रसप्रकाशसुधाकरः

विकिस्रोतः तः
रसप्रकाशसुधाकरः
[[लेखकः :|]]


अध्यायः १[सम्पाद्यताम्]


शशिकलाकलितं हि शुभाननं शिवनिधानमथो ऋषिपूजितम् ।
जननपालनसंहरणात्मकं हरिहरं प्रथमं प्रणमाम्यहम् ॥ १.१ ॥
कुमुदकुन्दसिताम्बरधारिणीं विमलमौक्तिकहारसुशोभिताम् ।
सकलसिद्धगणैरपि सेवितामहरहः प्रणमामि च शारदाम् ॥ १.२ ॥
वदनकुंजरमभ्रदलद्युतिं त्रिनयनं च चतुर्भुजवामनम् ।
कनकरत्नसुशोभितशेखरं गणपतिं प्रथमं प्रणमाम्यहम् ॥ १.३ ॥
गिरिशधाम सदा महदद्भुतं सकलरोगविघातकरं परम् ।
सकलसिद्धिसमूहविशारदं प्रणतपापहरं भवपारदम् ॥ १.४ ॥
<ईन्हल्त्स्वेर्शेइछ्निस्>
प्रथमं पारदोत्पत्तिं कथयामि यथातथम् ।
ततः शोधनकं तस्य तथाष्टादश कर्म च ॥ १.५ ॥
चतुर्धा बंधविज्ञानं भस्मत्वं सूतकस्य च ।
धातूनां शोधनं चैव मारणं गुणवर्णनम् ॥ १.६ ॥
अष्टौ महारसाः सम्यक्प्रोच्यन्तेऽत्र मया खलु ।
तथा चोपरसानां हि गुणाः शोधनमारणम् ॥ १.७ ॥
द्रुतिपातं च सर्वेषां कथयामि सविस्तरम् ।
रत्नानां गुणदोषश्च तथा शोधनमारणम् ॥ १.८ ॥
क्रामणं रंजनं चैव द्रुतिमेलानकं रसे ।
रसांश्च शतसंख्याकान् कथयामि सविस्तरात् ॥ १.९ ॥
औषधीनां समाख्याता भेदाश्चत्वार एव च ।
दिव्यौषध्यो रसौषध्यः सिद्धौषध्यस्तथा पराः ॥ १.१० ॥
महौषध्य इति प्रोक्ता यंत्राण्यथ पुटानि च ।
मूषाश्चैव हि धातूनां कौतुकानि समासतः ॥ १.११ ॥
वाजीकरणयोगाश्च शुक्ररतंभकरास्त ।
नातिसंक्षेपविस्तारात्ग्रंथेऽस्मिन् परिकल्पिताः ॥ १.१२ ॥
<सूतोत्पत्ति (मिथिल्fए एइनेर्स्छ्ण्नेन् Fरौ)>
हिमालयात्पश्चिमदिग्विभागे गिरीन्द्रनामा रुचिरोऽस्ति भूधरः ।
तत्सन्निधानेऽतिसुवृत्तकूपे साक्षाद्रसेंद्रो निवसत्ययं हि ॥ १.१३ ॥
कुमारिकारूपगुणेन युक्ता स्वलंकृता वाहवरेऽधिरूढा ।
तत्रागता कूपमवेक्षमाणा निवर्तिता सा महता जवेन ॥ १.१४ ॥
प्रधावितः सूतवरश्चतुर्षु ककुप्सु भूमौ पतितो हि नूनम् ॥ १.१५ ॥
परितः पर्वतात्सम्यक्क्षेत्रं द्वादशयोजनम् ।
विस्तीर्णं च सुवृत्तं हि सूतकस्य समीरितम् ॥ १.१६ ॥
तन्मृदः पातने यंत्रे पातितः खलु रोगहा ।
जायते रुचिरः साक्षादुच्यते पारदः स्वयम् ॥ १.१७ ॥
<मेर्चुर्य्:: सुब्त्य्पेस्:: चस्ते (अfतेरेमनतिओन् fरों थे wएल्ल्)>
कूपाद्विनिःसृतः सूतश्चतुर्दिक्षु गतो द्विजः ।
क्षत्रियो वैश्यशूद्रौ च चतुर्णां जायते खलु ॥ १.१८ ॥
<मेर्चुर्य्:: सुब्त्य्पेस्:: चोलोउर्>
श्वेता कृष्णा तथा पीता रक्ता वै जायते छविः ।
प्राच्यां याम्यां प्रतीच्यां च कौबेर्यां च दिशि क्रमात् ॥ १.१९ ॥
<मेर्चुर्य्:: सुब्त्य्पेस्:: चोलोउर्:: उसे>
श्वेतः श्वेतविधाने स्यात्कृष्णो देहकरस्तथा ।
पीतवर्णः स्वर्णकर्ता रक्तो रोगविनाशकृत् ॥ १.२० ॥
सर्व एकीकृता एव सर्वकार्यकराः सदा ।
सेविताः सर्वरोगघ्नाः सर्वसिद्धिविधायकाः ॥ १.२१ ॥
इत्थं सूतोद्भवं ज्ञात्वा न रोगैवार्ध्यते खलु ।
शोधितो मारितश्चैव क्रामितः सारितः शुभः ॥ १.२२ ॥
<पारद्ना आठ्संस्कारथवा कर्म्>
स्वेदनं मर्दनं चैव मूर्च्छनं स्यात्तदुत्थितम् ।
पातनं रोधनं सम्यक्नियामनसुदीपने ॥ १.२३ ॥
तथाभ्रकग्रासमान- चारणं च क्रमेण हि ।
गर्भद्रुतिर्बाह्यद्रुतिः प्रोक्तं जारणकं तथा ॥ १.२४ ॥
सारणं क्रामणं प्रोक्तं वेधकर्म च रंजनम् ।
सेवनं पारदस्याथ कर्माण्यष्टादशैव हि ।
उद्देशतो मयात्रैव नामानि कथितानि वै ॥ १.२५ ॥
<पारददोषाः>
दोषाः पञ्च समुद्दिष्टाः पारदानां भिषग्वरैः ।
मलो विषं तथा वह्निर्मदो दर्पश्च वै क्रमात् ।
मूर्च्छां मृत्युं मदं चैव स्फोटं कुर्युः शिरोभ्रमम् ॥ १.२६ ॥
<पारदकञ्चुकाः>
कञ्चुकाः सप्त सूतस्य कथयामि यथार्थतः ।
नामानि कथयाम्येषां देवीशास्त्रानुसारतः ॥ १.२७ ॥
मृच्छैलजलशुल्बायो- नागवंगसमुद्भवाः ।
सूतके कंचुकाः सप्त ततश्चैव विषोपमाः ॥ १.२८ ॥
<मेर्चुर्य्:: उसे ओf शोधन>
द्वादशैव हि दोषाः स्युर्यैश्च निष्कासिता द्विजैः ।
तेषां हि रससिद्धिः स्यादपरे यमसन्निभाः ।
तस्माद्दोषापहरणं कर्तव्यं भिषगुत्तमैः ॥ १.२९ ॥
<स्वेदन>
तत्र स्वेदनकं कुर्याद्यथावच्च शुभे दिने ।
सूतस्य स्वेदनं कार्यं दोलायंत्रेण वार्तिकैः ॥ १.३० ॥
क्षारौ चाम्लेन सहितौ तथा च पटुपंचकम् ।
त्रिकटु त्रिफला चैव चित्रकेण समन्विता ॥ १.३१ ॥
पुष्पकासीससौराष्ट्र्यौ सर्वाण्येव तु मर्दयेत् ।
