९ ॥
व्युत्थानं क्षिप्तमूढविक्षिप्ताख्यं भूमित्रयम्। निरोधः प्रकृष्टसत्त्वस्याङ्गितया चेतसः परिणामः। ताभ्यां व्युत्थाननिरोधाभ्यां यौ जनितौ संस्कारौ तयोर्यथाक्रममभिभवप्रादुर्भावौ यदा भवतः। अभिभवो न्यग्भूततया कार्यकरणासामर्थ्येनावस्थानम्। प्रादुर्भावो वर्तमानेऽध्वनि अभिव्यक्तरूपतयाऽऽविर्भावः। तदा निरोधक्षणे चित्तस्योभयवृत्तित्वादन्वयो यः स निरोधपरिणाम उच्यते। अयमर्थः यदा व्युत्थानसंस्काररूपो धर्मस्तिरोभूतो भवति निरोधसंस्काररूपश्चाऽऽविर्भवति धर्मिरूपतया च चित्तमुभेयान्वयित्वेऽपि निरोधात्मनाऽवस्थितं प्रतीयते तदा स निरोधपरिणामशब्देन व्यवह्रियते। चलत्वाद्गुणवृत्तस्य यद्यपि चेतसो निश्चलत्वं नास्ति तथाऽपि एवंभूतः परिणामः स्थैर्यमुच्यते।
तस्यैव फलमाह –
तस्य प्रशान्तवाहिता संस्कारात् ॥ १० ॥
तस्य चेतसो निरुक्तान्निरोधसंस्कारात्प्रशान्तवाहिता भवति। परिहृतविक्षेपतया सदृशप्रवाहपरिणामि चित्तं भवतीत्यर्थः।
निरोधपरिणाममभिधाय समाधिपरिणाममाह –
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११ ॥
सर्वार्थता चलत्वान्नानाविधार्थग्रहणं चित्तस्य विक्षेपो धर्मः। एकस्मिन्नेवाऽऽलम्बने सदृशपरिणामितैकाग्रता साऽपि चित्तस्य धर्मः। तयोर्यथाक्रमं क्षयोदयौ सर्वार्थतालक्षणस्य धर्मस्य क्षयोऽत्यन्ताभिभव एकाग्रतालक्षणस्य धर्मस्य प्रादुर्भावोऽभिव्यक्तिश्चित्तस्योद्रिक्तसत्त्वस्यान्वयितयाऽवस्थानं समाधिपरिणाम इत्युच्यते। पूर्वस्मात्परिणामादस्यायं विशेषः तत्र संस्कारलक्षणयोर्धर्मयोरभिभवप्रादुर्भावौ पूर्वस्य व्युत्थानसंस्काररूपस्य न्यग्भावः। उत्तरस्य निरोधसंस्काररूपस्योद्भवोऽनभिभूतत्वेनावस्थानम्। इह तु क्षयोदयाविति सर्वार्थतारूपस्य विक्षेपस्यात्यन्ततिरस्कारादनुत्पत्तिरतीतेऽध्वनि प्रवेशः क्षय एकाग्रतालक्षणस्य धर्मस्योद्भवो वर्तमानेऽध्वनि प्रकटत्वम्।
तृतीयमेकाग्रतापरिणाममाह –
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥
समाहितस्यैव चित्तस्यैकप्रत्ययो वृत्तिविशेषः शान्तोऽतीतमध्वानं प्रविष्टः। अपरस्तूदितो वर्तमानेऽध्वनि स्फुरितः। द्वावपि समाहितचित्तत्वेन तुल्यावेकरूपालम्बनत्वेन सदृशौ प्रत्ययावुभयत्रापि समाहितस्यैव चित्तस्यान्वयित्वेनावस्थानं स एकाग्रतापरिणाम इत्युच्यते।
चित्तपरिणामोक्तं रूपमन्यत्राप्यतिदिशन्नाह –
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ १३ ॥
एतेन त्रिविधेनोक्तेन चित्तपरिणामेन भूतेषु स्थूलसूक्ष्मेषु इन्द्रियेषु बुद्धिकर्मलक्षणभेदेनावस्थितेषु धर्मलक्षणावस्थाभेदन त्रिविधः परिणामो व्याख्यातोऽवगन्तव्यः। अवस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्तिर्धर्म परिणामः। यथा मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारो धर्मपरिणाम इत्युच्यते। लक्षणपरिणामो यथातस्यैव घटस्यानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः। तत्परित्यागेन चातीताध्वपरिग्रहः। अवस्थापरिणामो यथा तस्यैव घटस्य प्रथमद्वितीययोः सदृशयोः क्षणयोरन्वयित्वेन। यतश्च गुणवृत्तिर्नापरिणममाना क्षणमप्यस्तिः।
ननु कोऽयं धर्मीत्याशङ्क्य धर्मिणो लक्षणमाह –
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४ ॥
शान्ता ये कृतस्वस्वव्यापारा अतीतेऽध्वनि अनुप्रविष्टाः उदिता येऽनागतमध्वानं परित्यज्य वर्तमानेऽध्वनि स्वव्यापारं कुर्वन्ति अव्यपदेश्या ये शक्तिरूपेण स्थिता व्यपदेष्टुं न शक्यन्ते तेषां नियतकार्यकारणरूपयोग्यतयाऽवच्छिन्ना शक्तिरेवेह धर्मशब्देनाभिधीयते। तं त्रिविधमपि धर्म योऽनुपतति अनुवर्ततेऽन्वयित्वेन स्वी करोति स शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मीत्युच्यते। यथा सुवर्णं रुचकरूपधर्मपरित्यागेन स्वस्तिकरूप धर्मान्तरपरिग्रहे सुवर्णरूपतयाऽनुवर्तमानं तेषु धर्मेषु कथंचिद्भिन्नेषु धर्मिरूपतया सामान्यात्मना धर्मरूपतया विशेषात्मना स्थितमन्वयित्वेनावभासते।
एकस्य धर्मिणः कथमनेके परिणामा इत्याशङ्कामपनेतुमाह –
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥
धर्माणामुक्तलक्षणानां यः क्रमस्तस्य यत्प्रतिक्षणमन्यत्वं परिदृश्यमानं तत् परिणामस्योक्तलक्षणस्यान्यत्वे नानविधत्वे हेतुर्लिङ्गं ज्ञापकं भवति। अयमर्थः योऽयं नियतः क्रमो मृच्चूर्णान्मृत्पिण्डस्ततः कपालानि तेभ्यश्च घट इत्येवंरूपः परिदृश्यमानः परिणामस्यान्यत्वमावेदयति तस्मिन्नेव धर्मिणि यो लक्षणपरिणामस्यावस्थापरिणामस्य वा क्रमः सोऽपि अनेनैव न्यायेन परिणामान्यत्वे गमकोऽवगन्तव्यः। सर्व एव भावा नियतेनैव क्रमेण प्रतिक्षणं प्ररिणममानाः परिदृश्यन्ते। अतः सिद्धं क्रमान्यत्वात्परिणामान्यत्वम्। सर्वेषां चित्तादीनां परिणममनानां केचिद्धर्माः प्रत्यक्षेणैवोपलभ्यन्ते। यथा सुखादयः संस्थानादयश्च। केचिच्चैकान्तेनानुमानगम्याः। यथा धर्मसंस्कारशक्तिप्रभृतयः। धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्रानुगमः।
इदानीमुक्तस्य संयमस्य विषयप्रदर्शनद्वारेण सिद्धीः प्रतिपादयितुमाह –
परिणामत्रयसंयमादतीतानागतज्ञानम् ॥ १६ ॥
धर्मलक्षणावस्थाभेदेन यत्परिणामत्रयमुक्तं तत्र संयमात्तस्मिविषये पूर्वोक्तसंयमस्य कारणादतीतानागतज्ञानं योगिनः समाधेराविर्भवति। इदमत्र तात्पर्यम् अस्मिन्धर्मिणि अयं धर्म इदं लक्षणमियमवस्था चानागतादध्वनः समेत्य वर्तमानेऽध्वनि स्वं व्यापारं विधायातीतमध्वानं प्रविशतीत्येवं परिहृतविक्षेपतया यदा संयमं करोति तदा यत्किंचिदनुत्पन्नमतिक्रान्तं वा तत्सर्वं योगी जानाति। यतश्चित्तस्य शुद्धसत्त्वप्रकाशरूपत्वात्सर्वार्थग्रहणसामर्थ्यमविद्यादिभिर्विक्षेपैरपक्रियते। यदा तु तैस्तैरुपायैर्विक्षेपाः परिह्रियन्ते तदा निवृत्तमलस्येवाऽऽदर्शस्य सर्वार्थग्रहणसामर्थ्यमेकाग्रताबलादाविर्भवति।
सिद्ध्यन्तरमाह –
शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ १७ ॥
शब्दः श्रोत्रेन्द्रियग्राह्यो नियतक्रमवर्णात्मा नियतैकार्थप्रतिपत्त्यवच्छिन्नः। यदि वा क्रमरहितः स्फोटात्मा शास्त्रसंस्कृतबुद्धिग्राह्यः। उभयथाऽपि पदरूपो वाक्यरूपश्च तयोरेकार्थप्रतिपत्तौ सामर्थ्यात्। अर्थो जातिगुणक्रियादिः। प्रत्ययो ज्ञानं विषयाकारा बुद्धिवृत्तिः। एषां शब्दार्थज्ञानानां व्यवहार इतरेतराध्यासाद्भिन्नानामपि बुद्ध्येकरूपतासंपादनात्संकीर्णत्वम्। तथा हि गामानयेत्युक्ते कश्चिद्गोलक्षणमर्थं गोत्वजात्यवच्छिन्नं सास्नादिमत्पिण्डरूपं शब्दं च तद्वाचकं ज्ञानं च तद्ग्राहकमभेदेनैवाध्यवस्यति न त्वस्य गोशब्दो वाचकोऽयं गोशब्दस्य वाच्यस्तयोरिदं ग्राहकं ज्ञानमिति भेदेन व्यवहरति। तथा हि कोऽयमर्थः कोऽयं शब्दः किमिदं ज्ञानमिति पृष्ठः सर्वत्रैकरूपमेवोत्तरं ददाति गौरिति। स यद्येकरूपतां न प्रतिपद्यते कथमेकरूपमुत्तरं प्रयच्छति। एतस्मिन्स्थिते योऽयं प्रविभागं इदं शब्दस्य तत्त्वं यद्वाचकत्वं नाम इदमर्थस्य यद्वाच्यत्वमिदं ज्ञानस्य यत्प्रकाशकत्वमिति प्रविभागं विधाय तस्मिन्प्रविभागे यः संयमं करोति तस्य सर्वेषां भूतानां मृगपशुपक्षिसरीसृपादीनां यद्रुतं यः शब्दस्तत्र ज्ञानमुत्पद्यतेऽनेनैवाभिप्रायेणैतेन प्राणिनाऽयं शब्द समुच्चारित इति सर्वं जानाति।
सिद्ध्यन्तरमाह –
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८ ॥
द्विविधाश्चित्तस्य वासनारूपाः संस्काराः। केचित्स्मृतिमात्रोत्पादनफलाः केचिज्जात्यायुर्भोगलक्षणविपाकहेतवः यथा धर्माधर्माख्याः। तेषु संस्कारेषु यदा संयमं करोति एवं मया सोऽर्थोनुभूत एवं मया सा क्रिया निष्पादितेति पूर्ववृत्तमनुसंदधानो भावयन्नेव प्रबोधकमन्तरेणोद्बुद्धसंस्कारः सर्वमतीतं स्मरति। क्रमेण साक्षात्कृतेषूद्बुद्धेषु संस्कारेषु पूर्वजन्मानुभूतानपि जात्यादीन्प्रत्यक्षेण पश्यति।
सिद्ध्यन्तरमाह –
प्रत्ययस्य परचित्तज्ञानम् ॥ १९ ॥
प्रत्यस्य परचित्तस्य केनचिन्मुखरागादिना लिङ्गेन गृहीतस्य यदा संयमं करोति तदा परकीयचित्तस्य ज्ञानमुत्पद्यते सरागमस्य चित्तं विरागं वेति। परचित्तगतानपि धर्माञ्जानातीत्यर्थः।
अस्यैव परचित्तज्ञानस्य विशेषमाह –
न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ २० ॥
