रागलक्षणम्

विकिस्रोतः तः
रागलक्षणम्
रचयिता - मुद्दुवेङ्कटमखिन (Mudduveṅkaṭamakhin)
अथ रागाङ्गरागणां नामान्युच्यन्त आदितः ।
कनकाम्बरिरागः स्यात्फेनद्युतिरतः परम् ॥१
गानसामवराली च भानुमत्याख्यरागकः ।
मनोरञ्जनिकारागस्तनुकीर्त्तिस्ततः परम् ॥२
सेनाग्रणीर्जनतोडिः स्याद् धुनीभिन्नषड्जकः ।
नटाभरणरागश्च कोकिलारव एव च ॥३
रूपावती ततोगेयहेज्जज्जीराग एव च ।
वाटीवसन्तभैरव्या मायामालवगौलकः ॥४
स्यात्तोयवेगवाहिन्याश्चायावती ततः परम् ।
जयशुद्धमालवी स्याज्झंकारभ्रमरीति च ॥५
नारीरीतिगौलरागः किरणावलिरागकः ।
श्रीरागः स्याद् गौरिवेलावली वीरवसन्तकः ॥६
स्याच्चरावतिकारागस्तरङ्गिणी ततः परम् ।
सौरसेनाख्यरागोऽथ हरिकेदारगौलकः ॥७
शंकराभरणो धीरो नागाभरणमेव च ।
कलावती रागचूडामणिगङ्गातरङ्गिणी ॥८
भोगच्चायानाटशैलदेशाक्षी चलनाटकः ।
एते पूर्वाङ्गरागाः स्युरुत्तराङ्गानथ ब्रुवे ॥९
सौगन्धिनी जगन्मोहनाऽथ धालिवरालिका ।
नभोमणिः कुम्भिनी च रविक्रिया तथैव च ॥१०
गीर्वाणी च भवानी च शैवपन्तुवरालिका ।
स्तवराजोऽथ सौवीररागो जीवन्तिका तथा ॥११
धवलाङ्गो नामदेशी काशिरामक्रिया तथा ।
रमामनोहरीरागो गमकक्रियरागकः ॥१२
वंशवती शामला च चामरा च सुमद्युतिः ।
देशिसिंहरवो धामवती निषधरागकः ॥१३
स्यादतः कुन्तलो रागो रतिप्रिया ततः परम् ।
गीतप्रियाभूषावत्यौ शान्तकल्याणिरागकः ॥१४
चतुरङ्गिणिसंतानमञ्जर्यौ जोतिरागकः ।
धौतपञ्चमरागश्च नासामणिरतः परम् ॥१५
कुसुमाकररागोऽथ रसमञ्जरिरागकः ।
उपाङ्गरागा उच्यन्ते तत्तन्मेलसमुद्भवाः ॥१६
गानसामवराल्यास्तु मेले पूर्ववरालिका ।
भिन्नपञ्चमरागश्चेति रागद्वयमुदीरितम् ॥१७
जनतोडीरागमेले रागो नागवरालिका ।
भाषाङ्गरागाः पुन्नागवरालीराग ईरितः ॥१८
धुनिभिन्नषड्जमेले रागो मोहननाटकः ।
भूपालश्चोदयरविचन्द्रिका च प्रकीर्तिताः ॥१९
वसन्तभैरवीमेले जातो ललितपञ्चमः ।
मायामालवगौलस्य मेले सालङ्गनाटकः ॥२०
चायागौलोऽथ मङ्गल्यकैशिकी मेघरञ्जनी ।
गुम्मकाम्बोजिटक्कौ च नादरामक्रिया तथा ॥२१
पाडी च रेवगुप्तिः कन्नडबङ्गालगौलिका ।
ललितो गुर्जरी गुण्डक्रिया मलहरीति च ॥२२
बौल्यार्द्रदेशिकारागावथ भाषाङ्गमुच्यते ।
सौराष्ट्रः पौरवी गौलीपन्तुर्मारुवरागकः ॥२३
सावेरी चाथ मालवपञ्चमः पूर्णपञ्चमः ।
मार्गदेशी रामकली फरजुर्गौरी वसन्तकः ॥२४
वेगवाहिनेमेले तु भाषाङ्गं भैरवोऽजनि ।
नारीरीतिगौलमेले जातो हिन्दोलरागकः ॥२५
नागगान्धारिकाऽऽनन्दभैरवी तदनन्तरम् ।