ओषधानि समांशानि रसादष्टमभागतः ॥ १.३२ ॥
कृत्वान्धमूषां तेषां तु तन्मध्ये पारदं क्षिपेत् ।
त्रिगुणेन सुवस्त्रेण भूर्जपत्रेण वेष्टयेत् ॥ १.३३ ॥
गुणेन काष्ठखण्डे वै बद्धां तु रसपोटलीम् ।
लम्बायमानां भाण्डे तु तुषवारिप्रपूरिते ॥ १.३४ ॥
त्रिदिनं स्वेदयेत्सम्यक्स्वेदनं तदुदीरितम् ॥ १.३५ ॥
<२. मर्दन>
अथ मर्दनकं कर्म येन शुद्धतमो रसः ।
प्रजायते विस्तरेण कथयामि यथातथम् ॥ १.३६ ॥
खल्वे विमर्दयेत्सूतं दिनानि त्रीणि चैव हि ।
<खल्व:: दिमेन्सिओन्स्>
अथ खल्वप्रमाणं हि वक्ष्ये तत्र मयाधुना ॥ १.३७ ॥
कलांगुलस्तदायामश्चोत्सेधोऽपि नवांगुलः ।
विस्तरेण तथा कुर्यान्निम्नत्वेन षडङ्गुलम् ॥ १.३८ ॥
द्व्यंगुलः पृष्ठविस्तारो मध्येऽतिमसृणीकृतः ।
<पेस्त्ले:: सिशे>
अर्धचन्द्राकृतिश्चापि मर्दकोऽत्र दशांगुलः ॥ १.३९ ॥
<मर्दन (चोन्त्.)>
सूतः पञ्चपलस्तस्मिन्मर्दयेत्काञ्जिकैस्त्र्यहम् ।
बहिर्मलविनाशाय रसराजं तु निश्चितम् ॥ १.४० ॥
उष्णकांजिकतोयेन क्षालयेत्तदनन्तरम् ॥ १.४१ ॥
<३. मूर्छन>
अतःपरं प्रवक्ष्यामि पारदस्य तु मूर्च्छनम् ।
मूर्च्छनं दोषरहितं सप्तकञ्चुकनाशनम् ॥ १.४२ ॥
स्वर्जिका यावशूकश्च तथा च पटुपंचकम् ।
अम्लौषधानि सर्वाणि सूतेन सह मर्दयेत् ॥ १.४३ ॥
खल्वे दिनत्रयं तावद्यावन्नष्टत्वमाप्नुयात् ।
स्वरूपस्य विनाशेन मूर्च्छनं तदिहोच्यते ।
निर्मलत्वमवाप्नोति ग्रन्थिभेदश्च जायते ॥ १.४४ ॥
<४. उत्थापन>
अथोत्थापनकं कर्म पारदस्य भिषग्वरैः ।
करणीयं प्रयत्नेन रसशास्त्रस्य वर्त्मना ॥ १.४५ ॥
दोलायंत्रे ततः स्वेद्यः पूर्ववद्दिवसत्रयम् ।
सूर्यातपे मर्दितोऽसौ दिनमेकं शिलातले ।
उत्थापनं भवेत्सम्यक्मूर्छादोषविनाशनम् ॥ १.४६ ॥
<५. पातन>
पातनं हि महत्कर्म कथयामि सुविस्तरम् ।
त्रिधा पातनमित्युक्तं रसदोषविनाशनम् ॥ १.४७ ॥
ऊर्ध्वपातस्त्वधःपातस्तिर्यक्पातः क्रमेण हि ।
<ऊर्ध्वपातनयन्त्र>
ऊर्ध्वपातनयंत्रस्य लक्षणं तदिहोच्यते ।
मृण्मयी स्थालिका कार्या चोच्छ्रिता तु षडंगुला ॥ १.४८ ॥
मुखे सप्ताङ्गुलायामा परितस्त्रिदशांगुला ।
इयन्माना द्वितीया च कर्तव्या स्थालिका शुभा ॥ १.४९ ॥
क्षारद्वयं रामठं च तथा हि पटुपञ्चकम् ।
अम्लवर्गेण संयुक्तं सूतकं तैस्तु मर्दयेत् ॥ १.५० ॥
लेपयेत्तेन कल्केन अधःस्थां स्थालिकां शुभाम् ।
उपरिस्थामधोवक्त्रां दत्त्वा संपुटमाचरेत् ॥ १.५१ ॥
सभस्मलवणेनैव मुद्रां तत्र प्रकारयेत् ।
चुल्यां स्थालीं निवेश्याथ धान्याग्निं तत्र कारयेत् ॥ १.५२ ॥
तस्योपरि जलाधानं कार्यं यामचतुष्टयम् ।
स्वाङ्गशीतलतां ज्ञात्वा ऊर्ध्वंगं ग्राहयेद्रसम् ॥ १.५३ ॥
ऊर्ध्वपातनयंत्रं हि तदेवं परिकीर्तितम् ।
<५.२. अधःपातन>
पूर्वोक्तां स्थालिकां सम्यक्विपरीतां तु पंकिले ।
गर्ते तु स्थापितां भूमौ ज्वालयेन्मूर्ध्नि पावकम् ॥ १.५४ ॥
यामत्रितयपर्यंतमधः पतति पारदः ।
अधःपातनयंत्रं हि कीर्तितं रसवेदिभिः ॥ १.५५ ॥
<५.३. तिर्यक्पातन>
पूर्वोक्तैरौषधैः सार्धं रसराजं विमर्दयेत् ।
तिर्यग्घटे रसं क्षिप्त्वा तन्मुखे ह्यपरो घटः ॥ १.५६ ॥
कनीयानुदरे छिद्रं छिद्रे चायसनालिकाम् ।
नालिकां जलपात्रस्थां कारयेच्च भिषग्वरैः ॥ १.५७ ॥
अधस्ताद्रसयंत्रस्य तीव्राग्निं ज्वालयेद्बुधः ।
यामत्रितयपर्यंतं तिर्यक्पातो भवेद्रसः ॥ १.५८ ॥
यंत्राणां पातनानां च त्रितयं सुकरं खलु ॥ १.५९ ॥
कथितं हि मया सम्यक्रसागमनिदर्शनात् ॥ १.६० ॥
<६. रोधन>
अधुना कथयिष्यामि रसरोधनकर्म च ।
यत्कृते च पलत्वं हि रसराजस्य शाम्यति ॥ १.६१ ॥
सिन्धूद्भवं दशपलं जलप्रस्थत्रयं तथा ।
धारयेद्घटमध्ये च सूतकं दोषवर्जितम् ॥ १.६२ ॥
पिधानेन यथा सम्यक्मुद्रितं मृत्स्नया खलु ।
निर्वाते निर्जने देशे धारयेद्दिवसत्रयम् ॥ १.६३ ॥
अनेनैव प्रकारेण रोधनं कुरु वैद्यराट् ॥ १.६४ ॥
<७. नियामन>
अतःपरं प्रवक्ष्यामि पारदस्य नियामनम् ।
जलसैंधवसंयुक्तो घटस्थो हि रसोत्तमः ।
दिनत्रयं स्वेदितश्च वीर्यवानपि जायते ॥ १.६५ ॥
<८. दीपन>
अथेदानीं प्रवक्ष्यामि रसराजस्य दीपनम् ।
बुभुक्षा व्यापकत्वं च येन कृत्वा प्रजायते ॥ १.६६ ॥
राजिका लवणोपेता मरिचं शिग्रुटंकणे ।
कासीससंयुता कांक्षी कांजिकेन समन्वितैः ॥ १.६७ ॥
दिनानि त्रीणि संस्वेद्य पश्चात्क्षारेण मर्दयेत् ।