तस्य परस्य यच्चित्तं तत्सालम्बनं स्वकीयेनाऽऽलम्बनेन सहितं न शक्यते ज्ञातुमालम्बनस्य केनचिल्लिङ्गेनाविषयीकृतत्वात्। लिङ्गाच्चित्तमात्रं परस्यावगतं ननु नीलविषयमस्य चित्तं पीतविषयमिति वा। यच्च न गृहीतं तत्र संयमस्य कर्तुमशक्यत्वान्न भवति परचित्तस्य यो विषयस्तत्र ज्ञानम्। तस्मात्परकीयचित्तं नाऽलम्बनसहितं गृह्यते तस्वाऽऽलम्बनस्यागृहीतत्वात्। चित्तधर्माः पुनर्गृह्यन्त एव। यदा तु किमनेनाऽऽलम्बितमिति प्रणिधानं करोति तदा तत्संयमात्तद्विषयमपि ज्ञानमुत्पद्यत एव।
सिद्ध्यन्तरमाह –
कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासंप्रयोगेऽन्तर्धानम् ॥ २१ ॥
कायः शरीरं तस्य रूपं चक्षुर्ग्राह्यो गुणस्तस्मिन्नस्त्यस्मिन्काये रूपमिति संयमात्तस्य रूपस्य चक्षुर्ग्राह्यत्वरूपा या शक्तिस्तस्याः स्तम्भे भावनावशात्प्रतिबन्धे चक्षुष्प्रकाशासंयोगे चक्षुषः प्रकाशः सत्त्वधर्मस्तस्यासंयोगे तद्ग्रहणव्यपाराभावे योगिनोऽन्तर्धानं भवति न केनचिदसौ दृश्यत इत्यर्थः। एतेनैव रूपाद्यन्तर्धानोपायप्रदर्शनेन शब्दादीनां श्रोत्रादिग्राह्याणामन्तर्धानमुक्तं वेदितव्यम्।
सिद्ध्यन्तरमाह –
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२ ॥
आयुर्विपाकं यत्पूर्वकृतं कर्म तद्द्विप्रकारं सोपक्रमं निरुपक्रमं च। तत्र सोपक्रमं यत्फलजननायोपक्रमेण कार्यकारणाभिमुख्येन सह वर्तते। यथोष्णप्रदेशे प्रसारितमार्द्रवासः शीघ्रमेव शुष्यति। उक्तरूपविपरीतं निरुपक्रमं यथा तदेवाऽऽर्द्रवासः संवर्तितमनुष्णदेशे चिरेण शुष्यति। तस्मिन्द्विविधे कर्मणि यः संयमं करोति किं मम कर्म शीघ्रविपाकं चिरविपाकं वा एवं ध्यानदार्ढ्यादपरान्तज्ञानमस्योत्पद्यते। अपरान्तः शरीरवियोगस्तस्मिञ्ज्ञानममुष्मिन्कालेऽमुष्मिन्देशे मम शरीरवियोगो भविष्यतीति निःसंशयं जानाति। अरिष्टेभ्यो वा। अरिष्टानि त्रिविधानि आध्यात्मिकाधिभौतिकाधिदैविकभेदेन। तत्राऽऽध्यात्मिकानि पिहितकर्णः कोष्ठ्यस्य वायोर्घोषं न शृणोतीत्येवमादीनि। आधिभौतिकानि अकस्माद्विकृतपुरुषदर्शनादीनि। आधिदैविकानि अकाण्ड एव द्रष्टुमशक्यस्वर्गादिपदार्थदर्शनादीनि। तेभ्यः शरीरवियोगकालं जानाति। यद्यपि अयोगिनामप्यरिष्टेभ्यः प्रायेण तज्ज्ञानमुत्पद्यते तथाऽपि तेषां सामान्याकारेण तत्संशयरूपं योगिनां पुनर्नियत देशकालतया प्रत्यक्षवदव्यभिचारि।
परिकर्मनिष्पादिताः सिद्धिः प्रतिपादयितुमाह –
मैत्र्यादिषु बलानि ॥ २३ ॥
मैत्रीकरुणामुदितोपेक्षासु यो विहितसंयमस्तस्य बलानि मैत्र्यादीनां संबन्धीनि प्रादुर्भवन्ति। मैत्रीकरुणामुदितोपेक्षास्तथाऽस्य प्रकर्षं गच्छन्ति यथा सर्वस्य मित्रत्वादिकमयं संपद्यते।
सिद्ध्यन्तरमाह –
बलेषु हस्तिबलादीनि ॥ २४ ॥
हस्त्यादिसंबन्धिषु बलेषु कृतसंयमस्य तद्बलानि हस्त्यादिबलानि आविर्भवन्ति। यदयमर्थः यस्मिन्हस्तिबले वायुवेगे सिंहवीर्ये वा तन्मयीभावेनायं संयमं करोति तत्तत्सामर्थ्ययुक्तत्वात्सर्वमस्य प्रादुर्भव तीत्यर्थः।
सिद्ध्यन्तरमाह –
प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ २५ ॥
प्रवृत्तिर्विषयवती ज्योतिष्मति च प्रागुक्ता तस्या योऽसावालोकः सात्त्विकप्रकाशप्रसरस्तस्य निखिलेषु विषयेषु न्यासात्तद्वासितानां विषयाणां भावनात्सान्तःकरणेषु इन्द्रियेषु प्रकृष्टशक्तिमापन्नेषु सूक्ष्मस्य परमाण्वादेर्व्यवहितस्य भूम्यन्तर्गतस्य निधानादेर्विप्रकृष्टस्य मेर्वपरापार्श्ववर्तिनो रसायनादेर्ज्ञानमुत्पद्यते।
एतत्समानवृत्तान्तं सिद्ध्यन्तरमाह –
भुवनज्ञानं सूर्ये संयमात् ॥ २६ ॥
सूर्ये प्रकाशमये यः संयमं करोति तस्य सप्तसु भूर्भुवः स्वः प्रभृतिषु लोकेषु यानि भुवनानि तत्तत्संनिवेशभाञ्जि स्थानानि तेषु यथावदस्य ज्ञानमुत्पद्यते। पूर्वस्मिन्सूत्रे सात्त्विकप्रकाश आलम्बनतयोक्त इह तु भौतिक इति विशेषः।
भौतिकप्रकाशालम्बनद्वारेणैव सिद्ध्यन्तरमाह –
चन्द्रे ताराव्यूहज्ञानम् ॥ २७ ॥
ताराणां ज्योतिषां यो व्यूहो विशिष्टः संनिवेशस्तस्मिंश्चन्द्रे कृतसंयमस्य ज्ञानमुत्पद्यते। सूर्यप्रकाशेन हततेजस्कत्वात्ताराणां सूर्यसंयमात्तज्ज्ञानं न शक्नोति भवितुमिति पृथुगुपायोऽभिहितः।
सिद्ध्यन्तरमाह –
ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥
ध्रुवे निश्चले ज्योतिषां प्रधाने कृतसंयमस्य तासां ताराणां या गतिः प्रत्येकं नियतकाला नियतदेशा च तस्या ज्ञानमुत्पद्यते। इयं ताराऽयं ग्रह इयता कालेनामुं राशिमिदं नक्षत्रं यास्यतीति सर्वं जानाति। इदं कालज्ञानमस्य फलमित्युक्तं भवति।
बाह्याः सिद्धीः प्रतिपाद्याऽऽन्तराः सिद्धीः प्रतिपादयितुमुपक्रमते –
नाभिचक्रे कायव्यूहज्ञानम् ॥ २९ ॥
शरीरमध्यवर्ति नाभिसंज्ञकं यत्षोडशारं चक्रं तस्मिन् कृतसंयमस्य योगिनः कायगतो योऽसौ व्यूहो विशिष्टरसमलधातुनाड्यादीनामवस्थानं तत्र ज्ञानमुत्पद्यते। इदमुक्तं भवति नाभिचक्रं शरीरमध्यवर्ति सर्वतः प्रसृतानां नाड्यादीनां मूलभूतमतस्तत्र कृतावधानस्य समग्रसंनिवेशो यथावदाभाति।
सिद्ध्यन्तरमाह –
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥
कण्ठे गले कूपः कण्ठकूपः जिह्वामूले जिह्वातन्तोरधस्तात्कूप इव कूपो गर्ताकारः प्रदेशः प्राणोदेर्यत्संस्पर्शात्क्षुत्पिपासादयः प्रादुर्भवन्ति तस्मिन्कृतसंयमस्य योगिनः क्षुत्पिपासादयो निवर्तन्ते। घण्टिकाधस्तात्स्रोतसा धार्यमाणे तस्मिन्भाविते भवत्येवंविधा सिद्धिः।
सिद्ध्यन्तरमाह –
कूर्मनाड्यां स्थैर्यम् ॥ ३१ ॥
कण्ठकूपस्याधस्ताद्या कूर्माख्या नाड़ी तस्यां कृतसंयमस्य चेतसः स्थैर्यमुत्पद्यते। तत्स्थानमनुप्रविष्टस्य चञ्चलता न भवतीत्यर्थः। यदि वा कायस्य स्थैर्यमुत्पद्यते न केनचित्स्पन्दयितुं शक्यत इत्यर्थः।
सिद्ध्यन्तरमाह –
मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३२ ॥
शिरः कपाले ब्रह्मरंध्राख्यं छिद्रं प्रकाशाधारत्वाज्ज्योतिः। यथा गृहाभ्यन्तरस्थस्य मणेः प्रसरन्ती प्रभा कुञ्चिताकारेव सर्वप्रदेशे संघटते तथा हृदयस्थः सात्त्विकः प्रकाशः प्रसृतस्तत्र संपिण्डितत्वं भजते। तत्र कृतसंयमस्य ये द्यावापृथिव्योरन्तरालवर्तिनः सिद्धा दिव्याः पुरुषास्तेषामितरप्राणिभिरदृश्यानां तस्य दर्शनं भवति। तान्पश्यति तैश्च स संभाषत इत्यर्थः।
सर्वज्ञत्व उपायमाह –
प्रातिभाद्वा सर्वम् ॥ ३३ ॥
निमित्तानपेक्षं मनोमात्रजन्यमविसंवादकं द्रागुत्पद्यमानं ज्ञानं प्रतिभा। तस्यां संयमे क्रियमाणे प्रातिभं विवेकख्यातेः पूर्वभाति तारकं ज्ञानमुदेति। यथा उदेष्यति सवितरि पूर्वं प्रभा प्रादुर्भवति तद्वद्विवेकख्यातेः पूर्वं तारकं सर्वविषयं ज्ञानमुत्पद्यते। तस्मिन्सति संयमान्तरानपेक्षः सर्वं जानातीत्यर्थः।
सिद्ध्यन्तरमाह –
हदये चित्तसंवित् ॥ ३४ ॥
हृदयं शरीरस्य प्रदेशविशेषस्तस्मिन्नधोमुखस्वल्पपुण्डरीकाऽभ्यन्तरेऽन्तःकरणसत्त्वस्य स्थानं तत्र कृतसंयमस्य स्वपरचित्तज्ञानमुत्पद्यते। स्वचित्तगताः सर्वा वासनाः परचित्तगतांश्च रागादीञ्जानातीत्यर्थः।
सिद्ध्यन्तरमाह –
सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३५ ॥
सत्त्वं प्रकाशसुखात्मकः प्राधानिकः परिणामविशेषः पुरुषो भोक्ताऽधिष्ठातृरूपः। तयोरत्यन्तासंकीर्णयोर्भोग्यभोक्तृरूपत्वाच्चेतनाचेतनत्वाच्च भिन्नयोर्यः प्रत्ययस्याविशेषो भेदेनाप्रतिभासनं तस्मात्सत्त्वस्यैव कर्तृताप्रत्ययेन वा सुखदुःखसंवित्स भोगः। सत्त्वस्य स्वार्थनैरपेक्ष्येण परार्थः पुरुषार्थनिमित्तस्तस्मादन्यो यः स्वार्थः पुरुषस्वरूपमात्रालम्बनः परित्यक्ताहंकारसत्त्वे या चिच्छायासंक्रान्तिस्तत्र कृतसंयमस्य पुरुषविषयं ज्ञानमुत्पद्यते। तत्र तदेवं रूपं स्वालम्बनं ज्ञानं सत्त्वनिष्ठः पुरुषो जानाति न पुनः पुरुषो ज्ञाता ज्ञानस्य विषयभावमापद्यते ज्ञेयत्वापत्तेर्ज्ञातृज्ञेययोश्चात्यन्तविरोधात्।
अस्यैव संयमस्य फलमाह –
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३६ ॥