घण्टारवो मार्गहिन्दोलो हिन्दोलवसन्तकः ॥२६
आभेरी चेत्युपाङ्गानि त्वथ भाषाङ्गलक्षणाः ।
भैरव्याहरिधन्यशीगोपिकाद्यवसन्तकाः ॥२७
अथ श्रीरागमेले तु मणिरङ्गुस्ततः परम् ।
स्यात्सालगभैरवी च शुद्धधन्याशिरागकः ॥२८
रागः कन्नडगौलश्च शुद्धदेशी ततः परम् ।
देवगांधारिकामालवश्रीरेत उपाङ्गकाः ॥२९
भाषाङ्गाः श्रीरञ्जनी च कापीरागो हुशानिका ।
बृन्दावनी सैन्दविकाऽथ माधवमनोहरी ॥३०
स्यान्मध्यमावती देवमनोहरी ततः परम् ।
नाटकुरञ्जिरागश्चेत्येते भाषाङ्गलक्षणाः ॥३१
हरिकेदारगौलस्य मेले तु बलहंसकः ।
रागोऽथ माहुरीदेवक्रियाऽऽन्धाली च रागकाः ॥३२
चायातरङ्गिणीनारायणगौलाख्यरागकौ ।
नटनारायणीरागोऽप्यथ भाषाङ्गमुच्यते ॥३३
भाषाङ्गरागाः काम्भोजी कन्नडेशमनोहरी ।
सुरटश्च येरुकुलकाम्भोज्याठाण इत्यपि ॥३४
नीलम्बरी चेत्येते हि रागा भाषाङ्गलक्षणाः ।
शंकराभरणे मेले जाता रागाः कुरञ्जिका ॥३५
नारायणी चारभी च रागाः शुद्धवसन्तकः ।
स्यान्नारायणदेशाक्षी सामो वै पूर्वगौलकः ॥३६
नागधविश्चेत्युपाङ्गान्यथ भाषाङ्गलक्षणाः ।
बिलाहरी बेगडश्चाथ रागः पूर्णचन्द्रिका ॥३७
सारस्वतमनोहारी केदारो नवरोजुका ।
शैवपन्तुवरालिश्च सिन्धुरामक्रिया तथा ॥३८
अथ रामक्रियामेले कुमुदक्रियदीपकौ ।
शान्तकल्याणिमेले तु यमुनाकल्याणिमोहने ॥३९
घनरागा नाटगौलौ वराली बौलिरेव च ।
श्रीराग आरभिश्चैव मालवश्रीस्ततः परम् ॥४०
रीतिगौलोऽष्टरागास्ते घनरागाः प्रकीर्तिताः ।
भैरवी केदारगौलः कल्याणी च ततः परम् ॥४१
काम्भोजी तोडियेरुकुलकाम्भोजी राग एवे च ।
पुंनागो बेगडः शंकराभरणस्तथैव च ॥४२
पन्तुवराली बिलहरी चाथ नवरोजुका ।
मध्यमावतिधन्याशी सौराष्ट्रिकाऽपि मोहना ॥४३
शुद्धसावेरिसावेर्यानन्दभैरव आहरी ।
घण्टारवः कन्नडश्च नीलाम्बरी मुखारिका ॥४४
नाटकुरञ्जिसारङ्गौ हुशानी गौलिपन्तुका ।
गुम्मकाम्भोजिभूपालरागौ मङ्गलकैशिकी ॥४५
मलारिर्देवगान्धारी नादरामक्रिया तथा ।
असावेरीपूर्वगौरीसैन्धव्यो रक्तिरागकाः ॥४६
सुरटी दरुबारश्च नायकी यमुना च सा ।
पूर्व्या कल्याण्यठाणानी बृन्दावनी जुजावती ॥४७
देवगान्धारिफरजुरामकल्याथ शाहना ।
भैरवश्च वसन्तश्च गौरी तोडी बिबासु च ॥४८
हम्वीरुश्च बलावलुधनासरिमलारुकाः ।
ककुभो माञ्जिपूर्वी चेत्येते देशीयरागकाः ॥४९
कनकाम्बरिरागोऽसावारोहे गनिवर्जितः ।
निवक्रः सर्वकालेषु गीयते गायकोत्तमैः ॥५०
शुद्धस्वरो मुखारिश्चाप्यारोहे गनिवर्जितः ।
संपूर्णः सग्रहोपेतः सर्वकालेषु गीयते ॥५१