अनेनैव प्रकारेण दीपनं जायते ध्रुवम् ॥ १.६८ ॥
तीव्रत्वं वेगकारित्वं व्यापकत्वं बुभुक्षुता ।
बलवत्त्वं विशेषेण कृते सम्यक्प्रजायते ॥ १.६९ ॥
<८.१. दीपन: मुखोत्पादन>
मुखोत्पादनकं कर्म प्रकारो दीपनस्य हि ।
कथयामि समासेन यथावद्रसशोधनम् ॥ १.७० ॥
अष्टादशांशभागेन कनकेन च सूतकः ।
निम्बूरसेन संमर्द्यो वासरैकमतःपरम् ॥ १.७१ ॥
क्षारैश्च लवणै रम्यैः स्वेदितः कांजिकेन हि ।
क्षालिते कांजिकेनैव वक्त्रं भोक्तुं प्रजायते ॥ १.७२ ॥
<८.२. दीपन: मुखोत्पादन (२)>
ताप्यसत्वं कलांशेन हेम्ना तद्द्विगुणेन च ।
तप्तमायसखल्वेन तप्तेनाथ प्रमर्दयेत् ॥ १.७३ ॥
व्यक्तं हि रसचुक्रेण क्षारेण चणकस्य हि ।
जंबीरपूरकजलैर्मर्दयेदेकविंशतिम् ॥ १.७४ ॥
वासरे याममेकं तु प्रत्येकं हि विमर्दयेत् ।
यातुधानमुखं सम्यक्यात्येव हि न संशयः ॥ १.७५ ॥
द्वितीयो दीपनस्यैवं प्रकारः कथितो मया ।
सूतस्याष्टौ च संस्काराः कथिता देहकर्मणि ॥ १.७६ ॥
तथा च दश कर्माणि देहलोहकराणि हि ॥ १.७७ ॥
<९. ग्रासमान>
अथेदानीं प्रवक्ष्यामि भक्षणं चाभ्रकस्य हि ।
करोटिविधिना सम्यक्कर्तव्यं लोहसंपुटम् ॥ १.७८ ॥
जलयंत्रस्य योगेन विडेन सहितो रसः ।
भक्षयत्येव चाभ्रस्य कवलानि न संशयः ॥ १.७९ ॥
<जलयन्त्र>
अतो हि जलयंत्रस्य लक्षणं कथ्यते मया ।
सुवृत्तं लोहपात्रं च जलं तत्राढकत्रयम् ॥ १.८० ॥
तन्मध्ये सुदृढं सम्यक्कर्तव्यं लोहसंपुटम् ।
लोहसंपुटमध्ये तु निक्षिप्तं शुद्धपारदम् ॥ १.८१ ॥
बिडेन सहितं चैव षोडशांशेन यत्नतः ।
चतुःषष्ट्यंशकं चाभ्र- सत्त्वं संपुटके तथा ॥ १.८२ ॥
संपुटं मुद्रयेत्पश्चात्दृढया तोयमृत्स्नया ।
वह्निमृत्तिकया वापि संधिरोधं तु कारयेत् ॥ १.८३ ॥
चुल्यां निवेश्य तं यंत्रं जलेनोष्णेन पूरितम् ।
क्रमादग्निः प्रकर्तव्यो दिवसार्धकमेव हि ॥ १.८४ ॥
एवं कृते ग्रासमानं भक्षयेन्नात्र संशयः ।
अनेनैव प्रकारेण षड्ग्रासं भक्षयेद्ध्रुवम् ॥ १.८५ ॥
भक्षिते चाभ्रसत्त्वे तु सर्वकार्येषु सिद्धिदः ।
<विडमान>
मानं मानविहीनेन कर्तुं केन न शक्यते ॥ १.८६ ॥
तस्मान्मया मानकर्म कथितव्यं यथोदितम् ।
चतुःषष्ट्यंशतो बीजं पारदान्मुखकारकम् ॥ १.८७ ॥
पश्चाद्द्वात्रिंशभागेन दातव्यं बीजमुत्तमम् ।
ततःषोडशभागेन बीजस्य कवलं न्यसेत् ॥ १.८८ ॥
रसादष्टमभागेन दातव्यं भिषगुत्तमैः ।
चतुर्थेनाथ भागेन ग्रास एवं प्रदीयते ॥ १.८९ ॥
तथा च समभागेन ग्रासेनैव च साधयेत् ।
बिडेन षोडशांशेन क्षुधितो जायते रसः ॥ १.९० ॥
यदा जीर्णो भवेद्ग्रासः पातितश्च विडेन हि ॥ १.९१ ॥
<बिड>
कासीससिन्धुलवण- सौवर्चलसुराष्ट्रिकाः ।
गंधकेन समं कृत्वा विडोऽयं वह्निकृद्भवेत् ॥ १.९२ ॥
<१०. चारण>
अथ गर्भद्रुतेः कर्म चारणं गुणवर्धनम् ।
कथयामि यथातथ्यं रसराजस्य सिद्धिदम् ॥ १.९३ ॥
ताप्यसत्वाभ्रसत्त्वं च घोषाकृष्टं च ताम्रकम् ।
समभागानि सर्वाणि ध्मापयेत्खदिराग्निना ॥ १.९४ ॥
भस्त्रिकाद्वितयेनैव यावदभ्रकशेषकम् ।
तदभ्रसत्वं सूतस्य चारयेत्समभागिकम् ॥ १.९५ ॥
<११. गर्भद्रुति>
अनेनैव प्रकारेण त्रिगुणं जारणं रसे ।
गर्भद्रुतेर्जारणं हि कथितं भिषगुत्तमैः ॥ १.९६ ॥
<१२. बाह्यद्रुति>
बाह्यद्रुतिविधानं हि कथ्यते गुरुमार्गतः ।
अभ्रसत्वं हि मूषायां वज्रवल्लीरसेन हि ॥ १.९७ ॥
सौवर्चलेन संध्मातं रसरूपं प्रजायते ।
अभ्रद्रुतेश्च सूतस्य समांशैर्मेलनं कृतम् ॥ १.९८ ॥
तेन बन्धत्वमायाति बाह्या सा कथ्यते द्रुतिः ।
बाह्यद्रुतिक्रियाकर्म शिवभक्त्या हि सिध्यति ॥ १.९९ ॥
गुरोः प्रसादात्सततं महाभैरवपूजनात् ।
शिवयोरर्चनादेव बाह्यगा सिध्यति द्रुतिः ॥ १.१०० ॥
<१३. जारण>
अथ जारणकं कर्म कथयामि सुविस्तरम् ।
अभ्रकं ताप्यसत्वं च समं कृत्वा तु संधमेत् ॥ १.१०१ ॥
अभ्रशेषं कृतं यच्च तत्सत्वं जारयेद्रसे ।
एवं पूतिद्वयेनैव घनसत्वं हि साधयेत् ॥ १.१०२ ॥
धातुवादविधानेन लोहकृत्देहकृन्न हि ।
गजवंगौ महाघोरावसेव्यौ हि निरन्तरम् ॥ १.१०३ ॥
साधितं घनसत्वं तद्रेतितं रजःसन्निभम् ।
बुभुक्षितरसस्यास्ये निक्षिप्तं वल्लमात्रकम् ॥ १.१०४ ॥
रसो गद्याणकस्यापि तुर्यभागः प्रकीर्तितः ।
ताम्रपात्रस्थमम्लं वै सैंधवेन समन्वितम् ॥ १.१०५ ॥
क्षीरेण सहितं वापि प्रहितं द्विदिनावधि ।
जातं तुत्थसमं नीलं कल्कं तत्प्रोच्यते बुधैः ॥ १.१०६ ॥
कल्केनानेन सहितं सूतकं च विमर्दयेत् ।
दिनत्रयं तप्तखल्वे धौतः पश्चाच्च कांजिकैः ॥ १.१०७ ॥
स्थापयेत्कांस्यपात्रे तु तदूर्ध्वाधो विडं न्यसेत् ।
रसस्याष्टमभागेन संपुटं कारयेत्ततः ॥ १.१०८ ॥
भूर्जपत्रैर्मुखं रुद्ध्वा सूत्रेणैव तु वेष्टयेत् ।
संपुटं वाससावेष्ट्य दोलायां स्वेदयेत्ततः ॥ १.१०९ ॥
गोमूत्रेणाम्लवर्गेण कांजिकेन दिनं दिनम् ।
अश्मपात्रेऽथ लोहस्य पात्रे काचमयेऽथवा ॥ १.११० ॥
उष्णकांजिकतोयेन क्षालयित्वा रसं ततः ।
दृढे चतुर्गुणे वस्त्रे क्षिप्त्वाधः पीडनाद्रसः ॥ १.१११ ॥
निपतत्यन्यपात्रे तु सर्वोऽपि यदि पारदः ।
तदाभ्रं जारितं सम्यक्दण्डधारी भवेद्रसः ॥ १.११२ ॥
ग्रासमाने पुनर्देयमभ्रबीजमनुत्तमम् ।
अष्टग्रासेन सर्वं हि जारयेद्गुरुमार्गतः ॥ १.११३ ॥
एवं कृते समं चाभ्रं सूतके जीर्यति ध्रुवम् ।
स्वहस्तेन कृतं सम्यक्जारणं न श्रुतं मया ॥ १.११४ ॥
<मेर्चुर्य्:: "अगे" अच्चोर्दिन्ग्तो जारण>
समाभ्रे जारिते सम्यक्दण्डधारी भवेद्रसः ।
बालश्च कथ्यते सोऽपि किंचित्कार्यकरो भवेत् ॥ १.११५ ॥
द्विगुणे त्रिगुणे चैव कथ्यतेऽत्र मया खलु ।
चतुर्गुणेऽभ्रके जीर्णे किशोरः कथ्यते मया ॥ १.११६ ॥
जीर्णे पञ्चगुणे चाभ्रे युवा चैव रसोत्तमः ।
षड्गुणे जारिते त्वभ्रे वृद्धश्चैव रसोत्तमः ॥ १.११७ ॥
सप्ताष्टगुणिते चाभ्र- सत्वे जीर्णेऽतिवृद्धकः ।
सर्वसिद्धिकरः सोऽयं पारदः पारदः स्वयम् ॥ १.११८ ॥
अनेनैव प्रकारेण सर्वलोहानि जारयेत् ॥ १.११९ ॥
<१४. सारण>
अथेदानीं प्रवक्ष्यामि वेधवृद्धेश्च कारणम् ।
महासिद्धिकरं यत्स्यात्सारणं सर्वकर्मणाम् ॥ १.१२० ॥
धूर्तपुष्पसमाकारा मूषाष्टाङ्गुलदीर्घिका ।
मुखे सुविस्तृता कार्या चतुरंगुलसंमिता ॥ १.१२१ ॥
मृण्मया सापि शुष्का च मध्येऽतिमसृणीकृता ।
अन्या पिधानिका मूषा सुनिम्ना छिद्रसंयुता ॥ १.१२२ ॥
शुद्धं सुजारितं सूतं मूषामध्ये निधापयेत् ।
<सारणातैल>
मत्स्यकच्छपमण्डूक- जलौकामेषसूकराः ॥ १.१२३ ॥
एकीकृत्य वसामेषामेवं तैलं तु सारणम् ।
भूनागविट्तथा क्षौद्रं वायसानां पुरीषकम् ॥ १.१२४ ॥
तथैव शलभादीनां महिषीकर्णयोर्मलम् ।
रसस्य षोडशांशेन चैतेषां कल्कमादिशेत् ॥ १.१२५ ॥
पटेन गालितं कृत्वा तैलमध्ये नियोजयेत् ।
<सारणा (चोन्त्.)>
सारणार्थे कृतं तैलं तस्मिन् तैले सुपाचयेत् ॥ १.१२६ ॥
बीजं च कल्कमिश्रं हि कृत्वा मूषोपरि न्यसेत् ।
पिधानेन द्वितीयेन मूषावक्त्रं निरुन्धयेत् ॥ १.१२७ ॥
भस्मना लवणेनैव मूषायुग्मं तु मुद्रयेत् ।
मूषिकायास्त्रिभागं हि खनित्वा वसुधां क्षिपेत् ॥ १.१२८ ॥
तदूर्ध्वं ध्मापयेत्सम्यक्दृढांगारैः खराग्निना ।
एवं संजारितं बीजं रसमध्ये पतत्यलम् ॥ १.१२९ ॥
बन्धमायाति सूतेन्द्रः सारितो गुणवान् भवेत् ।
प्रथमं जारितश्चैव सारितः सर्वसिद्धिदः ॥ १.१३० ॥
नो जारितः सारितश्च कथं बन्धकरो भवेत् ।
गुरूपदेशतो दृष्टं सारणं कर्म चोत्तमम् ॥ १.१३१ ॥
हस्तानुभवयोगेन कृतं सम्यक्श्रुतं नहि ॥ १.१३२ ॥
<१५. क्रामण>
अथ क्रामणकं कर्म पारदस्य निगद्यते ।
शास्त्रात्कृतं न दृष्टं हि यथावत्क्रामयेद्रसम् ॥ १.१३३ ॥
कर्णमलं महिषीणां स्त्रीदुग्धं टंकणेन सम्मिश्रम् ।
एतान्येव समानि च कृत्वा द्रव्याणि मर्दयेच्च दिनम् ॥ १.१३४ ॥
विषं च दरदश्चैव रसको रक्तकान्तकौ ।
इन्द्रगोपश्च तुवरी माक्षिकं काकविट्तथा ॥ १.१३५ ॥
कल्कमेतदधोर्ध्वं हि मध्ये सूतं निधापयेत् ।
काचचूर्णं ततो दत्त्वा चान्धमूषागतं धमेत् ॥ १.१३६ ॥
अनेन क्रामणेनैव पारदः क्रमते क्षणात् ।
इदं क्रामणकं श्रेष्ठं नन्दिराजेन भाषितम् ॥ १.१३७ ॥
ताप्यसत्त्वं तथा नागं शुद्धं क्रामणकं तथा ।
बीजानि पारदस्यापि क्रमते च न संशयः ॥ १.१३८ ॥
<१६. वेधन>
अथ वेधविधानं हि कथयामि सुविस्तरम् ।
येन विज्ञातमात्रेण वेधज्ञो जायते नरः ॥ १.१३९ ॥
धूर्ततैलमहेःफेनं कंगुणीतैलमेव च ।
भृङ्गीतैलं विषं चैव तैलं जातीफलोद्भवम् ॥ १.१४० ॥
हयमारशिफातैलमब्धेःशोषकतैलकम् ।
एतान्यन्यानि तैलानि विद्धि वेधकराणि च ॥ १.१४१ ॥
सिद्धसूतेन च समं मर्दितं वेधकृद्भवेत् ॥ १.१४२ ॥
<वेधभेदाः>
लेपवेधस्तथा क्षेपः कुंतवेधस्तथैव च ॥ १.१४३ ॥
धूमाख्यः शब्दवेधः स्यादेवं पञ्चविधः स्मृतः ।
<लेपवेध>
सूक्ष्माणि ताम्रपत्राणि कलधूतभवानि च ।