ततः पुरुषसंयमादभ्यस्यमानाद्व्युत्थितस्यापि ज्ञानानि जायन्ते। तत्र प्रातिभं पूर्वोक्तं ज्ञानं तस्याऽऽविर्भावात्सूक्ष्मादिकमर्थं पश्यति। श्रावणं श्रोत्रेन्द्रियजं ज्ञानं तस्माच्च प्रकृष्टाद्दिव्यंदिवि भवंशब्दं जानाति। वेदना स्पर्शेन्द्रियजं ज्ञानं वेद्यतेऽनयेति कृत्वा तान्त्रिक्या संज्ञया व्यवह्रियते। तस्माद्दिव्यस्यपर्शविषयं ज्ञानं समुपजायते। आदर्शश्चक्षुरिन्द्रियजं ज्ञानम्। आ समन्ताद्दृश्यतेऽनुभूयते रूपमनेनेति कृत्वा तस्य प्रकर्षाद्दिव्यं रूपज्ञानमुत्पद्यते। आस्वादो रसनेन्द्रियजं ज्ञानम्। आस्वाद्यतेऽनेनेति कृत्वा तस्मिन्प्रकृष्टे दिव्ये रसे संविदुपजायते। वार्ता गन्धसंवित्। वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते। वर्तते गन्धविषय इहि कृत्वा वृत्तेर्घ्राणेन्द्रिययाजाता वार्ता गन्धसंवित्। तस्यां प्रकृष्यमाणायां दिव्यगन्धोऽनुभूयते।
एतेषां फलविशेषाणां विशेषविभागमाह –
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३७ ॥
ते प्राक्प्रतिपादिताः फलविशेषाः समाधेः प्रकर्षं गच्छत उपसर्गा उपद्रवा विघ्नकारिणः। तत्र हर्षविस्मयादिकरणेन समाधिः शिथिली भवति। व्युत्थाने तु पुर्नव्यवहारदशायां विशिष्टपलदायकत्वात्सिद्धयो भवन्ति।
सिद्धन्तरमाह –
बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३८ ॥
व्यापकत्वादात्मचित्तयोर्नियतकर्मवशादेव शरीरान्तर्गतयोभोक्तृभोग्यभावेन यत्संवेदनमुपजायते स एव शरीरे बन्ध इत्युच्यते। तद्यदा समाधिवशाद्बन्धकारणं धर्माधर्माख्यं शिथिलं भवति तानवमापद्यते। चित्तस्य च योऽसौ प्रचारो हृदयप्रदेशादिन्द्रियद्वारेण विषयाभिमुख्येन प्रसरस्तस्य संवेदनं ज्ञानमियं चित्तवहा नाड़ी अनया चित्तं वहति इयं च रसप्राणादि वहाभ्यो नाडीभ्यो विलक्षणेति स्वपरशरीरयोर्यदा संचारं जानाति तदा परकीयं शरीरं मृतं जीवच्छरीरं वा चित्तसंचारद्वारेण प्रविशति। चित्तं परशरीरे प्रविशदिन्द्रियाण्यपि अनुवर्तन्ते मधुकरराजमिव मधुमक्षिकाः। अथ परशरीरप्रविष्टो योगी स्वशरीरवत्तेन व्यवहरति। यतो व्यापकयोश्चित्तपुरुषयोर्भोगसंकोचे कारणं कर्म तच्चेत्समाधिना क्षिप्तं तदा स्वातन्त्र्यात्सर्वत्रैव भोगनिष्पत्तिः।
सिद्ध्यन्तरमाह –
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३९ ॥
समस्तानामिन्द्रियाणां तुषज्वालावद्या युगपदुत्थिता वृत्तिः सा जीवन शब्दवाच्या। तस्याः क्रियाभेदात्प्राणापानादिसंज्ञाभिर्व्यपदेशः तत्र। हृदयान्मुखनासिकाद्वारेण वायोः प्रणयनात्प्राण इत्युच्यते। नाभिदेशात्पादाङ्गुष्टपर्यन्तमपनयनादपानः। नाभिदेशं परिवेष्ट्य समन्तान्नयनात्समानः। कृकाटिकादेशादा शिरोवृत्तेरुन्नयनादुदानः। व्याप्य नयनात्सर्वशरीरव्यापी व्यानः। तत्रोदानस्य संयमद्वारेण जयादितरेषां वायूनां निरोधादूर्ध्वगतित्वेन जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु कण्टकेषु वा न सजतेऽतिलघुत्वात्। तूलपिण्डवज्जलादौ मज्जितोऽप्युद्गच्छतीत्यर्थः।
सिद्ध्यन्तरमाह –
समानजयाज्ज्वलनम् ॥ ४० ॥
अग्निमावेष्ट्य व्यवस्थितस्य समानाख्यस्य वायोर्जयात्संयमेन वशीकारान्निरावरणस्याग्नेरुद्भूतत्वात्तेजसा प्रज्वलन्निव योगी प्रतिभाति।
सिद्ध्यन्तरमाह –
श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१ ॥
श्रोत्रं शब्दग्राहकमाहंकारिकमिन्द्रियम्। आकाशं व्योम शब्दतन्मात्रकार्यम्। तयोः संबन्धो देशदेशिभावलक्षणस्तस्मिन्कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते युगपत्सूक्ष्मव्यवहितविप्रकृष्टशब्दग्रहणसमर्थं भवतीत्यर्थः।
सिद्ध्यन्तरमाह –
कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाऽऽकाशगमनम् ॥ ४२ ॥
कायः पाञ्चभौतिकं शरीरं तस्याऽऽकाशेनावकाशदायकेन यः संबन्धस्तत्र संयमं विधाय लघुनि तूलादौ समापत्तिं तन्मयीभावलक्षणां च विधाय प्राप्तातिलघुभावो योगी प्रथमं यथारुचि जले संचरन्क्रमेणोर्णनाभतन्तुजालेन संचरमाण आदित्यरश्मिभिश्च विहरन्यथेष्टमाकाशेन गच्छति।
सिद्ध्यन्तरमाह –
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ४३ ॥
शरीराद्वहिर्या मनसः शरीरनैरपेक्ष्येण वृत्तिः सा महाविदेहा नाम विगतशरीराहंकारदार्ढ्यद्वारेणोच्यते। ततस्तस्यां कृतात्संयमात्प्रकाशावरणक्षयः सात्त्विकस्य चित्तस्य यः प्रकाशस्तस्य यदावरणं क्लेशकर्मादि तस्य क्षयः प्रविलयो भवति। अयमर्थः शरीराहंकारे सति या मनसो बहिर्वृत्तिःसाकल्पितेत्युच्यते। यदा पुनः शरीराहंकारभावं परित्यज्य स्वातन्त्र्येण मनसो वृत्तिः साऽकल्पिता तस्यां संयमाद्योगिनः सर्वे चित्तमलाः क्षीयन्ते।
तदेवं पूर्वान्तविषयाः परान्तविषया मध्यभवाश्च सिद्धीः प्रतिपाद्यनन्तरं भुवनज्ञानादिरूपा बाह्याः कायव्यूहादिरूपा अभ्यन्तरा परिकर्मनिष्पन्नभूताश्च मैत्र्यादिषु बलानीत्येवमाद्याः समाध्युपयोगिनीश्चान्तःकरणबहिः करणलक्षणेन्द्रियभवाः प्राणादिवायुभवाश्च सिद्धीश्चित्तदार्ढ्यात्समाधौ समाश्वासोत्पत्तये प्रतिपाद्येदानीं स्वदर्शनोपयोगिसबीजनिर्बीजसमाधिसिद्धये विविधो पायप्रदर्शनायाऽऽह –
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४ ॥
पञ्चानां पृथिव्यादीनां भूतानां ये पञ्चावस्थाविशेषरूपा धर्माः स्थूलत्वादयस्तत्र कृतसंयमस्य भूतजयो भवति। भूतानि अस्य वश्यानि भवन्तीत्यर्थः। तथाहि भूतानां परिदृश्यमानं विशिष्टाकारवत्स्थूलरूपं।
स्वरूपं चैषां यथाक्रमं कार्यं गन्धस्नेहोष्णताप्रेरणावकाशदानलक्षणं।
सूक्ष्मं च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि।
अन्वयिनो गुणाः प्रकाशप्रवृत्तिस्थितिरूपतया सर्वत्रैवान्वयित्वेन समुपलभ्यन्ते।
अर्थवत्त्वं तेष्वेव गुणेषु भोगापवर्गसंपादनाख्या शक्तिः। तदेवं भूतेषु पञ्चसूक्तधर्मलक्षणावस्थाभिन्नेषु प्रत्यवस्थं संयमं कुर्वन्योगी भूतजयी भवति। तद्यथा प्रथमं स्थूल रूपे संयमं विधाय तदनु स्वरूपे इत्येवं क्रमेण तस्य कृतसंयमस्य संकल्पानुविधायिन्यो वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्ति।
तस्यैव भूतजयस्य फलमाह –
ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ॥ ४५ ॥
1 अणिमा परमाणुरूपतापत्तिः। 2 महिमा महत्त्वम्। 3 लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः। 4 गरिमा गुरुत्वम्। 5 प्राप्तिरङ्गुल्यग्रेण चन्द्रादिस्पर्शनशक्तिः। 6 प्राकाम्यमिच्छानभिघातः। 7 शरीरान्तः करणेश्वरत्वमीशित्वम्। 8 सर्वत्र प्रभविष्णुता वशित्वं सर्वाण्येव भूतानि अनुगामित्वात्तदुक्तं नातिक्रामन्ति। 9 यत्रकामावसायो यस्मिन्विषयेऽस्य काम इच्छा भवति यस्मिन्विषये योगिनो व्यवसायो भवति तं विषयं स्वीकारद्वारेणाभिलाषसमाप्तिपर्यन्तं नयन्तीत्यर्थः। त एतेऽणिमाद्याः समाध्युपयोगिनो भूतजयाद्योगिनः प्रादुर्भवन्ति। यथा परमाणुत्वं प्राप्तो वज्रादीनामप्यन्तः प्रविशति। एवं सर्वत्र योज्यम्। त एतेऽणिमादयोऽष्टौ गुणा महासिद्ध्यय उच्यन्ते। कायसंपद्वक्ष्यमाणा तां प्राप्नोति तद्धर्मानभिघातश्च तस्य कायस्य ये धर्मा रूपादयस्तेषामनभिघातो नाशो न कुतश्चिद्भवति नास्य रूपमग्निर्दहति न वायुः शोषयतीत्यादि योज्यम्।
कायसंपदमाह –
रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥ ४६ ॥
रूपलावण्यबलानि प्रसिद्धानि। वज्रसंहननत्वं वज्रवत्कठिना संहतिरस्य शरीरे भवतीत्यर्थः। इति कायस्याऽऽविर्भूतगुणसंपत्।
एवं भूतजयमभिधाय प्राप्तिभूमिकाविशेष इन्द्रियजयमाह –
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७ ॥
ग्रहणमिन्द्रियाणां विषयाभिमुखी वृत्तिः। स्वरूपं सामान्येनप्रकाशकत्वम्। अस्मिताऽहंकारानुगमः। अन्वयार्थवत्त्वे पूर्ववत्। एतेषामिन्द्रियाणामवस्थापञ्चके पूर्ववत्संयमं कृत्वेन्द्रियजयी भवति।
तस्य फलमाह –
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ४८ ॥
शरीरस्य मनोवदनुत्तगतिलाभो मनोजवित्वम्। कायानिरपेक्षाणामिन्िद्रायाणां वृत्तिलाभो विकरभावः। सर्ववशित्वं प्रधानजयः। एताः सिद्धयो जितेन्द्रियस्य प्रादुर्भवन्ति ताश्चास्मिञ्शास्त्रे मधुप्रतीका इत्युच्यन्ते। यथा मधुन एकदेशोऽपि स्वदत एवं प्रत्येकमेताः सिद्धयः स्वदन्त इति मधुप्रतीकाः।
इन्द्रियजयमभिधायान्तःकरणजयमाह –
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ४९ ॥
तस्मिन्शुद्धेः सात्त्विके परिणामे कृतसंयमस्य या सत्त्वपुरुषयोरुत्पद्यते विवेकख्यातिर्गुणानां कर्तृत्वाभिमानशिथिलीभावरूपा तन्माहात्म्यात्तत्रैव स्थितस्य योगिनः सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च समाधेर्भवति। सर्वेषां गुणपरिणामानां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वं तेषामेव च शान्तोदिताव्यपदेश्यधर्मित्वेनावस्थितानां यथावद्विवेकज्ञानं सर्वज्ञातृत्वम्। एषां चास्मिञ्शास्त्रे परस्यां वशीकारसंज्ञायो प्राप्तायां विशोका नाम सिद्धिरित्युच्यते।