शुद्धसावेरिकारागः पञ्चमग्रहसंयुतः ।
निगलोपादौडवोऽयं सायंकाले प्रगीयते ॥५२
रागः फेनद्युतिः सग्रहश्चारोहे गवर्जितः ।
निवक्रः सर्वकालेषु गीयते लक्ष्यकोविदैः ॥५३
संपूर्णा सग्रहा सामवराली सार्वकालिका ।
पूर्णा पूर्ववराली स्यादारोहे गनिवर्जिता ॥५४
षड्जग्रहा सर्वकाले गीयते गायकोत्तमैः ।
भिन्नपञ्चमरागोऽयमारोहे वै धवर्जितः ॥५५
षड्जग्रहः सर्वकाले गीयते गायकोत्तमैः ।
षड्जग्रहा भानुमती संपूर्णा सार्वकालिका ॥५६
मनोरञ्जनिका पूर्णा सग्रहा सार्वकालिकी ।
अवरोहे गवक्रा स्यादेवं गायन्ति गायकाः ॥५७
अवरोहे धवक्रश्चेत्तनुकीर्त्तिस्तु संमतः ।
षड्जग्रहः सर्वकाले गीयते गायकोत्तमैः ॥५८
सेनाग्रणीरित्यारोहे मधवक्रस्तु रागकः ।
सग्रहः सर्वकालेषु गीयते गायकोत्तमैः ।
तोडिः षड्जग्रहः पूर्णः सायंकाले प्रगीयते ॥६०
आरोहे चावरोहे च पवक्रा सार्वकालिकी ।
षड्जग्रहेति विज्ञेया रागो नागवरालिका ॥६१
मन्द्रषड्जनिषादोर्ध्वधैवतान्तप्रमाणका ।
स्यात्पुंनागवरालिस्तु सग्रहा सार्वकालिकी ॥६२
असावेर्याख्यरागश्चाप्यारोहे गनिवर्जितः ।
संपूर्णः सग्रहोपेतः सर्वकालेषु गीयते ॥६३
भिन्नषड्जाख्यरागोऽयमृषभग्रहसंयुतः ।
संपूर्णः प्रथमे यामे दिनस्य परिगीयते ॥६४
आरोहे चावरोहे च धवक्रा ऋषभच्युतिः ।
गीयते सर्वकालेषु मोहनानाटकाभिधा ॥६५
भूपालः सग्रहोपेत औडुवो मनिवर्जितः ।
प्रातःकालेषु गातव्यः सर्वसंपत्प्रदायकः ॥६६
रिधत्यक्तोदयरविचन्द्रिका त्वौडुवी मता ।
नटाभरणरागः स्यादारोहे ऋषभोज्झितः ॥६७
आरोहे चावरोहे च धवक्रः सार्वकालिकः ।
कोकिलारवः संपूर्ण आरोहे च गवर्जितः ॥६८
सग्रहः सर्वकालेषु गीयते गायकोत्तमैः ।
आरोहे स्याद्रूपवती गधनीवर्जिता क्रमात् ॥६९
अवरोहे धवक्रा स्याद्रिवर्ज्या सार्वकालिकी ।
हेज्जज्जिरागः संपूर्ण आरोहे च निवर्जितः ॥७०
मध्यमग्रहसंयुक्तः सायंकाले प्रगीयते ।
वसन्तभैरवीरागः संपूर्णः स्वल्पपञ्चमः ॥७१
षड्जग्रहसमायुक्तः सायंकाले प्रगीयते ।
ललितः पञ्चमः पूर्णः षड्जग्रहसमन्वितः ॥७२
आरोहे रिपवर्ज्यः स्यात्सर्वकालेषु गीयते ।
पूर्णो मालवगौलाख्यः सग्रहो गीयते सदा ॥७३
सालङ्गनाटः संपूर्ण आरोहे गनिवर्जितः ।
षड्जग्रहान्वितः सायंसंध्याकाले प्रगीयते ॥७४
चायागौलश्च संपूर्ण आरोहे गनिवर्जितः ।
निषादग्रहसंयुक्तः सायंकाले प्रगीयते ॥७६
च्युतपञ्चमसंयुक्ता वक्रारोहाऽवरोहणे ।
संपूर्णा सग्रहोपेता सा स्यान्मङ्गलकैशिकी ॥७७
औडुवी पधवर्ज्या रिवक्रा स्यादवरोहणे ।
षड्जग्रहेण संयुक्ता गातव्या मेघरञ्जनी ॥७८
मेचबौलिस्तु संपूर्णा चारोहे मनिवर्जिता ।
षड्जग्रहसमायुक्ता गेया गायकसत्तमैः ॥७९
षाडवष्टक्करागः स त्वारोहे च रिवर्जितः ।
अवरोहे निवर्ज्यः स्यात्सग्रहो गीयते सदा ॥८०
आरोहेऽप्यवरोहे च क्वचित्स्यादल्पपञ्चमः ।
नादरामक्रिया पूर्णा सायं गेया हि सग्रहा ॥८१
पाडिः षड्जग्रहो वक्रधैवतस्तु गवर्जितः ।
षाडवः पूर्वरात्रे तु गेयो गान्धर्वकोविदैः ॥८२
औडुवो रेवगुप्तिस्तु रिग्रहो मनिवर्जितः ।
दिनस्य चरमे यामे गेयो गायकसत्तमैः ॥८३
रागः कर्णाटबङ्गालः षाडवो गग्रहान्वितः ।
निवर्ज्यः प्रातरुद्गेय आरोगे गच्युतः क्वचित् ॥८४
गौलस्तु षाडवो रागो निग्रहो धैवतोज्झितः ।
सदा वक्रितगांधारः सर्वकालेषु गीयते ॥८५
ललिता सग्रहा प्रातर्गेया पञ्चमवर्जिता ।
संपूर्णा गुर्जरी प्रातर्गीयते रिग्रहान्विता ॥८६
गुण्डक्रियः सग्रहोऽयमवरोहेऽल्पधैवतः ।
संपूर्णः पूर्वयामे तु गातव्यो गायकोत्तमैः ॥८७
भवेन्मलहरीरागो निच्युतो धैवतग्रहः ।
षाडवो गीयते प्रातरारोहे तु गवर्जितः ॥८८
सग्रहो बौलिरागस्तु श्रीदो मध्यमवर्जितः ।
तुरीययामे गेयः स्यादारोहे तु निवर्जितः ॥८९
आर्द्रदेशी भवेत्पूर्णा सग्रहा सार्वकालिकी ।
षड्जग्रहा देवरञ्जी चौडुवी रिगवर्जिता ॥९०
सौराष्ट्ररागः संपूर्णः सग्रहः सार्वकालिकः ।
पञ्चश्रुतिर्धैवतस्तु क्वचित्श्ताने प्रयुज्यते ॥९१
पूर्विरगश्च संपूर्णः सग्रहः सार्वकालिकः ।
सग्रहो गौलिपन्तुः स चारोहे गधवर्जितः ॥९२
संपूर्णः सर्वकालेषु गीयते गायकोत्तमैः ।
रिवर्ज्य आरोहे पूर्णो मारुवस्तु ससग्रहः ॥९३
गीयते सर्वकालेषु गानतत्वविशारदैः ।
सावेरिरागः पूर्णोऽयमारोहे गनिवर्जितः ॥९४
गनी त्रित्रिश्रुती लक्ष्ये क्वचिद्गायन्ति गायकाः ।
धवर्जितः स्यादारोहे पूर्णो मालवपञ्चमः ॥९५
षड्जग्रहसमायुक्तः सर्वकालेषु गीयते ।
निवर्ज्यः सग्रहोपेतः षाडवः पूर्णपञ्चमः ॥९६
निषादो वर्जितो यत्र मध्यमो वक्रतां गतः ।
षाडवी सग्रहोपेता मार्गदर्शीति सा स्मृता ॥९७
रागो रामकली ज्ञेया ह्यारोहे मनिवर्जिता ।
षड्जग्रहा तु संपूर्णा प्रातःकालेषु गीयते ॥९८
फरजूरागः संपूर्णः सग्रहः सार्वकालिकः ।
गौरीरागः सग्रहोऽयं सायंकाले प्रगीयते ॥९९
च्युतपञ्चमसंयोज्यो गीयते गायकोत्तमैः ।
वसन्तरागः संपूर्णश्च्युतपञ्चमसंयुतः ॥१००
आरोहे तु गवक्रः स्याद्रिवर्ज्यो गीयते सदा ।
गेया षद्जग्रहोपेता संपूर्णा वेघवाहिनी ॥१०१