कल्केन लेपितान्येव ध्मापयेदन्धमूषया ॥ १.१४४ ॥
शीतीभूते तमुत्तार्य लेपवेधश्च कथ्यते ।
<क्षेपवेध>
द्रुते ताम्रेऽथवा रौप्ये रसं तत्र विनिक्षिपेत् ॥ १.१४५ ॥
विध्यते तेन सहसा क्षेपवेधः स कथ्यते ।
<कुन्तवेध>
द्रावयेन्नागरूप्यं च ताम्रं चैव तथावरान् ॥ १.१४६ ॥
पारदोऽन्यतमे पात्रे द्रावितेऽत्र नियोजितः ।
वेधते कुन्तवेधः स्यादिति शास्त्रविदोऽब्रुवन् ॥ १.१४७ ॥
<धूमवेध>
धूमस्पर्शेन जायन्ते धातवो हेमरूप्यकौ ।
धूमवेधः स विज्ञेयो रसराजस्य निश्चितम् ॥ १.१४८ ॥
<शब्दवेध>
बद्धे रसवरे साक्षात्स्पर्शनाज्जायते रवः ।
तथैव जायते वेधः शब्दवेधः स कथ्यते ॥ १.१४९ ॥
<१७. रञ्जन>
अथेदानीं प्रवक्ष्यामि रंजनं पारदस्य हि ।
रञ्जितः क्रामितश्चैव साक्षाद्देवो महेश्वरः ॥ १.१५० ॥
रंजनं लोहताम्राभ्यां रसकेन विधीयते ।
तथा रक्तगणेनैव कर्तव्यं शास्त्रवर्त्मना ॥ १.१५१ ॥
गन्धरागेण कर्तव्यं पारदस्याथ रंजनम् ।
ताम्रेण रक्तकाचेन रक्तसैन्धवकेन च ॥ १.१५२ ॥
अंधमूषागतं सूतं रञ्जयेत्ताम्रकादिभिः ।
इष्टिकायन्त्रयोगेन गन्धरागेण रञ्जयेत् ॥ १.१५३ ॥
रसकस्य च रागेण तुलायन्त्रस्य योगतः ।
<मेर्चुर्य्:: रञ्जन>
मर्दनात्तीक्ष्णचूर्णेन रञ्जयेत्सूतकं सदा ॥ १.१५४ ॥
<मेर्चुर्य्:: रञ्जन>
ताम्रकल्कीकृतेनैव स्थापयेत्सप्तवासरम् ।
रंजनं सूतराजस्य जायते नात्र संशयः ॥ १.१५५ ॥
<मेर्चुर्य्:: रञ्जन>
मृण्मूषा च प्रकर्तव्या रक्तवर्गेण लेपिता ।
तन्मध्ये पारदं क्षिप्त्वा ध्मानाद्रञ्जनकं भवेत् ॥ १.१५६ ॥
मया संक्षेपतः प्रोक्तं रंजनं पारदस्य हि ।
शास्त्रमार्गेण बहुधा रंजनं हि निदर्शितम् ॥ १.१५७ ॥
<१८. सेवन>
अथ सेवनकं कर्म पारदस्य दशाष्टमम् ।
कथ्यतेऽत्र प्रयत्नेन विस्तरेण मयाधुना ॥ १.१५८ ॥
यत्नेन सेवितः सूतः शास्त्रमार्गेण सिद्धिदः ।
अन्यथा भक्षितश्चैव विषवन्मारयेन्नरम् ॥ १.१५९ ॥
आदौ तु वमनं कृत्वा पश्चाद्रेचनमाचरेत् ।
ततो मृताभ्रं भक्षेत पश्चात्सूतस्य सेवनम् ॥ १.१६० ॥
सम्यक्सूतवरः शुद्धो देहलोहकरः सदा ।
सेवितः सर्वरोगघ्नः सर्वसिद्धिकरो भवेत् ॥ १.१६१ ॥
यावन्मानेन लोहस्य गद्याणे वेधकृद्भवेत् ।
तावन्मानेन देहस्य भक्षितो रोगहा भवेत् ॥ १.१६२ ॥
राजिकाथ प्रियंगुश्च सर्षपो मुद्गमाषकौ ।
रक्तिका चणको वाथ वल्लमात्रो भवेद्रसः ॥ १.१६३ ॥
एषा मात्रा रसे प्रोक्ता सर्वकर्मविशारदैः ।
अनुपानेन भुञ्जीत पर्णखण्डिकया सह ॥ १.१६४ ॥
इत्थं संसेविते सूते सर्वरोगाद्विमुच्यते ।
सर्वपापाद्विनिर्मुक्तः प्राप्नोति परमां गतिम् ॥ १.१६५ ॥


____________________________________________________________

अध्यायः २[सम्पाद्यताम्]


<पारदबन्ध>
अथेदानीं प्रवक्ष्यामि रसराजस्य बंधनम् ।
अनुभूतं मया किंचित्गुरूणां हि प्रसादतः ॥ २.१ ॥
<बन्धन:: सुब्त्य्पेस्>
बंधश्चतुर्विधः प्रोक्तो जलौका खोटपाटकौ ।
तथा भस्माभिधः साक्षात्कथितोऽपि रसागमे ॥ २.२ ॥
पक्वबन्धो जलौका स्यात्पिष्टीस्तम्भस्तु खोटकः ।
पाटः पर्पटिकाबन्धो भस्म भूतिसमो भवेत् ॥ २.३ ॥
<सुब्स्तन्चेसिन्दुचिन्ग्बन्धन>
मूलिकात्र मणिश्चैव स्वर्णकं नागवङ्गके ।
चत्वार एते सूतस्य बन्धनस्याथ कारणम् ॥ २.४ ॥
उत्तमो मूलिकाबन्धो मणिबन्धस्तु मध्यमः ।
अधमो धातुबन्धस्तु पूतिबन्धोऽधमाधमः ॥ २.५ ॥
द्रुतिबन्धः पञ्चमोऽसौ देहलोहकरः सदा ।
अभ्रद्रुतिविशेषेण विज्ञेयोऽसौ भिषग्वरैः ॥ २.६ ॥
<मूलिकाबन्ध>
क्रमप्राप्तमिदं वक्ष्ये मूलिकाबन्धनं रसे ।
शुद्धो राक्षसवक्त्रश्च रसश्चाभ्रकजारितः ॥ २.७ ॥
इङ्गुदीमूलनिर्यासे मर्दितः पारदस्त्र्यहम् ।
तत उद्धृत्य वस्त्रेण बंधनं कारयेद्भिषक् ॥ २.८ ॥
कांजिके स्वेदनं कुर्यान्नियतं सप्तवासरम् ।
पाचितं चान्नमध्ये तु कर्तव्यं वत्सरावधि ॥ २.९ ॥
ततो धूर्तफले न्यस्तं स्वेदयेच्छतसंख्यया ।
पाचितोऽसौ महातैले धूर्ततैलेऽन्नराशिके ॥ २.१० ॥
बद्धस्तु तेन विधिना कठिनत्वं प्रजायते ।
वंगस्य स्तम्भनं सम्यक्करोत्येव न संशयः ॥ २.११ ॥
धारितोऽसौ मुखे साक्षाद्वीर्यस्तम्भकरः सदा ।
मूलिकाबंधनं ह्येकं कथितं पारदस्य वै ॥ २.११* ॥
<मूलिकाबन्ध (२)>
अथापरः प्रकारो हि बन्धनस्यापि पारदे ।
नागार्जुनीमूलरसैर्मर्दयेद्दिनसप्तकम् ॥ २.१२ ॥
मुखचर्वणसम्भूतैर्निम्बकाष्ठेन पेषितः ।
नवनीतसमस्तेन जायते पारदस्ततः ॥ २.१३ ॥
वस्त्रेण बंधनं कृत्वा फले धौर्ते निवेशयेत् ।
गोमयैर्वेष्टितं तच्च करीषाग्नौ विपाचयेत् ॥ २.१४ ॥
लावकाख्ये पुटे सम्यक्क्रमवृद्ध्या शतं पुटेत् ।
मासत्रयप्रमाणेन पाचयेदन्नमध्यतः ॥ २.१५ ॥
पश्चात्पुटशतं दद्याच्छगणेनाथ पूर्ववत् ।
अनेनैव प्रकारेण बध्यते सूतकः सदा ॥ २.१६ ॥
दृष्टप्रत्यययोगोऽयं कथितः साधकाय वै ।
धारितोऽसौ मुखे सम्यक्वीर्यस्तंभकरः परम् ।
वंगस्तंभकरोऽप्येवं बद्धः सूतवरोऽप्यलम् ॥ २.१७ ॥
<मूलिकाबन्ध>
शुद्धं सुजारिताभ्रं वै सूतकं च विमर्दयेत् ।
अर्कमूलरसेनैव वासरैकं प्रयत्नतः ॥ २.१८ ॥
वज्रमूषा ततः कार्या सुदृढा मसृणीकृता ।
अर्कमूलभवेनैव कल्केन परिलेपिता ॥ २.१९ ॥
मूषामध्ये रसं मुक्त्वा चान्धयेदन्यमूषया ।
यामार्धं ध्मापितः सम्यक्रसखोटः प्रजायते ॥ २.२० ॥
स्वांगशीतं परिज्ञाय रसखोटं समुद्धरेत् ।
वर्षमात्रं धृतो वक्त्रे वलीपलितनाशनः ॥ २.२१ ॥
सर्वसिद्धिकरोऽप्येष मूलिकाबद्धपारदः ।
मूलिकाबंधनं सत्यं कृतं नागार्जुनादिभिः ॥ २.२२ ॥
सर्वसिद्धिकरं श्रेष्ठं सर्वकार्यकरं सदा ॥ २.२३ ॥
<मूलिकाबन्ध (४)>
शुद्धं रसवरं सम्यक्तथैवाम्बरभक्षितम् ।
जलकूम्भीरसैः पश्चान्मर्दयेद्दिनसप्तकम् ॥ २.२४ ॥
तस्याः प्रकल्पयेन्मूषां सूतकं तत्र निक्षिपेत् ।
अन्यस्यामन्धमूषायां सूतमूषां निरुन्धयेत् ॥ २.२५ ॥
पुटं तत्र प्रदातव्यमेकेनारण्यकेन च ।
पुटान्येवं प्रदेयानि एकैकोत्पलवृद्धितः ॥ २.२६ ॥
अनेनैव प्रकारेण पुटानि त्रीणि दापयेत् ।
बन्धमाप्नोति सूतेन्द्रः सत्यं गुरुवचो यथा ॥ २.२७ ॥
<मूलिकाबन्ध (५)>
चूर्णीकृतानि सततं धूर्तबीजानि यत्नतः ।
सूतराजसमान्येवमूर्ध्वयन्त्रेण पातयेत् ॥ २.२८ ॥
एकविंशतिवाराणि ततः खल्वे निधापयेत् ।
इङ्गुदीपत्रनिर्यासे मर्दयेद्दिनसप्तकम् ॥ २.२९ ॥
भृंगराजरसेनैव विषखर्परकेन च ।
पाठारसेन संमर्द्य लज्जालुस्वरसेन वै ॥ २.३० ॥
त्र्यहं त्र्यहं च संमर्द्य बन्धमायाति निश्चितम् ।
दोलायंत्रेण संस्वेद्य सप्ताहं धूर्तजे रसे ॥ २.३१ ॥
विषमूषोदरे धृत्वा मांसे सूकरसंभवे ।
भर्जयेद्धूर्ततैलेन सप्ताहाज्जायते मुखम् ॥ २.३२ ॥
कठिनो वज्रसदृशो जायते नात्र संशयः ।
क्षीरं शोषयते नित्यं कौतुकार्थे न संशयः ॥ २.३३ ॥
वीर्यं वंगं स्तम्भयति सत्यं सत्यं न संशयः ।
प्रकाराः कथिताः पञ्च सूतराजस्य बंधने ॥ २.३४ ॥
<वज्रसत्त्वेन शतवेधी रसबन्धः (१)>
वज्रबंधं द्वितीयं तु क्रमेणैव यथातथम् ।
रसशास्त्राणि बहुधा निरीक्ष्य प्रवदाम्यहम् ॥ २.३५ ॥
वज्रसत्वं तथा सूतं समांशं कारयेद्बुधः ।
रसपादसमं हेम त्रयमेकत्र मर्दयेत् ॥ २.३६ ॥
वंध्याकर्कोटिकामूल- रसेनैवाथ भावयेत् ।
तथा धूर्तरसेनापि चित्रकस्य रसेन वै ॥ २.३७ ॥
काम्बोजीरसकेनापि तथा नाडीरसेन वै ।
आसां नियामिकानां च रसं वस्त्रेण गालयेत् ॥ २.३८ ॥
सूर्यातपे दिनैकैकं क्रमेणानेन मर्दयेत् ।
अंधमूषागतं गोलं मुद्रयेद्दृढमुद्रया ॥ २.३९ ॥
लोहसंपुटके पश्चान्निक्षिप्तं मुद्रितं दृढम् ।
घटिकाद्वयमानेन ध्मापितं भस्त्रया खलु ॥ २.४० ॥
स्वांगशीतलकं ज्ञात्वा गृह्णीयातां च मूषिकाम् ।
उत्खन्योत्खन्य यत्नेन सूतभस्म समाहरेत् ॥ २.४१ ॥
काचटंकणयोगेन ध्मापितं तं च गोलकम् ।
वेधते शतवेधेन सूतको नात्र संशयः ॥ २.४२ ॥
वक्त्रस्थो निधनं हन्याद्देहलोहकरो भवेत् ॥ २.४३ ॥
<वज्रभस्मयोगेन रसबन्धः (७)>
वज्रभस्म तथा सूतं समं कृत्वा तु मर्दयेत् ।
त्रिनेमिकावज्रवल्ली- सहदेवीरसेन च ॥ २.४४ ॥
स्नुहिक्षीरेण सप्ताहं सूर्यघर्मे सुतीव्रके ।
रसगोलं सुवृत्तं तु शुष्कं चैवाथ लेपयेत् ॥ २.४५ ॥
काकमाचीरसेनैव लांगलीस्वरसेन हि ।
गोजिह्विकारसेनैव सप्तवारं प्रलेपयेत् ॥ २.४६ ॥
वज्रमूषागतं गोलं मुद्रयेद्दृढमुद्रया ।
लोहसंपुटमूषायामन्धितं मध्यसंस्थितम् ॥ २.४७ ॥
सप्तमृत्कर्पटैः सम्यग्लेपितं सुदृढं कुरु ।
ध्मापितं दृढमंगारैस्तत्रस्थं शीतलीकृतम् ॥ २.४८ ॥
भित्त्वा मूषागतं सूतं खोटं नक्षत्रसन्निभम् ।
सर्वकार्यकरं शुभ्रं रञ्जितं वेधकृद्भवेत् ॥ २.४९ ॥
<अभ्रद्रुत्या रसबन्धः (८)>
अभ्रकद्रुतिभिः सार्धं सूतकं च विमर्दयेत् ।
समांशेन शिलापृष्ठे यामत्रयमनारतम् ॥ २.५० ॥
कस्तूरीधनसाराभ्यां कृष्णागरुसमन्वितम् ।
शर्करालशुनाभ्यां च रामठेन च संयुतम् ॥ २.५१ ॥
पलाशबीजस्य तथा तत्प्रसूनरसेन हि ।
तीक्ष्णांशुनाथ मृदितं द्रुतिभिः सह सूतकम् ॥ २.५२ ॥
मिलत्येव न संदेहः किमन्यैर्बहुभाषितैः ।
ततो गुञ्जारसेनैव श्वेतवृश्चीवकस्य च ॥ २.५३ ॥
लांगल्याश्च रसैस्तावद्यावद्भवति बन्धनम् ॥ २.५४ ॥
ततः प्रकाशमूषायां पञ्चांगारैर्धमेत्क्षणम् ।
बन्धमायाति वेगेन यथा सूर्योदयेऽम्बुजम् ॥ २.५५ ॥
अभ्रद्रुतिसमायोगे रसेन्द्रो वध्यते खलु ।
शिवभक्तो भवेत्साक्षात्सत्यवाक्संयतेन्द्रियः ॥ २.५६ ॥
शिवयोर्मेलनं सम्यक्तस्य हस्ते भविष्यति ।
रसागमेषु यत्प्रोक्तं बंधनं पारदस्य च ॥ २.५७ ॥
कथितं तन्मया स्पष्टं नानुभूतं न चेष्टितम् ॥ २.५८ ॥
<वज्रद्रुत्या रसबन्धः (९)>
वज्राणां ब्रह्मजातीनां द्रुतिर्वल्लप्रमाणिका ।
तोलकं शुद्धसूतं च मर्दयेत्कन्यकारसे ॥ २.५९ ॥
तावत्तं मर्दयेत्सम्यग्यावत्पिष्टी प्रजायते ।
कृत्वा मूषां समां शुद्धां दहनोपलनिर्मिताम् ॥ २.६० ॥
तन्मध्ये पिष्टिकां मुक्त्वा पिष्टीमानं विषं त्वहेः ।
पिधानं तादृशं कुर्यान्मुखं तेनाथ रुन्धयेत् ॥ २.६१ ॥
कांस्यभाजनमध्ये तु स्थापयेन्मूषिकां शुभाम् ।
भाजनानि च चत्वारि चतुर्दिक्षु गतानि च ॥ २.६२ ॥
चित्रं घर्मप्रसंगेन बन्धमायाति पारदः ।
यामात्खरातपे नित्यं शिवेनोक्तमतिस्फुटम् ॥ २.६३ ॥
वज्रद्रुतिसमायोगात्सूतो बन्धनकं व्रजेत् ।
सर्वेषां सूतबन्धानां श्रेष्ठं सत्यमुदीरितम् ॥ २.६४ ॥
<सुवर्णद्रुत्या रसबन्धः (१०)>
अथेदानीं प्रवक्ष्यामि सूतराजस्य बन्धनम् ।
हेमद्रुतिं रसेन्द्रेण मर्दयेत्सप्तवासरान् ॥ २.६५ ॥
ज्वालामुखीरसेनैव धौतः पश्चाच्च कांजिकैः ।
प्रत्यहं क्षालयेद्रात्रौ रसेनोक्तेन वै दिवा ॥ २.६६ ॥
अंधमूषागतं पश्चान्मृदा कर्पटयोगतः ।
लेपयेत्सप्तवाराणि भूगर्ते गोलकं न्यसेत् ॥ २.६७ ॥
द्वादशांगुलविस्तीर्णं द्वादशांगुलनिम्नकम् ।
खातप्रमाणं कथितं गुरुमार्गेण च स्फुटम् ॥ २.६८ ॥
तत्रोपरि पुटं देयं गजाह्वं छगणेन च ।
यामद्वादशकेनैव बध्यते पारदः स्वयम् ॥ २.६९ ॥
हेमद्रुतौ बद्धरसो देहलोहप्रसाधकः ।
सर्वसिद्धिकरः श्रीमान् जरादारिद्र्यनाशनः ॥ २.७० ॥
<सुवर्णेन रसबन्धः>
धातुबन्धस्तृतीयोऽसौ स्वहस्तेन कृतो मया ।
तदहं कथयिष्यामि साधकार्थे यथातथम् ॥ २.७१ ॥
भूर्जवत्सूक्ष्मपत्राणि कारयेत्कनकस्य च ।
तान्येव कोलमात्राणि पलमात्रं तु सूतकम् ॥ २.७२ ॥
मर्दयेन्निम्बुकद्रावैर्दिनमेकमनारतम् ।
ततस्तद्गोलकं कृत्वा खर्परोपरि विन्यसेत् ॥ २.७३ ॥
चुल्यामारोपणं कार्यं धान्याम्लेन निषिञ्चयेत् ।
पिष्टिस्तंभस्तु कर्तव्यो नियतं त्रिदिनावधि ॥ २.७४ ॥
ततो धूर्तरसेनैव स्वेदयेत्सप्तवासरान् ।
श्वेता पुनर्नवा चिंचा सहदेवी च नीलिका ॥ २.७५ ॥
तथा धूर्तवधूश्चैव लांगली सुरदालिका ।
सूतबन्धकरा श्रेष्ठा प्रोक्ता नागार्जुनादिभिः ॥ २.७६ ॥
एतासां स्वरसैः पङ्कैर्लेपयेत्सूतगोलकम् ।
त्रिगुणैर्भूर्जपत्रैस्तु वेष्टयेत्तदनंतरम् ॥ २.७७ ॥
वस्त्रेण पोटलीं बद्ध्वा स्वेदयेन्निंबुकद्रवैः ।
यामत्रयं प्रयत्नेन धौतः पश्चाद्गवां जलैः ॥ २.७८ ॥
ततो धूर्तफलान्तस्थं पाचयेद्बहुभिः पुटैः ।
लावकाख्यैः सुमतिमान् शोभनः सूर्यकान्तिवत् ।
जायते नात्र संदेहो बद्धः शिवसमो भवेत् ॥ २.७९ ॥
<रौप्येण रसबन्धः>
अष्टमांशेन रूप्येन सूतकं हि प्रमर्दयेत् ।
चांगेरीस्वरसेनैव पिष्टिकां कारयेद्बुधः ॥ २.८० ॥
खोटं बद्ध्वा तु विपचेत्धूर्ततैले त्रिवासरान् ।
तथा च कंगुणीतैले करवीरजटोद्भवे ॥ २.८१ ॥
जातीफलोद्भवेनापि वत्सनागोद्भवेन च ।
भृंग्युद्भवेन च तथा समुद्रशोषकस्य वै ॥ २.८२ ॥
देवदारुभवेनापि पाचयेन्मतिमान् भिषक् ।
पश्चात्सुतीक्ष्णमदिरा दातव्या तु तुषाग्निना ॥ २.८३ ॥
दिनानि सप्तसंख्यानि मुखमुत्पद्यते ध्रुवम् ।
शुक्रस्तम्भकरः सम्यक्क्षीरं पिबति नान्यथा ॥ २.८४ ॥
<तुत्थेन तुत्थोत्थताम्रेण रसबन्धः>
लोहपात्रे सुविस्तीर्णे तुत्थकस्यालवालकम् ।
अष्टसंस्कारितं सूतं तस्मिन्निक्षिप्य मात्रया ॥ २.८५ ॥
तुत्थचूर्णेन संछाद्य पूरयेन्निम्बुकद्रवैः ।
पिधानेन मुखं रुद्ध्वा लोहपात्रस्य यत्नतः ॥ २.८६ ॥
निर्वाते निर्जने देशे त्रिदिनं स्थापयेत्ततः ।
उष्णकांजिकयोगेन क्षालयेद्बहुशो भिषक् ॥ २.८७ ॥
नवनीतसमो वर्णः सूतकस्यापि दृश्यते ।
रसखोटं ततो बद्ध्वा स्वेदयेत्कांजिकैस्त्र्यहम् ॥ २.८८ ॥
अश्मचूर्णस्य कणिकाम्- अध्ये खोटं निधाय च ।
जलसेकः प्रकर्तव्यः शीतीभूतं समुद्धरेत् ॥ २.८९ ॥
अनेनैव प्रकारेण त्रिवारं पाचयेद्ध्रुवम् ।
कठिनत्वं प्रयात्येव सत्यं गुरुवचो यथा ॥ २.९० ॥
ततो धूर्तफलानां हि सहस्रेणापि पाचयेत् ।
मुखमुत्पद्यते सम्यक्वीर्यस्तंभकरोऽप्ययम् ॥ २.९१ ॥
<धातुबीजेन रसबन्धः>
वंगतीक्ष्णे समे कृत्वा ध्मापयेद्वज्रमूषया ।
वङ्गमुत्तारयेत्सम्यक्तीव्राङ्गारैः प्रयत्नतः ॥ २.९२ ॥
अनेनैव प्रकारेण त्रिगुणं वाहयेत्त्रपु ।
बीजं शाणप्रमाणं हि सूतं पलमितं भवेत् ॥ २.९३ ॥
मर्दयेत्कन्यकाद्रावैर्दिनमेकं विशोषयेत् ।
गोलस्य स्वेदनं कार्यमहोभिः सप्तभिस्तथा ॥ २.९४ ॥
त्रिफलाक्वाथमध्ये तु त्रियामं स्वेदयेत्सुधीः ।
कुमार्याः स्वरसेनैव भृंगराजरसेन हि ॥ २.९५ ॥
भृंगीरसेन च तथा त्रिदिनं स्वेद्यमेव हि ।
एकैकेनौषधेनैवं काचकूप्यां निवेशयेत् ॥ २.९६ ॥
खटीपटुशिवाभक्तं पिष्ट्वा वक्त्रं निरुन्धयेत् ।
खातं त्रिहस्तमात्रं स्याल्लद्दीपूर्णं तु कारयेत् ॥ २.९७ ॥
मध्ये तु काचघटिकां सुरापूर्णां निवेशयेत् ।
भूमिस्थां मासयुग्मेन पश्चादेनां समुद्धरेत् ॥ २.९८ ॥
बद्धं सूतवरं ग्राह्यं शुभ्रं चंद्रप्रभानिभम् ।
मुखस्थं कुरुते सम्यक्दृढवज्रसमं वपुः ॥ २.९९ ॥
कामिनीनां शतं गच्छेद्वलीपलितवर्जितः ।
देवीशास्त्रानुसारेण धातुबद्धरसोऽप्ययम् ॥ २.१०० ॥
प्रकाशितो मया सम्यक्नात्र कार्या विचारणा ॥ २.१०१ ॥
<कान्तलोहेन रसबन्धः>
रसेंद्रः कान्तलोहं च तीक्ष्णलोहं तथैव च ।
अभ्रसत्वं तथा ताप्य- सत्वं हेमसमन्वितम् ॥ २.१०२ ॥
समांशानि च सर्वाणि मर्दयेन्निम्बुकद्रवैः ।
निषेचयेदेकदिनं पश्चाद्गोलं तु कारयेत् ॥ २.१०३ ॥
पक्वमूषा प्रकर्तव्या गोलं गर्भे निवेशयेत् ।
गोजिह्वा काकमाची च निर्गुंडी दुग्धिका तथा ॥ २.१०४ ॥
कुमारी मेघनादा च मधुसैंधवसंयुता ।
एतासां स्वरसेनैव स्वेदयेद्बहुशो भिषक् ॥ २.१०५ ॥
यावद्दृढत्वमायाति तावत्स्वेद्यं तु गोलकम् ।
वक्त्रे धृतं जरामृत्युं निहन्ति च न संशयः ॥ २.१०६ ॥
सर्वरोगान्निहत्याशु वयः स्तम्भयते ध्रुवम् ।
कर्णे कण्ठे तथा हस्ते धारिता मस्तकेऽपि वा ।
अभिचारादिदोषाश्च न भवन्ति कदाचन ॥ २.१०७ ॥
चतुर्विधान्येव तु बन्धनानि श्रीसूतराजस्य मयोदितानि ।
कुर्वन्ति ये तत्त्वविदो भिषग्वरा राज्ञां गृहे तेऽपि भवन्ति पूज्याः ॥ २.१०८ ॥
इति परमरहस्यं सूतराजस्य चोक्तं रसनिगममहाब्धेर्लब्धमेतत्सुरत्नम् ।
सकलगुणवरिष्ठा वादिनः कौतुकज्ञा निजहृदि च सुकण्ठे धारयिष्यन्ति तज्ज्ञाः ॥ २.१०९ ॥


____________________________________________________________

अध्यायः ३[सम्पाद्यताम्]


अथ मया रसभस्म निगद्यते सकलपारदशास्त्रनियोगतः ।
ससितकृष्णसुपीतकलोहितं भवति वर्णचतुष्टयभूषितम् ॥ ३.१ ॥
<मेर्चुर्य्:: प्रोदुच्तिओन् fरों दरद>
हंसपाकदरदः सुशोभितो निखिलनिम्बरसेन विमर्दितः ।
नियतयामचतुष्टयमम्लके घनरसे समभागविलोडितः ॥ ३.२ ॥
डमरुकाभिधयंत्रनिवेशितस्तदनु लोहरजः खटिकासमम् ।
सुपयसा लवणेन विमर्दितं कुरु भिषग्वर यन्त्रसुरोधनम् ॥ ३.३ ॥
नियतयामचतुष्टयवह्निना मृदु समं रसमत्र विपाचयेत् ।
उपरि तत्र जलेन निषिञ्चयेदिति भवेद्दरदाद्वरसूतकः ॥ ३.४ ॥
अखिलशोधवरेण च वै यथा सकलकञ्चुकदोषविवर्जितः ।
बहुलदोषहरोऽपि भवेत्तथा भवति शुद्धतमो दरदोद्भवः ॥ ३.५ ॥
<मेर्चुर्य्:: मेदिच्. उसे (रसकर्पूर?)>
विमलसूतवरो हि पलाष्टकं तदनु धातुखटीपटुकांक्षिकाः ।
पृथगिमाश्च चतुष्पलभागिकाः स्फटिकशुद्धपलाष्टकसंमिताः ॥ ३.६ ॥
सह जलेन विमृद्य च यामकं लवणकाम्लजलेन विमिश्रिताः ।
उदितधातुगणस्य च मूषिकां कुरु विषं विनिवेशय तत्र वै ॥ ३.७ ॥
डमरूकाभिधयंत्रवरेण तं द्विदशयामममुं पच वह्निना ।
पवनपित्तकफक्षयहारकः सकलरोगहरः परमः सदा ॥ ३.८ ॥
गजपतेर्बलवद्बलदो नृणां द्विजपतीक्षणवन्नयनप्रदः ।
युवतिकामविलासविधायको भवति सूतवरः सुखदः सदा ।
सघनसाररसः किल कान्तिदस्त्वखिलकुष्ठहरः कथितो मया ॥ ३.९ ॥
<मेर्चुर्य्:: अरुणभस्मन्>
विगतदोषकृतौ रसगंधकौ तदनु लुङ्गरसेन परिप्लुतौ ।
प्रहरयुग्ममितं च शिलातले रविकरेण विमर्द्य विचूर्णितौ ॥ ३.१० ॥
रुचिरकाचघटीविनिवेशितौ सिकतयंत्रवरेण दिनत्रयम् ।
कुरु भिषग्वर वह्निमधस्ततः स च भवेदरुणः कमलच्छविः ॥ ३.११ ