रसार्णवः

विकिस्रोतः तः
Jump to navigation Jump to search
रसार्णवः

प्रथमः पटलः[सम्पाद्यताम्]

यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥ १.१ ॥

कैलासशिखरे रम्ये नानारत्नविभूषिते ।
नानाद्रुमलताकीर्णे गुप्तसम्बन्धवर्जिते ॥ १.२ ॥

देवदेवं सुखासीनं नीलकण्ठं त्रिलोचनम् ।
प्रणम्य शिरसा देवी पार्वती परिपृच्छति ॥ १.३ ॥

श्रीदेव्युवाच
देवदेव महादेव काल कामाङ्गदाहक ।
कुलकौलमहाकौल- सिद्धकौलादिनाशन ॥ १.४ ॥

त्वत्प्रसादाच्छ्रुतं सर्वम् अशेषमवधारितम् ।
यदि तेऽहम् अनुग्राह्या यद्यहं तव वल्लभा ॥ १.५ ॥

सूचिता सर्वतन्त्रेषु या पुनर्न प्रकाशिता ।
जीवन्मुक्तिरियं नाथ कीदृशी वक्तुमर्हसि ॥ १.६ ॥

श्रीभैरव उवाच
साधु साधु महाभागे साधु पर्वतनन्दिनि ।
साधु पृष्टं त्वया देवि भक्तानां हितकाम्यया ॥ १.७ ॥

अजरामरदेहस्य शिवतादात्म्यवेदनम् ।
जीवन्मुक्तिर्महादेवि देवानामपि दुर्लभा ॥ १.८ ॥

पिण्डपाते च यो मोक्षः स च मोक्षो निरर्थकः ।
पिण्डे तु पतिते देवि गर्दभोऽपि विमुच्यते ॥ १.९ ॥

यदि मुक्तिर्भगक्षोभे किं न मुञ्चन्ति गर्दभाः ।
अजाश्च वृषभाश्चैव किंन मुक्ता गणाम्बिके ॥ १.१० ॥

तस्मात् संरक्षयेत् पिण्डं रसैश्चैव रसायनैः ।
शुक्रमूत्रपुरीषाणां यदि मुक्तिर्निषेवणात् ॥ १.११ ॥

किंन मुक्ता महादेवि श्वानशूकरजातयः ।
षड्दर्शनेऽपि मुक्तिस्तु दर्शिता पिण्डपातने ॥ १.१२ ॥

करामलकवत् सापि प्रत्यक्षं नोपलभ्यते ।
अकथ्यमपि देवेशि सद्भावं कथयामि ते ॥ १.१३ ॥

शून्यपापो मन्त्रयाजी न पिण्डं धारयेत् क्वचित् ।
देवानामपि देवेशि दुर्लभं पिण्डधारणम् ॥ १.१४ ॥

किं पुनर्मानुषाणां तु धरणीतलवासिनाम् ।
धर्मे नष्टे कुतो धर्मः धर्मे नष्टे कुतः क्रिया ॥ १.१५ ॥

क्रियानष्टे कुतो योगः योगे नष्टे कुतो गतिः ।
गतिनष्टे कुतो मोक्षो मोक्षे नष्टे न किंचन ॥ १.१६ ॥

श्रीदेव्युवाच
जीवन्मुक्तिस्वरूपं तु देवदेव श्रुतं मया ।
तत्प्रत्युपायं मे ब्रूहि यद्यस्ति करुणा मयि ॥ १.१७ ॥

श्रीभैरव उवाच
कर्मयोगेन देवेशि प्राप्यते पिण्डधारणम् ।
रसश्च पवनश्चेति कर्मयोगो द्विधा मतः ॥ १.१८ ॥

मूर्छितो हरति व्याधिं मृतो जीवयति स्वयम् ।
बद्धः खेचरतां कुर्यात् रसो वायुश्च भैरवि ॥ १.१९ ॥

ज्ञानान्मोक्षः सुरेशानि ज्ञानं पवनधारणात् ।
तत्र देवि स्थिरं पिण्डं यत्र स्थैर्ये रसः प्रभुः ॥ १.२० ॥

अचिराज्जायते देवि शरीरम् अजरामरम् ।
मनसश्च यथा ध्यानं रसयोगादवाप्यते ॥ १.२१ ॥

सत्यं स लभते देवि ज्ञानं विज्ञानपूर्वकम् ।
तस्य मन्त्राश्च सिध्यन्ति योऽश्नाति मृतसूतकम् ॥ १.२२ ॥

यावन्न शक्तिपातस्तु न यावत् पाशकृन्तनम् ।
तावत्तस्य कुतो बुद्धिः जायते मृतसूतके ॥ १.२३ ॥

मद्यमांसरता नित्यं भगलिङ्गेषु ये रताः ।
तेषां विनष्टबुद्धीनां रसज्ञानं सुदुर्लभम् ॥ १.२४ ॥

कुलशासनहीनानां सद्दर्शनम् अकाङ्क्षिणाम् ।
न सिध्यति रसो देवि पिबन्ति मृगतृष्णिकाम् ॥ १.२५ ॥

गोमांसं भक्षयेद्यस्तु पिबेदमरवारुणीम् ।
कुलीनं तमहं मन्ये रसज्ञमपरेऽधमाः ॥ १.२६ ॥

न गर्भः सम्प्रदायार्थे रसो गर्भो विधीयते ।
तेनायं लभते सिद्धिं न सिद्धिः सूतकं विना ॥ १.२७ ॥

यावन्न हरबीजं तु भक्षयेत् पारदं रसम् ।
तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥ १.२८ ॥

मद्यमांसरताप्रज्ञा मोहिताः शिवमायया ।
जल्पन्ति च वयं मुक्ता यास्यामः शिवमन्दिरम् ॥ १.२९ ॥

पिण्डधारणयोगे च निस्पृहा मन्दबुद्धयः ।
खण्डज्ञानेन देवेशि रञ्जितं सचराचरम् ॥ १.३० ॥

स्वदेहे खेचरत्वं च शिवत्वं येन लभ्यते ।
तादृशे तु रसज्ञाने नित्याभ्यासं कुरु प्रिये ॥ १.३१ ॥

श्रीदेव्युवाच
अवतारं रसेन्द्रस्य माहात्म्यं तु सुरेश्वर ।
श्रोतुमिच्छामि देवेश वक्तुमर्हसि तत्त्वतः ॥ १.३२ ॥

श्रीभैरव उवाच
साधु पृष्टं महाभागे गुह्याद्गुह्यतरं त्वया ।
अनुग्रहकरं ध्यानं लोकानामुपकारकम् ॥ १.३३ ॥

त्वं माता सर्वभूतानां पिता चाहं सनातनः ।
द्वयोश्च यो रसो देवि महामैथुनसम्भवः ॥ १.३४ ॥

स्वैरतः सम्भवाद्देवि पारदः कीर्तितो महः ।
पारदो गदितो यश्च परार्थं साधकोत्तमैः ॥ १.३५ ॥

सूतोऽयं मत्समो देवि मम प्रत्यङ्गसम्भवः ।
मम देहरसो यस्मात् रसस्तेनायमुच्यते ॥ १.३६ ॥

दर्शनात् स्पर्शनात् तस्य भक्षणात् स्मरणादपि ।
पूजनाच्च प्रदानाच्च दृश्यते षड्विधं फलम् ॥ १.३७ ॥

केदारादीनि लिङ्गानि पृथिव्या यानि कानि च ।
तानि दृष्ट्वा तु यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥ १.३८ ॥

चन्दनागुरुकर्पूर- कुङ्कुमान्तर्गतो रसः ।
मूर्छितः शिवपूजायां शिवसांनिध्यसिद्धये ॥ १.३९ ॥

भक्षणात् परमेशानि हन्ति पापत्रयं रसः ।
तथा तापत्रयं हन्ति रोगान् दोषत्रयोद्भवान् ॥ १.४० ॥

दुर्लभं ब्रह्मनिष्णातैः प्राप्यते परमं पदम् ।
हृद्व्योमकर्णिकान्तःस्थ- रसेन्द्रस्य महेश्वरि ॥ १.४१ ॥

स्मरणान्मुच्यते पापैः सद्यो जन्मान्तरार्जितैः ॥ १.४२ ॥

स्वयंभूलिङ्गसाहस्रैः यत्फलं सम्यगर्चनात् ।
तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ॥ १.४३ ॥

अधमः खगवादस्तु विलवादस्तु मध्यमः ।
उत्तमो मन्त्रवादस्तु रसवादो महोत्तमः ॥ १.४४ ॥

मन्त्रतन्त्रपरिज्ञाने रसयोगस्य दूषकाः ।
प्रयान्ति नरकं सर्वे छित्त्वा सुकृतसंचयम् ॥ १.४५ ॥

रसविद्या परा विद्या त्रैलोक्येऽपि सुदुर्लभा ।
भुक्तिमुक्तिकरी यस्मात् तस्माद्देया गुणान्वितैः ॥ १.४६ ॥

अस्तीति भाषते कश्चित् कश्चिन्नास्तीति भाषते ।
आस्तिके तु भवेत्सिद्धिः तस्य सिध्यति भूतले ॥ १.४७ ॥

नास्तिकेनानुभावेन नास्ति नास्तीति यो वदेत् ।
तस्य नास्ति प्रिये सिद्धिर् जन्मकोटिशतैरपि ॥ १.४८ ॥

ब्रह्मज्ञानेन मुक्तोऽसौ पापी यो रसनिन्दकः ।
नाहं त्राता भवे तस्य जन्मकोटिशतैरपि ॥ १.४९ ॥

श्वानोऽयं जायते देवि यावत् जन्मसहस्रकम् ।
त्रिकोटिजन्मलक्षाणि मार्जारो जायते रसात् ।
रासभो लक्षजन्मानि लक्षजन्मानि वायसः ॥ १.५० ॥

कृमिको लक्षजन्मानि कुक्कुटो जन्मलक्षकम् ।
गृध्रको लक्षजन्मानि यः पापी रसनिन्दकः ॥ १.५१ ॥

आलापं गात्रसंस्पर्शं यः कुर्याद् रसनिन्दकैः ।
यावज्जन्मसहस्रं तु स भवेद्दुःखपीडितः ॥ १.५२ ॥

रसवीर्यविपाके च सूतकस्त्वमृतोपमः ।
तेन जन्मजराव्याधीन् हरते सूतकः प्रिये ॥ १.५३ ॥

गुरुमाराधयेत् पूर्वं विशुद्धेनान्तरात्मना ।
सम्प्रदायं प्रयच्छन्ति गुरौ तुष्टे मरीचयः ॥ १.५४ ॥

गुरुसेवां विना कर्म यः कुर्यान् मूढचेतनः ।
स याति निष्फलं कर्म स्वप्नलब्धं धनं यथा ॥ १.५५ ॥

यः कर्म कुरुते दृष्टं तस्य लाभः पदे पदे ।
कारयेद् रसवादं तु तुष्टेन गुरुणा प्रिये ॥ १.५६ ॥

सिद्ध्युपायोपदेशोऽयम् उभयोर्भोगमोक्षदः ।
रसार्णवं महातन्त्रम् इदं परमदुर्लभम् ॥ १.५७ ॥

गोप्यं गुरुप्रसादेन लब्धं स्यात् फलसिद्धये ।
लब्ध्वात्र रसकर्माणि नाहंकारं समाचरेत् ॥ १.५८ ॥

अनुज्ञातश्च गुरुणा लब्ध्वा चाज्ञां रसाङ्कुशीम् ।
भैरवीं तनुम् आश्रित्य साधयेद्रसभैरवम् ॥ १.५९ ॥

एवमुक्ता रसोत्पत्तिः माहात्म्यं च सुरेश्वरि ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ १.६० ॥


द्वितीयः पटलः (दीक्षाविधान)[सम्पाद्यताम्]

श्रीदेव्युवाच
रसोपदेशदाता च कथं स्याद्वद मे प्रभो ।
शिष्यश्चैव कथं देव रसानुष्ठानतत्परः ॥ २.१ ॥

श्रीभैरव उवाच
निस्पृहो निरहंकारो लोभमायाविवर्जितः ।
कुलमार्गरतो नित्यं गुरुपूजारतश्च यः ॥ २.२ ॥

दान्तः शिष्योपदेशज्ञः शक्तिमान् गतमत्सरः ।
धर्मज्ञः सत्यवाक् दक्षः शीलवान् गुणवान् शुचिः ॥ २.३ ॥

अनेकरसशास्त्रज्ञो रसमण्डपकोविदः ।
रसदीक्षाविधानज्ञो यन्त्रौषधिमहारसान् ॥ २.४ ॥

रागसंख्यां बीजकलां द्वंद्वमेलापनं विडम् ।
रञ्जनं सारणं तैलं दलानि क्रामणानि च ॥ २.५ ॥

वर्णोत्कर्षं मृदुत्वं च जारणां बालबद्धयोः ।
खेचरीं भूचरीं चैव यो वेत्ति स गुरुर्मतः ॥ २.६ ॥

देशकालक्रियाभिज्ञो दयादाक्षिण्यसंयुतः ।
लोभमायाविनिर्मुक्तो मन्त्रानुष्ठानतत्परः ॥ २.७ ॥

सामुद्रलक्षणोपेतो गम्भीरो गुरुवत्सलः ।
देवाग्नियोगिनीचक्र- कुलपूजारतः सदा ।
शिष्यो विनीतस्तन्त्रज्ञः सत्यवादी दृढव्रतः ॥ २.८ ॥

ये नराः कुम्भकुद्दाल- ध्वजशङ्खादिलाञ्छितैः ।
करैरधिष्ठिता देवि योज्यास् ते निधिसाधने ॥ २.९ ॥

बलवन्तो महासत्त्वाः कृष्णरक्तविलोचनाः ।
वक्रघोणाः सदा क्रूराः प्रशस्ता बिलसाधने ॥ २.१० ॥

निर्मांसमूर्धपिण्डीकान् रक्तकेशान् गतालसान् ।
कठिनान् उष्णपादांश्च धातुवादे नियोजयेत् ॥ २.११ ॥

आदौ परीक्षयेद्देवि साधकान् सुसमाहितान् ।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चानुक्रमेण तु ॥ २.१२ ॥

जितेन्द्रियाः क्लेशसहा नित्योद्यमसमन्विताः ।
शूराश्च कृतविद्याश्च प्रशस्ताः साधकाः प्रिये ॥ २.१३ ॥

रसदीक्षाविहीना ये प्रोक्तलक्षणवर्जिताः ।
विप्लावकाः पापरताः वर्जयेत्तान् प्रयत्नतः ॥ २.१४ ॥

दुश्चारिणी दुराचारा निष्ठुरा कलहप्रिया ।
बह्वाशिनी च दुश्चित्ता कोटराक्षी च निर्दया ।
रसनिन्दाकरी या च तां नारीं परिवर्जयेत् ॥ २.१५ ॥

ईदृशीभिर् वरारोहे सम्पूर्णं क्षितिमण्डलम् ।
न तादृशी भवेन्नारी यादृशी रसबन्धकी ॥ २.१६ ॥

काकिणी कीकणी नारी तथैव काञ्चिकाचिनी ।
कृष्णपक्षे ऋतुमती सा नारी काकिणी स्मृता ॥ २.१७ ॥

उभयपक्षे ऋतुमती सा नारी कीकणी मता ॥ २.१८ ॥

शुक्लपक्षे ऋतुमती सा नारी काञ्चिकाचिनी ॥ २.१९ ॥

नवयौवनसम्पन्ना सुरूपा चारुहासिनी ।
सूक्ष्मकेशा तु या नारी क्षीराहारप्रिया सदा ॥ २.२० ॥

प्रियालापकरी नित्यं शिवशास्त्रकथाप्रिया ।
पद्माकारं मुखं यस्या दृष्टिरिन्दीवराकृतिः ॥ २.२१ ॥

दशना वज्रसदृशाः प्रवालसदृशोऽधरः ।
यस्याः पयोधरौ देवि तुङ्गपीनौ समाव् उभौ ॥ २.२२ ॥

अश्वत्थपत्त्रसदृशी योनी यस्या भगः समः ।
यत्पादौ मांसलौ स्निग्धौ वर्तुलावर्तरोमकौ ॥ २.२३ ॥

श्यामा च मध्ये क्षामा च तन्वी भक्तिपरा शिवे ।
पद्मिनी सा तु विज्ञेया प्रसन्ना मृगलोचना ॥ २.२४ ॥

पूर्णिमायाममायां वा पक्षे पक्षे रजस्वला ।
षड्भेदा काकिणी नाम्ना पूर्वप्रोक्ता रसप्रदा ॥ २.२५ ॥

यस्य तुष्टो महादेवस् तस्य सिद्धो रसायने ।
तयैव देवदेवेशि रसकर्माणि कारयेत् ॥ २.२६ ॥

तस्य हि निर्मला बुद्धिर् निश्चिता रससाधने ।
तस्माद्गुरुश्च शिष्यश्च पूर्वोक्तः सिद्धिभाग्भवेत् ॥ २.२७ ॥

श्रीदेव्युवाच
ईदृशैर्लक्षणैः नारीं कुतः प्राप्नोति साधकः ।
यत्र रूपं महादेव लक्षणं नात्र विद्यते ॥ २.२८ ॥

लक्षणं विद्यते यत्र भावना नात्र विद्यते ।
अथवा रूपहीनाया रूपं केन प्रवर्तते ॥ २.२९ ॥

लक्षणत्रितयं कुत्र त्वया दृष्टं महेश्वर ।
तदेतज्जायते येन तमुपायं वद प्रभो ॥ २.३० ॥

श्रीभैरव उवाच
शृणु देवि परं गुह्यं यत्सुरैरपि दुर्लभम् ।
पितुः सदाशिवाज्जातं जन्म यच्चण्डिकोदरे ॥ २.३१ ॥

तासां बुद्धिर्भवेद्देवि निर्मला रससाधने ।
दापयेत्त्वरितामन्त्रं जपेत्तं दर्पवर्जिता ॥ २.३२ ॥

लक्षमन्त्रं जपेद्या तु जायते सा सुलक्षणा ।
बद्ध्वा तु खेचरीं मुद्रां जपेत् फेट्कारभैरवीम् ॥ २.३३ ॥

ममेयं चण्डिका माता जन्म च त्रिपुरान्तकात् ।
कालिकाहं समुद्भूता- स्मीदृशं संस्मरेत्तु सा ॥ २.३४ ॥

भूतं भव्यं भविष्यं च त्रैलोक्ये कथयेत्तु सा ।
सहायास्तादृशास्तस्य यादृशी भवितव्यता ॥ २.३५ ॥

श्रीदेव्युवाच
देवदेव महादेव समस्तज्ञानभाजन ।
रसदीक्षां तु पृच्छामि साधकानां हिताय वै ॥ २.३६ ॥

श्रीभैरव उवाच
शृणु भैरवि यद्भावम् अपूर्वं वर्णयामि ते ।
रसदीक्षाविधानं तु तस्मान्निगदितं शृणु ॥ २.३७ ॥

यत्र राजा नयपरो बलवान् धर्मतत्परः ।
मन्त्री च धर्मतत्त्वज्ञो भक्तिश्रद्धासमन्वितः ॥ २.३८ ॥

तत्रेदं कारयेत् कर्म रसबन्धं रसायनम् ।
जना माहेश्वरा यत्र तत्र स्थाने तु कारयेत् ॥ २.३९ ॥

कारयेद्विजने स्थाने पशुर्यत्र न विद्यते ।
सुगुप्ते सुषमे स्थाने सर्वबाधाविवर्जिते ॥ २.४० ॥

प्राकारपरिखोपेते कपाटार्गलरक्षिते ।
एकान्ते निर्मले हृद्ये नानापुष्पद्रुमान्विते ॥ २.४१ ॥

हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते ।
दिव्यौषधिगणोपेते सजले श्यामशाद्वले ॥ २.४२ ॥

कुमुदोत्पलकह्लार- कदलीषण्डमण्डिते ।
चित्रिते भवनोद्याने कारयेत् परमेश्वरि ॥ २.४३ ॥

तन्मध्ये देवदेवेशि मत्तवारणसंयुतम् ।
वातायनसमोपेतम् ऊर्ध्वनिर्गामिधूमकम् ॥ २.४४ ॥

रक्तपताकासंयुक्तं सज्जोपकरणं तथा ।
प्रविभक्तौषधितुषा- काष्ठारण्योत्पलालयम् ॥ २.४५ ॥

समालिखितदिग्देवं समर्चितविनायकम् ।
प्रतिष्ठितम् उमेशाभ्यां लोकपालैश्च रक्षितम् ॥ २.४६ ॥

निर्मापयेदेकतलं द्वितलं वापि मण्डपम् ।
अथ पक्षे सिते देवि चन्द्रताराबलान्विते ॥ २.४७ ॥

पुण्ये तिथौ मुहूर्ते च लग्ने सौम्यग्रहेक्षिते ।
स्नातः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥ २.४८ ॥

मधुसर्पिर्दधिक्षीर- तिलैः संपूज्य बालिकाः ।
कपिलागोमयालिप्ते हिरण्यकलशावृते ॥ २.४९ ॥

यवसिद्धार्थकास्तीर्णे गन्धमाल्योपशोभिते ।
तत्रेष्टिकाभिः रचिते करपीठे सुरेश्वरि ॥ २.५० ॥

शिलापट्टं समुत्कीर्य शिलापट्टार्गलं प्रिये ।
न्यासं रसाङ्कुशेनैव कृत्वाङ्गुलिहृदादिषु ॥ २.५१ ॥

रसलिङ्गं न्यसेत्तत्र हेम्ना च सहितं प्रिये ।
ओं ह्रीं श्रीं सूतराजस्य मूलमन्त्र उदाहृतः ॥ २.५२ ॥

तस्मिन् रसाङ्कुशीं देवीं मूलेनावाहयेत्प्रिये ।
चतुरस्रे तु दिक्पालान् पूजयित्वा बहिः क्रमात् ॥ २.५३ ॥

नन्दिनं च महाकालं भृङ्गिरीटं महाबलम् ।
कुम्भकर्णं च सुग्रीवं भृङ्गीकं च दृढायुधम् ॥ २.५४ ॥

द्वारे चतुर्धा विन्यस्य पूजयेद्दक्षवामयोः ।
शुक्रं पूर्वेऽभिसंपूज्य स्कन्दमाग्नेयगोचरे ॥ २.५५ ॥

दक्षिणस्यां ततो रुद्रं पवनं नैरृते तथा ।
शिवं पश्चिमभागे तु पावकं वायवे न्यसेत् ।
उमामुत्तरभागे तु व्यापकं चेशगोचरे ॥ २.५६ ॥

लेपिका क्षेपिका चैव क्षारिका रञ्जिका तथा ।
लोहटी बन्धकारी च भूचरी मृत्युनाशिनी ॥ २.५७ ॥

विभूतिः खेचरी चैव दश दूत्यः क्रमेण च ।
पूज्यास्त्वष्टदले पद्मे ऊर्ध्वाधस्तु दलेषु च ॥ २.५८ ॥

माक्षिको विमलः शैलश् चपलो रसकस्तथा ।
सस्यको गन्धतालौ च पूर्वादिक्रमयोगतः ॥ २.५९ ॥

अष्टादशभुजा रुद्राः पञ्चवक्त्रास् त्र्यम्बकाः ।
चन्द्रार्धशोभिमुकुटा नीलग्रीवा वृषध्वजाः ॥ २.६० ॥

स्वस्ववर्णधराः सर्वेऽप्यष्टविद्येश्वरास्तथा ।
पूजनीया महेशानि द्वितीयेऽष्टदलाम्बुजे ॥ २.६१ ॥

कर्णिकायां तु पूर्वादि- पूर्वं शक्तिचतुष्टयम् ।
मालिनी हेमशक्तिश्च परा शक्तिर्बला स्मृता ।
अपरा वज्रशक्तिश्च कान्तिज्ञेयं परापरम् ॥ २.६२ ॥

मध्ये तासां च शक्तीनां सर्वज्ञं रसभैरवम् ।
शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्र्यम्बकम् ॥ २.६३ ॥

ज्वलत्पिङ्गोग्रनेत्रं च ज्वलज्जिह्वाननं तथा ।
ज्वलद्भ्रुवं ज्वलत्केशं दुष्प्रेक्ष्यं प्रेतविष्टरम् ॥ २.६४ ॥

जटामुकुटसंयुक्तं चन्द्रार्धकृतशिखरम् ।
व्याघ्रचर्मधरं नागो- पवीतं वृषभध्वजम् ॥ २.६५ ॥

अष्टादशभुजं देवम् ईषत्प्रहसिताननम् ।
द्वात्रिंशार्णेन मनुना पूजयेत् सकलं शिवम् ॥ २.६६ ॥

रसेश्वरस्य मन्त्रं च कथ्यमानं निबोध मे ॥ २.६७ ॥

ओं ह्रीं क्रीं रसेश्वराय महाकालाय महाबलायाघोरभैरवाय वज्रवीर क्रोधकङ्काल क्ष्लौः क्ष्लः ॥ २.६८ ॥

तस्योत्सङ्गे महादेवीं रत्नाभरणभूषणाम् ।
उत्तप्तहेमरुचिरां पीतवस्त्रां त्रिलोचनाम् ॥ २.६९ ॥

श्वेतचामरयोर्मध्ये मुक्ताच्छत्त्रेण शोभिताम् ।
अङ्कुशं चाक्षमालां च दधतीं दक्षहस्तयोः ॥ २.७० ॥

पाशाभये च वामाभ्यां चन्द्रार्धकृतशेखराम् ।
रसाङ्कुशीं महादेवीं नीलग्रीवां कृपामयीम् ॥ २.७१ ॥

पूजयेद्रससिद्ध्यर्थं विद्यया पञ्चबीजया ।
वाग्भवं भुवनेशीं च श्रीबीजं च सुरेश्वरि ॥ २.७२ ॥

मादनं शक्तिबीजं च विद्या परमदुर्लभा ।
धूपदीपैस्तु नैवेद्यैः पुष्पताम्बूलचन्दनैः ॥ २.७३ ॥

शान्तिपाठस्य निर्घोषैः स्तोत्रमङ्गलनिस्वनैः ।
घण्टाटङ्कारसंयुक्तैः पूजां कृत्वा यथाविधि ॥ २.७४ ॥

अघोरेण बलिं दद्यात् सर्वविघ्नोपशान्तये ।
भूतेभ्यो यक्षरक्षभ्यो पिशाचेभ्यश्च यत्नतः ॥ २.७५ ॥

अघोरमन्त्रसंयुक्तम् ओंकारादिनमोऽन्तकम् ।
सर्वकर्माकरं देवि विघ्नोपद्रवनाशनम् ॥ २.७६ ॥

यथाशक्ति जपित्वा तु विद्यामेव रसाङ्कुशीम् ।
कुण्डं विधाय देवेशि योनिचक्रं समेखलम् ॥ २.७७ ॥

तत्राज्यतिलसंयुक्तं होमं कृत्वा क्रमेण तु ।
कलशं स्थापयेद्देवि पयःपूर्णं फलान्वितम् ॥ २.७८ ॥

पञ्चरत्नसमोपेतं वासोभिः परिवेष्टितम् ।
तत्राष्टादशविद्याभिर् अभिमन्त्र्य पृथक् पृथक् ॥ २.७९ ॥

गन्धपुष्पादिभिः पूर्णं पल्लवैर् उपशोभितम् ।
अर्घ्यपात्रं च संपूज्य वर्धन्याभ्युक्ष्य साधकम् ॥ २.८० ॥

शतमष्टोत्तरं चैवम् अर्घ्यपात्रोदकेन तु ।
अभिषिच्य विधानेन कुम्भतोयेन मन्त्रवित् ॥ २.८१ ॥

विद्यामुपदिशेद्देवि पाठयेद्रससाधकम् ।
कुमारोयोगिनीयोगि- साधकांश्च यथोचितैः ॥ २.८२ ॥

तर्पयेदन्नपानैश्च जागरं तत्र कारयेत् ।
एवंविहितदीक्षस्तु साधकः क्षुरनायिके ॥ २.८३ ॥

महाभूतमयीं तत्र वर्णपञ्चकसंयुताम् ।
पञ्चबीजात्मिकां विद्यां प्राणायामात्मसूत्रके ॥ २.८४ ॥

मुद्रां रसाङ्कुशीं बद्ध्वा लक्षमेकं जपेत्प्रिये ।
तस्य सिध्यति देवेशि निर्विघ्नं रसभैरवः ॥ २.८५ ॥

प्रणवादिनमोऽन्तस्तु तर्पणान्ते जपः परः ।
अहिंसा चन्दनं सत्यं पुष्पम् अस्तेयधूपनम् ॥ २.८६ ॥

ब्रह्मचर्यं महादीपम् अप्रतिग्रहघण्टिकाम् ।
पायसान्नं महेशानि सर्वभूतदयात्मकम् ॥ २.८७ ॥

संगूह्याराधयेद् देवीं स भवेत्सिद्धिभाजनम् ।
सहस्रं वा शतं वापि त्रिसंध्यं संजपेदिमाम् ॥ २.८८ ॥

अस्या आज्ञाप्रसादेन जायते खेचरो रसः ।
दिव्यौषध्यश्च तस्यैव सिध्यन्ति सुरवन्दिते ॥ २.८९ ॥

अनङ्कुशं समारुह्य वने मत्तगजं यथा ।
तथा रसाङ्कुशाभिज्ञो रसेन्द्रं प्राप्य सीदति ॥ २.९० ॥

विद्यया सह मन्तव्यं गुरोः सत्सम्प्रदायिनः ।
रसप्रयोगजातं तु सर्वतः सिद्धिमिच्छता ॥ २.९१ ॥

अथ प्रश्नावताराय पूर्वोक्तं रसभैरवम् ।
समाहितमना ध्यायेत् तदालीनं समाचरेत् ॥ २.९२ ॥

अनाहते ब्रह्मरन्ध्रे मनः कृत्वा निरामये ।
करन्यासं पुरा कृत्वा अङ्गन्यासमनन्तरम् ।
यथाशक्ति जपेन्मन्त्रं रसेन्द्रस्य समाहितः ॥ २.९३ ॥

चतुष्कोणं पुनः कृत्वा मध्ये षट्कोणमण्डलम् ।
हस्तमात्रं द्विहस्तं वा तण्डुलैर्विमलैर्लिखेत् ॥ २.९४ ॥

सुगन्धैर्लेपिते स्थाने पूजयेच्चन्दनादिभिः ॥ २.९५ ॥

कर्णिकायां न्यसेद्देवि पूर्वोक्तं रसभैरवम् ।
षट्कोणे देवताषट्कं महाकालादि विन्यसेत् ॥ २.९६ ॥

महाकालं महाबलम् अघोरं वज्रवीरकम् ।
न्यसेत् क्रोधं च कङ्कालं मालामन्त्रैः समर्चयेत् ॥ २.९७ ॥

ओं ह्रीं क्रौं क्ष्लैं क्ष्लं ह्रीं ह्रीं ह्रीं ह्रूः हुं फट् रसेश्वराय महाकालभैरवाय रौद्ररूपाय कृष्णपिङ्गललोचनाय ।
अवतर २ अवतारय २ जल्प २ जल्पय २ शुभाशुभं कथय २ कथापय २ महारक्षां कुरु २ रससिद्धिं देहि ।
इति मालामन्त्राः ।
ओं महाकालभैरवाय हृदयाय नमः ।
ओं महाबलभैरवाय शिरसे स्वाहा ।
ओं अघोरभैरवाय शिखायै वौषट् ।
ओं वज्रवीरभैरवाय कवचाय हुम् ।
ओं क्रोधभैरवाय नेत्राय वौषट् ।
ओं कङ्कालभैरवाय अस्त्राय फट् ।
सर्वत्र स्वाहान्तम् ।
एवमङ्गन्यासाः ।
एवमङ्गुलीन्यासान् कुर्यादादौ ।
एते षडङ्गे पूजने च मूलमन्त्राः ।
एवं न्यासाक्षरः कुटैः गन्धपुष्पैः समर्चयेत् ।
पूर्णकुम्भं न्यसेन्मध्ये शरावं तण्डुलैः सह ॥ २.९८ ॥

तस्योपरि घृतदीपं वर्तीं मन्त्रैश्च मन्त्रयेत् ॥ २.९९ ॥

समानीय कुमारीं तु कुमारं वा सुशोभनम् ।
एकद्वित्रिचतुःपञ्च यथालाभं समानयेत् ।
गन्धपुष्पैर्धूपदीपैः नैवेद्येन च पूजयेत् ॥ २.१०० ॥

एकैकस्या न्यसेन्मन्त्रं हृदयाद्याश्च देवताः ॥ २.१०१ ॥

ततो निरीक्ष्य तद्दीपं सर्वास्तत्र कुमारिकाः ।
पश्यन्ति देवता दीपे कुमाराश्च शुभाशुभम् ।
सिद्धिं वाप्यथवासिद्धिं कथयन्ति कुमारिकाः ॥ २.१०२ ॥

प्रश्नावतारं ज्ञात्वेति रसकर्मणि संचरेत् ॥ २.१०३ ॥

यः पुरा देवदेवेशि रसेन्द्रे भावितात्मवान् ।
सप्तजन्म मृतो जातो न त्यजेद् रसभावनम् ॥ २.१०४ ॥

एवं शुभाशुभं ज्ञात्वा देवतानुग्रहान्वितः ।
मण्डपे पूर्ववद्देवीम् अर्चयित्वा रसाङ्कुशीम् ॥ २.१०५ ॥

आचार्यमपि संपूज्य धूपस्रक्चन्दनादिभिः ।
अघोरेण बलिं दत्त्वा ततः कर्म समाचरेत् ॥ २.१०६ ॥

ओषध्यो मण्डपे प्राच्यां रसस्वेदोऽग्निगोचरे ।
दक्षिणस्यां लोहमारो नैरृत्यां पेषणादिकम् ॥ २.१०७ ॥

द्रुतिक्रिया तु वारुण्यां वायव्ये धमनं प्रिये ।
वर्णोत्कर्षस्तु कौबेर्याम् ऐशान्यां रसवेधनम् ॥ २.१०८ ॥

आसनं तु गुरोर्मध्ये निवेश्य सुरनायिके ।
नियामनादिकं कर्म क्रामणान्तं वरानने ।
रसाङ्कुशेन मन्त्रेण कर्तव्यं साधकेन तु ॥ २.१०९ ॥

यः पुरा देवदेवेशि वर्णितो रसभैरवः ।
सद्योजातं तस्य जानु वामदेवं तु गुह्यकम् ॥ २.११० ॥

अघोरं हृदयं तस्य वक्त्रं तत्पुरुषं स्मृतम् ।
यावद् भ्रूमध्यम् ईशानम् अर्धचन्द्रं ललाटकम् ॥ २.१११ ॥

बिन्दुर् देवेशि तस्योर्ध्वे बिन्दोरूर्ध्वे स्थितो नदः ।
ललाटशिरसोर्मध्ये शक्तिस्तत्रैव संस्थिता ॥ २.११२ ॥

व्यापिनी ब्रह्मरन्ध्रस्था तस्योर्ध्वे तून्मना भवेत् ।
उन्मना उन्मनीभावम् उन्मनापदमव्ययम् ॥ २.११३ ॥

तस्योर्ध्वे परमं सत्यं व्योमस्थायि परात्परम् ।
शून्यं शून्यं पुनः शून्यं त्रिशून्यं च निरामयम् ॥ २.११४ ॥

नभश्च गगनं व्योम खमाकाशं च केवलम् ।
निष्कलं निर्मलं नित्यं निस्तरङ्गं निरामयम् ॥ २.११५ ॥

निष्प्रपञ्चं निराधारं निर्गुणं गुणगोचरम् ।
एवंरूपं सदा ध्यायेत् स्वदेहे रसभैरवम् ॥ २.११६ ॥

यदा च निश्चलं ध्यायेत् यदा च निश्चलं मनः ।
वह्निमध्ये तदा सूतो बध्यते निश्चलस्तथा ॥ २.११७ ॥

यदा च चलति ध्यानं रसो वह्नौ न तिष्ठति ॥ २.११८ ॥

मण्डलस्य बहिः रात्रौ सुरामत्स्यामिषादिभिः ।
अर्चयेद् यक्षगन्धर्वान् पिशाचान् राक्षसांस्तथा ॥ २.११९ ॥

क्रियाकरणविघ्नाश्च फलविघ्नाश्च कोटिशः ।
सम्भवन्ति तथा तत्तच् छान्त्यै च वटुकेश्वरम् ।
अर्चानुग्रहषट्कं च सम्पूज्यादौ समाचरेत् ॥ २.१२० ॥

कर्मान्ते च पुनर्बालम् अष्टाष्टकमनुग्रहम् ।
सम्पूज्य विनियुञ्ज्यात् तत् सिद्धद्रव्यं तु सिद्धिदम् ॥ २.१२१ ॥

सिद्धस्तु नाशयेद्वादं तद्देशं तु परित्यजेत् ।
भ्रमेन्माधुकरीं भिक्षां सुसिद्धे तु महारसे ॥ २.१२२ ॥

प्रमादादुत्थितो विघ्नो रसबन्धे कृते सति ।
रसशान्तिर्विधातव्या रसक्षोभं न कारयेत् ॥ २.१२३ ॥

रसं न दर्शयेद्देवि नारीहस्ते न पातयेत् ।
नार्यै गुह्यं न वक्तव्यं द्रव्यं ताभ्यो हि गोपयेत् ॥ २.१२४ ॥

परद्रव्यैर् न कर्तव्यं परदारान्न संस्पृशेत् ।
परान्नं नैव भुञ्जीत परांश्चैव न विश्वसेत् ॥ २.१२५ ॥

न देयं दुष्टबुद्धीनां गोष्ठीरूपेण याचके ॥ २.१२६ ॥

अष्टम्यां पौर्णमास्यां च अमावास्यां युगादिषु ।
अयने विषुवे चैव चतुर्दश्यां विशेषतः ।
रसोत्सवं प्रकुर्वीत यथावित्तानुसारतः ॥ २.१२७ ॥

एवं रसोत्सवं देवि यः कुर्याद्भक्तिसंयुतः ।
ब्रह्महत्यादिपापानि नश्यन्ति विविधानि च ॥ २.१२८ ॥

अनेन विधिना यत्र पूजां कुर्वन्ति साधकाः ।
न तत्र रोगदौर्गत्यं नेतयः प्रभवन्ति च ॥ २.१२९ ॥

एवंविधां रसे पूजां प्रतिष्ठाप्य यथाविधि ।
पश्चात्कर्म विधातव्यम् आत्मनः शुभमिच्छताम् ॥ २.१३० ॥

अन्यथा कुरुते यस्तु तस्य सिद्धिर्न जायते ।
अपायः पापशङ्का च बुद्धिभङ्गो हि जायते ॥ २.१३१ ॥

अवज्ञा रोगजातं च संदेहश्च पदे पदे ।
आलस्याद्गुरुलोभाच्च परस्य कथनेन च ।
उत्पन्नमपि विज्ञानं हरन्ति कुलकाः प्रिये ॥ २.१३२ ॥

दीक्षितो रसकर्माणि मन्त्रन्यासविदाचरेत् ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुम् इच्छसि ॥ २.१३३ ॥


तृतीयः पटलः (मन्त्रन्यासाः)[सम्पाद्यताम्]

श्रीदेव्युवाच
भगवन् देवदेवेश लोकनाथ जगत्पते ।
मन्त्रन्यासं समाचक्ष्व रसकर्मोपकारकम् ॥ ३.१ ॥

श्रीभैरव उवाच
पुनरन्यं प्रवक्ष्यामि मन्त्रमूर्तिं रसाङ्कुशीम् ।
पञ्चमं तु गृहं देवि दुर्लभं देवदानवैः ॥ ३.२ ॥

चत्वारः प्रधानगृहाः हंसगृहं तु पञ्चमम् ।
यत्र सिद्धिर् मकारादिः तिष्ठते पञ्चमे गृहे ॥ ३.३ ॥

लिङ्गाश्रयं यथा रूपं लिङ्गिमाया तु लिङ्गिनी ।
गगनेन तु सा ज्ञेया भगरेखा तु पञ्चमे ॥ ३.४ ॥

प्रणवं पूर्वम् उच्चार्य बीजं शब्दमनुत्तरम् ।
ह्रींकारं चैव क्रींकारं हंसबुद्धिमनन्तरम् ॥ ३.५ ॥

कालपाशं महामन्त्रं गृह्णीयात् साधकेश्वरः ।
महारम्भे तु तन्मन्त्रं प्रतीहारं रसाङ्कुशीम् ॥ ३.६ ॥

लक्षमेकं जपेत्तस्य महासिद्धिः प्रवर्तते ।
बालवत्सपुरीषं तु ततः केनैव ग्राहयेत् ॥ ३.७ ॥

चिताग्निभस्म तेनैव ग्राहयेत् परमेश्वरि ।
क्षेत्रं तदुत्तमं स्थानं रसेन्द्रस्तत्र तिष्ठति ॥ ३.८ ॥

मार्जन्या मार्जयेत्स्थानं कुब्जिकाख्या तु खेचरी ।
द्वात्रिंशदक्षरा देवि पञ्चनादेषु संस्थिता ॥ ३.९ ॥

ततः सिद्धाश्च चत्वारः पुरुषाष्टादश स्मृताः ।
अर्थपञ्चकसंयुक्ता ध्यानं स्यात् पञ्चकं पुनः ॥ ३.१० ॥

योगिनीषट्कसंयुक्तं सप्तविंशत्क्रमान्वितम् ।
एकाशीतिपदैर्युक्तं पञ्चावरणसंयुतम् ॥ ३.११ ॥

अनेन क्रमयोगेन मार्जनीं परिपूजयेत् ।
अनेन मार्जयेत् क्षेत्रं रसेन्द्रो यत्र तिष्ठति ॥ ३.१२ ॥

उपलेपं तु तत्रैव चण्डघण्टां तु कारयेत् ।
पूर्वे गृहे तु सा देवी चण्डघण्टा व्यवस्थिता ॥ ३.१३ ॥

चण्डभैरविका देवी संस्थिता दक्षिणे गृहे ।
गोमयं तेन गृह्णीयाल् लेपनार्थं वरानने ॥ ३.१४ ॥

चण्डकापालिनी देवी संस्थिता चोत्तरे गृहे ।
गृहीत्वा चोदकं तेन लेपयेद्भूमिमण्डलम् ॥ ३.१५ ॥

सप्तदशाक्षरां कालीं खल्लपाषाणतो न्यसेत् ।
द्वात्रिंशदक्षरं घोरं मर्दके तु नियोजयेत् ॥ ३.१६ ॥

गृह्णीयात् काञ्जिकां देवि कालपाशेन मन्त्रितः ।
एवं सुकर्मसंयोगं कुरुते खेचरीकुलम् ॥ ३.१७ ॥

अष्टाशीतिसहस्राणि याः स्थिता दिव्यखेचरी ।
ताः सर्वाः किंकरास्तस्य औषधं पेषयन्ति ताः ॥ ३.१८ ॥

तासां सर्वं तु मन्त्रैकं चतुरक्षरसंयुतम् ।
सोऽहं हंसः ।
सा विद्या खेचरीणां तु नाम्नां तु कुलखेचरी ॥ ३.१९ ॥

राजिकां सैन्धवं न्यस्य सा विद्या कुलखेचरी ।
मन्त्रयेत् काञ्जिकां तत्र मन्त्रराजो रसाङ्कुशी ॥ ३.२० ॥

अस्त्रविद्यां जपेत्तत्र या ज्ञाता पूर्वभार्गवे ।
गुडेष्टकां तु संमर्द्य प्रिये तन्मर्दितं रसम् ॥ ३.२१ ॥

का कथा मन्त्रराजस्य न वाक्यं त्रिशिरस्य च ।
षडङ्गं योजयेत् तां तु त्वरितं धारयेत् ततः ॥ ३.२२ ॥

डामराख्यं महामन्त्रं धमनीषु नियोजयेत् ।
चिन्तामणिमहाविद्यां कवचेषु नियोजयेत् ॥ ३.२३ ॥

चण्डिकाया महामन्त्रं तं तु पात्रे नियोजयेत् ।
नवविद्यां वरारोहे विन्यसेत्तुषगोमये ॥ ३.२४ ॥

त्रिपुराभैरवीं देवीं राजिकाकाञ्जिके न्यसेत् ।
गुडस्य कालरात्रिस् तु न्यस्तव्या वीरवन्दिते ॥ ३.२५ ॥

त्रिकूटाक्षं त्रिनेत्रं तु अनलस्य तु विन्यसेत् ।
उदके विन्यसेद्देवि चतुरशीतिचण्डिकाः ॥ ३.२६ ॥

क्षेत्रपालमघोरास्त्रं न्यस्तव्यं कोष्ठके प्रिये ।
महापाशुपतास्त्रं तु मूषायां च नियोजयेत् ॥ ३.२७ ॥

एतन्मन्त्रगणं देवि रसस्थाने नियोजयेत् ।
तदा तु सिध्यते तस्य साधकस्य फलं प्रिये ॥ ३.२८ ॥

रसाङ्कुशं महामन्त्रं जपेत्तु हृदयान्तरे ।
अन्ये ये योगिनीमन्त्राः सर्वान्नारीश्च जापयेत् ॥ ३.२९ ॥

अप्रकाशं तु तेनैव मन्त्रराजं रसाङ्कुशम् ।
अप्रकाशं च नारीणां रक्षयेत्प्रणवं तथा ।
महासमयविभ्रंशं नारीणां हृदयं यथा ॥ ३.३० ॥

कुब्जिकाद्यास्तु ये मन्त्रा मया ते संप्रकाशिताः ।
त्रैलोक्यं क्षोभितास्ते तु न मन्यन्ते मम प्रिये ॥ ३.३१ ॥

रसाङ्कुशेन ज्ञानेन त्रैलोक्यं वश्यतां व्रजेत् ॥ ३.३२ ॥

मन्त्रन्यासमिति ज्ञात्वा यन्त्रमूषाग्निमानवित् ।
कुर्वाणो रसकर्माणि सिद्धिं प्राप्नोति साधकः ॥ ३.३३ ॥

चतुर्थः पटलः (यन्त्रमूषाग्निवर्णनः)[सम्पाद्यताम्]

श्रीदेव्युवाच
यन्त्रमूषाग्निमानानि न ज्ञात्वा मन्त्रवेद्यपि ।
किं करोति महादेव तानि मे वक्तुमर्हसि ॥ ४.१ ॥

श्रीभैरव उवाच
रसोपरसलोहानि वसनं काञ्जिकम् विडम् ।
धमनीलोहयन्त्राणि खल्लपाषाणमर्दकम् ॥ ४.२ ॥

कोष्ठिका वक्रनालं च गोमयं सारमिन्धनम् ।
मृन्मयानि च यन्त्राणि मुसलोलूखलानि च ॥ ४.३ ॥

सण्डसीपट्टसंदंशं मृत्पात्रायःकटोरकम् ।
प्रतिमानानि च तुला- छेदनानि कषोपलम् ॥ ४.४ ॥

वंशनाडीलोहनाडीम् ऊषाङ्गारांस् तथौषधीः ।
स्नेहाम्ललवणक्षार- विषाण्युपविषाणि च ॥ ४.५ ॥

एवं संगूह्य सम्भारं कर्मयोगं समाचरेत् ॥ ४.६ ॥

द्रवद्रव्येण भाण्डस्य पूरितार्धोदरस्य च ।
मुखे तिर्यक्कृते भाण्डे रसं सूत्रेण लम्बितम् ।
तं स्वेदयेत् तलगतं दोलायन्त्रमिति स्मृतम् ॥ ४.७ ॥

लोहमूषाद्वयं कृत्वा द्वादशाङ्गुलमानतः ।
ईषच् छिद्रान्विताम् एकां तत्र गन्धकसंयुताम् ॥ ४.८ ॥

मूषायां रसयुक्तायाम् अन्यस्यां तां प्रवेशयेत् ।
तोयं स्यात् सूतकस्याधः ऊर्ध्वाधो वह्निदीपनम् ॥ ४.९ ॥

रसोनकरसं भद्रे यत्नतो वस्त्रगालितम् ।
दापयेत्प्रचुरं यत्नात् आप्लाव्य रसगन्धकौ ॥ ४.१० ॥

स्थालिकायां निधायोर्ध्वं स्थालीम् अन्यां दृढां कुरु ।
संधिं विलेपयेद्यत्नात् मृदा वस्त्रेण चैव हि ॥ ४.११ ॥

स्थाल्यन्तरे कपोताख्यं पुटं कर्षाग्निना सदा ।
यन्त्रस्याधः करीषाग्निं दद्यात्तीव्राग्निमेव वा ॥ ४.१२ ॥

एवं तु त्रिदिनं कुर्यात् ततो यन्त्रं विमोचयेत् ।
तप्तोदके तप्तचुल्ल्यां न कुर्याच्छीतले क्रियाम् ॥ ४.१३ ॥

न तत्र क्षीयते सूतो न च गच्छति कुत्रचित् ।
अनेन क्रमयोगेन कुर्याद्गन्धकजारणम् ॥ ४.१४ ॥

ऊर्ध्वं वह्निरधश्चापो मध्ये तु रससंग्रहः ।
मूषायन्त्रमिदं देवि जारयेद्गगनादिकम् ॥ ४.१५ ॥

गर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारणम् ।
चतुरङ्गुलदीर्घां तु मूषिकां मृन्मयीं दृढाम् ॥ ४.१६ ॥

त्र्यङ्गुलां मध्यविस्तारे वर्तुलं कारयेन्मुखम् ।
लोहस्य विंशतिर्भागा एको भागस्तु गुग्गुलोः ॥ ४.१७ ॥

सुश्लक्ष्णं पेषयित्वा तु तोयं दद्यात् पुनः पुनः ।
मूषालेपं ततः कुर्यात् तले पिष्टीं च निक्षिपेत् ॥ ४.१८ ॥

तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ।
अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ॥ ४.१९ ॥

जारणे मारणे चैव रसराजस्य रञ्जने ।
यन्त्रमेकं परं मर्म यत्रौषध्यो महाबलम् ॥ ४.२० ॥

औषधीरहितश्चायं हठाद्यन्त्रेण बध्यते ।
सर्वत्र सूतको याति मुक्त्वा भूधरलक्षणम् ॥ ४.२१ ॥

देवताभिः समाकृष्टो लोष्टस्थोऽपि हि गच्छति ।
तस्माद्यन्त्रबलं चैकं न विलङ्घ्यं विजानता ॥ ४.२२ ॥

मन्त्रौषधिसमायोगात् सुसिद्धं कुरुते ह्य् अयम् ।
मन्त्रोऽघोरोऽत्र जप्तव्यो जपान्ते पूजयेद्रसम् ॥ ४.२३ ॥

एकान्ते तु क्रिया कार्या दृष्टान्यैर्विफला भवेत् ॥ ४.२४ ॥

गन्धकस्य क्षयो नास्ति न रसस्य क्षयो भवेत् ।
क्षयो यन्त्रस्य विज्ञेयः यन्त्रे विक्रियते क्रिया ।
अलाभे कान्तलोहस्य यन्त्रं लोहेन कारयेत् ॥ ४.२५ ॥

वह्निलक्ष्यम् अविज्ञाय रसस्यार्धक्षयो भवेत् ।
यन्त्रक्षयविधिज्ञस्य चतुर्थांशक्षयो भवेत् ॥ ४.२६ ॥

द्विमासेन द्वितीयांशं तृतीयांशं त्रिभिर्भवेत् ।
महाग्निं सहते ह्य् एष सारितो यत्र तिष्ठति ॥ ४.२७ ॥

खर्परं सिकतापूर्णं कृत्वा तस्योपरि न्यसेत् ।
अपरं खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥ ४.२८ ॥

पञ्चक्षारैस्तथा मूत्रैर् लवणैश्च विडं ततः ।
हंसपाकः स विज्ञातो यन्त्रतन्त्रार्थकोविदैः ॥ ४.२९ ॥

कृष्णा रक्ता च पीता च शुक्लवर्णा च मृत्तिका ।
आद्या श्रेष्ठा कनिष्ठान्त्या मध्यमा मध्यमा मता ॥ ४.३० ॥

दग्धधान्यतुषोपेता मृत्तिका कोष्ठिकाविधौ ।
वक्रनालकृता वापि शस्यते सुरसुन्दरि ॥ ४.३१ ॥

गारा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका ।
अजाश्वानां मलं दग्धं यावत्तत् कृष्णतां गतम् ॥ ४.३२ ॥

वासकस्य च पत्त्राणि वल्मीकस्य मृदा सह ।
पेषयेद्वह्नितोयेन यावत्तत् श्लक्ष्णतां गतम् ॥ ४.३३ ॥

मर्दयेत्तेन बध्नीयात् वक्रनालं च कोष्ठिकाम् ॥ ४.३४ ॥

गारा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका ।
चीरमङ्गारकः किट्टं वज्रेणापि न भिद्यते ॥ ४.३५ ॥

दग्धाङ्गारस्य षड्भागा भागैका कृष्णमृत्तिका ।
चीरमङ्गारकः किट्टं वज्रमूषा प्रकीर्तिता ॥ ४.३६ ॥

तुषं वस्त्रसमं दग्धां मृत्तिका चतुरंशिका ।
कुपीपाषाणसंयुक्ता वरमूषा प्रकीर्तिता ॥ ४.३७ ॥

प्रकाशा चान्धमूषा च मूषा तु द्विविधा स्मृता ॥ ४.३८ ॥

प्रकाशमूषा देवेशि शरावाकारसंयुता ।
द्रव्यनिर्वाहणे सा च वादिकैः सुप्रशस्यते ॥ ४.३९ ॥

अन्धमूषा तु कर्तव्या गोस्तनाकारसंनिभा ।
पिधानकसमायुक्ता किंचिद् उन्नतमस्तका ॥ ४.४० ॥

पत्त्रलेपे तथा रङ्गे द्वंद्वमेलापके तथा ।
सैव छिद्रान्विता मन्दा गम्भीरा सारणोचिता ॥ ४.४१ ॥

तिलभस्म द्विर् अंशं तु इष्टकांशसमन्वितम् ।
भस्ममूषा तु विज्ञेया तारासंशोधने हिता ॥ ४.४२ ॥

मोक्षक्षारस्य भागौ द्वौ इष्टकांशसमन्वितौ ।
मृद्भागास् तारशुद्ध्यर्थम् उत्तमा वरवर्णिनि ॥ ४.४३ ॥

रक्तवर्गेण सम्मिश्रा रक्तवर्गपरिप्लुता ।
रक्तवर्गकृतालेपा सर्वशुद्धिषु शोभना ॥ ४.४४ ॥

शुक्लवर्गेण सम्मिश्रा शुक्लवर्गपरिप्लुता ।
शुक्लवर्गकृतालेपा शुक्लशुद्धिषु शोभना ॥ ४.४५ ॥

विडवर्गेण सम्मिश्रा धृतिमिच्छति जारणे ।
निर्वाहणं प्रकुर्वीत रक्तवर्गप्रलिप्तया ॥ ४.४६ ॥

विषटङ्कणगुञ्जाभिः मूषालेपं तु कारयेत् ।
प्रकाशायां प्रकुर्वीत यदि वाङ्गारलेपनम् ॥ ४.४७ ॥

तस्यां विन्यस्य मूषायां द्रव्यमावर्तयेद्बुधः ।
लेपो वर्णपुटं देवि रक्तमृत्सिन्धुभूखगैः ॥ ४.४८ ॥

आवर्तमाने कनके पीता तारे सिता प्रभा ।
शुल्वे नीलनिभा तीक्ष्णे कृष्णवर्णा सुरेश्वरि ॥ ४.४९ ॥

वङ्गे ज्वाला कपोताभा नागे मलिनधूमका ।
शैले तु धूसरा देवि आयसे कपिलप्रभा ॥ ४.५० ॥

अयस्कान्ते धूम्रवर्णा सस्यके लोहिता भवेत् ।
वज्रे नानाविधा ज्वाला खसत्त्वे पाण्डुरप्रभा ॥ ४.५१ ॥

न विस्फुलिङ्गो न च बुद्बुदश्च यदा न रेखापटलं न शब्दः ।
मूषागतं रत्नसमं स्थिरं च तदा विशुद्धं प्रवदन्ति लोहम् ॥ ४.५२ ॥

प्रतीवापः पुरा योज्यो निषेकस्तदनन्तरम् ।
छादनं तु प्रतीवापः निषेकं मज्जनं विदुः ।
अभिषेकं तदिच्छन्ति स्नपनं क्रियते तु यत् ॥ ४.५३ ॥

वापो निषेकः स्नपनं द्रुते निर्मलतां गते ।
उष्णेनैव हि वाञ्छन्ति शीतलं न च वाञ्छति ॥ ४.५४ ॥

शुक्लदीप्तिः सशब्दश्च यदा वैश्वानरो भवेत् ।
लोहावर्तः स विज्ञेयः सत्त्वं पतति निर्मलम् ॥ ४.५५ ॥

षोडशाङ्गुलविस्तीर्णं हस्तमात्रायतं शुभम् ।
धातुसत्त्वनिपातार्थं कोष्ठकं वरवर्णिनि ॥ ४.५६ ॥

वंशखादिरमाधूक- बदरीदारुसम्भवः ।
परिपूर्णं दृढाङ्गारैः धमेद्वातेन कोष्ठकम् ।
भस्त्रया ज्वालमार्गेण ज्वालयेच्च हुताशनम् ॥ ४.५७ ॥

प्रविततमुखभागं संवृतान्तःप्रदेशं स्थलरचितचिरान्तर्जालकं कोष्ठकं स्यात् ।
बकगलसममानं वङ्कनालं विधेयं शुषिरनलिनिका स्यान्मृन्मयी दीर्घवृत्ता ॥ ४.५८ ॥

मृन्मये लोहपात्रे वा अयस्कान्तमयेऽथवा ।
पाषाणे स्फटिके वाथ मुक्ताशैलमयेऽथवा ॥ ४.५९ ॥

सुदृढो मर्दकः कार्यः चतुरङ्गुलकोच्छ्रयः ।
स च लोहमयः शैलो ह्य् अयस्कान्तमयोऽथवा ॥ ४.६० ॥

अघोरास्त्राभिधानेन महापाशुपतेन वा ।
मन्त्रेण रचयेच्छुद्धिं भूमिं तेनैव शोधयेत् ॥ ४.६१ ॥

इन्धनानि च सर्वाणि द्रव्याणि च विशेषतः ।
दाहकं ज्वालयेत्तेन खल्लं तेनैव शोधयेत् ॥ ४.६२ ॥

रसं विशोधयेत्तेन विन्यसेत् दिवसे शुभे ।
खल्लोपरि न्यसित्वा च शिवमूर्तिमनुस्मरेत् ॥ ४.६३ ॥

देवतानुग्रहं प्राप्य यन्त्रमूषाग्निमानवित् ।
देवेशि रससिद्ध्यर्थं जानीयात् ओषधीरपि ॥ ४.६४ ॥

यन्त्रमूषाग्निमानानि वर्णितानि सुरेश्वरि ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ ४.६५ ॥


पञ्चमः पटलः (ओषधिनिर्णय)[सम्पाद्यताम्]

श्रीदेव्युवाच
नियामनादिकं कर्म क्रामणान्तं सुरेश्वर ।
यया सम्पद्यते ह्य् एषाम् ओषधीं वक्तुमर्हसि ॥ ५.१ ॥

श्रीभैरव उवाच
सर्पाक्षो वह्निकर्कोटी कञ्चुकी जलबिन्दुजा ।
शतावरी भृङ्गराजः शरपुङ्खा पुनर्नवा ॥ ५.२ ॥

मण्डूकपर्णी मत्स्याक्षी ब्रह्मदण्डी शिखण्डिनी ।
अनन्ता काकजङ्घा च काकमाची कपोतिका ॥ ५.३ ॥

विष्णुक्रान्ता सहचरा सहादेवी महाबला ।
बला नागबला कृष्णा चक्रमर्दः कुरुङ्गिणी ॥ ५.४ ॥

पाठा चामलकी नीली ज्वालिनी पद्मचारिणी ।
फणित्रिजिह्वा गोजिह्वा कोकिलाक्षो घनध्वनिः ॥ ५.५ ॥

आखुपर्णी त्रिपर्णी च द्विपर्णी चैकपर्णिका ।
तित्तिडी क्षीरिणी रास्ना मेषशृङ्गी च कुक्कुटी ॥ ५.६ ॥

कृष्णपर्णी च तुलसी श्वेता च गिरिकर्णिका ।
एता नियामकौषध्यः पुष्पमूलदलान्विताः ।
दोलास्वेदः प्रकर्तव्यो मूलेनानेन सुव्रते ॥ ५.७ ॥

चण्डाली राक्षसी व्याघ्री खड्गारी गजकर्णिका ।
शङ्खपुष्प्यग्निधमनी लाङ्गली बालमोचका ॥ ५.८ ॥

रक्तस्नुही रक्तशृङ्गी रक्तिका नीलचित्रकः ।
शृगालजिह्वा बृहती वज्रा चक्री च राजिका ॥ ५.९ ॥

एकवीरा नरकसा रुदन्ती ब्रह्मचारिणी ।
उच्चटा मानिनीकन्दा कुमारी रक्तचित्रकः ॥ ५.१० ॥

लक्ष्मीः शाखोटकश्चैव कञ्चुकी मेषशृङ्गिका ।
हिमावती सोमलता मोदा व्याघ्रनखी शमी ॥ ५.११ ॥

काञ्चनी वनराजी च काकमाची च केशिनी ।
अजमारी कोटराक्षी हनूमत्यङ्गनायिका ॥ ५.१२ ॥

नरजीवा हेमपुष्पी काकमुण्डी च कालिका ।
तोयवल्ली गजारी च हंसाङ्घ्री कुहुकंविका ।
ताम्बूली सूर्यभक्ता च रसनिर्जीवकारिकाः ॥ ५.१३ ॥

कटुतुम्बी च गोसन्धी देवदालीन्द्रवारुणी ।
वाकुची ब्रह्मबीजानि कार्पासं कृष्णजीरकम् ॥ ५.१४ ॥

कङ्गुनी कृष्णकनकं श्वेतार्कं च पिपीलिजम् ।
दन्तिनी यवचिञ्चा च कर्कोटी कारवल्लिका ॥ ५.१५ ॥

गोजिह्वा काकजङ्घा च महाकाली च शम्बरी ।
श्वेतगुञ्जा सिताङ्कोलः पटोली बिल्वमेव च ।
एकैकमोषधीबीजं मारयेद्रसभैरवम् ॥ ५.१६ ॥

रक्तस्नुही सोमलता रुदन्ती रक्तचित्रकः ।
शाखोटकी दग्धरुहा मोदिनी वृद्धदारुकः ॥ ५.१७ ॥

त्रिशूली कृष्णमार्जारी चक्रिका क्षीरकुक्कुटी ।
देवदाली शङ्खपुष्पी काकमाची हनूमती ॥ ५.१८ ॥

नीलज्योतिस् तृणज्योतिर् उत्कटा हेमवल्लरी ।
त्रिदण्डी ब्रह्मदण्डी च चक्राङ्की स्थलपद्मिनी ॥ ५.१९ ॥

नागजिह्वा नागकर्णी वीरा वर्तुलपर्णिका ।
अर्कपत्त्री वंशपत्त्री ताम्रपर्णी तथेश्वरी ।
इन्दुरी देवदेवेशि रसबन्धकराः प्रिये ॥ ५.२० ॥

तीव्रगन्धरसस्पर्शैर् द्रव्यैः स्थावरजङ्गमैः ।
म्रियते बध्यते चैव रसः स्वेदनमर्दनात् ॥ ५.२१ ॥

सूर्यावर्तश्च कदली वन्ध्या कोशातकी तथा ।
वज्रकन्दोदककणा काकमाची च शिग्रुकः ॥ ५.२२ ॥

देवदाली च देवेशि द्राविकाः परिकीर्तिताः ।
दोषान् हरन्ति योगिन धातूनां पारदस्य च ॥ ५.२३ ॥

काकमाची घनरवः कासमर्दः कृताञ्जलिः ।
वराहकर्णी सटिरी हंसदावी शतावरी ॥ ५.२४ ॥

ताम्बूली नागिनी ब्रह्मी हंसपादी च लक्षणा ।
अर्जुनी क्षीरनाली च कारवेल्लोऽर्कपत्त्रिका ।
व्याघ्री चवी कुरवकः क्रामिकाः सुरवन्दिते ॥ ५.२५ ॥

ब्रह्मदण्डः सुदण्डश्च लोहदण्डस्तृतीयकः ।
एते रसायने योग्या ब्रह्मविष्णुमहेश्वराः ॥ ५.२६ ॥

भूपाटली च कौमारी सिंहवल्ली च शूकरी ।
हेमपर्णी पटोली च नागवल्ली च भृङ्गराट् ।
इत्यष्ट मूलिकाः प्रोक्ताः पञ्चरत्नं शृणु प्रिये ॥ ५.२७ ॥

मन्त्रसिद्धासना देवी तथा कङ्कालखेचरी ।
इन्दिरा च क्षमापाली पञ्चमी तु निशाचरी ।
पञ्चरत्नमिदं देवि रसशोधनजारणे ॥ ५.२८ ॥

रसस्य बन्धने शस्तम् एकैकं सुरवन्दिते ।
रसाङ्कुशेन गृह्णीयात् पञ्चरत्नानि सुव्रते ।
ददाति खेचरीं सिद्धिं रसभैरवसंगमे ॥ ५.२९ ॥

त्रिक्षारं टङ्कणक्षारो यवक्षारश्च सर्जिका ।
तिलापामार्गकदली पलाशशिग्रुमोचिकाः ।
मूलकार्द्रकचिञ्चाश्च वृक्षक्षाराः प्रकीर्तिताः ॥ ५.३० ॥

अम्लवेतसजम्बीर- लुङ्गाम्लचणकाम्लकम् ।
नारङ्गं तिन्तिणीकं च चाङ्गेर्यम्लगणोत्तमाः ॥ ५.३१ ॥

सामुद्रं सैन्धवं चैव चूलिकालवणं तथा ।
सौवर्चलं च काचं च लवणाः पञ्च कीर्तिताः ॥ ५.३२ ॥

सक्तुकं कालकूटं च सितमुस्ता तथैव च ।
शृङ्गी कृष्णविषं चैव पञ्चैते तु महाविषाः ॥ ५.३३ ॥

स्नुह्यर्कोन्मत्तकं चैव करवीरं च लाङ्गली ।
पञ्चैवोपविषा मुख्याः तैलानि ह्य् उत्तमानि वै ।
कुसुम्भकङ्गुणीनक्ता- तिलसर्षपजानि तु ॥ ५.३४ ॥

हस्त्यश्वछागनारीणां मूत्रं गव्यं च पञ्चमम् ॥ ५.३५ ॥

पित्तं पञ्चविधं मत्स्य- गवाश्वनरबर्हिजम् ॥ ५.३६ ॥

वसा पञ्चविधा मत्स्य- मेषाहिनरबर्हिजा ॥ ५.३७ ॥

कपोतचाषगृध्राणां शिखिकुक्कुटयोश्च विट् ॥ ५.३८ ॥

मञ्जिष्ठा कुङ्कुमं लाक्षा खदिरश्चासनं तथा ।
रक्तवर्गस्तु देवेशि पीतवर्गमतः शृणु ।
कुसुम्भं किंशुकं रात्री पतंगो मदयन्तिका ॥ ५.३९ ॥

शुक्लवर्गः सुधाकूर्म- शङ्खशुक्तिवराटिकाः ॥ ५.४० ॥

गुञ्जाटङ्कणमध्वाज्य- गुडा द्रावणपञ्चकम् ॥ ५.४१ ॥

काचटङ्कणसौवीरं शोधनत्रितयं प्रिये ॥ ५.४२ ॥

सर्वे मलहराः क्षाराः सर्वे चाम्लाः प्रबोधकाः ।
विषाणि च तमोघ्नानि स्नेहा मार्दवकारकाः ॥ ५.४३ ॥

इत्योषधिगणाः प्रोक्ताः सिद्धिदा रससंगमे ।
क्रियां कुर्वन्ति तद्योगात् शक्तयश्च महारसाः ॥ ५.४४ ॥

तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ ५.४५ ॥


षष्ठः पटलः (अभ्रकादिलक्षणसंस्कारनिर्णय)[सम्पाद्यताम्]

श्रीदेव्युवाच
देवदेव महादेव शक्तीनां लक्षणं कथम् ।
रसकर्मणि योग्यत्वे संस्कारस् तस्य कथ्यताम् ॥ १ ॥

श्रीभैरव उवाच
कदाचिद्गिरिजा देवी हरं दृष्ट्वा मनोहरम् ।
मुमोच यत्तदा वीर्यं तज्जातं शुभमभ्रकम् ।
पीतं कृष्णं तथा शुक्लं रक्तं भूमेश्च संगमात् ॥ २ ॥

अभ्रकं कान्तपाषाणं वज्रं वैक्रान्तकं शृणु ॥ ३ ॥

पिनाकं दर्दुरं नागं वज्रं चाभ्रं चतुर्विधम् ।
पिनाकेऽग्निं प्रविष्टे तु शब्दश् चिटिचिटिर् भवेत् ॥ ४ ॥

दर्दुरेऽग्निं प्रविष्टे तु शब्दः कुक्कुटवद्भवेत् ।
अग्निं प्रविष्टं नागं तु फूत्कारं देवि मुञ्चति ॥ ५ ॥

अग्निं प्रविष्टं वज्रं तु वज्रवत्तिष्ठति प्रिये ॥ ६ ॥

कुष्ठप्रदं पिनाकाभ्रं दर्दुरं मरणप्रदम् ।
नागं देहगतं नित्यं व्याधिं कुर्याद् भगंदरम् ॥ ७ ॥

रसे रसायने चैव योज्यं वज्राभ्रकं प्रिये ।
अनेकवर्णभेदेन तच्चतुर्विधमभ्रकम् ॥ ८ ॥

रक्तं पीतं च हेमार्थे कृष्णं हेमशरीरयोः ।
तारकर्मणि शुक्लं च काचकिट्टं सदा त्यजेत् ॥ ९ ॥

एकपत्त्रं कृतं पूर्वम् अभ्रकं सुरनायिके ।
अगस्त्यपुष्पतोयेन कुमुदानां रसेन च ॥ १० ॥

कपितिन्दुकजम्बीर- मेघनादपुनर्नवैः ।
यवचिञ्चारनालाम्ल- करवीरारुणोत्पलैः ॥ ११ ॥

वनसूरणभूधात्री- भिण्डीमूलाम्लवेतसैः ।
मेषशृङ्गीशशवसा- शृङ्गतैलशमीरसैः ॥ १२ ॥

वज्रवल्लीक्षीरकन्द- मरिचैः सुमुखेन च ।
त्रिदिनं स्वेदयेद् देवि जायते दोषवर्जितम् ॥ १३ ॥

धान्याभ्रकं पुरा कृत्वा सुश्लक्ष्णं नवनीतवत् ।
त्रिंशत्पलं व्योमरजः क्षुद्रमत्स्यपलद्वयम् ॥ १४ ॥