भैरवः सग्रहः पूर्णः प्रातःकाले प्रगीयते ।
चायावती स्यादारोहे पवर्ज्य सार्वकालिकी ॥१०२
शुद्धमालविरागस्तु संपूर्णो वक्रधैवतः ।
झंकारभ्रमरीराग आरोहे तु निवर्जितः ॥१०३
गीयते सर्वकालेषु गानशास्त्रविशारदैः ।
निग्रहो रीतिगौलाख्य आरोहे तु धवर्जितः ॥१०४
संपूर्णश्चैष गातव्यः सायाह्ने गीतकोविदैः ।
हिन्दोलस्त्वौडुवो रागः पञ्चमर्षभवर्जितः ॥१०५
षड्जग्रहेण संयुक्तो गातव्यः सर्वदा बुधैः ।
संपूर्णा नागगांधारी ह्यारोहे च गवर्जिता ॥१०६
षड्जग्रहा सर्वकाले गेया गातकसत्तमैः ।
आरोहे ऋषभं त्यक्त्वा धवक्रं च समाश्रिता ॥१०७
संपूर्णा सग्रहोपेता भवेदानन्दभैरवी ।
घण्टारवस्तु संपूर्णः सायं गेयश्च धग्रहः ॥१०८
मार्गहिन्दोलरागः स्यादारोहे च रिवर्जितः ।
अवरोहे निपावर्ज्यो रिवक्रो ग्रहषड्जकः ॥१०९
स्याद्दिन्दोलवसन्तस्तु ऋषभेण हि वर्जितः ।
आरोहणे निवर्ज्यः स्यादवरोहे निवक्रितः ॥११०
आभेरी सग्रहा पूर्णा स्यादारोहे निवर्जिता ।
नवरत्नविलासस्तु निवर्ज्यः षाडवो मतः ॥१११
संपूर्णो भैरवीरागः सायंकाले प्रगीयते ।
पञ्चश्रुतिर्धैवतोऽत्र क्वचित्स्थाने प्रयुज्यते ॥११२
आहिरी सा तु संपूर्णा सग्रहा श्रोत्ररञ्जनी ।
गीतोक्तमेलमार्गेण बाणयामे प्रगीयते ॥११३
धन्याशिरागः संपूर्ण आरोहे रिधवर्जितः ।
गानतत्वार्थविद्भिः स प्रातःकाले प्रगीयते ॥११४
स्याद्गोपिकावसन्ताख्यः पूर्णः षड्जग्रहान्वितः ।
आरोहे तु धवक्रः स्यादवरोहे रिवक्रितः ॥११५
माञ्जिरागस्तु संपूर्णः सग्रहो गीयते सदा ।
मुखार्याख्यः स रागः स्यादारोहे गनिवर्जितः ॥११६
संपूर्णः सग्रहोपेतः सर्वकालेषु गीयते ।
किरणावलिरागस्तु संपूर्णः सग्रहान्वितः ॥११७
पवक्रं त्यक्तगांधारमारोहे चावरोहणे ।
धमयोर्वक्रतां कृत्वा सर्वकालेषु गीयते ॥११८
श्रीरागः सग्रहः पूर्णश्चारोहे चाल्पधैवतः ।
अवरोहे गवक्रः स्यात्सायं गेयः शुभावहः ॥११९
मणिरङ्गुः सग्रहात्तः षाडवोऽयं धवर्जितः ।
गवर्जितः स्यादारोहे सर्वकालेषु गीयते ॥१२०
संपूर्णा सग्रहोपेता चारोहे पधवर्जिता ।
दिनस्य चरमे यामे गेया सालगभैरवी ॥१२१
प्रातर्गेया रिधत्यक्ता शुद्धधन्याशिका स्मृता ।
षड्जग्रहसमायुक्तौडुवीति च निगद्यते ॥१२२
रागः कन्नडगौलोऽयं निषादग्रहसंयुतः ।
अवरोहे धवर्ज्यः स्यात्सायाह्नेषु प्रगीयते ॥१२३
षड्जग्रहः शुद्धदेशी त्यारोहे च गवर्जितः ।
पूर्णो धवक्र आरोहेऽप्यवरोहे पवक्रितः ॥१२४
संपूर्णा देवगांधारी षड्जग्रहसमन्विता ।
रिधवक्रा तथाऽऽरोहे प्रातःकाले च गीयते ॥१२५
रिवर्जिता मालवश्रीरारोहे तु धवर्जिता ।
षड्जग्रहा षाडवी च सर्वयामेषु गीयते ॥१२६
श्रीरञ्जनी षाडवी च पवर्ज्या सार्वकालिकी ।
कापिरागश्च संपूर्णः सग्रहः सार्वकालिकः ॥१२७
हुशानिरागः संपूर्णः सग्रहः सार्वकालिकः ।
बृन्दावनी त्वौडुवी च सग्रहा गधवर्जिता ॥१२८
सैन्धवी सग्रहा पूर्णा चारोहे तु धवक्रिता ।
संपूर्णा सग्रहोपेता चारोहे तु धवक्रिता ॥१२९
पवर्जिताऽवरोहे च स्यान्माधवमनोहरी ।
मध्यमादिस्तु रागोऽयं मध्यमग्रहसंयुतः ॥१३०
गधलोपादौडुवः स्यात्सायंकाले च गीयते ।
गवर्जितः षाडवोऽयं रागो देवमनोहरी ॥१३१
आरोहे चावरोहे च धवक्रः सग्रहान्वितः ।
पूर्णो रुद्रप्रियारागश्चावरोहे धवर्जितः ॥१३२
दरुबारुश्च संपूर्णो लक्ष्यमार्गेण गीयते ।
सहनारागस्तु पूर्णः षड्जग्रहसमन्वितः ॥१३३
आरोहे तु पवक्रश्च गीयते लक्ष्यवेदिभिः ।
संपूर्णो नायकीरागः षड्जग्रहसमन्वितः ॥१३४
लक्ष्यमार्गानुसारेण गीयते सार्वकालिकः ।
रागो वेलावलिर्ज्ञेयो ह्यारोहे गनिवर्जितः ॥१३५
धैवतग्रहसंयुक्तः प्रातःकाले प्रगीयते ।
रागो वीरवसन्ताख्यो गवर्ज्यो वक्रधैवतः ॥१३६
अवरोहे धवर्ज्यः स्यात्संपूर्णः सार्वकालिकः ।
पूर्णः शरवतीराग आरोहे रिगवर्जितः ॥१३७
सग्रहः सर्वकालेषु गीयते गायकोत्तमैः ।
पूर्णस्तरङ्गिणीराग आरोहे रिगवर्जितः ॥१३८
अवरोहे पधनिधरिगमागरिसंयुतः ।
गीयते सर्वकालेषु सग्रहश्चोच्यते बुधैः ॥१३९
सौरसेनाभिधो रागस्त्ववरोहे रिवर्जितः ।
संपूर्णः सर्वकालेषु गीयते सग्रोऽपि च ॥१४०
केदारगौलः संपूर्णस्त्वारोहे गधवर्जितः ।
निषादग्रहसंयुक्तः सायंकाले प्रगीयते ॥१४१
बलहंसाख्यरागोऽयमारोहे च निवर्जितः ।
सग्रहः सर्वकालेषु गीयते गायकोत्तमैः ॥१४२
संपूर्णो माहुरीराग आरोहे गनिवर्जितः ।
षड्जग्रहसमायुक्तः सर्वकालेषु गीयते ॥१४३
देवक्रिया चौडुवी स्याद्गनिवर्ज्याऽथ सग्रहा ।
आरोहे चावरोहे च धवर्ज्याऽन्धालिका मता ॥१४४
संपूर्णा सग्रहोपेता गेया छायातरङ्गिणी ।
स्यानारायणगौलस्तु संपूर्णो निग्रहान्वितः ॥१४५
आरोहे गधवर्ज्यश्च विन्यासाद्विद्यते क्वचित् ।
नटनारायणीरागश्चारोहे हि गवर्जितः ॥१४६
निवर्ज्यः षाडवस्तु स्याद्गीयते सततं बुधैः ।
काम्भोजिरागः संपूर्णश्चारोहे गनिवर्जितः ॥१४७
कन्नडरागः संपूर्णश्चारोहे ऋषभः क्वचित् ।
षड्जग्रहा च संपूर्णा भवेदीशमनोहरी ॥१४८
सुरटो राग आरोहे गधौ त्यक्त्वा प्रगीयते ।
आरोहे गनिवर्ज्यश्च सग्रहः सार्वकालिकः ॥१४९
स्यादेरुकुलकाम्भोजीराग इत्युच्यते बुधैः ।
अठाणारागः संपूर्णः सग्रहः सार्वकालिकः ॥१५०
परिवर्ज्याऽवरोहे तु रागो नाटकुरञ्जिका ।
षड्जग्रहसमायुक्ता गीयते गानवेदिभिः ॥१५१
जुजावन्त्याख्यरागश्च संपूर्णः सग्रहान्वितः ।
लक्ष्यमार्गानुसारेण गीयते गानवेदिभिः ॥१५२
शंकराभरणं पूर्णं सायं गेयं च सग्रहम् ।
कुरञ्जिरागः संपूर्ण आरोहे तु धवर्जितः ॥१५३
अवरोहे धवक्रः स्यात्सर्वकालेषु गीयते ।
पूर्णो नारायणीरागो गग्रहः प्रातरिष्यते ॥१५४
आरभिः सर्वदा गेय आरोहे गनिवर्जितः ।
क्वचिदारोहसंयुक्तनिषादो निग्रहो भवेत् ॥१५५
शुद्धो वसन्तरागोऽयं संपूर्णः सार्वकालिकः ।
संपूर्णः सग्रहो नारायणदेशाक्षिरागकः ॥१५६
षड्जग्रहो निवर्ज्यः स्यादारोहे च गवर्जितः ।
सामराग इति ख्यातः सर्वकालेषु गीयते ॥१५७
आरोहे पूर्वगौलस्तु गवर्ज्यः सार्वकालिकः ।
आरोहे वक्रऋषभो धरिवक्रोऽवरोहणे ॥१५८
नागध्वन्याख्यरागोऽयं सग्रहः सार्वकालिकः ।
औडुवि मधवर्ज्यत्वाद्धंसध्वनिरिहेष्यते ॥१५९
आरोहे मध्यमे वक्रः क्वचिद्योगो निषादकः ।
बिलाहुरीरागगत्या सर्वकालेषु गीयते ॥१६०
रिवर्ज्याऽऽरोहे संपूर्णा बेगडा सार्वकालिकी ।
रागः पूर्णचन्द्रिकाख्यः संपूर्णः सग्रहोऽपि च ॥१६१
अवरोहे धवर्ज्यः स्याद्गवक्रः सार्वकालिकः ।
त्यक्तपञ्चमकाऽऽरोहे सारस्वतमनोहरी ॥१६२
अवरोहे रिवक्रा स्यात्सग्रहा सार्वकालिकी ।
केदारः षाडवो रागो धैवतस्वरवर्जितः ॥१६३
आरोहे वक्रगांधारः षड्जग्रहसमन्वितः ।
नवरोजुः पूर्णरागः षड्जग्रहसमन्वितः ॥१६४
पपयोरन्तरे बुद्ध्या गातव्या लक्ष्यकोविदैः ।
नीलाम्बर्याख्यरागस्तु संपूर्णो वक्रधैवतः ॥१६५
अवरोहे रिवक्रश्च गीयते लक्ष्यवेदिभिः ।
नागाभरणरागोऽयमारोहे वक्रधैवतः ॥१६६
अवरोहे धवर्ज्यः स्यात्सग्रहः सार्वकालिकः ।
सामन्तरागः संपूर्ण आरोहे वक्रधैवतः ॥१६७
षड्जग्रहसमायुक्तः सर्वकालेषु गीयते ।
पूर्णः कलावतीराग आरोहे तु निवर्जितः ॥१६८
अवरोहे गवक्रः स्याद्गेयो गायकसत्तमैः ।
आरोहे त्यक्तगांधारो धवर्ज्यश्चावरोहणे ॥१६९
रिवर्ज्यः सग्रहो रागचूडामणिरिहेष्यते ।
गङ्गातरङ्गिणीरागो धरिवक्रोऽवरोहणे ॥१७०
त्यक्तधैवत आरोहे धवक्रश्चावरोहणे ।
गवर्ज्यः सग्रहः पूर्णश्चायानाटो हि गीयते ॥१७१
शैलदेशाक्षिरागः स्यादारोहे रिनिवर्जितः ।
अवरोहे गवर्ज्यश्च प्रातःकाले प्रगीयते ॥१७२
नाटः षड्जग्रहोपेतोऽवरोहे गधवर्जितः ।
सौगन्धिनी तु संपूर्णा चारोहे गनिवर्जिता ॥१७३