क्रमेण भूमिकान्तरमाह –
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ५० ॥
एतस्यामपि विशोकायां सिद्धौ यदा वैराग्यमुत्पद्यते योगिनस्तदा तस्माद्दोषाणां रागादीनां यद्बीजमविद्यादयस्तस्य क्षये निर्मूलने कैवल्यमात्यन्तिकी दुःखनिवृत्तिः पुरुषस्य गुणानामधिकारपरिसमाप्तौ स्वरूपप्रतिष्ठत्वम्।
अस्मिन्नेव समाधौ स्थित्युपायमाह –
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ५१ ॥
चत्वारो योगिनो भवन्ति। तत्राभ्यासवान्प्रवृत्तमात्रज्योतिः प्रथमः। ऋतंभरप्रज्ञो द्वितीयः। भूतेन्द्रियजयी तृतीयः। अतिक्रान्तभावनीयश्चतुर्थः। तत्र चतुर्थस्य समाधेः प्राप्तसप्तविधप्रान्तभूमिप्रज्ञो भवति। ऋतंभरप्रज्ञस्य द्वितीयां मधुमतीसंज्ञां भूमिकां साक्षात्कुर्वतः स्थानिनो देवा उपनिमन्त्रयितारो भवन्ति दिव्यस्त्रीरसायनादिकं ढौकयन्ति तस्मिन्नुपनिमन्त्रणे नानेन सङ्गः कर्तव्यः नापि स्मयः सङ्गकरणे पुनर्विषयभोगे पतति स्मयकरणे कृतकृत्यमात्मानं मन्यमानो न समाधावुत्सहते। अतः सङ्गस्मययोस्तेन वर्जनं कर्त्तव्यम्।
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२ ॥
क्षणः सर्वान्त्यः कालावयवो यस्य कलाः प्रभवितुं न शक्यन्ते। तथाविधानां कालक्षणानां यः क्रमः पौर्वापर्येण परिणामस्तत्र संयमात्प्रागुक्तं विवेकजं ज्ञानमुत्पद्यते। अयमर्थः अयं कालक्षणोऽमुष्मात्कालक्षणातुत्तरोऽयमस्मांत्पूर्व इत्येवंविधे क्रमे कृतसंयमस्यात्यन्तसूक्ष्मेऽपि क्षणक्रमे यदा भवति। साक्षात्कारस्तदाऽन्यदपि सूक्ष्मं महदादि साक्षात्करोतीति विवेकज्ञानोत्पत्तिः।
अस्यैव संयमस्य विषयविवेकोपक्षेपणायाऽऽह –
जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३ ॥
पदार्थानां भेदहेतवो जातिलक्षणदेशा भवन्ति। क्वचिद्भेदहेतुर्जातिः यथा गौरियं महिषीऽयमिति। जात्या तुल्ययोर्लक्षणं भेदहेतुः इयं कर्बुरेयमरुणेति। जात्या लक्षणेन चाभिन्नयोर्भेदहेतुर्देशो दृष्टः यथा तुल्यपरिमाणयोरामलकयोर्भिन्न देशस्थितयोः। यत्र पुनर्भेदोऽवधारयितुं न शक्यते यथैकदेशस्थितयोः शुक्लयोः पार्थिवयोः परमाण्वोस्तथाविधे विषये भेदाय कृतसंयमस्य भेदेन ज्ञानमुत्पद्यते तदा तदभ्यासात्सूक्ष्माण्यपि तत्त्वानि भेदेन प्रतिपद्यते। एतदुक्तं भवति यत्र केनचिदुपायेन भेदो नावधारयितुं शक्यस्तत्र संयमाद्भवत्येव भेदप्रतिपत्तिः।
सूक्ष्माणां तत्त्वानामुक्तस्य विवेकजन्यज्ञानस्य संज्ञाविषयस्वाभाव्यं व्याख्यातुमाह –
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ ५४ ॥
उक्तसंयमबलादन्त्यायां भूमिकायामुत्पन्नं ज्ञानं तारयत्यगाधात्संसारसागराद्योगिनमित्यान्वर्थिक्या संज्ञाय तारकमित्युच्यते। अस्य विषयमाह सर्वविषयमिति। सर्वाणि तत्त्वानि महदादीनि विषयो यस्येति सर्वविषयम्। स्वभावश्चास्य सर्वथाविषयत्वम्। सर्वाभिरवस्थाभिः स्थूलसूक्ष्मादिभेदेन तेस्तैः परिणामैः सर्वेण प्रकारेणावस्थितानि तत्त्वानि विषयो यस्येति सर्वथाविषयम्। स्वभावान्तरमाह अक्रमं चेति। निःशेषनानावस्थापरिणतद्वित्र्यात्मकभावग्रहणे नास्य क्रमो विद्यत इति अक्रमम्। सर्वं करतलामलकवद्युगपत्पश्यतीत्यर्थः।
अस्माच्च विवेकजात्तारकाख्याज्ज्ञानात्किं भवतीत्याह –
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५ ॥
सत्त्वपुरुषावुक्तलक्षणौ तयोः शुद्धिसाम्ये कैवल्यं सत्त्वस्य सर्वकर्तृत्वाभिमाननिवृत्त्या स्वकारणेऽनुप्रवेशः शुद्धिः पुरुषस्य शुद्धिरुपचरितभोगाभाव इति द्वयोः समानायां शुद्धौ पुरुषस्य कैवल्यमुत्पद्यते मोक्षोभवतीत्यर्थः।
तदेवमन्तरङ्गं योगाङ्गत्रयमभिधाय तस्य च संयमसंज्ञां कृत्वा संयमस्य च विषयप्रदर्शनार्थं परिणामत्रयमुपपाद्य संयमबलोत्पद्यमानाः पूर्वान्तपरान्तमध्यभवाः सिद्धीरुपदर्श्य समाध्याश्वासोत्पत्तये बाह्या भुवनज्ञानादिरूपा आभ्यन्तराश्च कायव्यूहज्ञानादिरूपाः प्रदर्श्य समाध्युपयोगायेन्द्रियप्राणजयादिपूर्विकाः परमपुरुषार्थसिद्धये यथाक्रममवस्थासहितभूतजयेन्द्रियजयसत्त्वजयोद्भवाश्च व्याख्याय विवेकज्ञानोत्पत्तये तांस्तानुपायानुपन्यस्य तारकस्य सर्वसमाध्यवस्थापर्यन्तभवस्य स्वरूपमभिधाय तत्समापत्तेः कृताधिकारस्य चित्तसत्त्वस्य स्वकारणेऽनुप्रवेशात्कैवल्यमुत्पद्यत इत्यभिहितमिति निर्णीतो विभूतिपादस्तृतीयः।
कैवल्यपादः
[सम्पाद्यताम्]
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १ ॥
इदानीं विप्रतिपत्तिसमुत्थभ्रान्तिनिराकरणेन युक्त्या कैवल्यस्वरूपज्ञानाय कैवल्यपादोऽयमारभ्यते।
तत्र याः पूर्वमुक्ताः सिद्धयस्तासां नानाविधजन्मादि कारणप्रतिपादनद्वारेणैवं बोधयति। मदि या एताः सिद्धयस्ताः सर्वाः पूर्वजन्माभ्यस्तसमाधिबलाज्जन्मादिनिमित्तमात्रत्वेनाऽश्रित्य प्रवर्तन्ते। ततश्चानेकभवसाध्यस्य समाधेर्न क्षतिरस्तीत्याश्वासोत्पादनाय समाधिसिद्धेश्च प्राधान्यख्यापनार्थं कैवल्यप्रयोगार्थं चाऽऽह –
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २ ॥
योऽयमिहैव जन्मनि नन्दीश्वरादीनां जात्यादिपरिणामः सप्रकृत्यापूरात् पाश्चात्त्या एव हि प्रकृतयोऽमुष्मिञ्जन्मनि विकारानापूरयन्ति जात्यन्तराकारेण परिणामयन्ति।
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ ३ ॥
निमित्तं धर्मादि तत्प्रकृतीनामर्थान्तरपरिणामे न प्रयोजकम्। नहि कार्येण कारणं प्रवर्तते। कुत्र तर्हि तस्य धर्मादेर्व्यापार इत्याह वरणभेदस्तु ततः क्षेत्रिकवत्। ततस्तस्मादनुष्ठीयमानाद्धर्माद्वरणमावरकमधर्मादि तस्यैव विरोधित्वाद्भेदः क्षयः क्रियते। तस्मिन्प्रतिबन्धके क्षीणे प्रकृतयः स्वयमभिमतकार्याय प्रभवन्ति दृष्टान्तमाह क्षेत्रिकवत्। यथा क्षेत्रिकः कृषीवलः केदारात्केदारान्तरं जलं निनीषुर्जलप्रतिबन्धकवरणभेदमात्रं करोति तस्मिन्भिन्ने जलं स्वयमेव प्रसरद्रूपं परिणामं गृह्णाति न तु जलप्रसरणे तस्य कश्चित्प्रयत्न एवं धर्मादेर्बोद्धव्यम्।
यदा साक्षात्कृततत्त्वस्य योगिनो युगपत्कर्मफलभोगायाऽऽत्मीयनिरतिशयविभूत्यनुभावाद्युगपदनेकशरीरनिर्मित्सा जायते तदा कुतस्तानि चित्तानि प्रभवन्तीत्याह –
निर्माणचित्तान्यस्मितामात्रात् ॥ ४ ॥
योगिनः स्वयं निर्मितेषु कायेषु तानि चित्तानि तानि मूलकारणदस्मितामात्रादेव तदिच्छया प्रसरन्ति अग्नेर्विस्फुलिङ्गा इव युगपत्परिणमन्ति।
ननु बहुनां चित्तानां भिन्नाभिप्रायत्वान्नैककार्यकर्तृत्वं स्यादित्यत आह –
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५ ॥
तेषामनेकेषां चेतसां प्रवृत्तिभेदे व्यापारनानात्व एकं योगिनश्चित्तं प्रयोजकं प्रेरकमधिष्ठातृत्वेन तेन न भिन्नमतत्वम्। अयमर्थः यथाऽऽत्मीय शरीरे मनश्चक्षुः पाण्यादीनि यथेच्छं प्रेरयति अधिष्ठातृत्वेन तथा कायान्तरेष्वपीति।
जन्मादिप्रभवत्वात्सिद्धीनां चित्तमपि तत्प्रभवं पञ्चविधमेक अतः जन्मादिप्रभवाच्चित्तात्समाधिप्रभवस्य चित्तस्य वैलक्षण्यमाह –
तत्र ध्यानजमनाशयम् ॥ ६ ॥
ध्यानजं समाधिजं यच्चितं तत्पञ्चसु मध्येऽनाशयं कर्मवासनारहितमित्यर्थः।
यथेतरचित्तेभ्यो योगिनश्चित्तं विलक्षणं क्लेशादिरहितं तथा कर्मापि विलक्षणमित्याह –
कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ७ ॥
शुभफलदं कर्म यागादि शुक्लम्। अशुभफलदं ब्रह्महत्यादि कृष्णम्। उभयसंकीर्णं शुक्लकृष्णम्। तत्र शुक्लकर्म विचक्षणानां दानतपः स्वाध्यायादिमतां पुरुषाणाम्। कृष्णं कर्म नारकिणाम्। शुक्लकृष्णं मनुष्याणाम्। योगिनां तु सन्यासवतां त्रिविधकर्मविपरीतं यत्फलत्यागानुसंधानेनैवानुष्ठानान्न किंचित्फलमारभते।
अस्यैव कर्मणः फलमाह –
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ८ ॥
इह हि द्विविधाः कर्मवासनाः स्मृतिमात्रफला जात्यायुर्भोगफलाश्च। तत्र जात्यायुर्भोगफला एकानेकजन्मभवा इत्यनेन पूर्वमेव कृतनिर्णयाः। यास्तु स्मृतिमात्रफलास्तासु ततः कर्मणो येन कर्मणा यादृक्शरीरमारब्धं देवमनुष्यतिर्यगादिभेदेन तस्य विपाकस्य या अनुगुणा अनुरूपा वासनास्तासामेव तस्मादभिव्यक्तिः वासनानां भवति। अयमर्थः येन कर्मणा पूर्वं देवतादिशरीरमारब्धं जात्यन्तरशतव्यवधानेन पुनस्तथाविधस्यैव शरीरस्यऽऽरम्भे तदनुरूपा एव स्मृतिफला वासनाः प्रकटी भवन्ति। लोकोत्तरेष्वेवार्थेषु तस्य स्मृत्यादयो जायन्ते। इतरास्तु सत्योऽपि अव्यक्तसंज्ञास्तिष्ठन्ति न तस्यां दशायां नारकादिशरीरोद्भवा वासना व्यक्तिमायान्ति।
आसामेव वासनानां कार्यकरणभावानुपपत्तिमाशङ्क्य समर्थयितुमाह –
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९ ॥
इह नानायोनिषु भ्रमतां संसारिणां कांचिद्योनिमनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनिं प्रतिपद्यते तदा तस्यां पूर्वानुभूतायां योनौ तथाविधशरीरादिव्यञ्जकापेक्षया वासना याः प्रकटीभूता आसंस्तास्तथाविधव्यञ्जकाभावात्तिरोहिताः पुनस्तथाविधव्यञ्जकशरीरादिलाभे प्रकटी भवन्ति। जातिदेशकालव्यवधानेऽपि तासां स्वानुभूतस्मृत्यादिफलसाधने आनन्तर्यं नैरन्तर्यम् कुतः स्मृतिसंस्कारयोरेकरूपत्वात्। तथा ह्यनुष्ठीयमानात्कर्मणश्चित्तसत्त्वे वासनानुरूपः संस्कारः समुत्पद्यते। स च स्वर्गनरकादीनां फलानामङ्कुरीभावः कर्मणां वा यागादीनां शक्तिरूपतयाऽवस्थानम्। कर्तुर्वा तथाविधभोग्यभोक्तृत्वरूपं सामर्थ्यम्। संस्कारात्स्मृतिः स्मृतेश्च सुखदुःखोपभोगस्तदनुभवाच्च पुनरपि संस्कारस्मृत्यादयः। एवं च यस्य स्मृतिसंस्कारादयो भिन्नास्तयाऽऽनन्तर्याभआवे दुर्लभः कार्यकारणभावः। अस्माकं तु यदाऽनुभव एव संस्कारी भवति संस्कारश्च स्मृतिरूपतया परिणमते तदैकस्यैव चित्तस्यानुसंधातृत्त्वेन स्थितत्वात्कार्यकारणभावो न दुर्घटः।
भवत्वानन्तर्यं कार्यकारणभावश्च वासनानां यदा नु प्रथममेवानुभवः प्रवर्तते तदा किं वासनानिमित्त उत निनिमित्त इति शङ्कां व्यपनेतुमाह –
तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ १० ॥
तासां वासनानामनादित्वं न विद्यत आदिर्यस्य तस्य भावस्तत्त्वं तासा मादिर्नास्तीत्यर्थः। कुत इत्यत आह आशिषो नित्यत्वात्। येयमाशीर्महामोहरूपा सदैव सुखसाधनानि मे भूयासुर्मा कदाचन तैर्मे वियोगो भूदिति यः संकल्पविशेषो वासनानां कारणं तस्य नित्यत्वादनादित्वादित्यर्थः। एतदुक्तं भवति कारणस्य संनिहितत्वादनुभवसंस्कारादीनां कार्याणां प्रवृत्तिः केन वार्यते अनुभवसंस्काराद्यनुविद्धं संकोचविकाशधर्मि चित्तं तत्तदभिव्यञ्जकविपाकलाभात्तत्तत्फलरूपतया परिणमत इत्यर्थः।
तासामानन्त्याद्धानं कथं संभवतीत्याशङ्क्य हानोपायमाह –
हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥ ११ ॥
वासनानामनन्तरानुभवो हेतुस्तस्याप्यनुभवस्य रागादस्तेषामविद्येति साक्षात्पारम्पर्येण हेतुः। फलं शरीरादि स्मृत्यादि च। आश्रयो बुद्धिसत्त्वम्। आलम्बनं यदेवानुभवस्य तदेव वासनानामतस्तैर्हेतुफलाश्रयालम्बनैरनन्तानामपि वासनानां संगृहीतत्वात्तेषां हेत्वादीनामभावे ज्ञानयोगाभ्यां दग्धबीजकल्पत्वे विहिते निर्मलत्वान्न वासनाः प्ररोहन्ति न कार्यमारभन्त इति तासामभावः।
ननु प्रतिक्षणं चित्तस्य नश्वरत्वाद्भेदोपलब्धेः वासनानां तत्फलानां च कार्यकारणभावेन युगपदभावित्वाद्भेदे कथमेकत्वमित्याशङ्क्यै कत्वसमर्थनायाऽऽह –
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२ ॥
इहात्यन्तमसतां भावानामुत्पत्तिर्न युक्तिमती तेषां सत्त्वसम्बन्धायोगात्। न हि शशविषाणादीनां क्वचिदपि सत्त्वसंबन्धो दृष्टः। निरुपाख्ये च कार्ये किमुद्दिश्य कारणानि प्रवर्तेरन्। न हि विषयमनालोच्य कश्चित्प्रवर्तते। सतामपि विरोधान्नाभावसम्बन्धोऽस्ति। यत्स्वरूपेण लब्धसत्ताकं तत्कथं निरुपाख्यतामभावरूपतां वा भजते न निरुद्धं रूपं स्वीकारोतीत्यर्थः तस्मात्सतामभावसंभवादसतां चोत्पत्त्यसंभवात्तैस्तैर्धर्मैर्विपरिणममानो धर्मी सदैवैकरूपतयाऽवतिष्ठते। धर्मास्तु तत्रैव त्र्यधिकत्वेन त्रैकालिकत्वेन व्यवस्थिताः स्वस्मिन्स्वस्मिन्नध्वनि व्यवस्थिता न स्वरूपं त्यजन्ति। वर्तमानेऽध्वनि व्यवस्थिताः केवंल भोग्यतां भजन्ते तस्माद्धर्माणामेवातीतानागताद्यध्वभेदस्तेनैव रूपेण कार्यकारणभावोऽस्मिन्दर्शने प्रतिपाद्यते। तस्मादपवर्गपर्यन्तमेकमेव चित्तं धर्मितयाऽनुवर्तमानं न निह्नोतुं पार्यते।
त एते धर्मधर्मिणः किंरूपा इत्यत आह –
ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥
य एते धर्मधर्मिणः प्रोक्तास्ते व्यक्तसूक्ष्मभेदेन व्यवस्थिता गुणाः सत्त्वरजस्तमोरूपास्तदात्मानस्तत्स्वभावास्तत्परिणामरूपा इत्यर्थः। यतः सत्त्वरजस्तमोभिः सुखदुःखमोहरूपैः सर्वासां बाह्याभ्यन्तरभेदभिन्नानां भावव्यक्तीनामन्वयानुगमो दृश्यते। यद्यदन्वयि तत्तत्परिणामरूपं दृष्टं यथा घटादयो मृदन्विता मृत्परिणामरूपाः।
यद्येते त्रयो गुणाः सर्वत्र मूलकारणं कथमेको धर्मीति व्यपदेश इत्याशङ्क्याऽऽह –
परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥
यद्यपि त्रयो गुणस्तथाऽपि तेषामङ्गाङ्गिभावगमनलक्षणयो यः परिणामः क्वचित्सत्त्वमङ्गि क्वचिद्रजः क्वचिच्च तम इत्येवंरूपस्तस्यैकत्वाद्वस्तुनस्तत्त्वमेकत्वमुच्यते। यथेयं पृथिवी अयं वायुरित्यादि।
ननु च ज्ञानव्यतिरिक्ते सत्यर्थे वस्त्वेकमनेकं वा वक्तुं युज्यते यदा विज्ञानमेव वासनावशात्कार्यकारणभावेनावस्थितं तथा तथा प्रतिभाति तदा कथमेतच्छक्यते वक्तुमित्याशङ्क्याऽऽह –
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ १५ ॥
तयोर्ज्ञानार्थयोः विविक्तः पन्था विविक्तो मार्ग इति यावत्। कथं वस्तुसाम्ये चित्तभेदात्। समाने वस्तुनि स्त्र्यादावुपलभ्यमाने नानाप्रमातृ़णां चित्तस्य भेदः सुखदुःखमोहरूपतया समुपलभ्यते। तथाहि एकस्यां रूपलावण्यवत्यां योषिति उपलभ्यमानायां सरागस्य सुखमुत्पद्यते सपत्न्यास्तु द्वेष परिव्राजकादेर्घृणेत्येकस्मिन्वस्तुनि नानाविधचित्तोदयात्कथं चित्तकार्यत्वं वस्तुन एकचित्तकार्यत्वे वस्त्वेकरूपतयैवावभासते। किं च चित्तकार्यत्वे वस्तुनो यदीयस्य चित्तस्य तद्वस्तु कार्यं तस्मिन्नर्थान्तरव्यासक्तेऽतद्वस्तु न किञ्चित्स्यात् भवत्विति चेन्न तदेव कथमन्यैर्बहुभिरुपलभ्यते उपलभ्यते च। तस्मान्न चित्तकार्यम्। अथ युगपद्वहुभिः सोऽर्थः क्रियते तदा बहुभिर्निर्मितस्यार्थस्यैकनिर्मिताद्वैलक्षण्यं स्यात्। यदा तु वैलक्षण्यं नेष्यते तदा कारण भेदे सति कार्यभेदस्याभावे निर्हेतुकमेकरूपं या जगत्स्यात् एतदुक्तं भवति सत्यपि भिन्ने कारणे यदि कार्यस्याभेदस्तदा समग्रं जगन्नानाविधकारणजन्यमेकरूपं स्यात्।
कारणभेदाननुगमात्स्वातन्त्र्येण निर्हेतुकं वा स्यात्। यद्येवं कथं तेन त्रिगुणात्मनाऽर्थेनैकस्यैव प्रमातुः सुखदुःखमोहमयानि ज्ञानानि न जन्यन्ते मैवम् यथाऽर्थस्त्रिगुणस्तथा चित्तमपि त्रिगुणं तस्य चार्थप्रतिभासोत्पत्तौ धर्मादयः सहकारिकारणं तदुद्भवाभिभववशात्कदाविच्चित्तस्य तेन तेन रूपेणाभिव्यक्तिः। तथा च कामुकस्य संनिहितायां योषिति धर्मसहकृतं चित्तं सत्वस्याङ्गितया परिणममानं सुखमंय भवति तदेवाधर्मसहकारि रजसोऽङ्गितया दुःखरूपं सपत्नीमात्रस्य भवति तीव्राधर्मसहकारितया परिणममानं तमसोऽङ्गित्वेन कोपनायाः सपत्न्या मोहमयं भवति। तस्माद्विज्ञानव्यतिरिक्तोऽस्ति बाह्योऽर्थः। तदेवं न विज्ञानार्थयास्तादात्म्यं विरोधान्न कार्यकारणभावः। कारणाभेदे सत्यपि कार्यभेदप्रसङ्गादिति ज्ञानाद्व्यतिरिक्तत्वमर्थस्य व्यवस्थापितम्।
यद्येवं ज्ञानं चेत्प्रकाशकत्वाद्ग्रहणस्वभावमर्थश्च प्रकाश्यत्वाद्ग्राह्यस्वभावस्तत्कथं गपत्सर्वानर्थान्न गृह्णाति न स्मरति चेत्याशङ्क्य परिहारं वक्तुमाह
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६ ॥
यह सूत्र भोज वृत्ति में नहीं है इसलिए इस पर वृत्ति नहीं लिखी गई।
तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७ ॥
तस्यार्थस्योपरागादाकारसमर्पणाच्चित्ते बाह्यं वस्तु ज्ञातमज्ञातं च भवति। अयमर्थः सर्वः पदार्थ आत्मलाभे चित्तं सामग्रीमपेक्षते। नीलादिज्ञानं चोपजायमानमिन्द्रियणांलिकया समागतमर्थोपरागं सहकारिकारणत्वेनापेक्षते व्यतिरिक्तस्यार्थस्य संबन्धाभावाद्ग्रहीतुमशक्यत्वात्। ततश्च येनैवार्थेनास्य ज्ञानस्य स्वरूपोपरागः कृतस्तमेवार्थ ज्ञानं व्यवहारयोग्यतां नयति ततश्च सोऽर्थो ज्ञात इत्युच्यते येन चाऽऽकारो न समर्पितः सोऽज्ञातत्वेन व्यवह्रियते यस्मिंश्चानुभूतेऽर्थे सादृश्यादिः अर्थः संस्कारमुद्बोधयन्सहकारिकारणतां प्रतिपद्यते तस्मिन्नेवार्ते स्मृतिरुपजायते इति न सर्वत्र ज्ञानं नापि सर्वत्र स्मृतिरिति न कश्चिद्विरोधः।
यद्येवं प्रमाताऽपि पुरुषो यस्मिन्काले नीलं वेदयते न तस्मिन्काले पीतमतस्तस्यापि कदाचित्कत्वं ग्रहीतृरूपत्वादाकारग्रहणे परिणामित्वं प्राप्तमित्याशङ्कां परिहर्तुमाह –
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८ ॥
या एताश्चित्तस्य प्रमाणविपर्ययादिरूपा वृत्तयस्तास्तत्प्रभोश्चित्तस्य ग्रहीतुः पुरुषस्य सदा सर्वकालमेव ज्ञेयाः तस्य चिद्रूपतयाऽपरिणामात् परिणामित्वाभावादित्यर्थः। यद्यसौ परिणामी स्यात्तदा परिणामस्य कादाचित्कत्वात्प्रमातुस्तासां चित्तवृत्तीनां सदा ज्ञातत्वं नोपपद्येत। अयमर्थं पुरुषस्य चिद्रूपस्य सदैवाधिष्ठातृत्वेन व्यवस्थितस्य यदन्तरङ्गं निर्मलं सत्त्वं तस्यापि सदैवावस्थितत्वाद्येन येनार्थेनोपरक्तं भवति तथाविधस्यार्थस्य सदैव चिच्छायासंक्रान्तिसद्भावस्तस्यां सत्यां सिद्धं सदा ज्ञातृत्वमिति न कदाचित्परिणामित्वाशङ्का।
ननु चित्तमेव यदि सत्त्वोत्कर्षात्प्रकाशकं तदा स्वपरप्रकाशकत्वादात्मानमथं च प्रकाशयतीति तावतैव व्यवहारसमाप्तेः किं ग्रहीत्रन्तरेणेत्या शङ्कामपनेतुमाह –
न तत्स्वाभासं दृश्यत्वात् ॥ १९ ॥
तच्चित्तं स्वाभासं स्वप्रकाशकं न भवति पुरुषवेद्यं भवतीति यावत् कुतः दृश्यत्वात् यत्किल दृश्यं तद्द्रष्टृवेद्यं दृष्टं यथा घटादि दृश्यं च चित्तं तस्मान्न स्वाभासम्।
एकसमये चोभयानवधारणम् ॥ २० ॥
अर्थस्य संवित्तिरिदंतया व्यवहारयोग्यतापादनमयमर्थः सुखहेतुर्दुःखहेतुर्वेति। बुद्धेश्च संविदहमित्येवमाकारेण सुखदुःखरूपतया व्यवहारक्षमतापादनम्। एवं विधं च व्यापारद्वयमर्थप्रत्यक्षताकाले न युगपत्कर्तुं शक्यं विरोधात् न हि विरुद्धयोर्व्यापारयोर्युगपत्संभवोऽस्ति। अतः एकस्मिन्काल उभयस्य स्वरूपस्यार्थस्य चावधारयितुमशक्यत्वान्न चित्तं स्वप्रकाशमित्युक्तं भवति। किं चैवंविधव्यापारद्वयनिष्पाद्यस्य फलद्वयस्यासंवेदनाद्बहिर्मुखतयैवार्थनिष्ठत्वेन चित्तस्य संवेदनार्थनिष्ठमेव फलं न स्वनिष्ठमित्यर्थः।
ननु मा भूद्बुद्धेः स्वयं ग्रहणं बुद्ध्यन्तरेण भविष्यतीत्याशङ्क्याऽऽह –
चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥ २१ ॥
यदि हि बुद्धिर्बुद्ध्यन्तरेण वेद्यते तदा साऽपि बुद्धिः स्वयमबुद्धा बुद्ध्यन्तरं प्रकाशयितुमसमर्थेति तस्या बोधकं बुद्ध्यन्तरं कल्पनीयं तस्याप्यन्यदित्यनवस्थानात्पुरुषायुषेणाप्यर्थप्रतीतिर्न स्यात्। न हि प्रतीतावप्रतीतायामर्थः प्रतीतो भवति। स्मृतिसंकरश्च प्राप्नोति रूपे रसे वा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनां समुत्पत्तेर्बुद्धिजनितैः संस्कारैः र्यदा युगपद्बह्व्यः स्मृतयः क्रियन्ते तदा बुद्धेरपर्यवसानाद्बुद्धिस्मृतीनां च बह्वीनां युगपदुत्पत्तेः कस्मिन्नर्थे स्मृतिरियमुत्पन्नेति ज्ञातुमशक्यत्वात्स्िमृतीनां संकरः स्यात्। इयं रूपस्मृतिरियं रसस्मृतिरिति न ज्ञायेत।
ननु बुद्धेः स्वप्रकाशत्वाभावे बुद्ध्यन्तरेण चासंवेदने कथमयं विषयसंवेदनरूपो व्यवहार इत्याशङ्क्य स्वसिद्धान्तमाह –
चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २२ ॥
पुरुषश्चिद्रूपत्वाच्चितिः साऽप्रतिसंक्रमा न विद्यते प्रतिसंक्रमोऽन्यत्र गमनं यस्याः सा तथोक्ता अन्येनासंकीर्णेति यावत्। यथा गुणा अङ्गाङ्गिभावलक्षणे परिणामेऽङ्गिनं गुणं संक्रामन्ति तद्रूपतामिवाऽऽपद्यन्ते यथा वा लोके परमाणवः प्रसरन्तो विषयमारूपयन्ति नैवं चितिशक्तिस्तस्याः सर्वदैकरूपतया स्वप्रतिष्ठितत्वेन व्यवस्थितत्वात्। अतस्तत्संनिधाने यदा बुद्धिस्तदाकारतामापद्यते चेतनेवोपजायते बुद्धिवृत्तिप्रतिसंक्रान्ता च यदा चिच्छक्तिर्बुद्धिवृत्तिविशिष्टतया संवेद्यते तदा बुद्धेः स्वस्याऽऽत्मनो वेदनं भवतीत्यर्थः।
इत्थं स्वसंविदितं चित्तं सर्वार्थग्रहणसामर्थ्येन सकलव्यवहारनिर्वाहक्षमं भवतीत्याह –
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥
द्रष्टा पुरुषस्तेनोपरक्तं तत्संनिधानेन तद्रूपतामिव प्राप्तं दृश्योपरक्तं विषयोपरक्तं गृहीतविषयाकारपरिणामं यदा भवति तदा तदेव चित्तं सर्वार्थग्रहणसमर्थं भवति। यथा निर्मलं स्फटिकदर्पणाद्येव प्रतिबिम्बग्रहणसमर्थमेवं रजस्तमोभ्यानभिभूतं सत्त्वं शुद्धत्वाच्चिच्छायाग्रहणासमर्थं भवति न पुनरशुद्धत्वाद्रजस्तमसी। तत् तदा न्यग्भूतरजस्तमोरूपमङ्गितया सत्त्वं निश्चलप्रदीपशिखाकारं सदैवैकरूपतया परिणममानं चिच्छायाग्रहणसामर्थ्यादा मोक्षप्राप्तेरवतिष्ठते। यथाऽयकान्तसंनिधाने लोहस्य चलनमाविर्भवति एवं चिद्रूप पुरुषसंनिधाने सत्त्वस्याभिव्यङ्ग्यमभिव्यज्यते चैतन्यम्। अत एवास्मिन्दर्शने द्वे चिच्छक्ती नित्योदिताऽभिव्यङ्ग्या च नित्योदिता चिच्छक्तिः पुरुषस्तत्संनिधानादभिव्यक्तमभिव्यङ्ग्यचैतन्यं सत्त्वमाभिव्यङ्ग्या चिच्छक्तिः। तदत्यन्तसंनिहितत्वादन्तरङ्गं पुरुषस्य भोग्यतां प्रतिपद्यते।
तदेव शान्तब्रह्मवादिभिः सांख्यैः पुरुषस्य परमात्मनोऽधिष्ठेयं कर्मानुरूपं सुखदुःखभोक्तृतया व्यपदिश्यते। यत्त्वनुद्रिक्तत्वादेकस्यापि गुणस्य कदाचित्कस्यचिदङ्गित्वात्त्रिगुणं प्रतिक्षणं परिणममानं सुखदुःखमोहात्मकनिर्मलं तत्तस्मिन्कर्मानुरूपे शुद्धे सत्त्वे स्वाकारसमर्पणद्वारेण संवेद्यतामापादयति तच्छुद्धमाद्यं चित्तसत्त्वमेकतः प्रतिसंक्रान्तचिच्छायमन्यतोगृहीतविषयाकारेण चित्तेनोपढौकितस्वाकारं चित्संक्रान्तिबलाच्चेतनायमानं वास्तवचैतन्याभावेऽपि सुखदुःखभोगमनुभवति। स एव भोगोऽत्यन्तसंनिधानेन विवेकाग्रहणाभोक्तुरपि पुरुषस्य भोग इति व्यपदिश्यते। अनेनैवाभिप्रायेण विन्ध्यवासिनोक्तं सत्त्वतप्यत्वमेव पुरुषतप्यत्वम् इति। अन्यत्रापि प्रतिबिम्बे प्रतिबिम्बमानच्छायासदृशच्छायोद्भवः प्रतिबिम्बशब्देनोच्यते। एवं सत्त्वेऽपि पौरुषेयचिच्छायासदृशचिदभिव्यक्तिः प्रतिसंक्रान्तिशब्दार्थः।
ननु प्रतिबिम्बनं नाम निर्मलस्य नियतपरिणामस्य निर्मले दृष्टं यथा मुखस्य दर्पणे। अत्यन्तनिर्मलस्य व्यापकस्यापरिणामिनः पुरुषस्य तस्मादत्यन्तनिर्मलात्पुरुषादनिर्मले सत्त्वे कथं प्रतिबिम्बनमुपपद्यते। उच्यते प्रतिबिम्बनस्य स्वरूपमनवगच्छता भवतेदमभ्यधायि। यैव सत्त्वगताया अभिव्यङ्ग्यायाश्चिच्छक्तेः पुरुषस्य सांनिध्यादभिव्यक्तिः सैव प्रतिबिम्बनमुच्यते। यादृशी पुरुषगता चिच्छक्तिस्तच्छाया तथाऽऽविर्भवति। यदप्युक्तमत्यन्तनिर्मलः पुरुषः कथमनिर्मले सत्त्वे प्रतिसंक्रामतीति तदप्यनैकान्तिकं नैर्मल्यादपकृष्टेऽपि जलादावादित्यादयः प्रतिसंक्रान्ताः समुपलभ्यन्ते। यदप्युक्तमनवच्छिन्नस्य नास्ति प्रतिसंक्रान्तिरिति तदप्युक्तं व्यापकस्याप्याकाशस्य दर्पणादौ प्रतिसंक्रान्तिदर्शनात्। एवं सति न काचिदनुपपत्तिः प्रतिबिम्बदर्शनस्य। ननु सात्त्विकपरिणामरूपे बुद्धिसत्त्वे पुरुषसंनिधानादभिव्यङ्ग्यायाश्चिच्छक्तेर्बाह्यार्थाकारसंक्रान्तौ पुरुषस्य सुखदुःखरूपो भोग इत्युक्तं तदनुपपन्नम्। तदेव चित्तसत्त्वं प्रकृतावपरिणतायां कथं संभवति किमर्थश्च तस्याः परिणामः अथोच्येत पुरुषस्यार्थोपभोगसंपादनं तया कर्तव्यम् अतः पुरुषार्थकर्तव्यतया तस्या युक्त एव परिणामः। तच्चानुपपन्नं पुरुषार्थकर्तव्यताया एवानुपपत्ते पुरुषार्थो मया कर्तव्य इत्येवंविधोऽध्यवसायः पुरुषार्थकर्तव्यतोच्यते। जड़ायाश्च प्रकृतेः कथं प्रथममेवैवंविधोऽध्यवसायः। अस्ति चेदध्यवसायः कथं जड़त्वम्। अत्रोच्यते अनुलोमप्रतिलोमलक्षणपरिणामद्वये सहजं शक्तिद्वयमस्ति तदेव पुरुषार्थकर्तव्यतोच्यते। सा च शक्तिरचेतनाया अपि प्रकृतेः सहजैव। पत्र महदादिमहाभूतपर्यन्तोऽस्या बहिर्मुखतयाऽनुलोमः परिणामः। पुनः स्वकारणानुप्रवेशद्वारेणास्मितान्तः परिणामः प्रतिलोमः। इत्थं पुरुषस्याऽऽभोगपरिसमाप्तेः सहञशक्तिद्वयक्षयात्कृतार्था प्रकृतिर्न पुनः परिणाममारभते। एवंविधायां च पुरुषार्थकर्तव्यतायां जड़ाया अपि प्रकृतेर्न काचिदनुपपत्तिः। ननु यदीदृशी शक्तिः सहजैव प्रधानस्यास्ति तत्किमर्थं मोक्षार्थिभिर्मोक्षाय यत्नः क्रियते मोक्षस्य चानर्थनीयत्वे तदुपदेशकशास्त्रस्याऽऽनर्थक्यं स्यात्। उच्यते योऽयं प्रकृतिपुरुषयोरनादिर्भोग्यभोक्तृत्वलक्षणः संबन्धस्तस्मिन्सति व्यक्तचेतनायाः प्रकृतेः कर्तृत्वाभिमानाद्दुःखानुभवे सति कथमियं दुःखनिवृत्तिरात्यन्तिकी मम स्यादिति भवत्येवाध्यवसायः अतो दुःखनिवृत्त्युपायोपदेशकशास्त्रोपदेशापेक्षाऽस्त्येव प्रधानस्य। तथाभूतमेव च कर्मानुरूपं बुद्धिसत्त्वं शास्त्रोपदेशश्च विषयः। दर्शनान्तरेष्वप्येवंविध एवाविद्यास्वभावः शास्त्रेऽधिक्रियते। स च मोक्षाय प्रयतमान एवंविधमेव शास्त्रोपदेशं सहकारिणपेक्ष्य मोक्षाख्यं फलमासादयति। सर्वाण्येव कार्याणि प्राप्तायां सामग्र्यामात्मानं लभन्ते। अस्य च प्रतिलोमपरिणामद्वारेणैवोत्पाद्यस्य मोक्षाख्यस्य कार्यस्येदृश्येव सामग्री प्रमाणेन निश्चिता प्रकारान्तरेणानुपपत्तेः। अतस्तां विना कथं भवितुमर्हति। अत्रः स्थितमेतत् संक्रान्तविषयोपरागमभिव्यक्तचिच्छायं बुद्धिसत्त्वं विषयनिश्चयद्वारेण समग्रां लोकयात्रां निर्वाहयतीति। एवंविधमैव चित्तं पश्यन्तो भ्रान्ताः स्वसंवेदनं चित्तं चित्तमात्रं च जगदित्येवं ब्रुवाणाः प्रतिबोधिता भवन्ति।
ननु यद्येवंविधादेव चित्तात्सकलव्यवहारनिष्पत्तिः कथं प्रमाणशून्यो द्रष्टाऽभ्युपगम्यत इत्याशङ्क्य द्रष्टुः प्रमाणमाह –
तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ २४ ॥
तदेव चित्तं संख्यातुमशक्याभिर्वासनाभिश्चित्रमपि नानारूपमपि परार्थं परस्य स्वामिनो भोक्तुर्भोगापवर्गलक्षणमर्थं साधयतीति कुतः संहत्यकारित्वात् संहत्य संभूय मिलित्वाऽर्थक्रियाकारित्वात्। यच्च संहत्यार्थक्रियाकारि तत्परार्थं दृष्टं यथा शयनासनादि। सत्त्वरजस्तमांसि च चित्तलक्षणपरिणामभाञ्जि संहत्यकारीणि चातः परार्थानि। यः परः स पुरुषः। ननु यादृश्येन शयनासनादीना परेण शरीरवता पारार्थ्यमुपलब्धं तद्दृष्टान्तबलेन तादृश एव परः सिध्यति। यादृशश्च भवता परोऽसंहतरूपोऽभिप्रेतस्तद्विपरीतस्य सिद्धेरयमिष्टविघातकृद्धेतुः। उच्यते यद्यपि सामान्येन परार्थमात्रत्वेन व्याप्तिर्गृहीता तथाऽपि सत्त्वादिविलक्षणधर्मिपर्यालोचनया तद्विलक्षण एव भोक्ता परः सिध्यति। यथा चन्दनवनावृते शिखरिणि विलक्षणाद्भूमाद्वह्निरनुमीयमान इतरवह्निविलक्षणश्चन्दनप्रभव एव प्रतीयते एवंमिहापि विलक्षणस्य सत्त्वाख्यस्य भोग्यस्य परार्थत्वेऽनुमीयमाने तथाविध एव भोक्ताऽधिष्ठाता परश्चिन्मात्ररूपोऽसंहतः सिध्यति। यदि च तस्य परत्वं सर्वोत्कृष्टत्वमेव प्रतीयते तथाऽपि तामसेभ्यो विषयेभ्यः प्रकृष्यते शरीरं प्रकाशरूपेन्द्रियाश्रयत्वात् तस्मादपि प्रकृष्यन्त इन्द्रियाणि ततोऽपि प्रकृष्टं सत्त्वं प्रकाशरूपं तस्यापि यः प्रकाशकः प्रकाश्यविलक्षणः स चिद्रूप एव भवतीति कुतस्तस्य संहतत्वम्।
इदानीं शास्त्रफलं कैवल्यं निर्णेतुं दशभिः सूत्रैरुपक्रमते –
विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ २५ ॥
एवं सत्त्वपुरुषयोरन्यत्वे साधिते यस्तयोर्विशेषं पश्यति अहमस्मादन्य इत्येवंरूपं तस्य विज्ञातचित्तस्वरूपस्य चित्ते याऽऽत्मभावभावना सा निवर्तते चित्तमेव कर्तृज्ञातृभोक्तृ इत्यभिमानो निवर्तते।
तस्मिन्सति किं भवतीत्याह –
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥
यदस्याज्ञाननिम्नपथं बहिर्मुखं विषयोपभोगफलं चित्तमासीत्तदिदानीं विवेकनिम्न विवेक मार्गमान्तर्मुखं कैवल्यप्राग्भारं कैवल्यफलं कैवल्यप्रारम्भं वा संपद्यत इति।
अस्मिंश्च विवेकवाहिनि चित्ते येऽन्तरायाः प्रादुर्भवन्ति तेषां हेतुप्रतिपादनद्वारेण त्यागोपायमाह –
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७ ॥
तस्मिन्समाधौ स्थितस्य तच्छिद्रेष्वन्तरालेषु यानि प्रत्ययान्तराणि व्युत्थानरूपाणि ज्ञानानि तानि प्राग्भूतेभ्यो व्युत्थानानुभवजेभ्यः संस्कारेभ्योऽहं ममेत्येवंरूपाणि क्षीयमाणेभ्योऽपि प्रभवन्ति अन्तःकरणोच्छित्तिद्वारेण तेषां हानं कर्तव्यमित्युक्तं भवति।
हानोपायश्च पूर्वमेवोक्त इत्याह –
हानमेषां क्लेशवदुक्तम् ॥ २८ ॥
यथा क्लेशानामविद्यादीनां हानं पूर्वमुक्तं तथा संस्काराणामपि कर्तव्यम्। यथा ते ज्ञानाग्निना प्लुष्टा दग्धबीजकल्पा न पुनश्चित्तभूमौ प्ररोहं लभन्ते तथा संस्काराऽपि।
एवं प्रत्ययान्तरानुदयेन स्थिरीभूते समाधौ यादृशाऽस्य योगिनः समाधिप्रकर्षप्राप्तिर्भवति तथाविधमुपायमाह –
प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ २९ ॥
प्रसंख्यानं यावतां तत्त्वानां यथाक्रमं व्यवस्थितानां परस्परविलक्षणस्वरूपविभावनं तस्मिन्सत्यप्यकुसीदस्य फलमलिप्सोः प्रत्ययान्तराणामनुदयात्सर्वप्रकारविवेख्यातेः परिशेषाद्धर्ममेघः समाधिर्भवति। प्रकृष्टमशुक्लकृष्णं धर्मं परमपुरुषार्थसाधकं मेहति सिञ्चतीति धर्ममेघः। अनेन प्रकृष्ठधर्मस्यैव ज्ञानहेतुत्वमित्युपपादितं भवति।
तस्माद्धर्ममेघात्किं भवतीत्यत आह –
ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥
क्लेशानामविद्यादीनामभिनिवेशान्तानां कर्मणां च शुक्लादिभेदेन त्रिविधानां ज्ञानोदयात्पूर्वपूर्वकारणनिवृत्त्या निवृत्तिर्भवति।
तेषु निवृत्तेषु किं भवतीत्यत आह –
तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम् ॥ ३१ ॥
आव्रियते चित्तमेभिरित्यावरणानि क्लेशास्त एव मलास्तेभ्योऽपेतस्य तद्विरहितस्य ज्ञानस्य शरद्गगननिभस्याऽऽनन्त्यादनवच्छेदात् ज्ञेयमल्पं गणनास्पदं न भवत्यक्लेशेनैव सर्वं ज्ञेयं जानातीत्यर्थः।
ततः किमित्यत आह –
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ३२ ॥
कृतो निष्पादितो भोगापवर्गलक्षणः पुरुषार्थः प्रयोजनं यैस्ते कृतार्ता गुणाः सत्त्वरजस्तमांसि तेषां परिणाम आ पुरुषार्थसमाप्तेरानुलेम्येन प्रातिलोम्येन चाङ्गाङ्गिभाव स्थितिलक्षणस्तस्य योऽसौ क्रमो वक्ष्यमाणस्तस्य परिसमाप्तिर्निष्ठा न पुनरुद्भव इत्यर्थः।
क्रमस्योक्तस्य लक्षणमाह –
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ३३ ॥
क्षणोऽल्पीयान्कालस्तस्य योऽसौ प्रतियोगी क्षणविलक्षणः परिणामापरान्तनिर्ग्राह्योऽनुभूतेषु क्षणेषु पश्चात्संकलनबुद्ध्यै व यो गृह्यते स क्षणानां क्रम उच्यते न ह्यननुभूतेषु क्षणेषु क्रमः परिज्ञातुं शक्य।
इदानीं फलभूतस्य कैवल्यस्यासाधारणं स्वरूपमाह –
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥
समाप्तभोगापवर्गलक्षणपुरुषार्थानां गुणानां यः प्रतिप्रसवः प्रतिलोमस्य परिणामस्य समाप्तौ विकारानुद्भवः यदि वा चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेऽवस्थानं तत्कैवल्यमुच्यते।
न केवलमस्मद्दर्शने क्षेत्रज्ञः कैवल्यावस्थायामेववंविधश्चिद्रूपो यावद्दर्शनान्तरेष्वपि विमृष्यमाण एवंरूपोऽवतिष्ठते। तथाहि संसारदशायामात्मा कर्तृत्वभोक्तृत्वानुसंधातृत्वमयः प्रतीयतेऽन्यथा यद्ययमेकः क्षेत्रज्ञस्तथाविधो न स्यात्तदा ज्ञानलक्षणानामेव पूर्वापरानुसंधातृशून्यानामात्मभावे नियतः कर्मफलसंबन्धो न स्यात्कृतहाना कृताभ्यागमप्रसङ्गश्च। यदि येनैव शास्त्रोपदिष्टमनुष्ठितं कर्म तस्यैव भोक्तृत्वं भवेत्तदा हिताहितप्राप्तिपरिहाराय सर्वस्य प्रवृत्तिर्घटेत सर्वस्यैव व्यवहारस्य हानोपादानलक्षणस्यानुसंधानेनैव व्याप्तत्वाज्ज्ञानक्षणानां परस्परभेदेनानुसंधानशून्यत्वात्तदनुसंधानाभावे कस्यचिदपि व्यवहारस्यानुपपत्तेः कर्ता भोक्ताऽनुसंघाता यः स आत्मेति व्यवस्थाप्यते। मोक्षदशायां तु सकलग्राह्यग्राहकलक्षणव्यवहाराभावाच्चैतन्यमात्रमेव तस्यावशिष्यते। तच्चैतन्यं चितिमात्रत्वेनैवोपपद्यते न पुनरात्मसंवेदनेन। यस्माद्विषयग्रहणसमर्थत्वमेव चिते रूपं नाऽऽत्मग्राहकत्वम्। तथाहि अर्थश्चित्या गृह्यमाणोऽयमिति गृह्यते स्वरूपं गृह्यमाणमहमिति न पुनर्युगपद्बहिर्मुखतान्तर्मुखतालक्षणव्यापारद्वयं परस्परविरुद्धं कर्तुं शक्यम्। अत एकस्मिन्समये व्यापारद्वयस्य कर्तुमशक्यत्वाच्चिद्रूपतैवावशिष्यते अतो मोक्षावस्थायां निवृत्ताधिकारेषु गुणेषु चिन्मात्ररूप एवाऽऽत्माऽवतिष्ठत इत्येवं युक्तम्। संसारदशायां त्वेवंभूतस्यैव कर्तृत्वं भोक्तृत्वमनुसंधातृत्वं च सर्वमुपपद्यते। तथाहि योऽयं प्रकृत्या सहानादिर्नैसर्गिकोऽस्य भोग्यभोक्तृत्वलक्षणः संबन्धोऽविवेकख्यातिमूलस्तस्मिन्सति पुरुषार्थकर्तव्यतारूपशक्तिद्वयसद्भावे या महदादिभावेन परिणतिस्तस्यां संयोगे सति यदात्मनोऽदिष्ठातृत्वं चिच्छायासमर्पणसामर्थ्यं बुद्धिसत्त्वस्य च संक्रान्तचिच्छायाग्रहणसामर्स्यं चिदवष्टब्धायाश्च बुद्धेर्योऽयं कर्तृत्वभोक्तृत्वाध्यवसायस्तत एव सर्वस्यानुसंधानपूर्वकस्य व्यवहारस्य निष्पत्तेः किमन्यैः फल्मुभिः कल्पनाजल्पैः। यदि पुनरेवंभूतमार्गव्यतिरेकेण पारमार्थिकमात्मानः कर्तृत्वाद्यङ्गी क्रियेत तदाऽस्य परिणामित्वप्रसङ्गः। परिणामित्वाच्चानित्यत्वे तस्याऽऽत्मत्वमेव न स्यात्। न ह्येकस्मिन्नेव समये एकेनैव रूपेण परस्परविरुद्धावस्थानुभवः संभवति। तथाहि यस्यामवस्थायामात्मसमवेते सुखे समुत्पन्ने तस्यानुभवितृत्वं न तस्यामेवावस्थायां दुःखानुभवितृत्वम्। अतोऽवस्थानां नानात्वात् तदभिन्नस्यावस्थावतोऽपि नानात्वं नानात्वेन च परिणामित्वान्नाऽऽत्मत्वम्। नापि नित्यत्वम्। अत एव शान्तब्रह्मवादिभिः सांख्यैरात्मनः सदैव संसारदशायां मोक्षदशायां चैकरूपत्वमङ्गीक्रियते।
ये तु वेदान्तवादिनश्चिदानन्दमयत्वमात्मनो मोक्षे मन्यन्ते तेषां न युक्तः पक्षः। तथाहि आनन्दस्य सुखरूपत्वात्सुखस्य च सदैव संवेद्यमानतयैव प्रतिभासात्संवेद्यमानत्वं च संवेदनव्यतिरेकेणानुपपन्नमिति संवेद्यसंवेदनयोरभ्युपगमादद्वैतहानिः। अथ सुखात्मकत्वमेव तस्योच्येत तद्विरुद्धधर्माध्यासादनुपपन्नम्। न हि संवेदनं संवेद्यं चैकं भवितुमर्हति। किंचाद्वैतवादिभिः कर्मात्मपरमात्मभेदेनाऽऽत्मा द्विविधः स्वीकृतः। इत्थं च तत्र येनैव रूपेण सुखदुःखभोक्तृत्वं कर्मात्मनस्तेनैव रूपेण यदि परमात्मानः स्यात्तदा कर्मात्मत्वपरमात्मनः परिणामित्वमविद्यास्वभावत्वं च स्यात्। अथ न तस्य साक्षाद्भोक्तृत्वं किंतु तदुपढौकितमुदासीनतयाऽधिष्ठातृत्वेन स्वी करोति तदाऽस्मद्दर्शनानुप्रवेशः आनन्दरूपता च पूर्वमेव निराकृता। किं चाविद्यास्वभावत्वे निःस्वभावत्वात्कर्मात्मनः कः शास्त्राधिकारी। न तावन्नित्यनिर्मुक्तत्वात्परमात्मा नापि अविद्यास्वभावत्वात्कर्मात्मा। ततश्च सकलशास्त्रवैयर्थ्यप्रसङ्ग। अविद्यामयत्वे च जगतोऽङ्गीक्रियमाणे कस्याविद्येति विचार्यते। न तावत्परमात्मनो नित्यमुक्तत्वाद्विद्यारूपत्वाच्च कर्मात्मनोऽपि परमार्थतो निःस्वभावतया शशविषाणप्रख्यत्वे कथमविद्यासंबन्धः अथोच्यते एतदेवाविद्याया अविद्यात्वं यदविचाररमणीयत्वं नाम। यैव हि विचारेण दिनकरस्पृष्टनीहारवद्विलयमुपयाति साऽविद्येत्युच्यते। मैवं यद्वस्तु किंचित्कार्यं करोति तदवश्यं कुतश्चिद्भिन्नमभिन्नं वा वक्तव्यम्। अविद्यायाश्च संसारलक्षणकार्यकर्तृत्वम् अवश्यमङ्गीकर्तव्यम्। तस्मिन्सत्यपि यद्यनिर्वाच्यत्वमुच्यते तदा कस्यचिदपि वाच्यत्वं न स्यात्। ब्रह्मणोऽप्यवाच्यत्वप्रसक्तिः। तस्मादधिष्ठातृतारूपव्यतिरेकेण नान्यदात्मनो रूपमुपपद्यते। अधिष्ठातृत्वं च चिद्रूपमेव तद्व्यतिरिक्तस्य धर्मस्य कस्यचित्प्रमाणानुपपत्तेः।
यैरपि नैयायिकादिभिरात्मा चेतनायोगाच्चेतन इत्युच्यते। चेतनाऽपि तस्य मनःसंयोगजा। तथाहि इच्छाज्ञानप्रयत्नादयो गुणास्तस्य व्यवहारदशायामात्ममनः संयोगादुत्पद्यन्ते। तैरेव च गुणैः स्वयं ज्ञाता कर्ता भोक्तेति व्यपदिश्यते। मोक्षदशायां तु मिथ्याज्ञाननिवृत्तौ तन्मूलानां दोषाणामपि निवृत्तेस्तेषां बुद्ध्यादीनां विशेषगुणानामत्यन्तोच्छित्तेः स्वरूपमात्रप्रतिष्ठत्वमात्मनोऽङ्गीकृतं तेषामयुक्तः पक्षः यतस्तस्यां दशायां नित्यत्वव्यापकत्वादयो गुणा आकाशादीनामपि सन्ति अतस्तद्वैलक्षण्येनाऽऽत्मनश्चिद्रूपत्वमवश्यमङ्गीकार्यम्। आत्मत्वलक्षणजातियोग इति चेत। न सर्वस्यैव हि तज्जातियोगः संभवति अतो जातिभ्यो वैलक्षण्यमात्मनोऽवश्यमङ्गीकर्तव्यम्। तच्चाधिष्ठातृत्वं तच्च चिद्रूपतयैव घटते नान्यथा।
यैरपि मीमांसकैः कर्मकर्तृरूप आत्माऽङ्गी क्रियते तेषामपि न युक्तः पक्षः। तथाहि अहंप्रत्ययग्राह्यः आत्मेति तेषां प्रतिज्ञा। अहंप्रत्यये च कर्तृत्वं कर्मत्वं चाऽऽत्मन एव। न चैतद्विरुद्धत्वादुपपद्यते। कर्तृत्वं प्रमातृत्वं कर्मत्वं च प्रमेयत्वम्। न चैतद्विरुद्धधर्माध्यासो युगपदेकस्य घटते। यद्विरुद्धधर्माध्यस्तं न तदेकं यथा भावाभावौ विरुद्धे च कर्तृत्वकर्मत्वे। अथोच्यते न कर्तृत्वमकर्मत्वयोर्विरोधः किंतु कर्तृत्वकरणतयोः। कैनेतदुक्तं विरुद्धधर्माध्यासस्य तुल्यत्वात्कर्तृत्वकरणत्वयोरेव विरोधो न कर्तृत्वकर्मत्वयोः इति। तस्मादहंप्रत्ययग्राह्यत्वं परिहृत्याऽऽत्मनोऽधिष्ठातृत्वमेवोपपन्नम् तच्च चेतनत्वमेव।
यैरपि द्रव्यबोधपर्यायभेदेनाऽऽत्मनोऽव्यापकस्य शरीरपरिमाणस्य परिणामित्वमिष्यते तेषामुत्थानपराहत एव पक्षः। परिणामित्वे चिद्रूपताहानिश्चिद्रूपताभावे किमात्मन आत्मत्वम्। तस्मादात्मन आत्मत्वमिच्छता चिद्रूपत्वमेवाङ्गीकर्तव्यम्। तच्चाधिष्ठातृत्वमेव।
केचित्कर्तृरूपमेवाऽऽत्मनमिच्छन्ति। तथा हि विषयसांनिध्ये या ज्ञानलक्षणा क्रिया समुत्पन्ना तस्या विषयसंवित्तिः फलं तस्यां च फलरूपायां संवित्तौ स्वरूपं प्रकाशरूपतया प्रतिभासते विषयश्च ग्राह्यतया आत्मा च ग्राहकतया घटमहं जानामीत्याकारेण तस्याः समुत्पत्तेः। क्रियायाश्च कारणं कर्तैव भवतीत्यतः कर्तृत्वं भोक्तृत्वं चाऽऽत्मनो रूपमिति। तदनुपपन्नं यस्मात्तासां संवित्तीनां स किं कर्तृत्वं युगपत्प्रतिपद्यते क्रमेण वा। युगपत्कर्तृत्वे क्षणान्तरे तस्य कर्तृत्वं न स्यात्। अथ क्रमेण कर्तृत्वं तदेकरूपस्य न घटते एकेन रूपेण चेत्तस्य कर्तृत्वं तदैकस्य रूपस्य सदैव संनिहितत्वात्सर्वं फलमेकरूपं स्यात्। अथ नानारूपतया तस्य कर्तृत्वं तदा परिणामित्वं परिणामित्वाच्च न चिद्रूपत्वम्। अतश्चिद्रूपत्वमेवाऽऽत्मन इच्छद्भिर्न साक्षात्कर्तृत्वमङ्गीकर्तव्यम्। यादृशमस्माभिः कर्तृत्वमात्मनः प्रतिपादितं कूटस्थस्य नित्यस्य चिद्रूपस्य तदेवोपपन्नम्।
एतेन स्वप्रकाशस्याऽऽत्मनो विषयसंवित्तिद्वारेण ग्राहकत्वमभिव्यजत इति ये वदन्ति तेऽपि अनेनैव निराकृताः।
केचिद्विमर्शात्मकत्वेनाऽऽत्मनश्चिन्मयत्वमिच्छन्ति। ते ह्याहुर्न विमर्शव्यतिरेकेण चिद्रूपत्वमात्मनो निरूपयितुं शक्यम् जड़ाद्वैलक्षण्यमेव चिद्रूपत्वमुच्यते तच्च विमर्शव्यतिरेकेण निरूप्यमाणं नान्यथाऽवतिष्ठते। तदनुपपन्नम्। इदमित्थमेवंरूपमिति यो विचारः स विमर्श इत्युच्यते। स चास्मिताव्यतिरेकेण नोत्थानमेव लभते। तथाहि आत्मन्युपजायमानो विमर्शोऽहमेवंभूत इत्यनेनाऽऽकारेण संवेद्यते। तताश्चाहंशब्दसंभिन्नस्याऽऽत्मलक्षणस्यार्थस्य तत्र स्फुरणान्न विकल्परूपतातिक्रमः विकल्पश्चाध्यवसायात्मा बुद्धिधर्मो न चिद्धर्मः। कूटस्थनित्यत्वेन चितेः सदैकरूपत्वान्नाहंकारानुप्रवेशः। तदनेन सविमर्शत्वमात्मानः प्रतिपादयता बुद्धिरेवाऽऽत्मत्वेन भ्रान्त्या प्रतिपादिता न प्रकाशात्मनः परस्य पुरुषस्य स्वरूपमवगतमिति।
इत्थं सर्वेष्वपि दर्शनेष्वधिष्ठातृत्वं विहाय नान्यदात्मनो रूपमुपपद्यते। अधिष्ठातृत्वं च चिद्रूपत्वम्। तच्च जड़ाद्वैलक्षण्यमेव। चिद्रूपतया यदधितिष्ठति तदेव भोग्यतां नयति। यच्च चेतनाधिष्ठितं तदेव सकलव्यापारयोग्यं भवति। एष च सति कृतकृत्यत्वात् प्रधानस्य व्यापारनिवृत्तौ यदात्मनः कैवल्यमस्माभिरुक्तं तद्विहाय दर्शनान्तराणामपि नान्या गतिः। तस्मादिदमेव युक्तमुक्तं वृत्तिसारूप्यपरिहारेण स्वरूपे प्रतिष्ठा चितिशक्तेः कैवल्यम्।
तदेव सिद्ध्यन्तरेभ्यो विलक्षणां सर्वसिद्धिमूलभूतां समाधिसिद्धिमभिधाय जात्यन्तरपरिणामलक्षणस्य च सिद्धिविशेषस्य प्रकृत्यापूरणमेव कारणमित्युपपाद्य धर्मादीनां प्रतिबन्धकनिवृत्तिमात्र एक सामर्थ्यमिति प्रदर्श्य निर्माणचित्तानामस्मितामात्रादुद्भव इत्युक्त्वा तेषां च योगिचित्तमेवाधिष्ठापकमिति प्रदर्श्य योगिचित्तस्य चित्तान्तरवैलक्षण्यमभिधाय तत्कर्मणामलौकिकत्वं चोपपाद्य विपाकानुगुणानां च वासनानामभिव्यक्तिसामर्थ्ये कार्यकारणयोश्चेक्यप्रतिपादनेन व्यवहितानामपि वासनानामानन्तर्यमुपपाद्य तासामानन्त्येऽपि हेतुफलादिद्वारेण हानमुपदर्श्यातीतादिष्वध्वसु धर्माणां सद्भावमुपपाद्य विज्ञानवादं निराकृत्य साकारवादं च प्रतिष्ठाप्य पुरुषष्य ज्ञातृत्वमुक्त्वा चित्तद्वारेण सकलव्यवहारनिष्पत्तिमुपपाद्य पुरुषसत्त्वे प्रमाणमुपदर्श्य कैवल्यनिर्णयाय दशभिः सूत्रैः क्रमेणोपयोगिनोऽर्थानभिधाय शास्त्रान्तरेऽप्येतदेव कैवल्यमित्युपपाद्य कैवल्यस्वरूपं निर्णीतमिति व्याकृतः कैवल्यपादः।
स्रोतः
[सम्पाद्यताम्]- राजमार्ताण्ड (योगवैशारदी - A searchable web-repository of
classical Yoga literature)