तिलचूर्णपलं गुञ्जा- त्रिपलं पादटङ्कणम् ।
गोधूमबद्धा तत्पिण्डी पञ्चगव्येन भाविता ॥ १५ ॥

धमनात् कोष्ठिकायन्त्रे भस्त्राभ्यां तीव्रवह्निना ।
पतत्यभ्रकसत्त्वं तु सत्त्वानि निखिलानि च ॥ १६ ॥

स्वेदनौषधिनिर्यास- लोलितं पुटितं मुहुः ।
मृतं तु पञ्चनिचुल- पुटैर् बहुलपोतकम् ॥ १७ ॥

पिण्डितं व्योम निष्क्लेदं दत्त्वा सत्त्वं निरञ्जनम् ।
उमाफलैश्च पुष्पैश्च षष्टिकाम्लपरिप्लुतैः ।
औमदण्डविमर्देन गमनं द्रवति स्फुटम् ॥ १८ ॥

अग्निजारं नवे कुम्भे स्थापयित्वा धरोत्तरम् ।
गगनं द्रवति क्षिप्रं मुक्ताफलसमप्रभम् ॥ १९ ॥

शतधा कञ्चुकीचूर्णं कञ्चुकीरसभावितम् ।
द्रावयेद्गगनं देवि लोहानि सकलानि च ॥ २० ॥

धान्याम्लके पर्य्युषितं निचुलक्षारवारिणि ।
स्थितं तद्द्रवतां वाति निर्लेपरससन्निभम् ॥ २१ ॥

अगस्त्यपुष्पतोयेन पिष्ट्वा सूरणकन्दके ।
कोष्ठभूमिगतं मासं जायते रससन्निभम् ॥ २२ ॥

छागमूत्रेण संसिक्तं कपितिन्दुकरेणुना ।
अभ्रकं वापितं देवि जायते जलसन्निभम् ॥ २३ ॥

काकिनीवीजचूर्णेन घृष्टमभ्रकजं रजः ।
स्नुहिक्षीरेण सप्ताहं सिक्तं ध्मातं द्रुतं भवेत् ॥ २४ ॥

अपामार्गस्य पञ्चाङ्गम् अभ्रकं च सुपेषितम् ।
स्थापयेन्मृन्मये पात्रे तद्भवेत् सलिलं यथा ॥ २५ ॥

घृष्टमभ्रकचूर्णं तु कपालीमरिचैः सह ।
शिलया वापितं भूयोऽप्य् अगस्त्यरससंयुतम् ॥ २६ ॥

मार्जारपादीस्वरस- फलमूलाम्लमर्दितम् ।
मातुलुङ्गफले न्यस्तं व्रीहिमध्ये निधापयेत् ।
तद्द्रवेत् पक्षमात्रेण शिलासैन्धवयोजितम् ॥ २७ ॥

एकपत्रीकृतं सप्त- दिनं मुनिरसे क्षिपेत् ।
दार्वीमरिचसंमिश्रं मौर्वीरसपरिप्लुतम् ॥ २८ ॥

सौवर्च्चलयुतो मेघा वज्रवल्लीरसप्लुतः ।
शरावसंपुटे ध्मातो जायते जलसन्निभः ॥ २९ ॥

वेगाफलस्य चूर्णेन सममभ्रकजं रजः ।
भावितां कुलिशक्षीरे ध्मातं द्रवति तत्क्षणात् ॥ ३० ॥

वज्रवल्लीरसैः पिष्ट्वा व्योम सौवर्चलान्वितम् ।
शरावसंषुटे पक्त्वा द्रवेत् सलिलसन्निभम् ॥ ३१ ॥

गोमांससैन्धवार्कैस्तु मुनितोययुतं पुनः ।
कदलीकन्दकान्तःस्थं गोमयाग्नौ त्र्यहं द्रवेत् ॥ ३२ ॥

कृष्णाभ्रपत्रं संगृह्य पीलुतैलेन लेपयेत् ।
सप्ताहमातपे तप्तम् आम्ले क्षिप्त्वा दिनत्रयम् ॥ ३३ ॥

वज्रार्कचित्रकक्षारं तुम्बीक्षारस्तथार्जुनः ।
सर्जक्षारो यवक्षार- ष्टङ्कणश्चाष्टमो भवेत् ॥ ३४ ॥

क्षीरकन्दरसं चैव वज्रकन्दरसं तथा ।
वृहतीत्रयसंयुक्तं क्षारवर्गञ्च लेपयेत् ॥ ३५ ॥

कल्केनानेन लिप्तं तत् पत्राभ्रं कांस्यभाजने ।
धमनात् सूर्य्यतापोत्थात् त्रिदिनेन द्रुतं भवेत् ॥ ३६ ॥

अथवाभ्रकपत्रं तु कञ्चुकोक्षीरमध्यगम् ।
भावयेच्च तथा तेन यावच्चूर्णं ततो भवेत् ॥ ३७ ॥

ग्राहयेदभ्रपत्राणि निक्षिप्याम्ले दिनत्रयम् ।
लेपयेत्तेन कल्केन कांस्यपात्रे निधापयेत् ।
सूर्य्यतापेन सप्ताहं द्रुतिः सञ्जायते क्षणात् ॥ ३८ ॥

काकाण्डीफलचूर्णेन द्रावकैः पञ्चभिस्तथा ।
अभ्रकस्य युतं चूर्णं ध्मातं मूषागतं द्रवत् ॥ ३९ ॥

भ्रामकं चुम्बकं चैव कर्षकं द्रावकं तथा ।
एवं चतुर्विधं कान्तं रोमकान्तञ्च पञ्चमम् ॥ ४० ॥

एकद्वित्रिचतुःपञ्च सर्ब्बतोमुखमेव तत् ।
पीतं कृष्णं तथा रक्तं त्रिवर्णं स्यात् पृथक् पृथक् ॥ ४१ ॥

क्रमेण देवतास्तत्र ब्रह्मविष्णुमहेश्वराः ॥ ४२ ॥

स्पर्शवेधि भवेत् पीतं कृष्णं श्रेष्ठं रसायने ।
रक्तवर्णं महाभागे रसबन्धे प्रशस्यते ॥ ४३ ॥

भ्रामकं तु कनिष्ठं स्यात् चुम्बकं मध्यमं प्रिये ।
उत्तमं कर्षकं देवि द्रावकं चोत्तमोत्तमम् ॥ ४४ ॥

भ्रामयेल्लोहजातं तु तत्कान्तं भ्रामकं प्रिये ।
चुम्बयेच्चुम्बकं कान्तं कर्षयेत् कर्षकं प्रिये ॥ ४५ ॥

यत्साक्षाद्द्रावयेल्लोहं तक्रान्तं द्रावकं भवेत् ।
तद्रोमकान्तं स्फुटितात् यथा रोमोद्गमो भवेत् ॥ ४६ ॥

कनिष्ठं स्यादेकमुखं मध्यं द्वित्रिमुखं भवेत् ।
चतुःपञ्चमुखं श्रेष्ठम् उत्तमं सर्वतोमुखम् ॥ ४७ ॥

भ्रामकं चुम्बकञ्चैव व्याधिनाशे प्रशस्यते ।
रसे रसायने चैव कर्षकं द्रावकं हितम् ॥ ४८ ॥

मदोन्मत्तगजः सूतः कान्तमङ्कुशमुच्यते ।
क्षेत्रं खात्वा ग्रहीतव्यं तत्प्रयत्नेन भूयसा ॥ ४९ ॥

मारुतातपविक्षिप्तं वर्जयेत् सुरसुन्दरि ।
बहिःस्थितं त्वयस्कान्तं छागरक्तेन भावयेत् ॥ ५० ॥

छागरक्तप्रलिप्तेन वाससा परिवेष्टयेत् ।
छागचर्मपरीवेष्ट्य विन्यसेत् पूर्व्ववत् क्षितौ ॥ ५१ ॥

उद्धृतं सप्तभिर्मासैः तोयकुम्भे विनिक्षिपेत् ॥ ५२ ॥

रक्तपुष्पैः सदा पूज्यं रक्तमाल्यानुलेपनैः ।
पूजितं मद्यमांसैश्च योज्यं रसरसायने ॥ ५३ ॥

संस्कृतं छागरक्तेन भ्रामकं चुम्बकं भवेत् ।
अनेन क्रमयोगेन द्रावकं भवति प्रिये ॥ ५४ ॥

सूतलोहस्य वक्ष्यामि संस्कारमतिसौख्यदम् ।
जीवदेहे प्रवेशे च देहसौख्यबलप्रदम् ॥ ५५ ॥

कान्तलोहं विना सूतो देहे न क्रामति क्वचित् ।
वेधयेद्व्यापयेच्छीघ्रं तैलबिन्दुरिवाम्भसि ॥ ५६ ॥

न सूतेन विना कान्तो न कान्तः सूतवर्जितः ।
कान्तसूतसमायुक्तः प्रयोगो देहधारकः ॥ ५७ ॥

यवक्षारन्तु संगृह्य स्निग्धभाण्डे निधापयेत् ।
मरिचाभ्रकचूर्णेन पिण्डीबन्धन्तु कारयेत् ।
कान्तलोहं द्रवेद्ध्मातं नात्र कार्या विचारणा ॥ ५८ ॥

त्रिंशच्चुम्बककान्तं च पिष्ट्वा तु त्रिफलाम्भसा ।
तेनैव क्षालनं कार्य्यं पञ्चनिष्कं तु टङ्कणम् ॥ ५९ ॥

जीर्णवस्त्रे विनिक्षिप्य मधुसर्पिर्युतं पुटेत् ।
संस्थाप्य मासपर्य्यन्तं तत्र शुद्धिर्भवेत्प्रिये ॥ ६० ॥

सिनाडिकाया मूलं तु दशनिष्कमितं युतम् ।
फलत्रयकषायन खल्ले तु परिमर्दयेत् ॥ ६१ ॥

त्रिमूषासु समं स्थाप्यम् अष्टाङ्गुलमितासु च ।
मूषकालेपनं कार्य्यं तन्मूलं निष्कमात्रकम् ॥ ६२ ॥

शिवपञ्चमुखीकार्य्या मूषां प्रति समं ततः ।
यन्त्रहस्ते सुसंबध्य खोटकं च शिलातले ॥ ६३ ॥

तैलेन मिश्रितं कृत्वा कान्तनागं लभेत्ततः ।
अभ्रकक्रमयोगेन द्रुतिपातञ्च साधयेत् ॥ ६४ ॥

सुरासुरैर्मथ्यमाने क्षीरोदे मन्दराद्रिणा ।
पीतं तदमृतं देवैर् अमरत्वम् उपागतम् ॥ ६५ ॥

पिबतां बिन्दवो देवि पतिता भूमिमण्डले ।
शुष्कास्ते वज्रतां याता नानावर्णा महाबलाः ॥ ६६ ॥

बिन्दवः केऽपि सञ्जाताः सस्यका विमलास्तथा ।
ब्राह्मणाः क्षत्त्रिया वैश्वाः शुद्राश्चैवमनेकधा ॥ ६७ ॥

श्वेता रक्तास्तथा पीता कृष्णाश्चैव चतुर्विधाः ।
पुरुषाश्च स्त्रियश्चैव नपुंसकम् अनुक्रमात् ॥ ६८ ॥

वृत्ताः फलकसंपूर्णास् तेजस्वन्तो महत्तराः ।
पुरुषास्ते निबोद्धव्या रेखाबिन्दुविवर्जिताः ॥ ६९ ॥

रेखाबिन्दुसमायुक्ताः खण्डाश्चैव तु योषितः ।
त्रिकोणाः पत्तला दीर्घाः विज्ञेयास्ते नपुंसकाः ॥ ७० ॥

सत्त्ववन्तो बलोपेता लोहे क्रामणशीलिनः ।
रसबन्धकराः शीघ्रं पुंवज्राः सुरवन्दिते ॥ ७१ ॥

शरीरकान्तिजननाः स्त्रीवज्राः स्वल्पशक्तयः ।
नपुंसकाः सत्त्वहीनाः कष्टं लोहे क्रमन्ति च ॥ ७२ ॥

क्षत्रियाः सर्वकार्य्येषु वर्ज्याश्च रसकर्मणि ।
उत्तमा मध्यमाश्चैव कनिष्ठाः परिकीर्तिताः ॥ ७३ ॥

स्थूलातिस्थूलमध्याश्च सूक्ष्माः सूक्ष्मतराः प्रिये ।
आस्फोटदाहभेदैश्च निर्व्यङ्गा निरुपद्रवाः ।
वीर्य्यवन्तश्च ते ज्येष्ठा निर्मला बलवत्तराः ॥ ७४ ॥

रसायने भवेद् विप्रो ह्य् अणिमादिगुणप्रदः ।
क्षत्रियो मृत्युनाशार्थो वलीपलितरोगहा ॥ ७५ ॥

द्रव्यकारो तथा वैश्यः शरीरं दृढतां नयेत् ।
व्याधिप्रशमनं शूद्रो वयःस्तम्भं करोति च ॥ ७६ ॥

क्लीबे क्लीवाः स्त्रियः स्त्रीणां सर्ब्बेषां पुरुषा हिताः ॥ ७७ ॥

यथा जातिस्तथोत्साहं यथा सत्त्वं तथा गुणान् ।
यथा रुचिस्तथा शीलं यथा शीलं तथा वरम् ।
यथा वरस्तथा वर्णं कुर्वन्ति कुलिशाः प्रिये ॥ ७८ ॥

श्यामा शमी घनरवो वषाभून्मत्तकोद्रवाः ।
आखुकर्णी मुनितरुः कुलत्थं चाम्लवेतसम् ॥ ७९ ॥

मेषशृङ्गी रसोऽप्येषां कन्दस्य सूरणस्य तु ।
शोधयेत्त्रिदिनं वज्रं शुद्धिमेति सुरेश्वरि ॥ ८० ॥

मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठं शिलाजतु ।
स्नुक्कीलालरसं स्तन्यं कान्तपाषाणमेव च ॥ ८१ ॥

वज्रकं चापि वैक्रान्तं तन्मध्ये प्रक्षिपेत् प्रिये ।
तीव्रानले पुटं दत्त्वा पुटान्तं यावदागतम् ॥ ८२ ॥

कुलत्थं कोद्रवं चापि हयमूत्रेण पेषयेत् ।
तप्तं निपेचयेत् पीठे यावत्तद्भस्मतां गतम् ॥ ८३ ॥

एष कापालिको योगो वज्रमारण उत्तमः ॥ ८४ ॥

माक्षिकं मेषशृङ्गं च शिलागन्धकटङ्कणम् ।
वैक्रान्तं तालकं चापि वज्रीक्षीरपरिप्लुतम् ॥ ८५ ॥

लेपं मूषोदरे दत्त्वा समावर्त्तं तु कारयेत् ।
म्रियन्ते हीरकास्तत्र द्वन्द्वे सम्यङ्मिलन्ति च ॥ ८६ ॥

गन्धकं च शिलाधातुं भ्रामकस्य मुखं तथा ।
शशकस्य च दन्तांश्च वेतसाम्लेन पेषयत् ॥ ८७ ॥

अनेन सिद्धकल्केन मूषालेपं तु कारयेत् ।
अन्धमूषागतं ध्मातं वज्रं तु म्रियते क्षणात् ॥ ८८ ॥

तेनैव मिलितं वज्रं तारहेम्नि न संशयः ॥ ८९ ॥

तालकं गन्धकं कान्तं ताप्यं कर्पूरटङ्कणम् ।
चिञ्चास्थि मेषशृङ्गं च स्त्रीरजःपरिपेषितम् ।
मूषालेपगतं ध्मातं वज्रं तु म्रियते क्षणात् ॥ ९० ॥

शरपुङ्खस्य पञ्चाङ्गं पेष्यं स्त्रीरजसा ततः ।
पेटारीबीजम् अथवा संपेष्यं तण्डुलाम्भसा ॥ ९१ ॥

पेष्यं त्रिकर्षकार्पास- मूलं वा तण्डुलाम्भसा ।
आरक्तराकामूलं वा स्त्रीस्तन्येन तु पेषितम् ॥ ९२ ॥

पेषयेद्वज्रकन्दं वा वज्रीक्षीरेण सुव्रते ।
तत्कल्कपुटितं ध्मातं वज्रं चैव मृतं भवेत् ॥ ९३ ॥

महानदीश्वेतशुक्त्यां दिनमेकन्तु भावितम् ।
क्षीरेणोत्तरवारुण्याः कल्केनानेन सुव्रते ॥ ९४ ॥

तालेन मेषशृङ्ग्या च वज्रवल्ल्या च वेष्टितम् ।
अन्धमूषागतं ध्मातं वज्रं तु म्रियते क्षणात् ॥ ९५ ॥

कान्तस्य पिष्टिकामध्ये वज्रं देवि विनिक्षिपेत् ।
पेषयेद्गन्धतैलेन म्रियते वज्रम् ईश्वरि ॥ ९६ ॥

कुलत्थाम्भसि कासीस- सौराष्ट्रीतालकान्विते ।
अपामार्गक्षारयुते वज्रं सिक्तं मृतं भवेत् ॥ ९७ ॥

अमृताकन्दतिमिर- बीजत्वक्क्षीरवेष्टितम् ।
मेषशृङ्गगतं वज्रं मृल्लिप्तं म्रियते पुटैः ॥ ९८ ॥

पेटारी हंसपादी च वज्रवल्ली च सूरणम् ।
अश्वत्थस्याङ्कुरा देवि सर्वे स्त्रीस्तन्यपेषिताः ॥ ९९ ॥

अनेन सिद्धकल्केन वेष्टितं बृहतीफले ।
क्षिप्तं बहिर्मृदा लिप्तं म्रियते सप्तभिः पुटैः ॥ १०० ॥

श्वेतेन्दुरेखापुष्पाम्बु- गन्धकत्रयमाक्षिकैः ।
वेष्टितं कुलिशं देवि पुटपाकात् मृतं भवेत् ॥ १०१ ॥

अश्वत्थबदरीभिण्डी- माक्षीकं कर्कटास्थि च ।
स्नुहीक्षीरेण संपेष्य पुटाद्विप्रो मृतो भवेत् ॥ १०२ ॥

करवीरार्कदुग्धेन मेषशृङ्गं सहिङ्गुलम् ।
उदुम्बरसमायुक्तं पुटात् क्षत्रियमारणम् ॥ १०३ ॥

बाला चातिबला चैव गन्धकं कर्कटास्थि च ।
क्षीरेणोत्तरवारुण्याः पुटनाद्वैश्यमारणम् ॥ १०४ ॥

कण्डूलसूरणेनैव शिलया लशुनेन च ।
न्यग्रोधशङ्खदुग्धेन शूद्रोऽपि म्रियते क्षणात् ॥ १०५ ॥

स्थूला बहुस्थूलपुटैः नश्यन्ति फलकादयः ।
सुस्विन्ना इव जायन्ते मृदुत्वमुपजायते ॥ १०६ ॥

पिष्ट्वामलकपञ्चाङ्गं गौराभाम् इन्द्रवारुणीम् ।
अनेन वेष्टितं वज्रं म्रियते सप्तभिः पुटैः ॥ १०७ ॥

मातृवाहकजीवस्य मध्ये वज्रं विनिक्षिपेत् ।
दोलास्वेदे त्र्यहं देवि गुणपत्त्रसमं भवेत् ॥ १०८ ॥

एरण्डवृक्षमध्ये तु वज्रं देवि विनिक्षिपेत् ।
एकमासे गते देवि गुणपत्त्रसमं भवेत् ॥ १०९ ॥

कान्तस्य पिष्टिकामध्ये वज्रं देवि विनिक्षिपेत् ।
कार्पासनिम्बपत्त्रं च बदरीपत्त्रसंयुतम् ॥ ११० ॥

एकत्र पेषयेत्तत्तु कान्तगोलकवेष्टितम् ।
बाह्ये ताम्बूलपत्त्रेण स्थापयेज्जानुमध्यतः ॥ १११ ॥

यामद्वयेन तद्वज्रं जायते मृदु निश्चितम् ।
तत्क्षणान्म्रियते वज्रं तारे हेम्नि न संशयः ॥ ११२ ॥

जम्बीरफलमध्यस्थं वस्त्रपोटलिकागतम् ।
क्वाथयेत् कोद्रवक्वाथे क्रमेणानेन तु त्र्यहम् ।
तद्वज्रं जायते खोटं हेम्ना मिलति तत्क्षणात् ॥ ११३ ॥

नागवल्ल्या प्रलिप्तं तु तत्पत्त्रेणैव वेष्टितम् ।
जानुमध्ये स्थितं यामं मृदु संजायते ध्रुवम् ॥ ११४ ॥

मूले वज्रलतायास्तु मृदु वज्रं विनिक्षिपेत् ।
पुटं दद्यात् प्रयत्नेन भस्मीभवति तत्क्षणात् ॥ ११५ ॥

सुखाद्बन्धकरं ह्य् आशु सत्त्वं मुञ्चति तत्क्षणात् ।
सर्वमृत्युप्रशमनाः सर्वसिद्धिकराश् च ते ॥ ११६ ॥

अस्थिशृङ्खलमध्यस्थं कृत्वा वज्रं विरन्ध्रितम् ।
जलभाण्डे तु तत् स्विन्नं सप्ताहं द्रवतां व्रजेत् ॥ ११७ ॥

क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् ।
क्षिप्त्वा ज्वालामुखीक्षीरं स्थलकुम्भीरसेन च ॥ ११८ ॥

एतैस्तु मर्दितं वज्रं स्नुह्यर्कपयसा तथा ।
दोलायां स्वेदयेद्देवि जायते रसवद् यथा ॥ ११९ ॥

अथवाप्यभ्रकं स्विन्नं मौक्तिकं च प्रवालकम् ।
माक्षिकं नीलपुष्पं च पीतं मरकतं महत् ।
वैडूर्यस्फटिकादीनि द्रवन्ति सलिलं यथा ॥ १२० ॥

लोहजातं तथा ध्मातम् अग्निवर्णं तु दृश्यते ।
वापितं सकृद् एकेन मृतं जलसमं भवेत् ॥ १२१ ॥

मुक्ताफलं तु सप्ताहं वेतसाम्लेन भावितम् ।
जम्बीरोदरमध्यस्थं धान्यराशौ निधापयेत् ।
पुटपाकेन तच्चूर्णं जायते सलिलं यथा ॥ १२२ ॥

शृणु देवि महाभागे वैक्रान्ताख्यं महारसम् ॥ १२३ ॥

दैत्येन्द्रो महिषः सिद्धो हरदेहसमुद्भवः ।
दुर्गा भगवती देवी तं शूलेन व्यमर्दयत् ॥ १२४ ॥

तस्य रक्तं तु पतितं यत्र यत्र स्थितं भुवि ।
तत्र तत्र तु वैक्रान्तो वज्राकारो महारसः ॥ १२५ ॥

विन्ध्यस्य दक्षिणे चास्ति उत्तरे नास्ति सर्वथा ।
विकृन्तयति लोहानि तेन वैक्रान्तकः स्मृतः ॥ १२६ ॥

श्वेतः पीतस्तथा रक्तो नीलः पारावतप्रभः ।
मयूरवालसदृशश् चान्यो मरकतप्रभः ॥ १२७ ॥

देहसिद्धिकरः कृष्णः पीते पीतः सिते सितः ।
सर्वार्थसिद्धिदो रक्तः तथा मरकतप्रभः ।
शेषे द्वे निष्फले वर्ज्ये वैक्रान्तमिति सप्तधा ॥ १२८ ॥

यत्र क्षेत्रे स्थितं देवि वैक्रान्तं तत्र भैरवम् ।
विनायकं च सम्पूज्य गृह्णीयात् साधकोत्तमः ॥ १२९ ॥

वैक्रान्तं चूर्णितं सूक्ष्मं सुरासुरनमस्कृतम् ।
व्याघ्रीकन्दस्य मध्यस्थं धमयित्वा पुटे स्थितम् ॥ १३० ॥

अश्वमूत्रेण मृद्वग्नौ स्वेदयेत् सप्तवासरात् ।
छायाशुष्कं ततः कुर्याद् इदं वैक्रान्तमुत्तमम् ॥ १३१ ॥

अथवा लवणक्षार- मूत्राम्लकृष्णतैलकैः ।
कुलत्थकोद्रवक्वाथे स्वेदयेत् सप्त वासरान् ॥ १३२ ॥

वन्ध्याचूर्णं तु वैक्रान्तं समांशेन तु चूर्णयेत् ।
अजामूत्रेण संभाव्य छायाशुष्कं तु कारयेत् ।
अन्धनाले धमित्वा तु मूषासत्त्वं तु जायते ॥ १३३ ॥

मोक्षमोरटपालाश- क्षारगोमूत्रभावितम् ।
वज्रकन्दशिफाकल्क- लाक्षाटङ्कणसंयुतम् ॥१३४ ॥

वैक्रान्तसम्भवं चूर्णं मेषशृङ्गीद्रवान्वितम् ।
पिण्डितं मूकमूषायां ध्मातं सत्त्वं विमुञ्चति ॥ १३५ ॥

वैक्रान्तं वज्रकन्दं च पेषयेद् वज्रवारिणा ।
माहिषे नवनीते च सक्षौद्रं पिण्डितं ततः ।
शोधयित्वा धमेत् सत्त्वम् इन्द्रगोपसमं पतेत् ॥ १३६ ॥

केतकीस्वरसः काङ्क्षी मणिमत्थं सखेचरम् ।
स्वेदनाज्जायते देवि वैक्रान्तं रससंनिभम् ॥ १३७ ॥

सुवर्णं रजतं ताम्रं कान्तलोहस्य वा रजः ।
अनेन स्वेदविधिना द्रवन्ति सलिलं यथा ॥ १३८ ॥

इत्युक्तमभ्रकादीनां चतुर्णां लक्षणादिकम् ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुम् इच्छसि ॥ १३९ ॥

इति श्रीपार्वतीपरमेश्वरसंवादे रसार्णवे रससंहितायाम् अभ्रकादिलक्षणसंस्कारनिर्णयो नाम षष्ठः पटलः

सप्तमः पटलः (महारसोपरसलोहलक्षणसंस्काररत्नद्रावणमारणनिर्णयः)[सम्पाद्यताम्]

श्रीदेव्युवाच
सह लक्षणसंस्कारैर् आज्ञापय महारसान् ।
अन्यच्च तादृशं देव रसविद्योपकारकम् ॥ ७.१ ॥

श्रीभैरव उवाच
माक्षिको विमलः शैलश् चपलो रसकस्तथा ।
सस्यको दरदश्चैव स्रोतोञ्जनम् अथाष्टकम् ।
अष्टौ महारसाश्चैवम् एतान् प्रथमतः शृणु ॥ ७.२ ॥

कृष्णस्तु भारतं श्रुत्वा योगनिद्रामुपागतः ।
तस्य पादतले विद्धं व्याधेन मृगशङ्कया ॥ ७.३ ॥

ये तत्र पतिता भूमौ क्षताद्रुधिरबिन्दवः ।
ते निम्बफलसंस्थाना जाता वै माक्षिकोपलाः ॥ ७.४ ॥

माक्षिको द्विविधस्तत्र पीतशुक्लविभागतः ।
विमलस्त्रिविधो देवि शुक्लः पीतश्च लोहितः ॥ ७.५ ॥

तैलारनालतक्रेषु गोमूत्रे कदलीरसे ।
कुलत्थकोद्रवक्वाथैः माक्षिकं विमलं तथा ।
मुहुः शूरणकन्दस्थं स्वेदयेद्वरवर्णिनि ॥ ७.६ ॥

क्षाराम्ललवणैरण्ड- तैलसर्पिःसमन्वितम् ।
पुटत्रयं प्रदातव्यं तद्द्वयं शोधितं भवेत् ॥ ७.७ ॥

माक्षिकं चूर्णितं स्तन्य- स्नुह्यर्कक्षीरभावितम् ।
सत्त्वं मुञ्चति सुध्मातं टङ्ककङ्कुष्ठमोदितम् ॥ ७.८ ॥

कदलीकन्दतुलसी- नारङ्गाम्लपरिप्लुतम् ।
सप्तसप्तपुटोपेतं पञ्चद्रावकसंयुतम् ।
स्त्रीस्तन्यमोदितं ध्मातं सत्त्वं मुञ्चति माक्षिकम् ॥ ७.९ ॥

क्षौद्रगन्धर्वतैलाभ्यां गोमूत्रेण घृतेन च ।
कदलीकन्दसारेण भावितं माक्षिकं मुहुः ।
मूषायां मुञ्चति ध्मातं सत्त्वं शुल्वनिभं मृदु ॥ ७.१० ॥

देवदालीरसं क्षिप्त्वा पादांशटङ्कणैर्युतम् ।
प्रकटां मूषिकां कृत्वा धमेत् सत्त्वम् अपेक्षितम् ॥ ७.११ ॥

किमत्र चित्रं कदलीरसेन सुपाचितं सूरणकन्दसम्पुटे ।
वातारितैलेन पुटेन ताप्यं पुटेन दग्धं वरशुद्धिम् एति ॥ ७.१२ ॥

गोमूत्रैश्च स्नुहिक्षीरैः भाव्यमेरण्डतैलकैः ।
माक्षिकं दिनम् एकं तु मर्दितं वटकीकृतम् ।
अभ्रवद्धमयेत् सत्त्वं सस्यकस्याप्ययं विधिः ॥ ७.१३ ॥

ताप्यम् आवर्तकं धातु- माक्षिकं मधुधातुकम् ।
माक्षिकं तिक्तमधुरं मेहार्शःक्षयकुष्ठनुत् ।
कफपित्तहरं बल्यं योगवाहि रसायनम् ॥ ७.१४ ॥

ज्वरसंनिपातदारिद्र्याण्यपि यन्नामकथनमात्रेण ।*
नश्यन्ति योजनशते कस् तस्माल्लोहवेधकरः ॥ ७.१५ ।*
विमलं शिग्रुतोयेन काङ्क्षीकासीसटङ्कणैः ।
वज्रकन्दसमायुक्तं भावितं कदलीरसैः ॥ ७.१६ ॥

मोक्षकक्षारसंयुक्तं धामितं मूकमूषया ।
सत्त्वं चन्द्रार्कसंकाशं प्रयच्छति न संशयः ॥ ७.१७ ॥

पतितोऽपतितश्चेति द्विविधः शैला ईश्वरि ।
ग्रन्थान्तरेऽपि कीर्त्योऽसौ कीर्तितो बहुभिः सुरैः ॥ ७.१८ ॥

निदाघे घर्मसंतप्ता धातुसारं धराधराः ।
निर्यासं च विमुञ्चन्ति तच्छिलाजतु कीर्तितम् ॥ ७.१९ ॥

शिलावद् धातुकं ध्मातं शैलजं गिरिसानुजम् ।
जत्वद्रिजं गिरिः शैलः प्रोक्तस्त्वयानुकीर्तितः ॥ ७.२० ॥

क्षाराम्लगोजलैर्ध्मातं शुध्यते च शिलाजतु ।
अथवा गोघृतेनापि त्रिफलद्व्यार्द्रकद्रवैः ।
लोहपात्रे विनिक्षिप्य शोधयेत्तत्तु यत्नतः ॥ ७.२१ ॥

शैलं विचूर्णयित्वा तु धान्याम्लोपविषैर् विषैः ।
पिण्डं बद्ध्वा तु विधिवत् पातयेच्चपलं यथा ॥ ७.२२ ॥

गौरः श्वेतोऽरुणः कृष्णश् चपलस्तु प्रशस्यते ।
हैमाभश्चैव ताराभो विशेषाद्रसबन्धकः ॥ ७.२३ ॥

शेषौ मध्यौ च लाक्षावत् शीघ्रद्रावौ तु निष्फलौ ।
वङ्गवद्द्रवते वह्नौ चपलस्तेन कीर्तितः ॥ ७.२४ ॥

वस्त्रेण बद्ध्वा चपलं लङ्घयेद्यदि सागरम् ।
वस्त्रं च वेष्टयेत् सद्यः तेनासौ चपलः स्मृतः ॥ ७.२५ ॥

सारयेत् पुटपाकेन चपलं गिरिमस्तके ।
देहबन्धं करोत्येव विशेषाद्रसबन्धनम् ॥ ७.२६ ॥

चपलश्चपलावेधं करोति घनवच्चलः ।
चपलो लेखनः स्निग्धो देहलोहकरो मतः ॥ ७.२७ ॥

मृत्तिकागुडपाषाण- भेदतो रसकस्त्रिधा ॥ ७.२८ ॥

पीतस्तु मृत्तिकाकारो मृत्तिकारसको वरः ।
गुडाभो मध्यमो ज्ञेयः पाषाणाभः कनिष्ठकः ॥ ७.२९ ॥

कटुकालाबुनिर्यासे- नालोड्य रसकं पचेत् ।
शुद्धो दोषविनिर्मुक्तः पीतवर्णस्तु जायते ॥ ७.३० ॥

किमत्र चित्रं रसकं रसेन रजस्वलायाः कुसुमेन भावितम् ।
क्रमेण कृत्वा उरगेन रञ्जितं करोति शुल्बं त्रिपुटेन काञ्चनम् ॥ ७.३१ ॥

क्षीयते नापि वह्निस्थः सत्त्वरूपो महाबलः ॥ ७.३२ ॥

रसकं चूर्णयित्वा तु बद्ध्वा वस्त्रे विचक्षणः ।
मूत्रे निधापयेत् स्त्रीणां सप्तरात्रं सुरेश्वरि ॥ ७.३३ ॥

पुष्पाणां रक्तपीतानां रसैः पत्त्रैश्च भावयेत् ॥ ७.३४ ॥

क्षारैः स्नेहैस्तथा चाम्लैः भावितं रसकं मुहुः ।
ऊर्णालाक्षानिशापथ्या- भूलताधूमसंयुतम् ॥ ७.३५ ॥

मूकमूषागतं ध्मातं टङ्कणेन समन्वितम् ।
सत्त्वं कुटिलसंकाशं मुञ्चत्येव न संशयः ॥ ७.३६ ॥

गोभद्दो रसकस्तुत्थं क्षितिकिट्टो रसोद्भवः ।
खर्परो नेत्ररोगारिः रीतिकृत्ताम्ररञ्जकः ॥ ७.३७ ॥

रसको रञ्जको रूक्षो वातकृत् श्लेष्मनाशनः ।
त्रिदोषघ्नं तु तत्सत्त्वं नेत्रदोषविनाशनम् ॥ ७.३८ ॥

कालकूटविषं पीत्वा गरुडः सोढुमक्षमः ।
सुधामपि तथावामत् भुक्त आशीविषामृते ।
स्वयं विनिर्गते चञ्च्वोः सस्यकोऽभूत् स कालिकः ॥ ७.३९ ॥

एकधा सस्यकस्तस्य स्त्रीमूत्रे भावयेद्रजः ।
शशशोणितमध्ये वा दिनमेकं निधापयेत् ॥ ७.४० ॥

तस्य चूर्णं महेशानि पादसौभाग्यसंयुतम् ।
करञ्जतैलमध्यस्थं दिनमेकं निधापयेत् ॥ ७.४१ ॥

मध्यस्थमन्धमूषायाः धमयेत् कोकिलात्रयम् ।
इन्द्रगोपकसंकाशं सत्त्वं पतति शोभनम् ॥ ७.४२ ॥

एकधा सस्यकस्तस्मात् ध्मातो निपतितो भवेत् ।
कालिकारहितो रक्तः शिखिकण्ठसमाकृतिः ॥ ७.४३ ॥

सस्यो मयूरतुत्थं स्यात् वह्निकृत् कालनाशनः ।
रसायने तु योग्यः स्याद् वयःस्तम्भकरो भवेत् ॥ ७.४४ ॥

सस्यकः शुद्धिमाप्नोति रक्तवर्गेण भावितः ॥ ७.४५ ॥

दरदस्त्रिविधः प्रोक्तश् चर्मारः शुकतुण्डकः ।
हंसपादस्तृतीयः स्याद् गुणवानुत्तरोत्तरः ॥ ७.४६ ॥

चूर्णपारदभेदेन द्विविधो दरदः पुनः ॥ ७.४७ ॥

गोमांसे माहिषे मूत्रे दध्यम्लतिलतैलयोः ।
एकैकं त्रिदिनं पक्त्वा शिखिपित्तेन भावयेत् ॥ ७.४८ ॥

दरदं पातनायन्त्रे पातयेत् सलिलाशये ।
सत्त्वं तु सूतसंकाशं जायते नात्र संशयः ॥ ७.४९ ॥

लघुकन्दरसो म्लेच्छो हिङ्गुलं चूर्णपारदम् ।
मणिरागजमस्यैव नाम चर्मारगन्धिकम् ॥ ७.५० ॥

तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धकसम्भवम् ।
लोहकुष्ठहरं दिव्य- बलमेधाग्निदीपनम् ॥ ७.५१ ॥

किमत्र चित्रं दरदः सुभावितः क्षीरेण मेष्या बहुशोऽम्लवर्गैः ।
सितं सुवर्णं बहुघर्मतापितं करोति साक्षाद्वरकुङ्कुमप्रभम् ॥ ७.५२ ॥

वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति ।
घृष्टं तु गैरिकच्छायं स्रोतोजं सुरवन्दिते ॥ ७.५३ ॥

गोशकृद्रसमूत्रेषु घृतक्षौद्रवसासु च ।
भावितं बहुशस्तच्च क्षिप्रं बध्नाति सूतकम् ॥ ७.५४ ॥

एवं महारसाः प्रोक्ताः शृणुष्वोपरसान् प्रिये ॥ ७.५५ ॥

गन्धकस्तालकः शिला सौराष्ट्री खगगैरिकम् ।
राजावर्तश्च कङ्कुष्ठम् अष्टा उपरसाः स्मृताः ॥ ७.५६ ॥

श्वेतद्वीपे पुरा देवि सर्वरत्नविभूषिते ।
सर्वकाममये रम्ये तीरे क्षीरपयोनिधेः ॥ ७.५७ ॥

विद्याधरीभिर्मुख्याभिर् अङ्गनाभिश्च योषिते ।
सिद्धाङ्गनाभिस्त्विष्टाभिस् तथैवाप्सरसां गणैः ॥ ७.५८ ॥

देवाङ्गनाभिरन्याभिः क्रीडिताभिः पुरा प्रिये ।
गीतनृत्यैर्विचित्रैश्च वाद्यैर्नानाविधैस्तथा ॥ ७.५९ ॥

एवं संक्रीडमानायास् तवाभूत् प्रसृतं रजः ।
तद्रजोऽतीव सुश्रोणि सुगन्धि सुमनोहरम् ॥ ७.६० ॥

रजसश्चातिबाहुल्यात् वासस्ते रक्ततां ययौ ।
तत्र त्यक्त्वा तु तद्वासः सुस्नाता क्षीरसागरे ॥ ७.६१ ॥

वृता देवाङ्गनाभिस्त्वं सुरैश्चापि पुरं गता ।
ऊर्मिभिस्ते रजोवस्त्रं नीतं मध्ये पयोनिधेः ॥ ७.६२ ॥

एवं ते शोणितं भद्रे प्रविष्टं क्षीरसागरे ।
क्षीराब्धिमथने चैतद् अमृतेन सहोत्थितम् ।
निजगन्धेन तान् सर्वान् हर्षयद्देवदानवान् ॥ ७.६३ ॥

ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ॥ ७.६४ ॥

रसस्य बन्धनार्थाय जारणाय भवत्वयम् ।
ये गुणाः पारदे प्रोक्तास् ते चैवात्र भवन्त्विति ॥ ७.६५ ॥

इति देवगणैः प्रीतैः पुरा प्रोक्तं सुरेश्वरि ।
तेनायं गन्धको नाम विख्यातः क्षितिमण्डले ॥ ७.६६ ॥

स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः ।
मध्यमः पीतवर्णः स्याच् छुक्लवर्णोऽधमः प्रिये ॥ ७.६७ ॥

करञ्जैरण्डतैलेन द्रावयित्वाजदुग्धके ।
सिञ्चेदुन्मत्तनिर्यासे त्रीन्वारांस्तं पृथक् पृथक् ॥ ७.६८ ॥

ज्वालिनीबीजचूर्णेन मत्स्यपित्तैश्च भावयेत् ।
भृङ्गाम्भसा वा सप्ताहं भावितः क्षालितोऽम्भसा ॥ ७.६९ ॥

तापितो बदराङ्गारैः घृताक्ते लोहभाजने ।
आवर्तितश्च मृद्वग्नौ घृताक्तकर्पटोपरि ॥ ७.७० ॥

क्षिप्रं भृङ्गस्य निर्यासे क्षालितो गन्धको हितः ॥ ७.७१ ॥

गन्धको हि स्वभावेन रसरूपः स्वरूपतः ।
गन्धकं शोधयेत् क्षीरे शृङ्गवेररसे तथा ॥ ७.७२ ॥

रसे च भृङ्गराजस्य निम्बुकस्य रसे तथा ।
शोधितः सप्तवाराणि गन्धको जायतेऽमलः ॥ ७.७३ ॥

तालकः पटलः पिण्डो द्विधा तत्राद्य उत्तमः ।
कुष्माण्डे तु शतं वारान् तालकं स्वेदयेद्बुधः ॥ ७.७४ ॥

स्नुक्क्षीरकटुकालाबु- रसयोः सप्तधा पृथक् ।
तिलसर्षपशिग्रूणि लाक्षा च लवणं गुडः ।
टङ्कणं च युतैर्ह्येतैः तालकं भूधरे द्रवेत् ॥ ७.७५ ॥

व्याधिघातफलक्षारं मधुकुष्माण्डकं तथा ।
द्रवैः पुनर्नवोद्भूतैः सप्ताहं मर्दयेद्बुधः ॥ ७.७६ ॥

दत्त्वा पादांशकं सर्वं ततः पातनयन्त्रके ।
दद्यात् पुटं गजाकारं पतेत् सत्त्वं सुतालकात् ॥ ७.७७ ॥

रक्ता शिला तु गोमांसे लुङ्गाम्लेन विपाचिता ।
तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत् ॥ ७.७८ ॥

सिता कृष्णा च सौराष्ट्री चूर्णखण्डात्मिका च सा ॥ ७.७९ ॥

गोपित्तेन शतं वारान् सौराष्ट्रीं भावयेत्ततः ।
धमित्वा पातयेत् सत्त्वं क्रामणं चातिगुह्यकम् ॥ ७.८० ॥

कासीसं त्रिविधं शुक्लं कृष्णं पीतमिति प्रिये ॥ ७.८१ ॥

कासीसं चूर्णयित्वा तु कासमर्दरसेन च ।
राजकोशातकीतोयैः पित्तैश्च परिभावयेत् ॥ ७.८२ ॥

गैरिकं त्रिविधं रक्त- हेमकेवलभेदतः ।
रक्तवर्गरसक्वाथ- पित्तैस्तद्भावयेत् पृथक् ॥ ७.८३ ॥

अनेन क्रमयोगेन गैरिकं विमलं धमेत् ।
क्रमात् सितं च रक्तं च सत्त्वं पतति शोभनम् ॥ ७.८४ ॥

राजावर्तो द्विधा देवि गुलिकाचूर्णभेदतः ॥ ७.८५ ॥

तच्चूर्णं देवदेवेशि महिषीक्षीरसंयुतम् ।
विपचेदायसे पात्रे गोघृतेन विमिश्रितम् ॥ ७.८६ ॥

तच्चूर्णितं सुरेशानि कुनटीघृतमिश्रितम् ।
सौभाग्यपञ्चगव्येन पिण्डीबद्धं तु कारयेत् ।
धमितं खादिराङ्गारैः सत्त्वं मुञ्चति शोभनम् ॥ ७.८७ ॥

कङ्कुष्ठं विद्रुमच्छायं तच्च सत्त्वमयं प्रिये ॥ ७.८८ ॥

सूर्यावर्तोदककणा- वह्निशिग्रुशिफारसैः ।
कदलीकन्दसारेण वन्ध्याकोशातकीरसैः ॥ ७.८९ ॥

काकमाचीदेवदाली- वज्रकन्दरसैस्तथा ।
एभिर् व्यस्तैः समस्तैर्वा क्षाराम्लस्नेहसैन्धवैः ।
महारसाश्चोपरसाः शुद्धिमायान्ति भाविताः ॥ ७.९० ॥

लाक्षालवणसौभाग्य- धूमसारकटुत्रयम् ।
शिग्रुमूलमधूच्छिष्टं पथ्यागुग्गुलुधातवः ॥ ७.९१ ॥

सर्जिकासर्जनिर्यास- पिण्याकोर्णासमन्वितम् ।
पारावतमलक्षुद्र- मत्स्यद्रावकपञ्चकम् ॥ ७.९२ ॥

तिलसर्षपगोधूम- माषनिष्पावचिक्कसम् ।
छागक्षीरेण संयुक्तं वज्रपिण्डी तु कीर्तिता ॥ ७.९३ ॥

अनया वज्रपिण्ड्या तु पञ्चमाहिषयुक्तया ।
महारसा मोदितास्तु पञ्चगव्येन भाविताः ॥ ७.९४ ॥

कोष्ठे खराग्निना ध्माताः सत्त्वं मुञ्चन्ति सुव्रते ।
एवं शिलाभ्यो जीवेभ्यो मृद्भ्यः सत्त्वं प्रजायते ॥ ७.९५ ॥

एवं चोपरसाः प्रोक्ताः शृणु लोहान्यतः परम् ॥ ७.९६ ॥

सुवर्णं रजतं ताम्रं तीक्ष्णं वङ्गं भुजंगमम् ।
लोहं तु षड्विधं तच्च यथा पूर्वं तदक्षयम् ॥ ७.९७ ॥

तत्रादितः सुरेशानि सारं लोहद्वयं स्मृतम् ।
साधारणे तीक्ष्णशुल्वे वङ्गनागौ तु पूतिकौ ॥ ७.९८ ॥

रसजं क्षेत्रजं चैव लोहसंकरजं तथा ।
त्रिविधं जायते हेम चतुर्थं नोपलभ्यते ॥ ७.९९ ॥

रक्ताभं पीतवर्णं च द्विविधं देवि काञ्चनम् ।
दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ॥ ७.१०० ॥

सगौरवं मृदु स्निग्धं तारशुल्वविवर्जितम् ।
हेम षोडशवर्णाढ्यं शस्यते देहलोहयोः ॥ ७.१०१ ॥

मृत्तिका मातुलुङ्गाम्लैः पञ्चवासरभाविता ।
सभस्मलवणा हेम शोधयेत् पुटपाकतः ॥ ७.१०२ ॥

शुक्लं च तारकृष्णं च द्विविधं रजतं प्रिये ।
गुरु स्निग्धं मृदु श्वेतं तारमुत्तममिष्यते ॥ ७.१०३ ॥

नागेन क्षारराजेन द्रावितं शुद्धिमिच्छति ।
तारं त्रिवारं निक्षिप्तं पिशाचीतैलमध्यतः ॥ ७.१०४ ॥

ताम्रं च द्विविधं प्रोक्तं रक्तं कृष्णं सुरेश्वरि ।
घनघातसहं स्निग्धं रक्तपत्त्रं मृदूत्तमम् ॥ ७.१०५ ॥

स्नुह्यर्कक्षीरलवण- क्षाराम्लपरिलेपितम् ।
ताम्रपत्त्रं च निर्गुण्डी- रसमध्ये तु ढालयेत् ॥ ७.१०६ ॥

रोहणं वाजरं चैव तृतीयं च पडालकम् ।
इति तीक्ष्णं त्रिधा तच्च कान्तलोहमिति स्मृतम् ॥ ७.१०७ ॥

नीलं कृष्णमिति स्निग्धं सूक्ष्मधारमयः शुभम् ।
गुडूची हंसपादी च नक्तमालः फलत्रयम् ॥ ७.१०८ ॥

गोपालकी गोरसानां तुम्बुरुर्लोहनिघ्नकः ।
एषां रसे ढालयेत्तत् गिरिदोषनिवृत्तये ॥ ७.१०९ ॥

त्रपु च द्विविधं ज्ञेयं श्वेतकृष्णविभेदतः ।
श्वेतं लघु मृदु स्निग्धम् उत्तमं वङ्गमुच्यते ॥ ७.११० ॥

नागस्त्वेकविधो देवि शीघ्रद्रावी मृदुर्गुरुः ॥ ७.१११ ॥

महिषस्यास्थिचूर्णेन वापात्तन्मूत्रसेचनात् ।
वङ्गं शुद्धं भवेत्तद्वत् नागो नागास्थिमूत्रतः ॥ ७.११२ ॥

गौरीफलानि क्षुरको रजनीतुम्बुरूणि च ।
कुबेराक्षस्य बीजानि मल्लिकायाश्च सुन्दरि ॥ ७.११३ ॥

पलाशशुष्कापामार्ग- क्षारस्नुक्क्षीरयोगतः ।
सप्तधा परिवापेन शोधयन्ति भुजंगमम् ॥ ७.११४ ॥

स्नुहीक्षीरसमायोगात् वङ्गं चावापयेत्ततः ॥ ७.११५ ॥

स्नुह्यर्कक्षीरहलिनी- कञ्चुकीकन्दचित्रकैः ।
गुञ्जाकरञ्जधुत्तूर- हयगन्धाङ्घ्रितालकैः ॥ ७.११६ ॥

नक्तमालेङ्गुदीशक्र- वारुणीमूलसंयुतैः ।
पिष्टैर्माहिषतक्रे तु सप्तरात्रोषितैस्ततः ।
निषेकः सर्वलोहानां मलं हन्ति न संशयः ॥ ७.११७ ॥

देवदालीफलरजः- स्वरसैर्भावितं मुहुः ।
द्रावयेत् कनकं वापात् भूयो न कठिनं भवेत् ॥ ७.११८ ॥

अखिलानि च सत्त्वानि द्रावयेत् तत्प्रभावतः ॥ ७.११९ ॥

समांशं सुरगोपस्य सुरदाल्याश्च यद्रजः ।
आवापात् कुरुते देवि कनकं जलसंनिभम् ॥ ७.१२० ॥

मण्डूकास्थिवसाटङ्क- हयलालेन्द्रगोपकैः ।
प्रतिवापेन कनकं सुचिरं तिष्ठति द्रुतम् ॥ ७.१२१ ॥

त्रिःसप्तकृत्वो गोमूत्रे ज्वालिनीभस्म गालितम् ।
शोषयेत्तस्य वापेन तीक्ष्णं मूषागतं द्रवेत् ॥ ७.१२२ ॥

त्रिःसप्तकृत्वो निचुल- भस्मना भावितेन तु ।
केतक्यास्तु रसैस्तीक्ष्णम् आवापाद्द्रवतां व्रजेत् ॥ ७.१२३ ॥

पक्वधात्रीफलरसैः शङ्खे सप्ताहभावितम् ।
पुनः कञ्चुकितोयेन भावितं सप्तवासरम् ॥ ७.१२४ ॥

शरावयुगलान्तःस्थं सुदृढं परिधामितम् ।
तत्तीक्ष्णचूर्णं देवेशि रसरूपं प्रजायते ॥ ७.१२५ ॥

तालकं गन्धपाषाण- शिलामाक्षिकगैरिकम् ।
कासीसं खण्डसौराष्ट्री- तुत्थमभ्रकमेव च ॥ ७.१२६ ॥

श्वशृगालतरक्षूणां कुक्कुटस्य मलं तथा ।
मयूरगृध्रमार्जार- विष्ठा च समभागकम् ॥ ७.१२७ ॥

भावयेत्त्रिः स्नुहीक्षीरैर् देवदालीरसेन च ।
तत्कल्कम् अष्टमांशेन लोहपत्त्राणि लेपयेत् ॥ ७.१२८ ॥

धमेद् द्रुतं भवेल्लोहम् एतैरेव निषेचयेत् ।
अङ्कोलस्य तु मूलानि काञ्जिकेन प्रपेषयेत् ।
लोहलेपं ततो दद्यात् अग्निस्थं धारयेत् प्रिये ॥ ७.१२९ ॥

पुनर्लेपं ततो दद्यात् परिच्छिन्नारसेन तु ।
मत्स्यपित्तेन देवेशि वह्निस्थं धारयेत् प्रिये ॥ ७.१३० ॥

पुनर्लेपं प्रकुर्वीत लाङ्गलीकन्दसम्भवम् ।
त्रिभिर्लेपैर्द्रुतं लोहं निर्मलं स्वच्छवारिवत् ॥ ७.१३१ ॥

चूर्णितं देवि कूर्मास्थि मेषशृङ्गं शिलाजतु ।
कुरुते प्रतिवापेन बलवज्जलवत् स्थिरम् ॥ ७.१३२ ॥

अर्कापामार्गमुसली- निचुलं चित्रकं तथा ।
कदली पोतकी दाली क्षारमेषां तु साधयेत् ॥ ७.१३३ ॥

गालयेन्माहिषे मूत्रे षड्वारान्सुरवन्दिते ।
आवापाद्द्रावयेदेत- दभ्रसत्त्वादिजं रजः ॥ ७.१३४ ॥

दन्तीदन्तो विशेषेण द्रावयेत् सलिलं यथा ॥ ७.१३५ ॥

रसेनोत्तरवारुण्याः प्लुतं वैक्रान्तजं रजः ।
प्रतिवापेन लोहानि द्रावयेत् सलिलोपमम् ॥ ७.१३६ ॥

रत्नानां द्रावणं वक्ष्ये गगनस्य द्रुतिं तथा ॥ ७.१३७ ॥

त्रिफला च त्रिकटुकं त्रिक्षारं पटुपञ्चकम् ।
बला चातिबला चैव तृतीया च महाबला ॥ ७.१३८ ॥

अश्वगन्धा चवी नारी भूलता मातृवाहकः ।
गोपेन्द्रमण्डली चैव षड्बिन्दुर्द्विमुखी तथा ॥ ७.१३९ ॥

धीरा सूरणकन्दश्च कञ्चुकी च पुनर्नवा ।
स्नुह्यर्कोन्मत्तहलिनी पाठा चोत्तरवारुणी ॥ ७.१४० ॥

अयस्कान्तो गोक्षुरश्च मृदुदूर्वाम्लवेतसम् ।
शिलाजतु च सौवीरं विषगन्धकटङ्कणम् ॥ ७.१४१ ॥

पृथग्दशपलं सर्वं सूक्ष्मचूर्णं तु कारयेत् ।
कुम्भद्वयं कुलत्थानां काष्ठेन तिनिशस्य च ॥ ७.१४२ ॥

क्वाथयेन्मृदुतापेन यावत् कुम्भावशेषितम् ।
तेन क्वाथेन तच्चूर्णं भावयेदेकविंशतिम् ॥ ७.१४३ ॥

रत्नानि तेन लिप्तानि तत्क्वाथस्थं धमेत् पुनः ।
अहोरात्रेण तान्याशु द्रवन्ति सलिलं यथा ॥ ७.१४४ ॥

अभ्रकादीनि लोहानि द्रवन्ति ह्य् अविचारतः ।
निर्मलानि च जायन्ते हरबीजोपमानि च ॥ ७.१४५ ॥

मिलन्ति च रसेनाशु वह्निस्थान्यक्षयाणि च ।
तैर् द्रुतैः स्पर्शमात्रेण क्षणाद् बध्येत सूतकः ॥ ७.१४६ ॥

लोहानां मारणं वक्ष्ये समाहितमनाः शृणु ।
स्नुहीक्षीरेण सिन्दूरं कनकं रजतं पुनः ॥ ७.१४७ ॥

तेनैव माक्षिकं ताम्रम् अजाक्षीरेण गन्धकम् ।
स्तन्येन हिङ्गुलं तीक्ष्णं वङ्गतालपलाशकम् ॥ ७.१४८ ॥

नागं शिलार्कक्षीरेण स्वच्छपत्त्रीकृतं प्रिये ।
मारयेत् पुटपाकेन निरुत्थं भस्म जायते ॥ ७.१४९ ॥

न सोऽस्ति लोहमातंगो यं न गन्धककेसरी ।
निहन्याद्गन्धमात्रेण यद्वा माक्षिककेसरी ॥ ७.१५० ॥

रसीभवन्ति लोहानि मृतानि सुरवन्दिते ।
हरन्ति रोगान् सकलान् रसयुक्तानि किं पुनः ।
शीलनान्नाशयन्त्येव वलीपलितरुग्जराः ॥ ७.१५१ ॥

वज्रमाक्षिकतीक्ष्णाभ्रं शस्यते देहकर्मणि ।
नागं वङ्गं सुवीरं च द्रव्यकर्मणि योजयेत् ॥ ७.१५२ ॥

परिबालं तु यल्लोहं तथा च मलयोद्भवम् ।
एतल्लोहद्वयं देवि विशेषाद्देहरक्षणम् ॥ ७.१५३ ॥

रागं महारसादीनां ज्ञात्वा बीजानि साधयेत् ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमर्हसि ॥ ७.१५४ ॥


अष्टमः पटलः (बीजसाधन)[सम्पाद्यताम्]

श्रीदेव्युवाच
महारसानां लोहानां रत्नानां च सुरेश्वर ।
रागसंख्यां तथा बीज- साधनं च वद प्रभो ॥ ८.१ ॥

श्रीभैरव उवाच
महारसेषु द्विगुणस् ताम्ररागः सुरेश्वरि ।
गिरिदोषे क्षयं नीते सूतकं रञ्जयन्ति ते ॥ ८.२ ॥

सस्यकश्चपलश् चैव राजावर्तश्च माक्षिकः ।
विमलो गैरिकं चैषाम् एकैकं द्विगुणं भवेत् ॥ ८.३ ॥

भ्रामकादिषु कान्तेष्वप्य् एकद्वित्रिगुणो हि सः ।
एकैकमभ्रके चैव श्वेतपीतारुणः सिते ॥ ८.४ ॥

अष्टादशसहस्राणि स्थिता रागाश्च गन्धके ।
अयुतं दरदे देवि शिलायां द्विसहस्रकम् ॥ ८.५ ॥

रसके सप्तसाहस्रं कङ्कुष्ठे तु चतुष्टयम् ।
रसगर्भे प्रकाशन्ते जारणं तु भवेद्यदि ॥ ८.६ ॥

द्वादशाग्रं शतं पञ्च नागे रागा व्यवस्थिताः ।
शतहीनं सहस्रं तु वङ्गे रागा व्यवस्थिताः ॥ ८.७ ॥

रागाणां शतपञ्चाशत् शुल्वमध्ये व्यवस्थिताः ।
रक्तपीताश्च शुक्लाश्च हेम्नि रागाश्च षोडश ॥ ८.८ ॥

रागाः षष्टिसहस्राणि शक्रनीले व्यवस्थिताः ।
महानीले च देवेशि ते रागा द्विगुणाः स्थिताः ॥ ८.९ ॥

माणिक्ये तु सुरेशानि रागा लक्षत्रयोदश ।
गजवारिसमुत्पन्नं रत्नं मुक्ताफलं विदुः ॥ ८.१० ॥

गजे त्रीणि सहस्राणि षट्सहस्राणि वारिजे ।
नवलक्षं च रागाणां पद्मरागे व्यवस्थिताः ॥ ८.११ ॥

भेदयेत् सर्वलोहानि यच्च केन न भिद्यते ।
तद्वज्रं तस्य देवेशि रागं लक्षद्वयं विदुः ॥ ८.१२ ॥

षोडशैव सहस्राणि पुष्परागे व्यवस्थिताः ।
पादोनलक्षरागास्तु प्रोक्ता मरकते प्रिये ॥ ८.१३ ॥

रागसंख्यां न जानाति संक्रान्तस्य रसस्य तु ।
अधिकं मारयेल्लोहं हीनं चैव प्रकाशयेत् ॥ ८.१४ ॥

मानवेन्द्रः प्रकुर्वीत यो हि जानाति पार्वति ।
शतकोटिप्रमाणेन रागसंख्यां प्रकल्पयेत् ।
स्पर्शनं चैवमालोक्य शतकोटिस्तु विध्यते ॥ ८.१५ ॥

अतः परं प्रवक्ष्यामि बीजानां साधनं प्रिये ।
हेमतारवशाद्बीजं द्विविधं तावदीश्वरि ॥ ८.१६ ॥

पीतारुणैर्हेमबीजं तारबीजं सितैर्भवेत् ।
कल्पितं रञ्जितं पक्वम् इति भूयस्त्रिधा भवेत् ॥ ८.१७ ॥

कल्पितं द्विविधं तच्च शुद्धमिश्रविभेदतः ॥ ८.१८ ॥

रसोपरसलोहानां बीजानां कल्पनं पृथक् ।
शुद्धं मिश्रं तु संयोगात् यथालाभं सुरेश्वरि ॥ ८.१९ ॥

सत्त्वमावर्तितं व्योम्नि शोधितं काचटङ्कणैः ।
चिञ्चाफलाम्लनिर्गुण्डी- पत्त्रकल्कनिषेचनैः ।
पक्वं निविडितं देवि रसपिष्टिक्षमं भवेत् ॥ ८.२० ॥

स्नेहक्षाराम्लवर्गैश्च शिलायाश्च पुटत्रयात् ।
मृताहे धूपनायन्त्रे धूपगन्धानुलेपनात् ।
वङ्गस्यापि विधानेन तालकस्य हतस्य वा ॥ ८.२१ ॥

ताप्यहिङ्गुलयोर्वापि हते च रसकस्य वा ।
रसगर्भे द्रवेत् कृष्णं पत्त्रं कनकतारयोः ॥ ८.२२ ॥

संकराख्यं तु दुर्मेल्यं प्रिये मृदुखराह्वयम् ।
ततः संमृदितं देवि द्वंद्वमेलापनं द्रुतम् ।
भवेत् समरसं गर्भे रसराजस्य च द्रवेत् ॥ ८.२३ ॥

अतः परं प्रवक्ष्यामि द्वंद्वमेलापनं शृणु ॥ ८.२४ ॥

वर्षाभूकदलीकन्द- काकमाचीपुनर्नवाः ।
चूर्णं नरकपालं च गुञ्जाटङ्कणसंयुतम् ।
क्षीरतैलेन सुध्मातं हेमाभ्रं मिलति प्रिये ॥ ८.२५ ॥

अनेनैव विधानेन ताराभ्रमपि मेलयेत् ॥ ८.२६ ॥

वङ्गमावर्त्य देवेशि पुनः सूतकयोजितम् ।
कदलीकन्दतोयेन मर्दयेट्टङ्कणान्वितम् ।
अन्धमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥ ८.२७ ॥

चूर्णं नरकपालस्य स्त्रीस्तन्यं वनशिग्रुकम् ।
गुञ्जाटङ्कणसंयुक्तं वङ्गाभ्रं मिलति क्षणात् ॥ ८.२८ ॥

अभ्रकं चूर्णयित्वा तु काकमाचीरसप्लुतम् ।
कपित्थतोयसंस्पृष्टं रसटङ्कणसंयुतम् ।
वङ्गपत्त्रान्तरन्यस्तं ध्मातं वङ्गाभ्रकं मिलेत् ॥ ८.२९ ॥

आवर्त्य कटुतैलेन भस्मापामार्गजं क्षिपेत् ।
वङ्गाभ्रं हरितालं च नागाभ्रे तु मनःशिलाः ॥ ८.३० ॥

हेमाभ्रं नागताप्येन ताराभ्रं वङ्गतालकात् ।
गन्धकेन तु शुल्वाभ्रं तीक्ष्णाभ्रं सिन्धुहिङ्गुलात् ।
वङ्गाभ्रं हरितालेन नागाभ्रं शिलया मिलेत् ॥ ८.३१ ॥

लाङ्गली चामरीकेशं कार्पासास्थिकुलत्थकम् ।
भूलता चाश्मदलनी स्त्रीस्तन्यं सुरगोपकः ॥ ८.३२ ॥

एतत्प्रलिप्तमूषायां सुध्मातास्तीव्रवह्निना ।
कान्ताभ्रशैलविमला मिलन्ति सकलान् क्षणात् ॥ ८.३३ ॥

लताछुछुन्दरीमांसं विषटङ्कणयोजितम् ।
मूषालेपेन कुरुते सर्वद्वंद्वेषु मेलनम् ॥ ८.३४ ॥

अभ्रकं सुरसा शृङ्गं मण्डूकस्य वसा विषम् ।
गुञ्जाटङ्कणयोगेन सर्वसत्त्वेषु मेलनम् ॥ ८.३५ ॥

टङ्कणोर्णागिरिजतु- कर्णाख्यामलकर्कटैः ।
मिलन्ति सर्वद्वंद्वानि स्त्रीस्तन्यपरिपेषितैः ॥ ८.३६ ॥

धातकीगुग्गुलुगुड- सर्जयावकटङ्कणैः ।
स्त्रीस्तन्यपेषितैः सर्वं द्वंद्वजं तु रसायने ॥ ८.३७ ॥

खसत्त्वं सूक्ष्मचूर्णं तु पूर्वकल्केन संयुतम् ।
अन्धमूषागतं ध्मातं संकरं मिलति क्षणात् ॥ ८.३८ ॥

वापितं ताप्यरसक- सस्यकैर्दरदेन च ।
खसत्त्वं स्यान्निबद्धं च दृढं ध्मातं मिलेत्ततः ॥ ८.३९ ॥

रसोपरसलोहानि सर्वाण्येकत्र धामयेत् ।
अन्योन्यं द्वंद्वतां यान्ति द्रवन्ति सलिलं यथा ॥ ८.४० ॥

बीजानि कल्पितान्येवं रञ्जितानि परं शृणु ॥ ८.४१ ॥

घनं माक्षिकचूर्णेन शुल्वचूर्णेन रञ्जितम् ।
द्वंद्वितं ताप्यसत्त्वेन रसराजस्य रञ्जनम् ॥ ८.४२ ॥

आरक्तवल्लीगोमूत्रः बहुधा परिभावितैः ।
कुनटीगन्धपाषाणैर् हेममाक्षिकहिङ्गुलैः ॥ ८.४३ ॥

वापितं सेवितं रक्त- गणैः स्नेहैर्मृतं ततः ।
रञ्जनं रसराजस्य तीक्ष्णताम्रौ विशेषतः ॥ ८.४४ ॥

केवलं विमलं ताम्रं वापितं दरदेन च ।
कुरुते त्रिगुणं जीर्णं लाक्षाभं निर्मलं रसम् ॥ ८.४५ ॥

रसकं द्विगुणं दत्त्वा ताम्रं सुध्मातमीश्वरि ।
कृष्णाभ्रकस्य चूर्णं च रक्तवर्गैर् मुहुः पुटैः ॥ ८.४६ ॥

ताप्येन वा मृतं हेम त्रिगुणेन निवापितम् ।
भाण्डिकायां तु रसकं ताप्यसैन्धवसंयुतम् ॥ ८.४७ ॥

इन्द्रगोपनिभं यावत् सर्वं द्विगुणजारणात् ।
द्रुतं हेमनिभं सूतं कुरुते नात्र संशयः ॥ ८.४८ ॥

अभ्रकं हेम ताम्रं च शिलया माक्षिकेण च ।
गैरिकेण च मुख्येन रसकेन च रञ्जयेत् ॥ ८.४९ ॥

बीजानि रञ्जितान्येवं पक्वबीजान्यतः शृणु ॥ ८.५० ॥

महारसानुपरसान् तीक्ष्णलोहानि च क्षिपेत् ।
समांशं सममाक्षीकं गन्धकावापयोगतः ॥ ८.५१ ॥

शतशो वापयेदेतत् अक्षीणं सावशेषितम् ।
समांशं रसराजस्य गर्भे द्रवति निश्चितम् ॥ ८.५२ ॥

तदेतद्विष्टिकास्तम्भे जारणायां सुरेश्वरि ।
रञ्जने रसराजस्य सारणायां च शस्यते ॥ ८.५३ ॥

तदेव शतशो रक्त- गणैः स्नेहैर्निषेचितम् ।
अधिकं शस्यते तेषु सहस्रांशेन वेधकृत् ॥ ८.५४ ॥

निर्व्यूढं नागवङ्गाभ्यां क्रियायां हेमतारयोः ।
खसत्त्वं रविणा योज्यं द्वंद्वितं स्याद्रसायने ॥ ८.५५ ॥

सस्नेहक्षारपञ्चाम्लैः रसैस्तैस्तालकादिभिः ।
समद्वित्रिगुणान् ताम्रे वाहयेद्वङ्गपन्नगान् ॥ ८.५६ ॥

रक्तस्नेहनिषिक्तं तद् रसाकृष्टिरिति स्मृतम् ॥ ८.५७ ॥

माक्षिकं गन्धपाषाणं हरितालं मनःशिलाम् ।
वैक्रान्तकं कान्तमुख्यं सस्यकं विमलाञ्जनम् ।
रसकं वापितं शश्वच्- चूर्णितं हेम्नि वाहयेत् ॥ ८.५८ ॥

लोहपर्पटिकाताप्य- कङ्कुष्ठविमलाभ्रकैः ।
मृतशुल्वशिलासत्त्व- स्नुह्यर्कक्षीरहिङ्गुलैः ।
नागो निर्जीवतां याति पुटयोगैः पुनः पुनः ॥ ८.५९ ॥

रसतालकशङ्खाभ्र- चिञ्चाक्षारैस्तथा त्रपुः ।
मृतं नागं मृतं वङ्गं शुल्वं तीक्ष्णं च वा मृतम् ।
एकैकमुत्तमे हेम्नि वाहयेत् सुरवन्दिते ॥ ८.६० ॥

निरुत्थे पन्नगे हेम्नि निर्व्यूढे शतशो गणे ।
गोरोचनानिभं धाम भास्करे तारसंनिभम् ॥ ८.६१ ॥

तीक्ष्णाभ्रकं रविसमं माक्षिकं द्विगुणं तथा ।
आवर्तितं चूर्णितं च मारितं सप्तभिः पुटैः ॥ ८.६२ ॥

व्यूढे शतगुणे हेम्नि तद्बीजं जारयेत् समम् ।
चन्द्रार्कपत्त्रलेपेन शतभागेन वेधयेत् ॥ ८.६३ ॥

ऊर्ध्वाधो माक्षिकं दत्त्वा शुल्वं हेमसमं भवेत् ।
एवं दशगुणं व्यूढं बीजं कारणसंनिभम् ॥ ८.६४ ॥

रसकाभ्रं कान्तताम्रे भागवृद्ध्या धमेत्ततः ।
माक्षिकेण हतं तच्च बीजे निर्वाहयेत् प्रिये ॥ ८.६५ ॥

द्वात्रिंशद्गुणितं हेम्नि नागं ताप्यं हतं वहेत् ।
त्रिंशद्गुणशिलावापं नागबीजमुदाहृतम् ॥ ८.६६ ॥

ताप्यतालकवापेन सत्त्वं पीताभ्रकस्य तु ।
बीजे निर्वाहयेद् एतत् योषामृष्टस्य वेधकम् ॥ ८.६७ ॥

नागः करोति मृदुतां निर्व्यूढस्तां च रक्तताम् ।
वापितं पीततां तीक्ष्णं कान्तस्थां कालिकां विषम् ॥ ८.६८ ॥

हेमबीजमिति प्रोक्तं तारबीजमतः शृणु ॥ ८.६९ ॥

तीक्ष्णाभ्रताप्यविमल- रसकं समभागिकम् ।
वङ्गभागास्तु चत्वारः सर्वं ध्मातं विचूर्णितम् ॥ ८.७० ॥

पुटेन निहतं कार्यं व्यूढं तारं तु वेधयेत् ।
द्वात्रिंशत्सद्गुणं तारे वङ्गे ताप्यं हतं वहेत् ।
त्रिंशद्गुणात् तालवापात् वङ्गबीजमुदाहृतम् ॥ ८.७१ ॥

कुटिलं विमलं तीक्ष्णं खसत्त्वं चापि वाहयेत् ।
वङ्गाभ्रं ताप्यसत्त्वं वा तालमाक्षिकवापतः ।
शुक्लपुष्पगणैः सेकं स्नेहयुक्तैस्तु कारयेत् ॥ ८.७२ ॥

उक्तानि तारबीजानि बीजानां रञ्जनं शृणु ॥ ८.७३ ॥

तीक्ष्णमाक्षिकशुल्वं च नागं चपलमारितम् ।
सिन्दूरसंनिभं यावत् तेन बीजानि रञ्जयेत् ॥ ८.७४ ॥

निधाय खर्परे नागं ब्रह्मबीजदलैः सह ।
दग्धमग्निमधो दत्त्वा वह्निवर्णं यदा भवेत् ॥ ८.७५ ॥

वासकेन विभीतेन शाककिंशुकशिग्रुभिः ।
कोरण्डकस्य पुष्पेण बकुलस्यार्जुनस्य च ॥ ८.७६ ॥

अहिमारेण नागिन्या कुमार्या नागकन्यया ।
शिलया च त्रिगुणया क्वथितेनाजवारिणा ॥ ८.७७ ॥

भावितं खर्परस्थं च प्लावयित्वा पुनः पुनः ।
सप्तभिर्दिवसैरेव मारितं सुरवन्दिते ॥ ८.७८ ॥

पुटयेद्गन्धकेनादाव् आम्लैश्च तदनन्तरम् ।
इदं दलानां बीजानां रसराजस्य रञ्जने ।
उद्घाटे क्रामणे योज्यं पिष्टीस्तम्भे विशेषतः ॥ ८.७९ ॥

मञ्जिष्ठाकिंशुकरसे खदिरं रक्तचन्दनम् ।
करवीरं देवदारुं सरलं रजनीद्वयम् ॥ ८.८० ॥

अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु ।
तैलं विपाचयेद्देवि तेन बीजानि रञ्जयेत् ॥ ८.८१ ॥

द्विगुणे रक्तपुष्पाणां रक्तपीतगणस्य च ।
क्वाथे चतुर्गुणे क्षीरे तैलमेकं सुरेश्वरि ॥ ८.८२ ॥

ज्योतिष्मतीकरञ्जाख्य- कटुतुम्बीसमुद्भवम् ।
पाटलीपिप्पलीकाम- काकतुण्डीरसान्वितम् ॥ ८.८३ ॥

भेकशूकरमेषाहि- मत्स्यकूर्मजलौकसाम् ।
वसया चैकया युक्तं षोडशांशैः सुपेषितैः ॥ ८.८४ ॥

भूलतामलमाक्षीक- द्वंद्वमेलापनौषधैः ।
पाचितं गालितं चैतत् सारणा तैलमुच्यते ॥ ८.८५ ॥

रसतुल्यं यथा बीजं गतं गर्भद्रुतिं प्रिये ।
व्यापकत्वेन सर्वे च समभागास्तथेष्यते ॥ ८.८६ ॥

पक्वं श्रेष्ठं समं गर्भे यद्द्रवेद्रञ्जयेच्च तम् ॥ ८.८७ ॥

एवमुक्तानि बीजानि जारयेद्विडयोगतः ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ ८.८८ ॥


नवमः पटलः (विडकथन)[सम्पाद्यताम्]

श्रीदेव्युवाच
बीजानां कलनं प्रोक्तं विशेषेण च साधनम् ।
जार्यन्ते तानि यैः सूते तान् विडान् वक्तुमर्हसि ॥ ९.१ ॥

श्रीभैरव उवाच
कासीसं सैन्धवं काङ्क्षी सौवीरं व्योषगन्धकम् ।
सौवर्चलं सर्जिका च मालतीनीरसम्भवम् ।
शिग्रुमूलरसैः सिक्तो विडोऽयं सर्वजारणः ॥ ९.२ ॥

निर्दग्धं शङ्खचूर्णं तु रविक्षीरशतप्लुतम् ।
पुटितं बहुशो देवि प्रशस्तो जारणाविडः ॥ ९.३ ॥

शतशो वा प्लुतं चूर्णं गन्धकस्य गवां जलैः ॥ ९.४ ॥

निर्दग्धं शङ्खचूर्णं तु शिग्रुमूलाम्बुभावितम् ।
शतशो विषसिन्धूत्थ- संयुतं वडवामुखम् ॥ ९.५ ॥

टङ्कणं शतशो देवि भावयेत् किंशुकद्रवैः ।
विडो वह्निमुखाख्योऽयं लोहानां जारणे प्रिये ॥ ९.६ ॥

चूलिका गन्धपाषाणः कान्तस्य च मुखं प्रिये ।
एकैकमेव पर्याप्तं लौहचूर्णस्य जारणे ॥ ९.७ ॥

गन्धतालकसिन्धूत्थं चूलीटङ्कणभूखगम् ।
क्षारैर्मूत्रैश्च विपचेद् अयं ज्वालामुखो विडः ॥ ९.८ ॥

एकविंशतिपर्यायं देवदालीदलद्रवैः ।
भावितो निचुलक्षारः सर्वसत्त्वानि जारयेत् ॥ ९.९ ॥

वास्तुकैरण्डकदली- देवदालीपुनर्नवम् ।
वासा पलाशनिचुलं तिलकाञ्चनमाक्षिकम् ॥ ९.१० ॥

सर्वाङ्गं खण्डशश्छिन्नं नातिशुष्कं शिलातले ।
दग्धकाण्डैस् तिलानां तु पञ्चाङ्गं मूलकस्य च ॥ ९.११ ॥

प्लावयेन्मूत्रवर्गेण जलं तस्मात् परिस्रुतम् ।
लोहपात्रे पचेद्यन्त्रे हंसपाकेऽग्निमानवित् ॥ ९.१२ ॥

बाष्पाणां बुद्बुदानां च बहूनामुद्गमो यदा ।
तदा कासीससौराष्ट्री- क्षारत्रयकटुत्रयम् ॥ ९.१३ ॥

गन्धकं च सितं हिङ्गु- लवणानि च षट् तथा ।
एषां चूर्णं क्षिपेदेष लोहसम्पुटमध्यगः ।
सप्ताहं भूगतः पश्चाद् धान्यस्थः प्रवरो विडः ॥ ९.१४ ॥

जम्बीराम्लेन पचनं शिग्रुमूलद्रवेण च ।
चूलिकागन्धकासिक्तौ द्वौ विडौ शतशः क्रमात् ॥ ९.१५ ॥

कोषातकीदलरसैः क्षारैर्वा निचुलोद्भवैः ।
देवदालीशिवाबीजं गुञ्जासैन्धवटङ्कणम् ।
भावयेदम्लवर्गेण विडोऽयं हेमजारणः ॥ ९.१६ ॥

मूलकार्द्रकचित्राणां क्षारैर् गोमूत्रगालितैः ।
गन्धकः शतशो भाव्यो विडोऽयं हेमजारणे ॥ ९.१७ ॥

हरितालशिलाक्षारो लवणं शङ्खशुक्तिका ।
हंसपाकविपक्वोऽयं विडः स्याद्धेमजारणे ॥ ९.१८ ॥

एवं संगृह्य सम्भारान् रसकर्म समाचरेत् ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ ९.१९ ॥

दशमः पटलः (रसशोधन)[सम्पाद्यताम्]

श्रीदेव्युवाच
रसस्य लक्षणं किंवा रसकर्म च कीदृशम् ।
तन्न जानामि देवेश वक्तुमर्हसि तत्त्वतः ॥ १०.१ ॥

श्रीभैरव उवाच
प्रागेवोक्ता रसोत्पत्तिस् तल्लक्षणम् अतः शृणु ॥ १०.२ ॥

तस्य नामसहस्राणि अयुतान्यर्बुदानि च ।
शक्यते न मया वक्तुं संक्षेपात् कथ्यते शृणु ॥ १०.३ ॥

रसो रसेन्द्रः सूतश्च पारदश्चाथ मिश्रकः ॥ १०.४ ॥

रसं सिद्धरसं विद्यात् सिद्धक्षेत्रसमाश्रयम् ।
नाशयेत् सकलान् रोगान् वलीपलितमेव सः ॥ १०.५ ॥

देहलोहकरं शुद्धं रसेन्द्रमधुना शृणु ।
शरीरे हेम्नि कर्ता च जारणे सारणासु च ॥ १०.६ ॥

ईषत्पीतश्च रूक्षाङ्गो दोषयुक्तश्च सूतकः ॥ १०.७ ॥

यो बाह्याभ्यन्तरे श्वेतो बहुलं कञ्चुकावृतः ।
तं विद्यात् पारदं देवि तारकर्मणि योजयेत् ॥ १०.८॒१ ॥

यथा काञ्जिकसंस्पर्शात् क्षीरभाण्डं विनश्यति ।
तथा हेम शरीरं च पारदेन विनश्यति ॥ १०.८॒२ ॥

मयूरपत्त्रिकाभासं मिश्रकं च विदुर्बुधाः ।
धूम्रवर्णं रसं दृष्ट्वा विशेषेणोपलभ्यते ।
मिश्रकं तु विजानीयाद् उद्वाहकर्मकारकम् ॥ १०.९ ॥

एवं पञ्चविधा देवि रसभेदा निरूपिताः ॥ १०.१० ॥

स्वेदनं मर्दनं चैव चारणं जारणं तथा ।
द्रावणं रञ्जनं चैव सारणं क्रामणं क्रमात् ।
इति यो वेत्ति तत्त्वेन तस्य सिध्यति सूतकः ॥ १०.११ ॥

तीव्रत्वं जायते स्वेदात् अमलत्वं च मर्दनात् ।
चारणेन बलं कुर्यात् जारणाद्बन्धनं भवेत् ॥ १०.१२ ॥

एकत्वं द्रावणात् तस्य रक्तत्वं रक्तकाञ्जनात् ।
व्यापित्वं सारणात् तस्य क्रामित्वं क्रामणात्तथा ॥ १०.१३ ॥

मलगो मलरूपेण त्वरितो हंसगो भवेत् ।
मलगो मलरूपेण सधूमो धूमगो भवेत् ॥ १०.१४ ॥

अन्या जीवगतिर्देवि जीवोऽण्डादिव निष्क्रमेत् ।
स तावज्जीवयेज्जीवं तेन जीवो रसः स्मृतः ॥ १०.१५ ॥

चतुष्टयी गतिस्तस्य निपुणेन तु लभ्यते ।
चतस्रो गतयो दृश्या अदृश्या पञ्चमी गतिः ॥ १०.१६ ॥

मन्त्रध्यानादिना तस्य क्षीयते पञ्चमी गतिः ॥ १०.१७ ॥

धूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च ।
अकम्पश्च विकम्पश्च पञ्चावस्था रसस्य तु ॥ १०.१८ ॥

मथ्यमानस्य कल्केन सम्भवेद्धि गतित्रयम् ।
जले गतिर्मलगतिः पुनर् हंसगतिस्ततः ॥ १०.१९ ॥

हेम दत्त्वा ततः शुद्धं तत्तु स्तम्भेन् नियामके ।
नियामकगणौषध्या रसं दत्त्वा विपाचयेत् ॥ १०.२० ॥

नियमितो न प्रयाति तथा धूमगतिं शिवे ॥ १०.२१ ॥

कणिकाचालरहितो बुद्बुदैश्चापवर्जितः ।
नियमितो भवत्येष चुल्लिकाग्निसहस्तथा ॥ १०.२२ ॥

अनियम्य यदा सूतं जारयेत् काञ्जिकाशये ।
जायते निश्चितं भद्रे तदा तस्य गतित्रयम् ॥ १०.२३ ॥

दोलास्वेदेन चावश्यं स्वेदितो हि दिनत्रयम् ।
वसुभण्टादिभिर्देवि रसराजो न हीयते ॥ १०.२४ ॥

अक्षीणं तु रसं दृष्ट्वा दद्याद्व्योमादिकं ततः ।
स्वेदनं च ततः कर्म दीयमानस्य मर्दनम् ॥ १०.२५ ॥

रसालिङ्गित आहारः पिष्टिकेत्यभिधीयते ।
तद्द्रुतं रसगर्भे तु जारणं परिकीर्तितम् ॥ १०.२६ ॥

जारणा तत्समाख्याता तदेवं चोपलभ्यते ।
जीर्णान्ते रञ्जनं कार्यं रक्तवर्गगणेन च ॥ १०.२७ ॥

जीर्णं जीर्णं तु संरक्तं समहेम्ना तु सारयेत् ।
सारणायन्त्रयोगेन बध्यते सारितो रसः ॥ १०.२८ ॥

सारितः सारितश्चैव यथा भवति सूतकः ।
क्रामणेन समायुक्तं तं च वेधे नियोजयेत् ॥ १०.२९ ॥

आरोटः पारदो ब्रह्मा मूर्छितस्तु जनार्दनः ।
बद्धस्तु रुद्ररूपः स्यात् कर्मयोगबलाद्रसः ॥ १०.३० ॥

शृणु देवि प्रवक्ष्यामि कर्मयोगस्य विस्तरम् ॥ १०.३१ ॥

पारदस्य त्रयो दोषा विषं वह्निर्मलस् तथा ।
विषेण सविषं विद्यात् वह्नौ कुष्ठी भवेन्नरः ।
मलेनोदररोगी स्यात् म्रियते च रसायने ॥ १०.३२ ॥

षट्त्रुट्यश्चैकलिक्षा स्यात् षड्लिक्षा यूक एव च ।
षड्यूकास्तु रजःसंज्ञाः कथितास्तव सुव्रते ॥ १०.३३ ॥

षड्रजः सर्षपः साक्षात् सिद्धार्थः स च कीर्तितः ।
षट्सिद्धार्थाश्च देवेशि यवस्त्वेकः प्रकीर्तितः ॥ १०.३४ ॥

षड्यवैरेकगुञ्जा स्यात् षड्गुञ्जाश्चैकमाषकः ।
माषा द्वादश तोलः स्यात् अष्टौ तोलाः पलं भवेत् ॥ १०.३५ ॥

द्वात्रिंशत्पलकं देवि शुभं तु परिकीर्तितम् ।
शुभस्य तु सहस्रे द्वे भार एकः प्रकीर्तितः ॥ १०.३६ ॥

द्वे सहस्रे पलानां तु सहस्रं शतमेव वा ।
अष्टाविंशत् पलानां तु दश पञ्चकमेव वा ॥ १०.३७ ॥

पलार्धेनैव संस्कारः कर्तव्यः सूतकस्य तु ॥ १०.३८ ॥

महाबला नागबला मेघनादा पुनर्नवा ।
मेषशृङ्गी च तत्सारैः नवसारसमन्वितम् ।
पारदं देवदेवेशि स्वेदयेद्दिवसत्रयम् ॥ १०.३९ ॥

गिरिकर्णी च मीनाक्षी सहदेवी पुनर्नवा ।
उरगा त्रिफला कान्ता लघुपर्णी शतावरी ॥ १०.४० ॥

तुषवर्जे तु धान्याम्ले सर्वं संक्षुभ्य निक्षिपेत् ।
एकादशगुणेऽम्लेऽस्मिन् षोडशांशैर्विमर्दितम् ॥ १०.४१ ॥

आसुरीलवणव्योष- चित्रकार्द्रकमूलकैः ।
दोलायां स्वेदयेद्देवि त्रिदिनं मृदुनाग्निना ॥ १०.४२ ॥

अङ्कोलस्तु विषं हन्ति वह्निमारग्वधः प्रिये ।
चित्रकस्तु मलं हन्यात् कुमारी सप्तकञ्चुकम् ॥ १०.४३ ॥

तस्माद् एभिः समोपेतैर् मर्दयेत् पातयेद्बुधः ॥ १०.४४ ॥

विद्याधरेण यन्त्रेण भावयेद्दोषवर्जितम् ।
ततस्त्रिगुणवस्त्रस्थं तं रसं देवि गालितम् ॥ १०.४५ ॥

त्रिफलावह्निमूलत्वात् गृहकन्यारसान्वितम् ।
निरुद्गारे तु पाषाणे मर्दयेत् पातयेत् पुनः ॥ १०.४६ ॥

धूमसारगुडव्योष- रजनीसितसर्षपैः ।
इष्टिकाकाञ्जिकोर्णाभिः त्रिदिनं मर्दयेत्ततः ॥ १०.४७ ॥

निर्मलो जायते सूतः मत्प्रभावं प्रकाशयेत् ॥ १०.४८ ॥

वासकेन विभीतेन मर्दयेत् पातयेत् पुनः ।
नागवङ्गादिका दोषा यान्ति नाशम् उपाधिजाः ॥ १०.४९ ॥

सप्तवारं काकमाच्या गतदोषं विमर्दयेत् ।
पातयेत् सप्तवारं च गिरिदोषं त्यजेद्रसः ॥ १०.५० ॥

क्षेत्रदोषं त्यजेद्देवि गोकर्णरसमूर्छितः ॥ १०.५१ ॥

कार्पासपत्त्रनिर्यासे स्विन्नस् त्रिकटुकान्विते ।
सप्तकञ्चुकनिर्मुक्तः सप्ताहाज्जायते रसः ॥ १०.५२ ॥

काकमाची जया ब्राह्मी गाङ्गेरी रक्तचित्रकः ।
मण्डूकी मुद्गपर्णी च शृङ्गवेरं रसाङ्कुशः ॥ १०.५३ ॥

देवदाली शङ्खपुष्पी काकजङ्घा शतावरी ।
कुमारी भृङ्गराजश्च निर्गुण्डी ग्रीष्मसुन्दरः ॥ १०.५४ ॥

शूलिनी शूर्पपर्णी च गोजिह्वा क्षीरकञ्चुकः ।
तद्रसैर्मर्दितः पात्यः सप्तधा निर्मलो भवेत् ॥ १०.५५ ॥

ताम्रेण पिष्टिकां कृत्वा पातयेदूर्ध्वपातने ।
वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ॥ १०.५६ ॥

मर्दितस् त्रिफलाशिग्रु- राजिकापटुचित्रकैः ।
ऊर्ध्वभाण्डगतः पाच्यः प्रदीप्तैर् उपलैरधः ॥ १०.५७ ॥

सृष्ट्यम्बुजनिरोधेन लब्धप्रायो भवेद्रसः ।
कर्कोटीकञ्चुकीबिम्बी- सर्पाक्ष्यम्बुजसंयुतम् ॥ १०.५८ ॥

रसं नियामके दद्यात् तेजस्वी निर्मलो भवेत् ।
एवं विशोधितः सूतो भद्राष्टांशविशोषितः ॥ १०.५९ ॥

क्षुद्राम्ललवणक्षार- भूखगोषणशिग्रुभिः ।
राजिकाटङ्कणयुतैर् आरनाले दिनत्रयम् ।
स्वेदनाद्दीपितो देवि ग्रासार्थी जायते रसः ॥ १०.६० ॥

व्योमसत्त्वादिबीजानि रसजारणशोधने ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ १०.६१ ॥


एकादशमः पटलः (बालजारण)[सम्पाद्यताम्]

श्रीदेव्युवाच
लक्षणं शोधनं चैव पारदस्य श्रुतं मया ।
चारणं जारणं चैव श्रोतुमिच्छामि भैरव ॥ ११.१ ॥

श्रीभैरव उवाच
सर्वपापक्षये जाते प्राप्यते रसजारणा ।
तत्प्राप्तौ प्राप्तमेव स्याद् विज्ञानं मुक्तिकारणम् ॥ ११.२ ॥

मोक्षाभिव्यञ्जकं देवि जारणं साधकस्य तु ।
यावन्न जार्यते सूतः तावत्तु न च निर्वृतिः ॥ ११.३ ॥

खल्लस्तु पीठिका देवि रसेन्द्रो लिङ्गमुच्यते ।
मर्दनं वन्दनं तस्य ग्रासः पूजा विधीयते ॥ ११.४ ॥

यावद्दिनानि वह्निस्थो जार्यते धार्यते रसः ।
तावद्युगसहस्राणि शिवलोके महीयते ॥ ११.५ ॥

दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् ।
द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ॥ ११.६ ॥

जारणा द्विविधा बाल- जारणा बद्धजारणा ।
तत्रादौ परमेशानि वक्ष्यते बालजारणा ॥ ११.७ ॥

गगनं जारयेदादौ सर्वसत्त्वमतः परम् ।
ततो माक्षिकशुद्धं च सुवर्णं तदनन्तरम् ॥ ११.८ ॥

गर्भस्थं द्रावयित्वा तु ततो बाह्यद्रुतिं द्रवेत् ।
सितं सितेन द्रव्येण रक्तं रक्तेन रञ्जयेत् ॥ ११.९ ॥

सारणं क्रामणं ज्ञात्वा ततो वेधं प्रयोजयेत् ॥ ११.१० ॥

ओं नमोऽमृतलोहाय परामृतरसोद्भवाय हुं स्वाहा ॥ ११.११ ॥

सर्वसत्त्वोपकाराय भगवन् त्वदनुज्ञया ।
जारणं कर्तुमिच्छामि ग्रासं गृह्ण मम प्रभो ॥ ११.१२ ॥

कुरुष्वेति शिवेनोक्तं ग्राह्यमेव सुबुद्धिना ॥ ११.१३ ॥

शृणु देवि प्रवक्ष्यामि व्योमजारणम् उत्तमम् ।
पत्त्राभ्रजारणं सत्त्व- जारणं चेति तद्द्विधा ॥ ११.१४ ॥

निर्मुखं समुखं चैव वासनामुखमेव च ।
एकैकं त्रिविधं तच्च तद् वक्ष्याम्य् आनुपूर्वशः ॥ ११.१५ ॥

वैक्रान्तवज्रसंस्पर्शाद् दिव्यौषधिबलेन वा ।
निर्मुखो भक्षयेद्देवि क्षणेन गगनं रसः ॥ ११.१६ ॥

हेमकर्मणि हेमैव तारे तारो मुखं भवेत् ॥ ११.१७ ॥

तप्तखल्लकृता पिष्टिः श्लक्ष्णम् अल्पाल्पमभ्रकम् ।
अम्लवेतसजम्बीर- बीजपूराम्लभूखगैः ।
मर्दितं चरते देवि सेयं समुखजारणा ॥ ११.१८ ॥

क्षारत्रयं पञ्चपटु काक्षीकासीसगन्धकम् ।
माक्षिकं चाम्लसंयुक्तं ताम्रपात्रे तु जारयेत् ॥ ११.१९ ॥

एतच्चाभिषवाद् दिव्यं कारयित्वा विचक्षणः ।
जारणार्थं च बीजानां वज्राणां च विशेषतः ॥ ११.२० ॥

तस्मिन्नावर्तितं नागं वङ्गं वा सुरवन्दिते ।
निषेचयेच्छतं वारं न रसायनकर्मणि ॥ ११.२१ ॥

अनेन सकलं देवि चारणावस्तु भावयेत् ।
क्षाराम्ले भावितं व्योम रजसा प्रथमेन च ॥ ११.२२ ॥

सृष्टित्रयोदककणा- तुम्बुरुद्रवमर्दितम् ।
चरेज्जरेद्वा पुटितं यवचिञ्चारसेन च ॥ ११.२३ ॥

शतावरी गदा रम्भा मेघनादा पुनर्नवा ।
शिग्रुको यवचिञ्चा च भावितं तद्रसैः क्रमात् ॥ ११.२४ ॥

मूलं हिलमुचायास्तु कौवेरीमूलमेव च ।
कदलीमुसलीशिग्रु- ताम्बूलीवाणपीलुकम् ॥ ११.२५ ॥

अलम्बुषा बला कोलम् आस्फोटः खरमञ्जरी ।
तुम्बुरुस्तिक्तशाकं वाप्य् एषाम् एकरसेन तु ।
राजिकाव्योषयुक्तेन त्रिदिनं स्विन्नमभ्रकम् ॥ ११.२६ ॥

कासीसतुवरीसिन्धु- टङ्कणक्षारसंयुतः ।
पूर्वाभिषवयोगेन सूतकश्चरति क्षणात् ॥ ११.२७ ॥

गोलको भवति क्षिप्रं सर्वसिद्धिप्रदायकः ॥ ११.२८ ॥

गृहीत्वा देवि धान्याम्लम् अम्लवर्गेण संयुतम् ।
क्वाथयित्वाभ्रकं तत्तु स्नुहीक्षीरेण मर्दयेत् ॥ ११.२९ ॥

आरण्यगोमयेनैव कपोताख्यं पुटं ततः ॥ ११.३० ॥

कदलीकन्दनिर्यासैर् मूलकन्दरसेन च ।
काकमाची च मीनाक्षी अपामार्गो मुनिस्तथा ॥ ११.३१ ॥

एरण्डमार्द्रकं चैव मेघनादा पुनर्नवा ।
एकैकस्य द्रवैरेव पुटैकैकं प्रदापयेत् ॥ ११.३२ ॥

वज्रीक्षीरेण संयुक्तं दोलायन्त्रेण पाचयेत् ।
छायाशुष्कं ततः कृत्वा चणकाम्लेन संयुतम् ॥ ११.३३ ॥

नवसारं च कासीसं वचां निम्बं तथैव च ।
अभ्रस्य षोडशांशेन एकैकं तत्र निक्षिपेत् ॥ ११.३४ ॥

निधाय ताम्रपात्रे तु घर्षयेत्तच्च सुव्रते ।
नववारं ततो देवि लोहपात्रे तु जारयेत् ॥ ११.३५ ॥

रसेन सह देवेशि चणकाम्लेन काञ्जिकम् ।
मृद्वग्निना तु निष्क्वाथ्यं प्रहरार्धेन जायेत ॥ ११.३६ ॥

सोमवल्लीरसैः पिष्ट्वा व्योम सौवर्चलान्वितम् ।
शनैः शनैर्हंसपाद्या दापयेच्च पुटत्रयम् ॥ ११.३७ ॥

सोमवल्लीरसेनैव सप्तवारं च दापयेत् ।
पातयेन्मृन्मये भाण्डे रसेन सह संयुतम् ॥ ११.३८ ॥

मूलं सितेषुपुङ्खाया गव्यक्षीरेण घर्षयेत् ।
कल्केन लेपयेत् सूतं गगनं च तदूर्ध्वगम् ॥ ११.३९ ॥

तापयेद्रवितापेन निर्मुखं ग्रसते क्षणम् ।
जायते पिष्टिका शीघ्रं नात्र कार्या विचारणा ॥ ११.४० ॥

तिलपर्णीरसेनैव गगनं भावयेत् प्रिये ।
मर्दनाज्जायते पिष्टी नात्र कार्या विचारणा ॥ ११.४१ ॥

मुण्डीनिर्यासके नागं बहुशस्तु निषेचयेत् ।
तेनाभ्रकं तु संप्लाव्य भूयोभूयः पुटे दहेत् ॥ ११.४२ ॥

चित्रकार्द्रकमूलानाम् एकैकेन तु सप्तधा ।
प्लावितव्यं प्रयत्नेन गन्धकाभ्रकचूर्णकम् ॥ ११.४३ ॥

नागशुण्डीरसस्तन्य- रजोलुङ्गाम्लभावितम् ।
षोडशांशेन तद्वत्तं दोलायां तु चरेद्रसः ॥ ११.४४ ॥

चतुःषष्टिगुणं देवि द्वात्रिंशद्गुणमेव वा ।
अथवा षोडशगुणं तथाष्टगुणमेव वा ।
चतुर्गुणं वा द्विगुणं समं वा चारयेत् प्रिये ॥ ११.४५ ॥

परमभ्रकसत्त्वस्य जारणं शृणु पार्वति ॥ ११.४६ ॥

व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम् ।
स खल्वेवं चरेद्देवि गर्भद्रावी भवेद्रसः ॥ ११.४७ ॥

नागाभ्रं देवि वङ्गाभ्रं तीक्ष्णाभ्रं भास्कराभ्रकम् ।
ताराभ्रं देवि हेमाभ्रं रसगर्भेण जारयेत् ॥ ११.४८ ॥

पूर्वाभिषेकयोगेन गर्भे द्रवति मर्दनात् ॥ ११.४९ ॥

चतुःषष्ट्यंशकः पूर्वः द्वात्रिंशांशो द्वितीयकः ।
तृतीयः षोडशांशस्तु चतुर्थोऽष्टांश एव च ॥ ११.५० ॥

पञ्चमस्तु चतुर्थांशः षष्ठो द्व्यंशः प्रकीर्तितः ।
ग्रासो रसस्य दातव्यः ससत्त्वस्याभ्रकस्य च ॥ ११.५१ ॥

चतुःषष्ट्यंशके ग्रासे दण्डधारी भवेद्रसः ।
जलौकावद्द्वितीये च ग्रासयोगे सुरेश्वरि ॥ ११.५२ ॥

ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत् ।
ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥ ११.५३ ॥

पञ्चमे चरिते ग्रासे नवनीतसमो भवेत् ।
षष्ठे तु गोलकाकारः क्रमाज्जीर्णस्य लक्षणम् ॥ ११.५४ ॥

काञ्जिकेन निषिक्तेन रक्तव्योम शतप्लुतम् ।
खल्लान्तश्चारयेत्तच्च शुल्ववासनया सह ॥ ११.५५ ॥

हेम तारं च संघृष्य खल्ले तत्र रसं न्यसेत् ।
काञ्जीसहितकासीसं सिन्धुना चरते रसः ॥ ११.५६ ॥

हेम सीसं तु संघृष्य रसं तत्र प्रदापयेत् ।
नागहेमयुतं व्योम समजीर्णं द्रुतं भवेत् ।
अभ्रकोपरसान् क्षिप्रं मुखेनैव चरत्ययम् ॥ ११.५७ ॥

तारं वङ्गं च संघृष्य रसं तत्र प्रदापयेत् ।
नागहेमयुतं व्योम समजीर्णं द्रुतं भवेत् ।
मुखेन चरते व्योम तारकर्मणि शस्यते ॥ ११.५८ ॥

समुखं निर्मुखं वापि यत्नतश्चारयेन्नभः ॥ ११.५९ ॥

चारणां त्रिविधामेवं कृत्वा गर्भद्रुतिं रसे ।
जारयेत् स्वेदयेत् पिण्डं परिणामक्रमैस् त्रिभिः ॥ ११.६० ॥

पट्वम्लक्षारगोमूत्र- स्नुहीक्षीरैः प्रलेपितम् ।
बहिश्च बद्धं वस्त्रेण भूयो ग्रासं निवेदितम् ।
क्षारारनालतैलेषु स्वेदयेन्मृदुनाग्निना ॥ ११.६१ ॥

क्रमेणानेन देवेशि जार्यते दिवसैस् त्रिभिः ।
यन्त्राद् उद्धृतमात्रं तु लोहपात्रे स्थितं रसम् ॥ ११.६२ ॥

कोष्णेन काञ्जिकेनादौ क्षालितं वस्त्रगालितम् ।
पात्रे सुखोष्णहस्तेन यावत् शेषं विमर्दयेत् ॥ ११.६३ ॥

चतुर्गुणेन वस्त्रेण पीडितो निर्मलश्च सः ॥ ११.६४ ॥

गालनक्रियया ग्रासे सति निष्पेषनिर्गते ।
स भवेद्दण्डधारी च जीर्णग्रासस्तथा रसः ॥ ११.६५ ॥

अजीर्णे पाचयेत् पिष्टीं स्वेदयेन्मर्दयेत्तथा ।
वेतसाम्लप्रयोगेण जीर्णे ग्रासं तु दापयेत् ॥ ११.६६ ॥

इष्टिकागुडदग्धोर्णा- राजीसैन्धवधूमजैः ।
षोडशांशैः स धान्याम्लैः मर्द्यः स्वेद्यश्च पारदः ॥ ११.६७ ॥

निर्मलीकरणार्थं तु ग्रासे ग्रासे पुनः पुनः ।
जीर्णाभ्रो जीर्णबीजोऽपि रागान् गृह्णाति निर्मलः ॥ ११.६८ ॥

क्रमेणानेन दोलायां चार्यं ग्रासचतुष्टयम् ।
ततः कच्छपयन्त्रेण ज्वालनं बन्धनं क्रमात् ॥ ११.६९ ॥

ऊर्ध्वाधश् चाष्टमांशेन विडं दत्त्वापि जारयेत् ।
समजीर्णाभ्रकः सूतः शतवेधी भवेत् प्रिये ॥ ११.७० ॥

सहस्रवेधी द्विगुणे त्रिगुणेऽयुतवेधकः ।
चतुर्गुणे लक्षवेधी स भवेद्भूचरो रसः ॥ ११.७१ ॥

जीर्णे पञ्चगुणे देवि ब्रह्मायुर्जायते रसः ।
आयुस्तु षड्गुणे विष्णोः कोटिवेधी भवेद्रसः ॥ ११.७२ ॥

रसस्य सर्वदोषास्तु षड्गुणेनाभ्रकेन तु ।
जीर्णेन नाशमायान्ति नात्र कार्या विचारणा ॥ ११.७३ ॥

रसराजे यदा जीर्णं षड्गुणं गगनं प्रिये ।
तदा ग्रसति लोहानि त्यजेच्च गतिमात्मनः ॥ ११.७४ ॥

धूमश् चिटिचिटिश्चैव मण्डूकप्लुतिरेव च ।
सकम्पश्च विकम्पश्च पञ्चावस्था रसस्य तु ॥ ११.७५ ॥

कपिलोऽथ निरुद्गारि- विप्लुषश् चैव मुञ्चति ।
अग्नौ तिष्ठति निष्कम्पो व्योमजीर्णस्य लक्षणम् ॥ ११.७६ ॥

समजीर्णो भवेद्बालो यौवनस्थश्चतुर्गुणम् ।
वृद्धस्तु षड्गुणं जीर्णः कुर्यात् कर्म पृथक् पृथक् ॥ ११.७७ ॥

बालस्तु पत्त्रलेपेन कल्कयोगेन यौवनः ।
वृद्धो विध्यति लोहानि जारितः सारितोऽथवा ॥ ११.७८ ॥

कुमारस्तु रसो देवि न समर्थो रसायने ।
यौवनस्थो रसो देवि क्षमो देहस्य रक्षणे ॥ ११.७९ ॥

जरावस्थो रसो यश्च देहे लोहेन संक्रमेत् ।
अभावेऽभ्रकसत्त्वस्य कान्तसत्त्वं प्रदापयेत् ॥ ११.८० ॥

कान्तस्य चाप्यभावे तु तीक्ष्णलोहं तु दापयेत् ।
अनेन क्रमयोगेन सर्वसत्त्वानि जारयेत् ॥ ११.८१ ॥

एकोऽपि हेमसंयुक्तश् चामीकरकरः क्षणात् ।
गन्धकात् परतो नास्ति रसेषूपरसेषु वा ॥ ११.८२ ॥

पूर्वोक्तयन्त्रयोगेन द्विर् अष्टगुणगन्धकम् ।
अथवा द्वादशगुणं षड्गुणं वापि जारयेत् ॥ ११.८३ ॥

माक्षिकं सत्त्वमादाय पादांशेन तु जारयेत् ।
ततोऽपि सर्वसत्त्वानि द्रावयेत् सूतगर्भतः ॥ ११.८४ ॥

हेमपावकयोः सख्यं तथा काञ्चनसूतयोः ।
वह्निसूतकयोर् वैरं तयोर्मित्रेण मित्रता ॥ ११.८५ ॥

अग्निको यवचिञ्चा च वसुहट्टश्च रागिणी ।
दोलास्वेदेन तत् पक्वं हेमजारणमुत्तमम् ॥ ११.८६ ॥

पलाशभस्मापामार्गो यवक्षारश्च काञ्जिकम् ।
सौवर्चलं च कासीसं सामुद्रं सैन्धवं तथा ॥ ११.८७ ॥

आसुरी टङ्कणश्चैव नवसारस्तथैव च ।
कर्पूरश्चैव माक्षीकं समभागानि कारयेत् ॥ ११.८८ ॥

स्नुह्यर्कदुग्धैर्देवेशि मूषालेपं तु कारयेत् ।
विडचूर्णं ततो दत्त्वा कनकं जारयेत् प्रिये ॥ ११.८९ ॥

शृणु देवि प्रवक्ष्यामि भूचराख्यं तु जारणम् ॥ ११.९० ॥

कृष्णं पीतं रक्तमभ्रं शुल्वे तीक्ष्णे च मेलयेत् ॥ ११.९१ ॥

शुल्वे तीक्ष्णं यदा चूर्णं द्वाविंशतिगुणं प्रिये ।
गन्धनागं ततोऽर्धं तु क्रमेणैव तु मेलयेत् ॥ ११.९२ ॥

हेम्ना तु सह दातव्यं सूतकैकेन षोडश ।
गन्धनागं यदा जीर्णं तदा बद्धो भवेद्रसः ।
हेम्नि जीर्णे ततोऽर्धेन मृतलोहेन रञ्जयेत् ॥ ११.९३ ॥

गन्धकेन हतं शुल्वं माक्षिकं दरदायसम् ।
पुटेन मारयेच्छुद्धं हेम दद्यात् तु षड्गुणम् ॥ ११.९४ ॥

सूतके हेमबीजं च यदा जीर्णं चतुर्गुणम् ।
बद्धरागं विजानीयात् हेमाभो जायते रसः ॥ ११.९५ ॥

सारणायन्त्रमध्यस्थं तेनैव सह सारयेत् ।
त्रिभागसारितं कृत्वा पुनस्तत्रैव जारयेत् ॥ ११.९६ ॥

जारितः सारितश्चैव पुनर्जारितसारितः ।
सप्तशृङ्खलिकायोगात् कोटिवेधी भवेद्रसः ॥ ११.९७ ॥

भूचरी जारणा प्रोक्ता खेचरीं जारणां शृणु ॥ ११.९८ ॥

हीरमुख्यानि रत्नानि रसोच्छिष्टानि कारयेत् ।
कटुतुम्बस्य बीजानि तस्यार्धेन तु दापयेत् ॥ ११.९९ ॥

महाजारणमित्युक्तं कल्कं कुर्याद्विचक्षणः ।
वज्रमूषामुखे चैव तन्मध्ये स्थापयेद्रसम् ॥ ११.१०० ॥

कतकं कनकं चैवम् एकीकृत्य च मर्दयेत् ।
पद्मरागं प्रयत्नेन रसे ग्रासं तु दापयेत् ॥ ११.१०१ ॥

एकादशगुणं यावत् पद्मरागं तु सूतके ।
रागजीर्णस्तु देवेशि लिङ्गाकारो भवेद्रसः ॥ ११.१०२ ॥

रक्षितव्यं प्रयत्नेन लोकपालाष्टकेन च ।
षड्भागं सूतकेन्द्रस्य तेषु सर्वेषु दापयेत् ॥ ११.१०३ ॥

भक्षितव्यं प्रयत्नेन नत्वा च गुरुदेवयोः ।
सर्वसिद्धान्नमस्कृत्य देवताश्च विशेषतः ॥ ११.१०४ ॥

मूर्छाङ्गदाहश्च ततो जायते नात्र संशयः ।
आत्मानमुत्थितं पश्येत् दिव्यतेजोमहाबलम् ॥ ११.१०५ ॥

शङ्खकाहलनिर्घोषैः सिद्धविद्याधरैः सह ।
इच्छया विचरेल्लोकान् कामरूपी विमानगः ॥ ११.१०६ ॥

देवाश्च यत्र लीयन्ते सिद्धस्तत्रैव लीयते ॥ ११.१०७ ॥

पुनरन्यं प्रवक्ष्यामि जारणायोगमुत्तमम् ॥ ११.१०८ ॥

सुघृष्टं पाचितं सूतं सर्वदोषोज्झितं ततः ।
शाकपल्लवसारेण विष्णुक्रान्तारसेन च ॥ ११.१०९ ॥

पलाशपुष्पतोयेन भावितं गन्धकं समम् ।
समं कृष्णाभ्रसत्त्वं च रसकं चाष्टकं गुणम् ॥ ११.११० ॥

तीक्ष्णशुल्वोरगं चैव कूर्मयन्त्रेण जारयेत् ।
काञ्चनं जारयेत् पश्चात् विडयोगेन पार्वति ॥ ११.१११ ॥

ततः सिद्धं विजानीयात् द्वैधं शुल्वस्य दापयेत् ।
कर्मसंख्याप्रमाणेन नागो भवति काञ्चनम् ॥ ११.११२ ॥

अतः परं प्रवक्ष्यामि जारणाक्रममुत्तमम् ॥ ११.११३ ॥

बीजचूर्णानि तैलेन भावयित्वा पुनः पुनः ।
षोडशांशेन तद्ग्रासम् अङ्गुल्या मर्दयेच्छनैः ॥ ११.११४ ॥

आर्द्रकादि ततो योगाद् दातव्यं षोडशांशतः ।
भूर्जे दत्त्वा ततो देयं दोलायन्त्रे विनिक्षिपेत् ॥ ११.११५ ॥

अहोरात्रेण तद्बीजं सूतको ग्रसति प्रिये ।
तमुद्धृत्य रसं देवि खल्ले संमर्दयेत्ततः ॥ ११.११६ ॥

ततो यन्त्रे विनिक्षिप्य दिवारात्रं दृढाग्निना ।
तप्तं समुद्धृतं यन्त्रात् तप्तखल्ले विमर्दयेत् ॥ ११.११७ ॥

मर्दयित्वाभ्रके पिण्डं क्षिप्त्वा तत्र पुटं ददेत् ।
ततो गर्भे पतत्याशु जारयेत् तत् सुखेन तु ॥ ११.११८ ॥

दोलायन्त्रे ततो दत्त्वा आर्द्रपिण्डेन संयुतम् ।
तृतीये दिवसे सूतो जरते ग्रसते ततः ॥ ११.११९ ॥

समजीर्णं ततो यावत् दोलायन्त्रे विचक्षणः ।
पश्चात् कच्छपयन्त्रेण समजीर्णं तु पार्वति ।
तं ग्रासद्वादशांशेन कच्छपेन तु जारयेत् ॥ ११.१२० ॥

प्राग्वदार्द्रकयोगं च गर्भद्रावणमेव च ।
पश्चात्तं देवि निक्षिप्य पुटं दद्याद्विचक्षणः ॥ ११.१२१ ॥

अष्टांशेन ततो ग्रासं गर्भद्रावं च पूर्ववत् ।
कन्दोदरे सूरणस्य तं विनिक्षिप्य सूतकम् ।
पुटेत्तु जारितस्तावत् यावत् कन्दो न दह्यते ॥ ११.१२२ ॥

पादांशेन तु मूषाया ग्रासः सूते विधीयते ।
पूर्ववच्च विडं दद्यात् गर्भद्रावणमेव च ॥ ११.१२३ ॥

एवं चतुर्गुणे जीर्णे सूतको बलवान् भवेत् ।
ततः शलाकया ग्रासान् अग्निस्थो ग्रसते रसः ॥ ११.१२४ ॥

ततो रत्नानि जार्याणि वक्ष्यमाणक्रमेण तु ॥ ११.१२५ ॥

अभ्रकं भ्रामकं चैव शङ्खनाभिं तथैव च ।
रसानुपरसान् दत्त्वा महाजारणसंयुतान् ॥ ११.१२६ ॥

वज्रकन्दं वज्रलता मेषशृङ्ग्यमृतायसम् ।
कटुतुम्बस्य बीजानि मृतलोहानि पाचयेत् ॥ ११.१२७ ॥

सर्वाणि समभागानि शिखिशोणितमात्रितम् ।
तावत्तं मर्दयेत् प्राज्ञो यावत् कर्म दृढं भवेत् ॥ ११.१२८ ॥

मूषा वल्लाकृतिश्चैव कर्तव्या छादनैः सह ।
तन्मध्ये स्थापयेत् सूतम् अधोवातेन धामयेत् ॥ ११.१२९ ॥

आदौ तत्रैव दातव्यं वज्रमौषधलेपितम् ।
गृह्यते कोऽत्र संदेहो यथा तीव्रे हुताशने ॥ ११.१३० ॥

कुलिशेन पुटे दग्धे कर्ष्वग्नौ तेन मर्दयेत् ।
यावदेकादशगुणं कुलिशं जारयेत् पुनः ॥ ११.१३१ ॥

सुदग्धशङ्खनाभिश्च मातुलुङ्गरसप्लुतः ।
मुक्ताफलं ततो देयं वज्रजीर्णे तु सूतके ॥ ११.१३२ ॥

अनेन क्रमयोगेन ह्य् एकादशगुणं भवेत् ।
केवलं शिखिपित्तं च नीली निर्यासमिश्रितम् ॥ ११.१३३ ॥

नीलोत्पलानि लिप्तानि प्रक्षिप्तानि तु सूतके ।
रसे कल्पेन्महारागान् हीनरागान् परित्यजेत् ॥ ११.१३४ ॥

रक्तानि शिखिपित्तं च महारत्नसमन्वितम् ।
सद्रत्नं लेपयेत्तेन प्रद्रवेत् रसमध्यतः ॥ ११.१३५ ॥

रजनीं चैव कुष्ठं च ब्रह्मनिर्यासभावितम् ।
जारणं पुष्परागस्य तेनैव सह दापयेत् ॥ ११.१३६ ॥

बहुरत्नेषु जीर्णेषु भृङ्गरागेषु सुव्रते ।
रसेन्द्रो दृश्यते देवि नीलपीतारुणच्छविः ॥ ११.१३७ ॥

शुद्धानि हेमपत्त्राणि शतांशेन तु लेपयेत् ।
पुटेन मारयेदेतद् इन्द्रगोपनिभं भवेत् ॥ ११.१३८ ॥

संस्पर्शाद्वेधयेत्सर्वम् इदं हेम मृतं प्रिये ।
त्रिभागं सूतकेन्द्रस्य तेनैव सह सारयेत् ॥ ११.१३९ ॥

मूषामध्यस्थिते तस्मिन् पुनस्तेनैव जारयेत् ।
धूमवेधी भवेद्देवि पुनः सारितजारितः ॥ ११.१४० ॥

अनेन क्रमयोगेन यदि जीर्णा त्रिशृङ्खला ।
वेधयेन्नात्र संदेहो गिरिपातालभूतलम् ॥ ११.१४१ ॥

पार्श्वज्योतिः प्रदृश्येत चोर्ध्वं नैव तु दृश्यते ।
भूचरं तं विजानीयात् रसेन्द्रं नात्र संशयः ॥ ११.१४२ ॥

तेनाश्रान्तगतिर्देवि योजनानां शतं व्रजेत् ।
दिव्यतेजा महाकायो दिव्यदृष्टिर्महाबलः ॥ ११.१४३ ॥

सर्वरोगविनिर्मुक्तो जीवेदाचन्द्रतारकम् ।
तस्य मूत्रपुरीषं तु सर्वलोहानि विध्यति ॥ ११.१४४ ॥

समजीर्णेन वज्रेण हेम्ना च सहितेन च ।
अग्निस्थो जारयेल्लोहान् बन्धमायाति सूतकः ॥ ११.१४५ ॥

सारयेत्तेन बीजेन सहस्रमपि वेधयेत् ।
सारितं जारयेत् पश्चात् लेप्यं क्षेप्यं सहस्रशः ॥ ११.१४६ ॥

सारयेत् तेन बीजेन लक्षवेधमवाप्नुयात् ।
अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ॥ ११.१४७ ॥

केवलं तु यदा वज्रं समजीर्णं तु जारयेत् ।
बद्धः सूतस्तदा ज्ञेयो निष्कम्पो निरुपद्रवः ॥ ११.१४८ ॥

अग्निस्थो जायते सूतः शलाकां ग्रसते क्षणात् ।
हठाग्निना धाम्यमानो ग्रसते सर्वमादरात् ॥ ११.१४९ ॥

चरते जरते सूत आयुर्द्रव्यप्रदायकः ।
मूषास्थं धमयेत् सूतं हठाग्नौ नैव कम्पते ॥ ११.१५० ॥

जारयेत् सर्वरत्नानि बद्धः खेचरतां नयेत् ।
इति लोहेऽष्टगुणिते जीर्णे स्याद्रसबन्धनम् ॥ ११.१५१ ॥

लोहानि सत्त्वं त्रिगुणं द्विगुणं कनकं तथा ।
धूमावलोकवेधी स्यात् भवेन्निर्वाणदो रसः ॥ ११.१५२ ॥

आदाव् अष्टगुणं जार्यं व्योमसत्त्वं महारसम् ।
समं हेमदशांशेन वज्ररत्नानि जारयेत् ॥ ११.१५३ ॥

सर्वं च जारयेद्वज्रं तदासौ खेचरो रसः ।
भ्रमेत् प्रदक्षिणावर्तः कोटिवेधी च जायते ॥ ११.१५४ ॥

समे तु पन्नगे जीर्णे दशवेधी भवेद्रसः ।
द्विगुणे शतवेधी स्यात् त्रिगुणे तु सहस्रकम् ॥ ११.१५५ ॥

चतुर्गुणेऽयुतं देवि क्रमेणानेन वर्धयेत् ।
उत्तरोत्तरवृद्ध्यातु जारयेत् तत्र पन्नगम् ॥ ११.१५६ ॥

कुटिलं पन्नगं जार्यं तत्र संख्याक्रमेण तु ।
तद्वादमेति देवेशि कोटिवेधी भवेद्रसः ॥ ११.१५७ ॥

रुरुणा दानवेन्द्रेण भक्षितो भस्मसूतकः ।
जारितं द्वादशगुणं यत्र तीक्ष्णं सुरेश्वरि ॥ ११.१५८ ॥

भक्षयित्वा पलैकं तु दानवो बलदर्पितः ।
जगदुत्पाटितं तेन कैलासोऽपि च चूर्णितः ॥ ११.१५९ ॥

तत्र मया क्षणं ध्यात्वा दृष्ट्वा तन्मायया कृतम् ।
जारितं पन्नगे सूतं समांशं शिलया हतम् ॥ ११.१६० ॥

तेन सूतेन संलिप्तं त्रिशूलं हिमशैलजे ।
तेन शूलेन निहतो दानवो बलदर्पितः ॥ ११.१६१ ॥

हेम शुल्वं तथा तीक्ष्णं वाजरं च पडालकम् ।
रोहणं कान्तलोहं च जारयेत्तत्त्वसंख्यया ॥ ११.१६२ ॥

एकैके रसराजोऽयं बद्धः खेचरतां नयेत् ।
गन्धनागे द्रुते देवि जारणां सुकरां शृणु ॥ ११.१६३ ॥

आदौ संशोधितं सूतं रजनीचूर्णसंयुतम् ।
मर्दयेद् यावद् आकृष्णं क्षालयेदुष्णकाञ्जिकैः ॥ ११.१६४ ॥

एवं मुहुर्मुहुर्घृष्टो गन्धनागो द्रुतिं चरेत् ॥ ११.१६५ ॥

नागस्य मूत्रे देवेशि वत्सस्य महिषस्य वा ।
आवर्त्यावर्त्य भुजगं सप्त वारान् निषेचयेत् ॥ ११.१६६ ॥

कृत्वा कण्टकवेध्यानि तस्य पत्त्राणि सुन्दरि ।
चतुर्थांशप्रमाणेन गन्धकस्य तु योजयेत् ॥ ११.१६७ ॥

प्रसार्य लाक्षापटलं रोमाणि तदनन्तरम् ।
ऊर्ध्वं गन्धकचूर्णं च ततो नागदलं तथा ॥ ११.१६८ ॥

गन्धकं नरलोमानि लाक्षायाः पटलं क्रमात् ।
ऊर्ध्वं प्रसार्य संस्थाप्य सूत्रैर्वर्तिं तु कारयेत् ॥ ११.१६९ ॥

करञ्जतैलमध्ये तु दशरात्रं निधापयेत् ।
दीप्ताग्रभागां तां वर्तिं सण्डश्या तु विधारयेत् ॥ ११.१७० ॥

तां द्रुतिं पातयेत्पात्रे सौवीरटङ्कणान्विते ।
काचकूप्याश्च मध्ये तु तत्तैलं स्थापयेत् प्रिये ॥ ११.१७१ ॥

कृत्वा गोस्तनमूषायां लिप्तायां शिलया रसम् ।
चतुःषष्ट्यादिभागेन ज्ञात्वा देवि बलाबलम् ॥ ११.१७२ ॥

गन्धनागद्रुतिं दत्त्वा तां मूषां सुरवन्दिते ।
गर्ते गोमयसम्पूर्णे विन्यस्य पुटपाचनम् ।
दद्यात् करीषतुषयोः प्रसृतिद्वितयेन च ॥ ११.१७३ ॥

दद्यादजीर्णशङ्कायां सिंहवल्लीरसस्य तु ।
चतुर्बिन्दून् पुटे प्राग्वद् एवं प्रतिदिनं भवेत् ॥ ११.१७४ ॥

जारणात्रिगुणात् सूतो भवेज्जम्बूफलप्रभः ॥ ११.१७५ ॥

माक्षिकं सत्त्वमल्पाल्पं मृतनागसमन्वितम् ।
मूषागतं भवेद्यावत् काचं दत्त्वाधरोत्तरम् ।
एवं द्वादशवारांस्तु सुध्मातं रञ्जितं भवेत् ॥ ११.१७६ ॥

तेन पक्वं बीजचूर्णं पारदे पादभागिकम् ।
मर्दितं चणकाम्लेन क्षणाद्गर्भद्रुतिर्भवेत् ॥ ११.१७७ ॥

गर्भद्रुतिर्न चेद्देवि वर्णिकाद्वयगन्धयोः ।
रक्तसिन्धूद्भवालर्क- टङ्कणाशुगपुङ्खतः ।
कल्केन लिप्तं पुटितं बीजं गर्भे द्रुतं भवेत् ॥ ११.१७८ ॥

बीजे पादार्धतुल्यांशे जीर्णे वेधं करोति सः ।
दशषोडशभागेन द्वाविंशांशेन च क्रमात् ॥ ११.१७९ ॥

संयोज्य त्रिगुणां रीतिं तारे तारावशेषितैः ।
तारारिष्टमिदं लिप्त्वा तेन सूतेन वेधयेत् ॥ ११.१८० ॥

अतः परं तु संस्कारं वक्ष्ये नागाभ्रजारणम् ।
करवीरारुणां देवि चूर्णयित्वा मनःशिलाम् ॥ ११.१८१ ॥

भावयेद्विंशतिं वारान् यवचिञ्चारसेन तु ।
तेन कल्केन संलिप्य नागपत्त्रं प्रयत्नतः ।
कर्ष्वनलेन विपचेत् यावत्तत् चूर्णितं भवेत् ॥ ११.१८२ ॥

रसकस्य च भागांस् त्रीन् भागैकं दरदस्य च ।
पेषयेन्मातुलुङ्गेन पादगन्धं शिलाविषम् ॥ ११.१८३ ॥

कल्केनानेन लिप्तायां मूषायां पुटपाचितम् ।
तं नागं धमयेदेवं सप्तधा हेमवद्भवेत् ॥ ११.१८४ ॥

पीताभ्रकं त्व् एकदलं लिप्तायां मरिचेन तु ।
मूषायां ध्मातमग्न्याभं सौभाञ्जनरसे क्षिपेत् ॥ ११.१८५ ॥

पातयेत्पूर्वविधिना तत् सत्त्वं हेमभासुरम् ॥ ११.१८६ ॥

पत्त्रं रञ्जितनागस्य सत्त्वं पीताभ्रकस्य च ।
स्त्रीस्तन्यकाचधूमोत्थ- गुञ्जायस्कान्तटङ्कणैः ।
तुत्थेन संयुतेनैतन् नागाभ्रं द्वंद्वितं भवेत् ॥ ११.१८७ ॥

किंवारनालसिद्धार्थ- धूमसारेष्टकागुडैः ।
मर्दयेत्त्रिदिनं सूतं दोलायां स्वेदयेत् त्र्यहम् ॥ ११.१८८ ॥

पुनर्नवामेषशृङ्गी- सर्पाक्षीकल्कसंयुतम् ।
अथासुरी सिन्धुविषं मरिचैः परिपेषितैः ।
दोलायन्त्रे पुनरपि स्वेदयेद्दिवसत्रयम् ॥ ११.१८९ ॥

अष्टमांशेन नागाभ्रं चारयित्वा सुरेश्वरि ।
शिलाभागद्वयं चैकं सिन्धुसौवर्चलं भवेत् ॥ ११.१९० ॥

टङ्कार्धं विषपादं च विडः पिण्डाष्टमांशतः ।
त्रिदिने कच्छपे जार्यम् एवं जार्यं तु षड्गुणम् ॥ ११.१९१ ॥

शैलं तुत्थोरगं ताम्रं तीक्ष्णघोषारकाञ्चनम् ।
क्रमवृद्धम् इदं तुत्थं ताप्यसत्त्वनिपातनात् ॥ ११.१९२ ॥

हेमावशेषं तद्बीजं पादांशं मातुलाम्भसा ।
चारयेद्रसराजस्य जारयेत् कनकान्वितैः ॥ ११.१९३ ॥

ताप्यसौवर्चलशिला- गन्धकासीसटङ्कणैः ।
पद्मयन्त्रे निवेश्याथ कीलं दत्त्वा सुरेश्वरि ॥ ११.१९४ ॥

धमेद्दिनत्रयं मन्दं यावद्बीजं द्रुतं भवेत् ।
तमेव समजीर्णं तु वह्नौ निष्कम्पनं रसम् ॥ ११.१९५ ॥

ततः षड्गुणबीजेन सारणा क्रमयोगतः ।
तारारिष्टमहिं शुल्बं सहस्रांशेन वेधयेत् ॥ ११.१९६ ॥

विषगन्धकताप्याभ्र- काकविष्ठा घनध्वनिः ।
सहदेवीवह्निशिखा- कल्केन क्रमते रसः ॥ ११.१९७ ॥

मूर्छितो मृतसूतश्च जलूकाबन्ध एव च ।
चतुर्थो मूर्तिबन्धस् तु पट्टबन्धस्तु पञ्चमः ।
भस्मसूतश्च खोटश्च संस्कारात् सप्तधा रसः ॥ ११.१९८ ॥

नागवर्णं भवेत् सूतं विहाय घनचापलम् ।
लक्षणं दृश्यते यस्य मूर्छितं तं वदन्ति हि ॥ ११.१९९ ॥

आर्द्रत्वं च घनत्वं च तेजोगौरवचापलम् ।
यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम् ॥ ११.२०० ॥

नानावर्णं तथा स्वच्छं द्रुतं योनौ जलूकवत् ।
बध्यते सूतकं यच्च जलूकाबन्धलक्षणम् ॥ ११.२०१ ॥

गुरुत्वमरुणत्वं च तेजसा सूर्यसंनिभम् ।
शिखिमध्ये धृतं तिष्ठेत् मूर्तिबन्धस्य लक्षणम् ॥ ११.२०२ ॥

शलाकाजारणाद्वापि मूर्तिबन्धत्वमिष्यते ॥ ११.२०३ ॥

श्वेतं पीतं गुरु तथा मृदु सिक्थकसंनिभम् ।
अग्निमध्ये यदा तिष्ठेत् पट्टबन्धस्य लक्षणम् ॥ ११.२०४ ॥

कृष्णं श्वेतं तथा पीतं नीलं भस्मनिभं तथा ।
चपलत्वं यदा नष्टं भस्मसूतस्य लक्षणम् ॥ ११.२०५ ॥

कुक्कुटाण्डनिभं सूतं यदा लवणभेदि च ।
आवर्तते रसस्तद्वत् खोटकस्य च लक्षणम् ॥ ११.२०६ ॥

अथवा छेदने स्निग्धं रश्मिना मृदुना द्रवेत् ।
अक्षयं कठिनं श्वेतं खोटबन्धस्य लक्षणम् ॥ ११.२०७ ॥

खोटादयस्तु ये पञ्च विहाय जलुकाकृति ।
हठाग्नौ धामिताः सन्ति न तिष्ठत्येव मूर्छितः ॥ ११.२०८ ॥

तरुणादित्यसंकाशो नानावर्णः सुरेश्वरि ।
वेधयेद्देहलोहानि रञ्जितो रसभैरवः ॥ ११.२०९ ॥

शोधनं सूतकस्यादौ ग्रासमानमतः परम् ।
जारणं व्योमसत्त्वस्य सर्वसत्त्वस्य जारणम् ॥ ११.२१० ॥

गर्भबाह्यद्रुतिः पश्चात् सुवर्णस्य तु जारणम् ।
दिव्यौषधिपुटः पश्चात् रत्नबन्धमतः परम् ॥ ११.२११ ॥

रञ्जनं च ततो देवि जारणा चानुसारणा ।
क्रामणं च ततो देयं सूतकस्य विचक्षणैः ॥ ११.२१२ ॥

एवं क्रमं तु यो वेत्ति तस्य सिद्धिर्न संशयः ॥ ११.२१३ ॥

वेधकं यस्तु जानाति देहे लोहे रसायने ।
तस्य जन्म जरा व्याधिर् नश्यत्येव न संशयः ॥ ११.२१४ ॥

देहे तु पञ्चरत्नानि नागं वङ्गं तथायसम् ।
क्रामणं रसराजस्य भेषजं व्याधिनाशनम् ॥ ११.२१५ ॥

औषधैः क्रमते सूतो योगशक्तिक्रमेण तु ।
क्रमते व्याधिसंघाते ग्रसते दुष्टमामयम् ॥ ११.२१६ ॥

तस्य तु क्रामणं ज्ञात्वा ततो वैद्यैरुपाचरेत् ।
क्रामणेन विना सूतो न क्रमेत् न च वेधयेत् ।
देहलोहामयान् सर्वान् वृथा स्यात् केवलं श्रमः ॥ ११.२१७ ॥

यस्य रोगस्य यो योगस् तेनैव सह योजयेत् ।
रसेन्द्रो हरति व्याधीन् नरकुञ्जरवाजिनाम् ॥ ११.२१८ ॥

आरोटो बलमाधत्ते मूर्छितो व्याधिनाशनः ।
बद्धेन खेचरीसिद्धिः मारितेनाजरामरः ॥ ११.२१९ ॥

विशेषाद्व्याधिशमनो गन्धकेन तु मूर्छितः ।
ओषध्या घातितः सूतो यथा भूयो न जीवति ॥ ११.२२० ॥

सहि क्रामति लोहेषु तेन कुर्याद्रसायनम् ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ ११.२२१ ॥


द्वादशमः पटलः[सम्पाद्यताम्]

श्रीदेव्युवाच
ओषधी कीदृशी नाथ रसमूर्छाकरी शुभा ।
केन वा भस्मसूतः स्यात् केन वा खोटबन्धनम् ॥ १२.१ ॥

श्रीभैरव उवाच
शृणु भैरवि यत्नेन रहस्यं रसबन्धनम् ।
ब्रह्मविष्णुसुरेन्द्राद्यैर् न ज्ञातं वीरवन्दिते ॥ १२.२ ॥

गङ्गायमुनयोर्मध्ये प्रयोगो नाम राक्षसः ।
तस्यासन्ने वरारोहे क्षणाद् बध्येत सूतकः ॥ १२.३ ॥

निशाचरस्य पत्त्राणि गृह्णीयात् साधकोत्तमः ।
अधो निष्पीडितं देवि रसो भवति चोत्तमः ॥ १२.४ ॥

रसं संमर्द्य तेनैव दिनानि त्रीणि वार्त्तिकः ।
आरोटं बन्धयेत् क्षिप्रं गगनं तत्र जारयेत् ॥ १२.५ ॥

तेन पत्त्ररसेनैव साधयेद्गगनं पुनः ।
सप्तधा भावितं तेन त्र्यूषणेन सहैकतः ।
यन्त्रे विद्याधरे देवि गगनं तत्र जारयेत् ॥ १२.६ ॥

मासमात्रेण देवेशि जीर्यते तत् समं समे ।
समजीर्णे रसे देवि शतवेधी भवेद्रसः ॥ १२.७ ॥

निशाचररसे देवि गन्धकं भावयेत्ततः ।
भावयेत् सप्तवारं तु द्विपद्याश्च रसेन तु ॥ १२.८ ॥

तारस्य पत्त्रलेपेन अर्धार्धकाञ्चनोत्तमम् ।
गन्धके समजीर्णेऽस्मिन् शतवेधी रसो भवेत् ॥ १२.९ ॥

पुनस्तं गन्धकं दत्त्वा पत्त्रलेपे रविं हरेत् ।
तं रविं तारमध्ये तु त्रिगुणं वाहयेत्ततः ॥ १२.१० ॥

हेमार्धे मिलितं हेम मातृकासमतां व्रजेत् ।
पुनस्तं गन्धकं साक्षाद् द्रावयित्वा द्रुतं कुरु ॥ १२.११ ॥

रसेन्द्रं मर्दयेत्तेन गतदेहं तु कारयेत् ।
लेपमात्रेण तेनैव कुष्ठानष्टादश प्रिये ।
अर्शो भगंदरं लूतां शिरोरोगांश्च नाशयेत् ॥ १२.१२ ॥

निशाचररसे भाव्यं सप्तवारं तु तालकम् ।
तेनैव घातयेद्वङ्गं वङ्गं तारे तु निर्वहेत् ॥ १२.१३ ॥

तं तारं जारयेत् सूते तत्सूतं बन्धनं व्रजेत् ।
लेपमात्रेण तेनैव चतुःषष्टितमो भवेत् ॥ १२.१४ ॥

चतुःषष्टितमे भागे शुल्ववेधं तु दापयेत् ।
शुल्वं तु दापयेत्तारे तत्तारं काञ्चनं भवेत् ।
तत्तारं जायते श्रेष्ठं धर्मकामार्थमोक्षदम् ॥ १२.१५ ॥

निशाचरस्य पुष्पाणि सूक्ष्मचूर्णानि कारयेत् ।
पलानि दश चूर्णस्य रसैर्धात्र्यास्तु भावयेत् ॥ १२.१६ ॥

घृतेन मधुनालोड्य नवभाण्डे विनिक्षिपेत् ।
धान्यराशौ निधातव्यं त्रिसप्ताहं सुरेश्वरि ॥ १२.१७ ॥

तेन भक्षितमात्रेण वलीपलितवर्जितः ॥ १२.१८ ॥

वल्कलं सूक्ष्मचूर्णं तु मधुना सहितं लिहेत् ।
अर्धमासप्रयोगेण प्रत्यक्षोऽयं भवेत् प्रिये ॥ १२.१९ ॥

तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ।
मासमात्रप्रयोगेण पन्नगः काञ्चनं भवेत् ॥ १२.२० ॥

ग्राह्यं तत्फलतैलं वा यन्त्रे पातालसंज्ञके ।
तेन तैलेन देवेशि रसं संकोचयेद्बुधः ॥ १२.२१ ॥

तत्क्षणाज्जायते देवि पट्टबद्धो महारसः ॥ १२.२२ ॥

कटुकं कङ्कणं कार्यं रसलिङ्गे वरानने ।
संकोच्य मारणं तेन कर्तव्यं परमाद्भुतम् ॥ १२.२३ ॥

निशाचररसे क्षिप्तं सप्तवारं तु भास्करम् ।
कालिकारहितं तेन जायते कनकप्रभम् ॥ १२.२४ ॥

तत्तारेण समं बाह्यं तेन सिक्तं तु वापितम् ।
दशांशं वेधयेत् सूतं दश पीतं शतेन च ॥ १२.२५ ॥

शतं वेधयते लक्षं सहस्रं कोटिवेधकम् ।
दशांशं कोटिवेधि स्यात् कोटिवेधि समेन च ॥ १२.२६ ॥

पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥ १२.२७ ॥

त्रैलोक्यजननी या स्याद् ओषधी अजनायिका ।
तस्याः सम्पर्कमात्रेण बद्धस्तिष्ठति पारदः ॥ १२.२८ ॥

सप्ताहं मर्दितस्तस्या महौषध्या रसेन सः ।
शतांशेनैव वेधेन कुरुते दिव्यकाञ्चनम् ॥ १२.२९ ॥

द्विसप्ताहं रसे तस्या मर्दनाद्वरवर्णिनि ।
लक्षवेधी रसः साक्षाद् अष्टौ लोहानि काञ्चनम् ॥ १२.३० ॥

त्रिसप्ताहेन देवेशि दशलक्षाणि विध्यति ।
चतुर्थे चैव सप्ताहे कोटिवेधी महारसः ॥ १२.३१ ॥

स्वेदतापननिघृष्टो महौषध्या रसेन तु ।
ददाति खेचरीं सिद्धिम् अनिवारितगोचरः ॥ १२.३२ ॥

कामयेत् कामिनीनां तु सहस्रं दिवसान्तरे ।
नष्टच्छायो ह्य् अदृश्यश्च त्रैलोक्यं च भ्रमेद्रसैः ॥ १२.३३ ॥

महौषध्या रसेनैव मृतसंजीवनं भवेत् ।
अनेन घातयेत् सूतं पञ्चावस्थं कुरु प्रिये ॥ १२.३४ ॥

मृतस्य दापयेन्नस्यं हस्तपादौ तु मर्दयेत् ।
तस्य तु प्रविशेज्जीवो मृतस्यापि वरानने ॥ १२.३५ ॥

पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ।
नरसाररसेनैव क्षणाद् बध्येत सूतकः ॥ १२.३६ ॥

नरसाररसं दत्त्वा द्विपदीरजसा सह ।
दिनान्ते बन्धमायाति सर्वलोहानि रञ्जयेत् ॥ १२.३७ ॥

नरसाररसेनैव जीर्णे षड्गुणपन्नगे ।
तारे ताम्रेऽपि वा देवि भावयेत्तं मनःशिलाम् ॥ १२.३८ ॥

निर्गन्धा जायते सा तु घातयेत्तद्रसायनम् ।
द्विपदीरजसा सार्धं निःसत्त्वः पन्नगो भवेत् ॥ १२.३९ ॥

नरसाररसेनैव जीर्णे षड्गुणपन्नगे ।
तारे ताम्रेऽपि वा देवि कोटिवेधी भवेद्रसः ॥ १२.४० ॥

नरसाररसस्तन्ये भावनाः सप्तधा पृथक् ।
रसेन्द्रं दापयेद्ग्रासं यन्त्रे विद्याधराह्वये ॥ १२.४१ ॥

जीर्यते गगनं देवि निर्मुखं च वरानने ।
नरसाररसेनैव कीटमारीरसेन च ।
द्रावयेद्गगनं देवि तीक्ष्णं लोहं च पन्नगम् ॥ १२.४२ ॥

नरसाररसेनैव हनूमत्या रसेन च ।
जायते काञ्चनं दिव्यं निषेकाद् भास्करप्रिये ॥ १२.४३ ॥

नरसाररसे दत्त्वा मञ्जिष्ठारक्तचन्दनम् ।
स्वरसे मर्दयेत् पश्चात् पन्नगं देवि सेचयेत् ॥ १२.४४ ॥

तत्क्षणात् काञ्चनं दिव्यं सप्तवारं निषेचितम् ।
रविघृष्टं तु तं देवि पन्नगं त्रिगुणं प्रिये ॥ १२.४५ ॥

तच्छुल्वं हेमसंकाशं तारपञ्चांशयोजितम् ।
अष्टमांशयुतं हेम हेमकर्मणि चौषधम् ॥ १२.४६ ॥

नरसाररसे भाव्यं सप्तवारं तु हिङ्गुलम् ।
तेनैव घातयेत्तीक्ष्णं भस्मीभूतत्वमादिशेत् ॥ १२.४७ ॥

तद्भस्म ताम्रपिष्टं तु त्रिगुणं तेन निर्वहेत् ॥ १२.४८ ॥

तच्छुल्वं हेमसंकाशं तारमष्टांशयोजितम् ।
तारहेम समांशं तु द्विगुणं पित्तलं भवेत् ॥ १२.४९ ॥

नरसाररसे भाव्यं रसकं सप्तवारतः ।
तं रसं रसकं चैव तीक्ष्णं लोहं च पन्नगम् ॥ १२.५०॒१ ॥

नरसाररसेनैव तेनैवैकत्र मर्दयेत् ।
तत्क्षणाज्जायते बन्धो रसस्य रसकस्य च ॥ १२.५०॒२ ॥

तीक्ष्णं नागं तथा शुल्वं रसकेन तु रञ्जयेत् ।
समस्तं जायते हेम कूष्माण्डकुसुमप्रभम् ॥ १२.५१ ॥

पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥ १२.५२ ॥

कङ्कालखेचरी नाम ओषधी परमेश्वरि ।
तस्यास्तैलं तु संगृह्य माघखेचरिसंयुतम् ।
भावयेत् दिनमेकं तु पात्रे भास्करनिर्मिते ॥ १२.५३ ॥

द्वितीये वासरे प्राप्ते वज्ररत्नं तु घातयेत् ।
अनले धामयेत्तत् तु सुतप्तज्वलनप्रभम् ॥ १२.५४ ॥

कङ्कालखेचरीतैले वज्ररत्नं निषेचयेत् ।
दशवारं निषिक्तं तु भस्माकारं हि जायते ॥ १२.५५ ॥

तद्धेमपक्वबीजं तु तेन भस्मसमं कुरु ।
त्रिभागं टङ्कणं दत्त्वा अन्धमूषागतं धमेत् ।
तत्क्षणान्मिलति द्वंद्वं वज्ररत्नं च काञ्चनम् ॥ १२.५६ ॥

चन्द्रहेम वरारोहे समं जारयते यदि ।
कोटिवेधी रसो देवि लोहान्यष्टौ च विध्यति ॥ १२.५७ ॥

पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥ १२.५८ ॥

सबीजा चौषधी ग्राह्या काचिद् गुल्मलता प्रिये ।
मन्त्रसिंहासनी नाम द्वितीया देवि खेचरी ।
पातालयन्त्रे तत्तैलं गृह्णीयात्ताम्रभाजने ॥ १२.५९ ॥

तस्य तैलस्य मध्ये तु प्रक्षिपेत् खेचरीरसम् ।
मेदिनीयन्त्रमध्ये तु स्थापयेत्तु वरानने ॥ १२.६० ॥

पूर्वौषध्या तु तद्देवि गगनं मेदिनीतले ।
रसग्रासं ततो दत्त्वा मर्दनाद्गोलकं कुरु ॥ १२.६१ ॥

बद्ध्वा पोटलिकां तेन गगनं तेन जारयेत् ।
समे तु गगने जीर्णे बद्धस्तिष्ठति सूतकः ॥ १२.६२ ॥

भस्त्राफूत्कारयुक्तेन धाम्यमानेन नश्यति ।
काकविष्ठासमं रूपं समजीर्णस्य जायते ॥ १२.६३ ॥

द्विगुणे गगने जीर्णे अष्टौ लोहानि संहरेत् ॥ १२.६४ ॥

पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥ १२.६५ ॥

शिवदेहात् समुत्पन्ना ओषधी तुरसिंहनी ।
जारयेद्गन्धकं सा तु जारयेत् सापि तालकम् ॥ १२.६६ ॥

काञ्चनं जारयेत् सापि रसेन्द्रं सा च बद्धयेत् ।
प्रवालं जारयेत् सा तु गगनं द्रावयेत् तथा ।
वज्रं च घातयेत् सा तु सर्वसत्त्वं च पातयेत् ॥ १२.६७ ॥

जारयेत्सर्वलोहानि सत्त्वान्यपि च पाचयेत् ।
हरींदरीरसे न्यस्य गोशृङ्गे तु वरानने ।
धान्यराशौ निधातव्यं मृतं तिष्ठति सूतकम् ॥ १२.६८ ॥

दिव्यौषध्या रसेनैव रसेन्द्रः सुरवन्दिते ।
समे तु कनके जीर्णे दशकोटीस्तु वेधयेत् ॥ १२.६९ ॥

पञ्चमे लक्षकोटिस्तु षड्गुणे स्पर्शवेधकः ।
सप्तमे धूमवेधी स्यात् अष्टमे त्व् अवलोकतः ।
नवमे शब्दवेधी स्याद् अत ऊर्ध्वं न विद्यते ॥ १२.७० ॥

भ्रमन्ति पशवो मूढाः कुलौषधिविवर्जिताः ।
तृणौषधिरसानां च नैव सिद्धिः प्रजायते ॥ १२.७१ ॥

तस्मात् सर्वप्रयत्नेन ज्ञातव्या तु कुलौषधी ॥ १२.७२ ॥

दिव्यौषधी चतुःषष्टिः कुलमध्ये व्यवस्थिता ।
नैव जानन्ति मूढास्ते देवमोहेन मोहिताः ॥ १२.७३ ॥

अदिव्यास्तु तृणौषध्यो जायन्ते गिरिगह्वरे ॥ १२.७४ ॥

तृणौषध्या रसे सूतं नैव बद्धं कदाचन ।
अक्षयं च वरारोहे वह्निमध्ये न तिष्ठति ॥ १२.७५ ॥

न खोटो न च वा भस्म नैव द्रव्यं करोति सः ।
किं तत् द्रव्यं प्रकुर्वीत धाम्यमानो न तिष्ठति ॥ १२.७६ ॥

पत्त्रे पाके कटे छेदे नैव तिष्ठति काञ्चने ।
न वेधं च शताद् ऊर्ध्वं करोति स रसः प्रिये ॥ १२.७७ ॥

यावन्न बद्धमेकं तु विक्रीतं तत्तु काञ्चनम् ।
धर्मार्थकाममोक्षार्थं नैव दद्यात्तु तत् प्रिये ॥ १२.७८ ॥

श्रीदेव्युवाच
निर्जीवत्वं गतः सूतः कथं जीवं ददाति च ।
निर्जीवेन तु निर्जीवः कथं जीवति शंकर ॥ १२.७९ ॥

श्रीभैरव उवाच
दिव्यौषध्या यदा देवि रसेन्द्रो मूर्छितो भवेत् ।
कालिकारहितः सूतस् तदा भवति पार्वति ॥ १२.८० ॥

परस्य हरते कालं कालिकारहितो रसः ।
अष्टानां चैव लोहानां मलं शमयति क्षणात् ॥ १२.८१ ॥

महामूर्छागतं सूतं को वापि कथयेन्मृतम् ।
दिव्यौषध्या रसेनैव जायते नष्टचेतनः ॥ १२.८२ ॥

पञ्चभूतात्मकः सूतस् तिष्ठत्येव सदाशिवः ॥ १२.८३ ॥

पुनरन्यं प्रवक्ष्यामि रसबन्धनमीश्वरि ॥ १२.८४ ॥

क्ष्मापालेन हतं वज्रम् अनेनैव तु काञ्चनम् ।
वज्रभस्म हेमभस्म तद्वै एकत्र बन्धयेत् ॥ १२.८५ ॥

निशाचररसे जार्यं नरजीवेन जारयेत् ।
तं सूतं मारयेद्भद्रे गजारिदिव्यकौषधी ॥ १२.८६ ॥

भक्षितः स रसो येन सोऽपि साक्षात् सदाशिवः ।
भक्षिते तोलकैकेन स्पर्शवेधी भवेन्नरः ॥ १२.८७ ॥

प्रस्वेदात्तस्य गात्रस्य रसराजश्च वेध्यते ।
प्रस्वेदादपि मूत्रेण अष्टौ लोहानि काञ्चनम् ॥ १२.८८ ॥

लक्षवर्षसहस्राणि स जीवेत् साधकोत्तमः ।
प्रजापतिः कृष्णतेजाः क्षणाद्बध्नाति सूतकम् ॥ १२.८९ ॥

गजारिस्पर्शनाद्देवि क्ष्मापालेन च बध्यते ॥ १२.९० ॥

वज्रवल्लीरसेनैव भावितं गगनं प्रिये ।
जारयेद्वालुकायन्त्रे खोटो भवति तत्क्षणात् ॥ १२.९१ ॥

मृतगोलकमाषैकं माषैकं हेमगोलकम् ।
एकीकृत्य तु संमर्द्य लुङ्गाम्लेन दिनत्रयम् ।
कर्षैकं नागपत्त्राणि रसकल्केन लेपयेत् ॥ १२.९२ ॥

वेष्टयेद्वृश्चिकाल्या च तत्पिण्डं लेपयेत् ततः ।
मारयेत् पन्नगं देवि शक्रगोपनिभं भवेत् ॥ १२.९३ ॥

कर्षैकं तारपत्त्राणि मृतनागेन लेपयेत् ।
वृश्चिकाल्या च तत्पत्त्रं लेपितं वेष्टयेत्ततः ॥ १२.९४ ॥

तत्तारं म्रियते देवि सिन्दूरारुणसंनिभम् ।
सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ॥ १२.९५ ॥

जायते कनकं दिव्यं देवाभरणभूषणम् ॥ १२.९६ ॥

क्षीरयुक्ता बहुफला ग्रन्थियुक्ता च पार्वति ।
नाम्ना चटुलपर्णीति शस्यते रसबन्धने ॥ १२.९७ ॥

एकवीराकन्दरसे मूकमूषागतं रसम् ।
धमेन्मुखानिलैर्बद्धो भक्षणाय प्रशस्यते ॥ १२.९८ ॥

रक्तकञ्चुकिकन्दं तु स्त्रीस्तन्येन तु पेषितम् ।
मूषायां पूर्वयोगेन कुरुते रसबन्धनम् ॥ १२.९९ ॥

वृश्चिकापत्त्रिकाबीजं नारीक्षीरसमन्वितम् ।
धमयेत् पूर्ववत् सूतं भक्षणार्थाय वार्त्तिकः ॥ १२.१०० ॥

वज्रकन्दं समादाय रसमध्ये विनिक्षिपेत् ।
गजेन्द्राख्यं पुटं दत्त्वा सप्तधा बद्धतां नयेत् ॥ १२.१०१ ॥

भक्षयेत् तं रसं प्राज्ञः षण्मासादमरो भवेत् ॥ १२.१०२ ॥

लाङ्गलीकन्दमादाय कर्कोटीकन्दमेव च ।
रसं तन्मध्यगं कृत्वा स्वेदयेन्मर्दयेत्पुनः ॥ १२.१०३ ॥

म्रियते नात्र संदेहो ध्मातस्तीव्रानलेन तु ।
शुकचञ्चुगतं सूतं पुटयेद्धामयेत्ततः ॥ १२.१०४ ॥

शतांशं वेधकर्तायं देहसिद्धिकरो भवेत् ॥ १२.१०५ ॥

हंसपादीरसं सूतं शूककन्दोदरे क्षिपेत् ।
गजेन्द्रपुटनं दद्यात् म्रियते नात्र संशयः ॥ १२.१०६ ॥

हंसाङ्घ्रिं शुकतुण्डीं च गृहीत्वा मर्दयेद् रसम् ।
क्रौञ्चपादोदरे दत्त्वा ततो दद्यात् पुटत्रयम् ॥ १२.१०७ ॥

म्रियते नात्र संदेहो लक्षवेधी महारसः ॥ १२.१०८ ॥

तृणज्योतिरिति ख्याता शृणु दिव्यौषधी प्रिये ।
निशासु प्रज्वलेन्नित्यं नाह्नि ज्वलति पार्वति ।
तस्या मूले तु निक्षिप्तं क्षीरं रक्तं भवेत् प्रिये ॥ १२.१०९ ॥

तन्मूलरसगन्धाभ्रैर् मातुलुङ्गाम्लपेषितैः ।
शुल्बपत्त्रं विलिप्तं तु भवेद्धेम पुटत्रयात् ॥ १२.११० ॥

तन्मूलचूर्णसंयुक्तो रसराजः सुरेश्वरि ।
मातुलुङ्गरसे घृष्टम् अभ्रकं चरति क्षणात् ॥ १२.१११ ॥

अथोच्चटीं प्रवक्ष्यामि रसबन्धकरीं प्रिये ।
एकमेव भवेन्नालं तस्य रोम तु वेष्टनम् ॥ १२.११२ ॥

तस्याग्रे च भवेत् पुष्पं शुकतुण्डस्य संनिभम् ।
तत्पत्त्राणि च देवेशि शुकपिच्छनिभानि च ।
तत्कन्दं कुष्ठसंस्थानं क्षीरं सिन्दूरसंनिभम् ॥ १२.११३ ॥

जलं स्रवेन्मधूच्छिष्टं तत्समादाय पार्वति ।
वेधयेत् सर्वलोहानि काञ्चनानि भवन्ति च ॥ १२.११४ ॥

रसतालकतुत्थानि मर्दयेदुच्चटीरसैः ।
आतपे म्रियते तप्तो रसो दिव्यौषधीबलात् ॥ १२.११५ ॥

वेधयेत् सप्त लोहानि लक्षांशेन वरानने ॥ १२.११६ ॥

अथ रक्तस्नुहीकल्पं वक्ष्यामि सुरसुन्दरि ।
स्नुहीक्षीरेण शुल्बस्य पत्त्रलेपं तु कारयेत् ॥ १२.११७ ॥

क्षीरेण तापयेद्भूयः सप्तवारं वरानने ।
आवर्तितं भवेद् यावज् जाम्बूनदसमप्रभम् ॥ १२.११८ ॥

अथातस्तिलतैलेन पाचयेच्च दिनत्रयम् ।
तथा शुल्वस्य पत्त्राणि वेध्यं जाम्बुनदं भवेत् ॥ १२.११९॒१ ॥

रसं रक्तस्नुहीक्षीरं कुनटीं गन्धकाभ्रकम् ।
दरदं चैव लोहानि सहस्रांशेन वेधयेत् ॥ १२.११९॒२ ॥

स्नुहीक्षीरं समादाय निशार्धं हेम चोभयम् ।
कुनटीं गन्धचूर्णं च सर्वमेकत्र मर्दयेत् ॥ १२.१२० ॥

अनेनैव प्रकारेण निशार्धं हेम शोधयेत् ।
गुटिकाकृत्य तेनैव नागं विध्यति तत्क्षणात् ॥ १२.१२१ ॥

अथातः स्थलपद्मिन्या दिव्यौषध्या विधिं शृणु ॥ १२.१२२ ॥

पद्मिनीसदृशी पत्त्रैः पुष्पैरपि च तादृशी ।
भङ्गे चैव भवेत् क्षीरं रक्तवर्णं सुशोभनम् ॥ १२.१२३ ॥

आक्रम्य वामपादेन पश्येद्गगनमण्डलम् ।
पश्येच्च तारकायुक्तं ग्रहनक्षत्रमण्डलम् ।
लक्षयोजनतो देवि सा ज्ञेया स्थलपद्मिनी ॥ १२.१२४ ॥

तस्याः पञ्चाङ्गमादाय हरगौरीसमन्वितम् ।
मनःशिलातालयुक्तं माक्षिकेण समन्वितम् ॥ १२.१२५ ॥

मर्दयेत् सप्तरात्रं तु तेन शुल्वं च वेधयेत् ।
सहस्रांशेन देवेशि विद्धं भवति काञ्चनम् ॥ १२.१२६ ॥

तस्याः पञ्चाङ्गमादाय पूर्वोक्तविधिना प्रिये ।
चारयेत् सूतराजं तु मूकमूषागतं धमेत् ॥ १२.१२७ ॥

म्रियते मूषिकामध्ये संकोचेन न संशयः ।
तेनैव सर्वलोहानि सहस्रांशेन वेधयेत् ॥ १२.१२८ ॥

अथातः सम्प्रवक्ष्यामि कुमुदिन्या विधिं प्रिये ।
भित्त्वा काश्मीरिपाषाणे पूर्णिमायां तु कारयेत् ॥ १२.१२९ ॥

तस्याः पञ्चाङ्गम् आदाय भावयेत्तु मनःशिलाम् ।
खर्परे धारयित्वा तु भावयेत्तु पुनः पुनः ॥ १२.१३० ॥

खर्परे द्रावितं नागं तत्कल्केन युतं कुरु ।
काश्मीरद्रवतुल्यं हि जायते कनकं ध्रुवम् ॥ १२.१३१ ॥

चित्रकस्य यथा ग्राह्यं कथयामि समासतः ॥ १२.१३२ ॥

चित्रकस्त्रिविधो ज्ञेयो रक्तः कृष्णो रसायने ।
शुक्लो व्याधिप्रशमने श्रेष्ठो मध्यः कनीयसः ॥ १२.१३३ ॥

कृष्णं रक्तं सितं वापि हेमन्ते नोद्धरेद्बुधः ॥ १२.१३४ ॥

कृष्णचित्रकमुत्पाट्य गोभिर् नाघ्रातमीश्वरि ।
क्षीरमध्यस्थितं क्षीरं कृष्णवर्णं भवेत् क्षणात् ॥ १२.१३५ ॥

तस्य पञ्चाङ्गचूर्णेन पारदं सह मर्दयेत् ।
धमेच्च मूकमूषायां खोटो भवति तत्क्षणात् ॥ १२.१३६ ॥

रक्ताम्बरधरो भूत्वा रक्तमाल्यानुलेपनः ।
कृष्णपक्षे तु पञ्चम्यां रक्तशाल्योदनेन तु ।
बलिं दत्त्वा महादेवि रक्तचित्रकमुद्धरेत् ॥ १२.१३७ ॥

रक्तचित्रकचूर्णेन वङ्गस् तापैस् त्रिभिस् त्रिभिः ।
सर्वदोषविनिर्मुक्तः स्तम्भमायाति तत्क्षणात् ॥ १२.१३८ ॥

तन्मूलं सूतकं चाम्ले कङ्गुणीतैलसेवनात् ।
एकविंशतिवारेण शुल्वं शुद्धं भविष्यति ॥ १२.१३९ ॥

रक्तचित्रकभल्लात- तैललिप्तं पुटेन तु ।
चन्द्रार्कपत्त्रं देवेशि जायते हेम शोभनम् ॥ १२.१४० ॥

नागिनीकन्दसूतेन्द्रं रक्तचित्रकसंयुतम् ।
पत्त्रलेपप्रमाणेन चन्द्रार्कं काञ्चनं भवेत् ॥ १२.१४१ ॥

रक्तचित्रकसंयुक्तो रसोऽपि सर्वदो भवेत् ॥ १२.१४२ ॥

ज्योतिष्मतीतैलविधिं वक्ष्यामि शृणु पार्वति ॥ १२.१४३ ॥

ज्योतिष्मती नाम लता या च काञ्चनसंनिभा ।
वल्लीवितानबहुला हेमवर्णफला शुभा ॥ १२.१४४ ॥

आषाढपूर्वपक्षे तु गृहीत्वा बीजमुत्तमम् ।
तिलवत् क्वाथयित्वा तु हस्तैः पादैरथापि वा ।
तस्य तैलं समादाय कुम्भे ताम्रमये क्षिपेत् ॥ १२.१४५ ॥

तापयेद्भूगतं कुम्भं क्रमादूर्ध्वं तुषाग्निना ।
षण्मासे तु व्यतिक्रान्ते स घटः काञ्चनं भवेत् ॥ १२.१४६ ॥

तं तु हेममयं कृत्वा तैलमाक्षिकमिश्रितम् ।
प्रतिवापे निषिञ्चेत् तत् हेम ताम्रसमं भवेत् ॥ १२.१४७ ॥

तथाच शतवेधि स्याद् विद्यारत्नमनुत्तमम् ॥ १२.१४८ ॥

दग्धारोहां प्रवक्ष्यामि रसबन्धकरीं प्रिये ।
स्पर्शवेधे तु सा ज्ञेया सर्वकार्यार्थसाधिनी ॥ १२.१४९ ॥

शस्त्रच्छिन्ना महादेवि दग्धा वा पावकेन तु ।
प्ररोहति क्षणाद्दिव्या दग्धा छिन्ना महौषधी ॥ १२.१५० ॥

रक्तं पीतं सितं कृष्णं तस्याः पुष्पं प्रजायते ।
चणकस्येव पत्त्राणि सुप्रसूतानि लक्षयेत् ॥ १२.१५१ ॥

सा स्थिता गोमतीतीरे गङ्गायाम् अर्बुदे गिरौ ।
उज्जयिन्या दक्षिणतो वनान्तेषु च दृश्यते ॥ १२.१५२ ॥

तस्याः कन्दरसं दिव्यं कृष्णराजिसमन्वितम् ।
ताम्बूलेन समं कृत्वा गुटिकां कारयेद्बुधः ॥ १२.१५३ ॥

सर्वेषामेव लोहानां द्रुतानां वह्निमध्यतः ।
सहस्रं वेधयित्वा तु काञ्चनं कुरुते क्षणात् ॥ १२.१५४ ॥

तथैव म्रियते सूतः कान्तहेमाभ्रसंयुतः ।
कुरुते काञ्चनं दिव्यं देवाभरणभूषणम् ॥ १२.१५५ ॥

कटुतुम्बीति विख्यातां देवि दिव्यौषधीं शृणु ॥ १२.१५६ ॥

तस्या बीजानि संगृह्य सूक्ष्मचूर्णानि कारयेत् ॥ १२.१५७ ॥

एकविंशतिवारांस्तु भाव्यं धात्रीरसेन तु ।
पयसा सहितेनैव विश्वभेषजसंयुतम् ॥ १२.१५८ ॥

बीजं यन्त्रे विनिक्षिप्य तैलं संगृह्य पण्डितः ।
रसं मूर्छापयेत् तेन चक्रमर्देन मर्दयेत् ॥ १२.१५९ ॥

गोपित्तं शिखिपित्तं च काङ्क्षीकासीससंयुतम् ।
तारतुल्यानि चैतानि सर्वेषां सूतकः समः ॥ १२.१६० ॥

मेषशृङ्गे निधातव्यं मासमेकं निरन्तरम् ।
लोहदण्डेन संसिक्तं सर्वलोहानि वेधयेत् ॥ १२.१६१ ॥

गन्धकं लोहदण्डेन एकविंशतिभावितम् ।
युक्तं लोहमनेनैव जम्बीररससंयुतम् ॥ १२.१६२॒१ ॥

सबीजं सूतकोपेतम् अन्धमूषानिवेशितम् ।
भूगतं मासमेकं तु तारं काञ्चनतां नयेत् ॥ १२.१६२॒२ ॥

दलस्य भागमेकं तु तारपञ्चकमेव च ।
शुल्वस्य पञ्चभागं च बीजस्यैकं च योजयेत् ॥ १२.१६३ ॥

एते द्वादश भागाः स्युः सर्वं तद्धारयेत् क्षितौ ।
स्थानस्यास्य निषेकं तु भूदण्डेन तु कारयेत् ॥ १२.१६४ ॥

पञ्चविंशद्दिनान्ते तु जायते कनकोत्तमम् ॥ १२.१६५ ॥

क्षीरकन्दविधिं वक्ष्ये सर्वसिद्धिकरं परम् ।
चतुर्वर्णविधं तत्र रक्तकन्दः प्रशस्यते ॥ १२.१६६ ॥

भग्नम् एतच्छ्रवेत् क्षीरं रक्तवर्णं सुशोभनम् ॥ १२.१६७ ॥

मेघानां तु निनादेन संजातैरुपशोभितैः ।
पत्त्रैः स्नुहीसमैः स्निग्धैः सप्तभिर् हेमसुप्रभैः ।
बन्धनं रसराजस्य सर्वसत्त्ववशंकरम् ॥ १२.१६८ ॥

तस्य क्षीरं तु संगृह्य तारं निर्वापयेद्बुधः ।
धमेद्धवाग्निना चैव जायते हेम शोभनम् ॥ १२.१६९ ॥

तिन्तिणीपत्त्रनिर्यासैर् ईषत्ताम्ररजोयुतम् ।
मर्दयेत् पारदं प्राज्ञो रसबन्धो भविष्यति ॥ १२.१७० ॥

तोयमध्ये विनिक्षिप्य गुटिका वज्रवद् भवेत् ॥ १२.१७१ ॥

शाकवृक्षस्य देवेशि निष्पीड्य रसमुत्तमम् ।
रक्तचन्दनसंयुक्तं सर्वलोहानि जारयेत् ॥ १२.१७२ ॥

गन्धपाषाणगन्धेन आयसे विनियोजयेत् ।
मिलन्ति सर्वलोहानि द्रवन्ति सलिलं यथा ॥ १२.१७३ ॥

गन्धकं रसकं ताप्यं पारदं रक्तचन्दनम् ।
रुदन्त्या रससंयुक्तं तारमायाति काञ्चनम् ॥ १२.१७४ ॥

शाकवृक्षस्य निर्यासं पत्त्रे तस्य च गालयेत् ।
शिग्रुमूलस्य चूर्णं तु तद्रसेन विमर्दयेत् ॥ १२.१७५ ॥

प्रलिप्य शुल्वपत्त्राणि पुटे क्षिप्त्वा विपाचयेत् ।
तद्द्रुतं काञ्चनं दिव्यं भवेल्लक्षणसंयुतम् ॥ १२.१७६ ॥

फलानि शाकवृक्षस्य परिपक्वानि संगृहेत् ।
तद्रसेन युतं प्राज्ञः सप्तरात्रं तु भावयेत् ॥ १२.१७७ ॥

तद्रसेन समायुक्तं मञ्जिष्ठामिश्रितं तथा ।
लेपयेत् तारपत्त्राणि ध्मातं भवति काञ्चनम् ॥ १२.१७८ ॥

देवदाल्या महौषध्या विधिं वक्ष्यामि तत्परम् ।
सा श्वेता व्याधिनाशे च कृष्णा पीता रसायने ॥ १२.१७९ ॥

पौर्णमास्यां त्रयोदश्यां राहुग्रस्ते दिवाकरे ।
अथवा कृष्णपञ्चम्याम् इमां विधिवदुद्धरेत् ॥ १२.१८० ॥

देवदालीफलं देवि विष्णुक्रान्ता च सूतकम् ।
मूर्छयेद् बन्धयेत् क्षिप्रं शुल्वं हेम करोति च ॥ १२.१८१ ॥

देवदालीफलं मूलम् ईश्वरीरस एव च ।
तोयेन मर्दितं कृत्वा वङ्गं स्तम्भयति क्षणात् ॥ १२.१८२ ॥

अतः परं प्रवक्ष्यामि श्वेतगुञ्जाविधिं प्रिये ॥ १२.१८३ ॥

कृष्णपक्षे चतुर्दश्याम् अष्टम्यां वा सुरार्चिते ।
कपाले मृत्तिकां न्यस्य सेचयेत् सलिलेन तु ॥ १२.१८४ ॥

बीजानि सितगुञ्जायाः पुष्पयोगेन वापयेत् ।
वक्ष्यमाणेन मन्त्रेण कुर्यात् संग्रहणं तथा ॥ १२.१८५ ॥

नमो भगवति श्वेतवल्लि श्वेतपर्वतवासिनि सर्वकार्याणि कुरु कुरु अप्रतिहते नमो नमः स्वाहा ।
अनेन मनुना प्रोक्ता सिद्धिर्भवति नान्यथा ।
षण्मासेन तथा वल्लीं मन्त्रपूतेन रक्षयेत् ॥ १२.१८६ ॥

शुद्धशुल्वं तु संगृह्य मूषामध्ये तु संस्थितम् ।
त्रिपञ्चपलसंख्यं तु कर्षार्धसितगुञ्जया ॥ १२.१८७ ॥

सहैकत्र भवेत्तारं तस्य गन्धविवर्जितम् ।
ब्रह्मरीतिसमायुक्तं गुञ्जाचूर्णं सहैकतः ।
देवानां भूषणं देवि जायते हेम शोभनम् ॥ १२.१८८ ॥

चन्द्रोदकेन देवेशि वक्ष्यामि रसबन्धनम् ॥ १२.१८९ ॥

शुक्लपक्षे पूर्णमास्यां दृष्ट्वा पूर्णेन्दुमण्डलम् ।
निर्गच्छन्ति महीं भित्त्वा चन्द्रतोयान्यनेकधा ॥ १२.१९० ॥

कानिचिन्मृत्तिवर्णानि रसेन लवणानि तु ।
कानिचिच्चन्द्रतुल्यानि व्योमभासानि कानिचित् ।
चन्द्रवृद्ध्याभिवर्धेरन् क्षीयेरन् तत्क्षयेण तु ॥ १२.१९१ ॥

दृष्ट्वा चन्द्रोदकं मन्त्री पौर्णमास्यां विशेषतः ।
निर्गच्छति महीं भित्त्वा चन्द्रवृद्ध्या विवर्धते ॥ १२.१९२ ॥

क्षेत्रबन्धं पुरा कृत्वा देवमभ्यर्च्य शंकरम् ।
चतुर्दश्यां च तत्क्षेत्रं पूजयित्वा विचक्षणः ।
अहोरात्रोषितो भूत्वा बलिं तत्र निवेदयेत् ॥ १२.१९३ ॥

पूर्णमास्यां च रात्रौ च गत्वा तस्य समीपतः ।
चन्द्रोदकं तु संगृह्य मन्त्रयुक्तं सुमन्त्रितम् ।
आलोड्य मधुसर्पिर्भ्यां पिबेत्तत्तु समाहितः ॥ १२.१९४ ॥

पीतमात्रेण तेनैव मूर्छा भवति तत्क्षणात् ।
चन्द्रोदये ततो दृष्टे क्षीरं तस्य तु दापयेत् ।
सप्तरात्रप्रयोगेण चन्द्रवन्निर्मलो भवेत् ॥ १२.१९५ ॥

एकविंशतिरात्रेण जीवेद्ब्रह्मदिनत्रयम् ।
एकमासप्रयोगेण ब्रह्मायुः स भवेन्नरः ॥ १२.१९६ ॥

चन्द्रोदकेन गगनं रसं हेम च मर्दयेत् ।
मूषामध्यगतं ध्मातं तत्क्षणाद्गुटिका भवेत् ॥ १२.१९७ ॥

अयं च स्पर्शमात्रेण लोहान्यष्टौ च वेधयेत् ॥ १२.१९८ ॥

तद्रसेन रसं भाव्यं वज्रेण समजारितम् ।
चतुःषष्ट्यंशतः पिण्डे द्विगुणे तु सहस्रकम् ॥ १२.१९९ ॥

दशसंकलिकाबद्धं गुञ्जामात्रं रसं नरः ।
त्रिलोहवेष्टितं वक्त्रे धृत्वा चादृश्यतां व्रजेत् ॥ १२.२०० ॥

ओं नमो रुद्राय दंष्ट्रोत्कटाय विघ्ननाशाय दिशां रक्ष रक्ष विदिशां रक्ष रक्ष रुद्रो विज्ञापयति हुं फट् स्वाहा ।
ओं नमो भगवते रुद्राय त्रिशूलहस्ताय अमृतोद्भवाय रक्ष रक्ष फट् स्वाहा ।
अथातः सम्प्रवक्ष्यामि कर्तरीरसबन्धनम् ॥ १२.२०१ ॥

असुराणां समायोगे क्रोधाविष्टेन चेतसा ।
सुदर्शनं महाचक्रं प्रेरितं मुरवैरिणा ॥ १२.२०२ ॥

भालपट्टात्ततस्तस्य निपेतुः स्वेदबिन्दवः ।
ते भूमौ पतिता दिव्याः संजाताः कर्तरीरसः ॥ १२.२०३ ॥

रक्षार्थं स्थापितं तत्र विष्णुना च सुदर्शनम् ।
चक्रतुल्यं भ्रमत्येतद् आयुधानि निकृन्तति ॥ १२.२०४ ॥

कुरुते गर्जितं नादं धूमं ज्वालां विमुञ्चति ।
कर्तरी दृष्टिमात्रेण तथान्या शब्दकर्तरी ॥ १२.२०५ ॥

सा स्पर्शकर्तरी छाया- कर्तरी धूमकर्तरी ।
सा ज्वालाकर्तरी चैव शक्तिर्घोरस्य कर्तरी ॥ १२.२०६ ॥

लोकानां तु हितार्थाय घोरशक्तिर् व्यवस्थिता ।
रसरूपा महाघोरा असिद्धानां तु छेदिनी ॥ १२.२०७ ॥

तस्याः क्षेत्रं यदा गच्छेत् अघोरास्त्रं जपेत्तदा ।
पुनर्घोरं न्यसेत्तत्र अथास्त्रं विन्यसेद्बुधः ॥ १२.२०८ ॥

अनुलोमविलोमेन देहेऽधिष्ठाप्य कर्तरीम् ।
मुद्रया मुद्रयेत्तां तु अघोरास्त्रेण योजिताम् ॥ १२.२०९ ॥

दीपेनाराधयेत्तां तु स्तम्भयेद्धूपनेन च ।
विष्टरामुद्रया तां तु स्थानयोगं नियोजयेत् ॥ १२.२१० ॥

कञ्चुकी तु शिला क्रान्ता कुमारी वज्रकन्दकम् ।
योषिद्रक्तं गवां मूत्रं तिलकः सर्ववश्यकृत् ॥ १२.२११ ॥

अथातः सम्प्रवक्ष्यामि विषोदरसबन्धनम् ॥ १२.२१२ ॥

विषोदकं विषसमं घृतवच्च घृतोदकम् ।
सितपीतादिवर्णाढ्यं तच्च देवि रसोत्तमम् ॥ १२.२१३ ॥

तत्र गत्वा वनोद्देशे स्मरेद्घोरसहस्रकम् ।
केशाः क्षिप्ताः स्फुटन्त्यस्मिन् आत्मच्छाया न दृश्यते ॥ १२.२१४ ॥

तैलं च गोलकाकारं घृतं चैव विसर्पति ।
गन्धकस्य हरेद्गन्धं लवणाम्लं च जायते ॥ १२.२१५ ॥

आप्त्वा पालाशपत्त्रेण कटुकालाबुके क्षिपेत् ।
विषोदकं गन्धकं च हरबीजं च तत्समम् ॥ १२.२१६ ॥

अजाक्षीरेण पिष्ट्वा तु शुल्वपत्त्राणि लेपयेत् ।
तत् पुटेन च देवेशि सिन्दूरारुणसंनिभम् ।
शतांशेनैव देवेशि सर्वलोहानि वेधयेत् ॥ १२.२१७ ॥

अनेन विधिना देवि नागः सिन्दूरतां व्रजेत् ।
सहस्रांशेन तस्यैवं तारं वेधं प्रदापयेत् ॥ १२.२१८ ॥

रक्तं पीतं तथा कृष्णम् उत्तरोत्तरकार्यकृत् ॥ १२.२१९ ॥

त्रिपलं कान्तपात्रे वा पात्रेऽलाबुमयेऽपि वा ।
गृहीत्वा पूर्ववत् पत्त्रैः पालाशैर् वेष्टयेद्बहिः ॥ १२.२२० ॥

स्थापयेद्धान्यराशौ तु दिवसानेकविंशतिम् ।
महिषीक्षीरमध्ये तु बिन्दुमेकं तु साधयेत् ॥ १२.२२१ ॥

पायसं भक्षयेद्यस्तु मध्वाज्येन तु संयुतम् ।
यावच्चूर्णपलं देवि जीवेत्तद्बिन्दुसंख्यया ॥ १२.२२२ ॥

लाङ्गली गृहधूमं च सिन्दूरं रजनीद्वयम् ।
मेषशृङ्गीं च शृङ्गीं च कृष्णोन्मत्तं च मारकम् ॥ १२.२२३॒१ ॥

सबीजं सूतकं चैव विषतोयेन मर्दितम् ।
विषतोयेन मेधावी सप्तवारांश्च भावयेत् ॥ १२.२२३॒२ ॥

अथवा भावयेत्तत्तु यावच्चूर्णं तु तद्भवेत् ।
तेन नागं प्रतीवाप्य षोडशांशेन सम्भवेत् ॥ १२.२२४ ॥

मूषाख्ये वेणुयन्त्रे च त्रिवारमपि भावयेत् ।
धूमं परिहरेत्तस्य अङ्गव्याधिकरं परम् ॥ १२.२२५ ॥

स्थापयेन्नागसिन्दूरं पात्रेऽलाबुमये ततः ।
तच्चूर्णं तु शतांशेन तारपत्त्राणि वेधयेत् ॥ १२.२२६ ॥

विषपानीयमादाय यवागौ वर्तितं शुभम् ।
निषिक्तं तच्च वर्तेऽयं तारं भवति शोभनम् ॥ १२.२२७ ॥

विषपानीयमादाय प्रक्षिपेच्च रसोत्तमे ।
कुनटीगन्धपाषाण- विषटङ्कणलाङ्गली ॥ १२.२२८॒१ ॥

नष्टपिष्टीकृतं खल्ले तारपत्त्राणि लेपयेत् ।
अन्धमूषागतं ध्मातं निर्बीजं कनकं भवेत् ॥ १२.२२८॒२ ॥

ओं श्रीनीलकण्ठाय ठ ठः ।
अस्यायुतं जपेत् ।
विषतृणविधिं वक्ष्ये समाहितमनाः शृणु ॥ १२.२२९ ॥

गन्धमाक्षीकदरदं कुनट्या रससंयुतम् ।
विषतृणसमायुक्तं मातुलुङ्गाम्लमर्दितम् ॥ १२.२३० ॥

एतत् कल्कं पलमात्रं चौषध्या लेपनं कुरु ।
निर्यासे तु पुटं कुर्यात् त्रिवारं हेम शोभनम् ॥ १२.२३१ ॥

संजीवनीजलस्याथ विधिं वक्ष्यामि पार्वति ॥ १२.२३२ ॥

शुक्रेणाराधितो देवि प्रागहं सुरवन्दिते ।
दानवानां हितार्थाय मृतानां देवसंगरे ॥ १२.२३३ ॥

मया संजीवनी विद्या दत्ता चोदकरूपिणी ।
तया संजीविता दैत्या ये मृता देवसंगरे ॥ १२.२३४ ॥

निक्षिप्ता मर्त्यलोके सा सम्यक् ते कथयाम्यहम् ॥ १२.२३५ ॥

अस्ति मर्त्ये महापुण्या पवित्रा दक्षिणापथे ।
नदी गोदावरी नाम प्रसिद्धा जाह्नवी यथा ॥ १२.२३६ ॥

दक्षिणे च तटे तस्याः कदलीनगरं परम् ।
तस्य दक्षिणतः शैलः सर्वलोकेषु विश्रुतः ॥ १२.२३७ ॥

नाम्ना कृष्णगिरिश्चेति दृश्यते सर्वमङ्गले ।
सुप्रसिद्धाम्बिका नाम ग्रामस्तस्यास्ति संनिधौ ॥ १२.२३८ ॥

तत्राप्युदकमालोक्य परीक्ष्येत सुरार्चिते ॥ १२.२३९ ॥

गृहीत्वा शुष्कवंशं तु क्षिपेत्तोयस्य मध्यतः ।
जायते हरितं स्निग्धम् अहोरात्रेण निश्चितम् ।
मुञ्चत्यङ्कुरपत्त्राणि दृश्यते तन्मनोहरम् ॥ १२.२४० ॥

बलिपुष्पोपहारेण ततो देवीं समर्चयेत् ।
क्षेत्राधिपं गणेशंच चण्डयोनीश्वरं तथा ॥ १२.२४१ ॥

तस्य मन्त्रं प्रवक्ष्यामि त्रिषु लोकेषु दुर्लभम् ॥ १२.२४२ ॥

ओं चण्डाय पिनाकिने शूलहस्ताय ओं दिशां बन्धय विदिशां बन्धय ठठः ।
तिलांश्च तण्डुलांश्चैव मन्त्रेणानेन सर्षपान् ।
सप्ताभिमन्त्रितान्कृत्वा साधको दिक्षु निक्षिपेत् ॥ १२.२४३ ॥

कटुकालाबुके तोयं कृतरक्षं समाहितः ।
गृहीत्वा तत्प्रयत्नेन निजस्थानं समाश्रयेत् ॥ १२.२४४ ॥

ओं नमोऽमृतेऽमृतरूपिणि अमृतं मे कुरु कुरु एवं रुद्र आज्ञापयति स्वाहा ।
सप्ताभिमन्त्रितं कृत्वा मन्त्रेणानेन तज्जलम् ।
दिनमेकं तथा सूतं स्वर्णमाषद्वयान्वितम् ।
मर्दयेत्तेन तोयेन पिबेत्तत्तु विचक्षणः ॥ १२.२४५ ॥

एकविंशतिरात्रेण क्षीराहारोऽथ यत्नतः ।
जीवेत् कल्पायुतं साग्रं कामरूपो महाबलः ॥ १२.२४६ ॥

योजनानां शतं गत्वा पुनरेव निवर्तते ।
अवध्यः सर्वभूतानां स्वेच्छाचारः स खेचरः ॥ १२.२४७ ॥

कनकं पारदं व्योम सममेकत्र योजयेत् ।
मर्दयेत्तेन तोयेन सप्तवारं तु स्वेदयेत् ॥ १२.२४८ ॥

स रसः सर्वलोहानि षष्ट्यंशेन तु वेधयेत् ॥ १२.२४९ ॥

अथवा तं रसं दिव्यं मधुना सह भक्षयेत् ।
मासमात्रप्रयोगेण जीवेद्ब्रह्मदिनायुतम् ॥ १२.२५० ॥

तस्य मूत्रमलस्वेदैः शुल्वं भवति काञ्चनम् ॥ १२.२५१ ॥

निर्वाते तोयमादाय अञ्जलित्रितयं पिबेत् ।
पीतमात्रे भवेन्मूर्छा स्वास्थ्यं स्यात् प्रहरत्रयात् ॥ १२.२५२ ॥

एकविंशद्दिनान्येवं क्षीराहारो भवेत्ततः ।
अष्टवर्षाकृतिः प्राज्ञः कामरूपो महाबलः ॥ १२.२५३ ॥

पश्येच्छिद्रां महीं सर्वां सप्तपातालसंयुताम् ।
अवध्यो देवदैत्यानां कल्पायुश्च प्रजायते ॥ १२.२५४ ॥

अथवोदकमादाय पारदं च मनःशिलाम् ।
मर्दयेत् खल्लपाषाणे नष्टपिष्टं भवेत्ततः ॥ १२.२५५ ॥

स्वेदयेत् सप्तरात्रं तु त्रिलोहेन च वेष्टयेत् ॥ १२.२५६ ॥

अन्तर्धानं क्षणाद्गच्छेत् विद्याधरपतिर्भवेत् ।
सिद्धकन्याशतवृतो यावत् कल्पान् चतुर्दश ॥ १२.२५७ ॥

दिनेषु तेषु सर्वेषु दद्याच्छाल्योदनं घृतम् ।
पयसा च समायुक्तं नित्यमेवं तु कारयेत् ॥ १२.२५८ ॥

उष्णोदकविधिं वक्ष्ये समाहितमनाः शृणु ।
पश्येदुष्णोदकं यत्र वासं तत्रैव कारयेत् ॥ १२.२५९ ॥

अस्ति गोदावरी नाम महाराष्ट्रेऽतिविश्रुता ।
तस्या उत्तरभागे तु सह्याद्रिः पुण्यपर्वतः ॥ १२.२६० ॥

तत्र मातापुरं नाम प्रसिद्धं देवतागृहम् ।
तस्मादुत्तरतो देवि कम्पाख्यं नगरं परम् ॥ १२.२६१ ॥

तत्र कम्पेश्वरो देवस् तत्रास्त्युष्णोदकं ध्रुवम् ।
प्रणीताख्या नदी तत्र स्नात्वा वै साधकोत्तमः ।
पश्चादुष्णोदके कुण्डे विधिं कुर्याद् यथोदितः ॥ १२.२६२ ॥

शर्वरीम् उषितस्तत्र धनवांश्च दिने दिने ।
भक्षयेन्मासमात्रं तु जीवेद् वर्षशताष्टकम् ॥ १२.२६३ ॥

वर्षमेकं प्रयुञ्जीत जीवेद्वर्षायुतं सुखी ।
वलीपलितनिर्मुक्तो भोगी चैव पुरंदरः ॥ १२.२६४ ॥

वर्षमेकं पिबेत् तोयं जीवेच्चन्द्रार्कतारकम् ।
तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ॥ १२.२६५ ॥

उष्णोदकं च कासीसं गन्धपाषाणसंयुतम् ।
चतुर्थांशेन रसकं दशभागं विनिक्षिपेत् ॥ १२.२६६ ॥

शुल्वं च मर्दयेत् सर्वं नष्टपिष्टं क्षणेन तु ।
तेन लेपितमात्रेण शुल्वं भवति काञ्चनम् ॥ १२.२६७ ॥

निषिक्तं तेन तोयेन प्रतिवापं ददेद् बुधः ।
शुल्वं च जायते हेम तरुणादित्यवर्चसम् ॥ १२.२६८ ॥

तज्जलेन निषिक्तं च हेम बीजार्थसंयुतम् ।
तारं चानेन मार्गेण निषिक्तं हेमतां व्रजेत् ॥ १२.२६९ ॥

उष्णोदकेन भल्लातं तिलपिष्टं च भक्षयेत् ।
मासद्वयप्रयोगेण जीवेद्वर्षशतत्रयम् ॥ १२.२७० ॥

रसगन्धाश्मरसकं तुत्थं दरदमाक्षिकम् ।
याममुष्णाम्भसा घृष्टं तारपत्त्राणि लेपयेत् ॥ १२.२७१ ॥

द्विवारं तु धमेद्देवि स्याच्चतुर्दशवर्णकम् ।
क्रमेणानेन देवेशि शुल्वं षोडशवर्णकम् ॥ १२.२७२ ॥

एकैकं हेमतारांशं द्वंद्वं कान्ताभ्रयोः पृथक् ।
उष्णोदकेन संमर्द्य धमनात् खोटतां व्रजेत् ॥ १२.२७३ ॥

तन्मुखे धारयेन्मासं वज्रकायो भवेन्नरः ।
तच्चूर्णं यवमात्रं तु भक्षयेन्मधुसर्पिषा ।
यावत् पलं तस्य मलैः शुल्वं भवति काञ्चनम् ॥ १२.२७४ ॥

उष्णोदपाचितान् खादेत् कुलत्थान् क्षीरपो भवेत् ।
स्नानमुष्णाम्भसा कुर्यात् वर्षाद्वर्षशतायुषम् ॥ १२.२७५ ॥

क्षीरमुष्णोदकं क्वाथं त्रिफलायाश्च पाचयेत् ।
पायसं कान्तपात्रे तन् मासम् एकं तु भक्षयेत् ।
भुक्त्वा जीवेत् कल्पशतं वैष्णवायुर् भवेन्नरः ॥ १२.२७६ ॥

अतः परं प्रवक्ष्यामि शैलोदकविधिं प्रिये ।
कर्दमापो महीशैलं शिलं चेति चतुर्विधम् ॥ १२.२७७ ॥

कानिचित् क्षणवेधीनि दिनवेधीनि कानिचित् ।
पक्षमासादिषण्मास- वेधनानि महीतले ॥ १२.२७८ ॥

क्षिप्तं यदा भवेत् काष्ठं शैलीभूतं च दृश्यते ।
बहिरन्तश्च देवेशि वेधकं तत् प्रकीर्तितम् ॥ १२.२७९ ॥

हिङ्गुलं हरितालं च गन्धकं च मनःशिला ।
एषां गन्धापहारं यत् कुरुते तच्च वेधकम् ॥ १२.२८० ॥

गन्धकं तालकं चैव तोयपूर्णे घटे क्षिपेत् ।
यदा तद्बुद्बुदाकारं तदा शैलोदकं भवेत् ।
अन्यथा वेष्टकं देवि तदग्राह्यं निरर्थकम् ॥ १२.२८१ ॥

श्रीशैले श्रीवनप्रान्ते पर्यङ्काख्ये शिलातले ।
तत्रस्थं क्षणवेधि स्यात् नदीभगवतीतटे ।
एकाहे वेधकं तत्र गोकर्णे तु दिनत्रयम् ॥ १२.२८२ ॥

भद्राङ्गे दिनवेधि स्यात् त्रिस्थलान्ते त्रिवासरम् ।
धारेश्वरे पाक्षिकं स्यात् वर्षापुर्यां दिनैकतः ॥ १२.२८३ ॥

ब्रह्मेश्वरे मासिकं स्यात् व्याघ्रपुर्यां तु वासरम् ।
अघोरेशे मासिकं तु सिंहद्वीपे तथा पुनः ।
दिनमेकं ब्रह्मगिरौ विन्ध्ये तु क्षणवेधकम् ॥ १२.२८४ ॥

वासरं माल्यवन्तेषु क्षणवेधि शिलोदकम् ॥ १२.२८५ ॥

किष्किन्ध्यापर्वते रम्ये पम्पातीरे तृणोदकम् ।
तस्य पश्चिमतो देवि योजनद्वितये पुनः ।
भूशैलमस्ति तत्रैव त्रिदिनं वेधि पर्वते ॥ १२.२८६ ॥

सह्याचले पुरे देव्याः क्षीरक्षेत्रस्य संनिधौ ।
शैलोदकं कोटिवेधि दुर्जदेशेऽपि वासरम् ।
लक्षवेधि नृसिंहस्य नगरे गोकुलाभिधे ॥ १२.२८७ ॥

अन्यत्र यत्र तत्रापि ब्रह्मविष्णुशिवोद्भवम् ।
अमृतं तत्र तत्रापि वज्रीकरणम् उत्तमम् ॥ १२.२८८ ॥

तस्योत्पत्तिं प्रवक्ष्यामि यथा जानन्ति साधकाः ॥ १२.२८९ ॥

महीं समुद्धृतवतो वराहस्य कलेवरात् ।
यः स्वेदः पतितस्तस्माज् जातं शैलोदकं परम् ॥ १२.२९० ॥

तन्मुखे क्षणिकं जातं क्रोडदेशे तु वासरम् ।
बाहुभ्यां त्र्यहवेधि स्यात् मासवेधि तु पार्श्वयोः ।
षण्मासमपराङ्गे च सर्वं समफलं भवेत् ॥ १२.२९१ ॥

अघोरास्त्रेण तत्क्षेत्र- रक्षां कृत्वा दिशां बलिम् ।
दत्त्वा लक्षं जपित्वा तु गृह्णीयादमृतं परम् ॥ १२.२९२ ॥

शरद्ग्रीष्मवसन्तेषु हेमन्ते वा सुरार्चिते ।
आयसे ताम्रपात्रे वा पात्रेऽलाबुमयेऽथवा ।
शैलाम्बुपलमष्टौ तु पलं क्षीरस्य निक्षिपेत् ॥ १२.२९३ ॥

क्षीरावशेषं संक्वाथ्य त्रिसप्ताहं पिबेन्नरः ।
जीवेद् वर्षसहस्रं तु वलीपलितवर्जितः ॥ १२.२९४ ॥

अथवाष्टपलं क्षीरं पलैकेनाम्बुना युतम् ।
क्षीरावशेषं सेवेत पूर्वोक्तं लभते फलम् ॥ १२.२९५ ॥

कुलत्थाष्टगुणं वारि पचेदष्टावशेषितम् ।
चतुर्गुणेन तेनाज्यं पाचयेद्धृतशेषितम् ॥ १२.२९६ ॥

लिह्यान्मधुसमोपेतं त्रिसप्ताहं बृहस्पतिः ।
मासेन शास्त्रसम्पत्तिं ज्ञात्वा देवि बलाबलम् ।
द्विर् अष्टवर्षकाकारः सहस्रायुर् न संशयः ॥ १२.२९७ ॥

अवशिष्टकुलत्थं तु पादांशं मधुसर्पिषा ।
भक्षयेद् वर्षम् एकं तु मासेनायुतजीवितः ॥ १२.२९८ ॥

तत्सिद्धतैलेनाभ्यङ्गं मर्दनं चापि कारयेत् ।
मासमेकं ततो मर्द्यं देहसिद्धिं करोति च ॥ १२.२९९ ॥

पामाविचर्चिकादद्रु- कुष्ठानि सहसा जयेत् ।
वलीपलितनिर्मुक्तः सहस्रायुश्च जायते ॥ १२.३०० ॥

यः पिबेत् प्रातरुत्थाय शैलाम्बुचुलुकत्रयम् ।
षण्मासात् स्यात् सहस्रायुर् वलीपलितवर्जितः ॥ १२.३०१ ॥

अथवा सूतकं देवि वारिणा सह मर्दयेत् ।
मासेनैकेन देवेशि नष्टपिष्टं भविष्यति ॥ १२.३०२ ॥

मासमात्रं समश्नीयात् स भवेदजरामरः ॥ १२.३०३ ॥

अथवा तं रसं हेम्ना हेमभस्म ततो बली ।
मर्दयेत्तेन तोयेन धामयेत् खदिराग्निना ॥ १२.३०४ ॥

गुटिका सुन्दरी नाम सर्वायुधनिवारणी ।
कर्ता हर्ता स्वयं सिद्धो जीवेच्चन्द्रार्कतारकम् ॥ १२.३०५ ॥

कुनटी चाभ्रमाक्षीकं हेम तारं तथैव च ।
तत् सर्वं पयसा क्षीरैर् मद्यं पाच्यं दिनत्रयम् ।
मासमात्रप्रयोगेण वलीपलितवर्जितः ॥ १२.३०६ ॥

अथ तेनोदकेनैव क्षीरार्धं पायसं पचेत् ।
मासमात्रप्रयोगेण वलीपलितनाशनम् ॥ १२.३०७ ॥

पक्त्वा तेनाम्भसा पथ्याः षष्टिं त्रीणि शतानि च ।
मधु संयोज्य भाण्डस्थं भूमौ सर्वं निधापयेत् ॥ १२.३०८ ॥

दिने दिने तथैकैकं भक्षयेत् प्रातरुत्थितः ।
वलीपलितनिर्मुक्तो जीवेद्वर्षसहस्रकम् ॥ १२.३०९ ॥

शैलीभूतं कुलत्थं वा भक्षयेन्मधुसर्पिषा ।
षण्मासेन प्राशनेन जीवेद्वर्षसहस्रकम् ॥ १२.३१० ॥

कूष्माण्डं मारितं कृत्वा यानि कानि फलानि च ।
जले क्षिप्तानि लोहानि शैलीभूतानि भक्षयेत् ।
क्षीराहारश्च जीर्णान्ते वज्रकायो भवेन्नरः ॥ १२.३११ ॥

तेनोदकेन संमर्द्य अभ्रकं क्वाथयेत् प्रिये ।
कटुत्रययुतं खादेत् जीवेद्वर्षसहस्रकम् ॥ १२.३१२ ॥

अथवा रसकर्षैकं तज्जलेन तु मर्दयेत् ।
इङ्गुदीफलमध्यस्थं तच्छैलोदकमध्यगम् ।
कालेन त्रिगुणेनैव काठिन्यं तस्य जायते ॥ १२.३१३ ॥

षण्मासं तन्मुखे धार्यं वज्रकायं करोति च ।
दशनागसमप्राणो देवैः सह च मोदते ॥ १२.३१४ ॥

गृहीत्वा त्रिफलां तत्र शैलवारिणि निक्षिपेत् ।
यदा भवति तच्छैलं गृहीत्वा चूर्णयेत् ततः ॥ १२.३१५ ॥

कान्तजीर्णरसं तेन सार्धं घृतमधुप्लुतम् ।
भक्षयेद्वर्षमेकं तु ततः क्षीराशनो भवेत् ॥ १२.३१६ ॥

उदयादित्यसंकाशो मेधावी प्रियदर्शनः ।
नीलकुञ्चितकेशश्च जीवेच्चन्द्रार्कतारकम् ॥ १२.३१७ ॥

पारदं हरितालं च शिला माक्षिकमेव च ।
दरदं च विषं चैव सर्वमेकत्र कारयेत् ॥ १२.३१८ ॥

मर्दयेत् खल्लपाषाणे मातुलुङ्गरसेन च ।
गोलकं कारयित्वा तु वारिमध्ये निधापयेत् ॥ १२.३१९ ॥

तेन तारं च शुल्वं च काञ्चनं भवति ध्रुवम् ॥ १२.३२० ॥

उपयुञ्जीत मासैकं वलीपलितवर्जितः ।
सहस्रं जीवितं तस्य महाबलपराक्रमः ॥ १२.३२१ ॥

शैलीभूतां हरिद्रां तु तच्चूर्णवापमात्रतः ।
हेमत्वं लभते नागो बालार्कसदृशप्रभम् ॥ १२.३२२ ॥

शैलोदके विनिक्षिप्य भूशैले कर्दमेऽपि वा ।
ज्ञात्वा कालप्रमाणेन बन्धयेत् पारदं ततः ॥ १२.३२३ ॥

रक्तक्षारयुतं ध्मातं सुवर्णं समसारितम् ।
शतांशेन तु लोहानां सर्वेषां हेमकारकम् ॥ १२.३२४ ॥

द्वितीयसारणां प्राप्य भक्षयेन्मधुसर्पिषा ।
तत्कालं चित्तजातानाम् ऊर्ध्वं भवति चानिलः ॥ १२.३२५ ॥

कालज्ञानं भवेत्तस्य जीवेदयुतपञ्चकम् ॥ १२.३२६ ॥

द्वितीयसारणां प्राप्य सहस्रांशेन विध्यति ।
तं खोटं धारयेद्वक्त्रे दिव्यत्वं लभते ध्रुवम् ॥ १२.३२७ ॥

निचुले ककुभे चैव किंशुके मधुकेऽपि वा ।
इङ्गुदीफलमध्ये वा रजनीद्वयमध्यतः ॥ १२.३२८ ॥

पारदं गन्धकं चैव मर्दयेत् गुलिकाकृति ।
पाचयेद्दिनमेकं तु हेम्ना संवेष्ट्य धारयेत् ॥ १२.३२९ ॥

त्रिफलाव्योषकल्केन वेष्टयित्वा प्रयत्नतः ।
पादेन कनकं दत्त्वा पारदं तत्र योजयेत् ।
क्षिपेच्छैलाम्बुमध्यस्थं गुलिका वज्रवद्भवेत् ॥ १२.३३० ॥

पूर्ववत् सारणा कार्या पूर्ववत् सिद्धिदा भवेत् ।
धार्यमाणा मुखे सा तु सहस्रायुष्करी भवेत् ॥ १२.३३१ ॥

द्वितीयसारणायोगाद् अयुतं वेधयेत्तु सा ।
धार्यमाणा मुखे सेयम् अयुतायुःप्रदा भवेत् ॥ १२.३३२ ॥

तृतीयसारणायोगाज् जायते लक्षवेधिनी ।
तं खोटं धारयेद्वक्त्रे लक्षायुर्जायते नरः ॥ १२.३३३ ॥

चतुर्थीं सारणां प्राप्य कोटिवेधो न संशयः ।
कोट्यायुर्जीवितं तस्य खेचरत्वं च लभ्यते ॥ १२.३३४ ॥

पञ्चभिर् दशकोटिः स्यात् षड्भिः कोटिशतं भवेत् ।
यावच्चन्द्रार्कजीवित्वम् अनन्तबलवीर्यवान् ॥ १२.३३५ ॥

ददाति सप्तमीं सापि सारणां गुटिका परा ।
खेचरी नाम विख्याता भैरवेण प्रचोदिता ॥ १२.३३६ ॥

यस्तु तद्राजिकामात्रं मासमेकं तु भक्षयेत् ।
वज्रदेहः स सिद्धः स्यात् दिव्यस्त्रीजनवल्लभः ।
क्रीडते खेचरैर् भोगैः स्वेच्छया शिवतां व्रजेत् ॥ १२.३३७ ॥

नानाविधफलं च स्यात् तद्रसैर् बीजतैलतः ।
तद्बद्धं पारदं चैव गुटिकां शृणु सुन्दरि ॥ १२.३३८ ॥

शुद्धबद्धरसेन्द्रस्तु गन्धकं तत्र जारयेत् ।
त्रिगुणे गन्धके जीर्णे तेन हेम तु कारयेत् ॥ १२.३३९ ॥

कारयेद्भस्म सूतं तु काञ्चनं तत्र सूतकम् ।
तद्भस्म सूतके जार्यं रसेन्द्रस्य समे समम् ॥ १२.३४० ॥

तेन सूतकजीर्णेन वज्ररत्नं तु जारयेत् ।
तद्वज्रं जायते भस्म सिन्दूरारुणसंनिभम् ॥ १२.३४१ ॥

तद्भस्म जारयते सूते त्रिगुणे तु सुरार्चिते ।
हाटके सारयेत्तं तु गुटिकां तेन कारयेत् ॥ १२.३४२ ॥

त्रिलोहावेष्टितं तं तु मुखे प्रक्षिप्य साधकः ।
नष्टच्छायो भवेत् सोऽयम् अदृश्यो देवदानवैः ॥ १२.३४३ ॥

तत्क्षणाद्वेधयेद्देवि सर्वलोहानि काञ्चनम् ।
बहुवर्षसहस्राणि निर्वलीपलितो भवेत् ॥ १२.३४४ ॥

शूलिनं शक्तिसंयुक्तं रत्नादिगुणभूषितम् ।
वक्त्रे करे च बिभृयात् सर्वायुधनिवारणात् ॥ १२.३४५ ॥

व्योम माक्षिकसत्त्वं च तारामात्रं सुरायुधम् ।
वैक्रान्तं तालकं सूतं रत्नादिगुणभूषितम् ॥ १२.३४६ ॥

गुटिका सा वरारोहे मधुरत्रयसंयुता ।
वक्त्रस्था नाशयेत् साक्षात् पलितं नात्र संशयः ।
शिवशक्तिश्च देवेशि रत्नादिशिवगा यथा ॥ १२.३४७ ॥

हेम तारं तथा भानुं समभागानि कारयेत् ।
स्त्रीरजो व्याघ्रमध्यस्थं पद्मसूत्रेण वेष्टयेत् ॥ १२.३४८ ॥

सेचयेत्तत् तथावेष्ट्य गुह्यस्थाने निधापयेत् ।
रणे राजकुले द्यूते दिव्ये काम्ये जयो भवेत् ।
यन्मुखे चैव तद्गोलं स सर्वरञ्जको भवेत् ॥ १२.३४९ ॥

वैक्रान्ताभ्रककान्तं तु सस्यकं तु सुरायुधम् ।
विभीतकादिसम्भूत- काञ्चिकस्य समं भवेत् ॥ १२.३५० ॥

राजावर्तं ततः सूते योजयेत् पादयोगतः ।
कुमारीरससंघृष्टा कृतैका गुटिका शुभा ।
रोगमृत्युजरा हन्ति वक्त्रस्था नात्र संशयः ॥ १२.३५१ ॥

पञ्चतारं वरारोहे सूतकं द्वयमेव च ।
त्रयो गगनभागाः स्युर् एकैकं हेमकान्तयोः ॥ १२.३५२ ॥

अर्धशुल्वविधानेन गुटिकामरसुन्दरि ।
अक्षयो ह्य् अजरश्चैव भवेत्तेन महाबलः ।
सर्वरोगविनिर्मुक्तो जीवेद्वक्त्रे विधारणात् ॥ १२.३५३ ॥

भस्मसूतपलैकं च मृतकान्तपलं तथा ।
माक्षिकस्य पलं चैव शिलाजतुपलं पुनः ॥ १२.३५४ ॥

पलमेकं विडङ्गस्य पथ्याचूर्णपलं तथा ।
एकीकृत्याथ तत् सर्वं मध्वाज्येन तु पेषयेत् ॥ १२.३५५ ॥

गुटिकाः कारयेद्देवि षष्ट्यधिकशतत्रयम् ।
एकैकं भक्षयेन्नित्यं वर्षमेकं निरन्तरम् ॥ १२.३५६ ॥

जीवेद्वर्षसहस्राणि रुद्रतुल्यो महाबलः ॥ १२.३५७ ॥

अतः परं प्रवक्ष्यामि रसभस्मरसायनम् ।
विज्ञेयं निष्परीहारं साक्षाद्दिव्यौषधं परम् ॥ १२.३५८ ॥

आमलक्यादि कान्तं च पारदं च मनःशिलाम् ।
वाकुचीसप्तभागं च क्षीरिणीरसपेषितम् ।
मेघनादरसोपेतं मूकमूषागतं पुटेत् ॥ १२.३५९ ॥

माषं त्रिमाषं त्रिगुणं भक्षयेत्तु क्रमेण तु ।
वर्षत्रयपरं देवि पादनिष्कार्धकं क्रमात् ॥ १२.३६० ॥

षट् सप्ताष्टौ च वर्षाणि क्रमान् निष्कप्रमाणतः ।
भुञ्जीत स च दिव्यान्नं जरावैरूप्यवर्जितः ॥ १२.३६१ ॥

किंचित् काञ्चनसंयुक्तं निष्कं निष्कार्धमेव च ।
यो भक्षयेत् त्रिभिर्वर्षैः सर्वव्याधीन् जयत्यलम् ॥ १२.३६२ ॥

अष्टवर्षे सहस्रायुः द्वादशे लक्षवेधकः ।
षोडशे वत्सरे देवि दिव्यरूपः स जायते ॥ १२.३६३ ॥

शतपलम् अभयानाम् अक्षधात्र्योस् तथैव क्वथितजलशताष्टौ भागमष्टावशेषम् ।
घृतमधुसितयाढ्यं व्योषचित्रं दशांशं रसफलरससिद्धं लोहजीर्णं मृतं च ॥ १२.३६४ ॥

गिरिजतुसममभ्रं कान्तभृङ्गं विडङ्गं रससहितसुभाव्यं तण्डुलैर्दिव्यमुख्यैः ।
अहिमरकृतकल्कं लोहपात्रस्थमाषं त्रिदिनतनुसुसिद्धं कल्कमेतद्वरिष्ठम् ॥ १२.३६५ ॥

लिहति शयनकाले वामनेत्रावसेवी घननिबिडसुमध्यो मत्तमातंगदर्पः ।
विगतसकलदोषः सर्वदिग्दिव्यचक्षुः मदन इव सुकान्तिः कामिनीनां प्रवीरः ॥ १२.३६६ ॥

जलदलववपुष्मान् कुञ्चितानीलकेशः सुरगुरुरिव शुद्धः सत्कविश्चित्रकारी ।
वृषभगतिविचेष्टः स्निग्धगम्भीरघोषः सुरगज इव लोके श्रान्तिहन्ताशु नित्यम् ॥ १२.३६७ ॥

प्रभवति खलु लोके सोमतारार्कजीवी कमलसदनसुश्रीर् न्यायशास्त्रादिवेत्ता ।
सुजनसमयपाता धर्मदीक्षानुमाता हरिहरमगभीरः सूर्यसोमाब्धिधीरः ॥ १२.३६८ ॥

कान्तहेमरविचन्द्रमभ्रकं गोलकं निहितमिङ्गुदीफले ।
शैलवारिवरसिद्धगोलकं सुन्दरं ह्य् अमररञ्जकं शुभम् ॥ १२.३६९ ॥

कान्तहेमरविचन्द्रम् अभ्रकं वज्ररत्नम् अहिराजगोलकम् ।
क्षिप्तम् आमलककाष्ठकोटरे भूमिशैलनिहितं समुद्धृतम् ।
शैलतां गतमथाहितं मुखे वज्रकायकरम् अल्पवासरैः ॥ १२.३७० ॥

तालहेमवरशुल्बसूतकैः गोलकं वरणकाष्ठयन्त्रितम् ।
शैलवारिकृतसुन्दरीरसं खेचरीति गुटिका निगद्यते ॥ १२.३७१ ॥

शैलाम्बुनिक्षिप्तपलाशबीजं शैलीकृतं क्षौद्रघृतेन खादेत् ।
त्रिःसप्तरात्रं दिनमेकमेकं सहस्रजीवी विजयी नरः स्यात् ॥ १२.३७२ ॥

सूतकं चाभ्रकं चैव वज्रीक्षीरसमन्वितम् ।
हाटकेन समायुक्तं गुटिका खेचरी भवेत् ॥ १२.३७३ ॥

करञ्जफलमध्यस्थं सूतकं तत्र निक्षिपेत् ।
घृतशैलाम्बुमध्यस्थं सहस्रायुः प्रयच्छति ॥ १२.३७४ ॥

तिन्दुके द्विसहस्रायुः जम्बीरे त्रिसहस्रकम् ।
मातुलुङ्गे च नारङ्गे चतुःपञ्चसहस्रकम् ॥ १२.३७५ ॥

रम्भाफले षट्सहस्रं पनसे सप्तसंख्यकम् ।
विभीतकफले चैव दशसाहस्रसंख्यकम् ॥ १२.३७६ ॥

नारिकेले महाभागे सहस्राणि चतुर्दश ।
त्रिंशत्सहस्रं पद्मे च लक्षमामलके पुनः ॥ १२.३७७ ॥

अभ्रपत्त्रद्रवे क्वाथम् अहोरात्रं शिलोदके ।
तस्मात्तु चोद्धृतं सूतं मृत्युदारिद्र्यनाशनम् ॥ १२.३७८ ॥

सारणाक्रमयोगेन नवीनं जायते वपुः ।
रसे रसायने चैव लक्षवेधी न संशयः ॥ १२.३७९ ॥

कर्दमं च कुमार्याश्च रसेन कृतगोलकम् ।
धमनात् पतते सत्त्वं मुखे तद्धारयेन्नरः ।
षण्मासेन प्रयोगेण ह्य् अजरामरतां व्रजेत् ॥ १२.३८० ॥

स्रोतोञ्जनयुतं ध्मातं सत्त्वं पारदमिश्रितम् ।
तं खोटं धारयेद्वक्त्रे अदृश्यो भवति ध्रुवम् ॥ १२.३८१ ॥

यस्य यो विधिराम्नात उदकस्य शिवागमे ।
रसेनैव तु काले तु कुर्यादेव रसायनम् ॥ १२.३८२ ॥

Source[सम्पाद्यताम्]

वाह्यसूत्राणि[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=रसार्णवः&oldid=162369" इत्यस्माद् पुनः प्राप्तिः