जगन्मोहनरागोऽयं सग्रहः सार्वकालकः ।
पूर्णा वराली सततं गीयते सग्रहान्विता ॥१७४
नभोमणिस्तु संपूर्णा चारोहे रिधवक्रिता ।
आरोहे रिधवक्रः स्यादवरोहे धवर्जितः ॥१७५
संपूर्णः कुम्भिनीरागः सर्वकालेषु गीयते ।
आरोहे रिधवक्रश्च धवर्ज्यश्चावरोहणे ॥१७६
पूर्णो रविक्रियारागः सग्रहः सार्वकालिकः ।
निवर्ज्याऽऽरोहणे पूर्णा गीर्वाणी सार्वकालिकी ॥१७७
धवक्राऽऽरोहणे पूर्णा भवानी सार्वकालिकी ।
पूर्णा पन्तुवराल्याख्या षड्जग्रहसमन्विता ॥१७८
सिन्धुरामक्रियारागो ह्यवरोहे रिवक्रितः ।
आरोहे गनिवर्ज्यश्च परिहीनोऽवरोहणे ॥१७९
संपूर्णः स्तवराजोऽयं सर्वकाले प्रगीयते ।
सौवीरस्त्ववरोहे हि पवर्ज्यः सार्वकालिकः ॥१८०
जीवन्तिकाऽवरोहे तु धवर्ज्या सार्वकालिकी ।
आरोहे धवलाङ्गस्तु निवर्ज्यः सार्वकालिकः ॥१८१
संपूर्णो नामदेशाख्यः षड्जग्रहसमन्वितः ।
काशिरामक्रियारागः संपूर्णः सग्रहान्वितः ॥१८२
मध्याह्नकाले गातव्य आरोहे तो रिवक्रितः ।
रमामनोहरी पूर्णा सर्वकालेषु गीयते ॥१८३
गमकक्रियरागोऽयं सर्वकाले प्रगीयते ।
पूर्णो वंशवतीरागस्त्ववरोहे धवर्जितः ॥१८४
निवर्ज्याऽऽरोहणे पूर्णा शामला सार्वकालिकी ।
चामरा पूर्णरागः स्यात्सग्रहा सार्वकालिकी ॥१८५
सग्रहा सर्वकालेषु गातव्या च सुमद्युतिः ।
देशीसिंहरवः पूर्णः सर्वकाले प्रगीयते ॥१८६
धामवत्यथ संपूर्णा सग्रहा सार्वकालिकी ।
अवरोहे धवर्ज्यः स निषधो राग इष्यते ॥१८७
निषादवर्ज्य आरोहे कुन्तलः सग्रहान्वितः ।
रतिप्रिया च संपूर्णा सग्रहा सार्वकालिकी ॥१८८
गीतप्रिया सुसंपूर्णा सग्रहा सार्वकालिकी ।
भूषावती सदा गेया सग्रहा गायकोत्तमैः ॥१८९
शान्तकल्याणिरागश्च सर्वकाले प्रगीयते ।
औडुवो मोहनो रागः सग्रहः सार्वकालिकः ॥१९०
यमुनाकल्याणिरागः संपूर्णः सग्रहान्वितः ।
सायं गेयस्तु सारङ्गः शुद्धमध्यमगान्वितः ॥१९१
चतुरङ्गणिरागः स्यादवरोहे धवर्जितः ।
रिधवर्ज्या तु गातव्या ह्यौडुव्यमृतवर्षिणी ॥१९२
निवर्ज्याऽऽरोहणे गेया ह्यवरोहे गवर्जिता ।
संतानमञ्जरीनाम सर्वकाले प्रगीयते ॥१९३
जोतिरागश्चावरोहे रिवर्ज्यः सार्वकालिकः ।
धौतपञ्चमरागः स्यादवरोहे रिवक्रितः ॥१९४
अवरोहे रिवक्रा च गेया नासामणिः सदा ।
अवरोहे रिवक्रः स्यात्सग्रहः कुसुमाकरः ॥१९५
रिधवर्ज्योऽऽवरोहे तु रागाङ्गो रसमञ्जरी ।१९६

स्रोतः[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=रागलक्षणम्&oldid=75707" इत्यस्माद् प्रतिप्राप्तम्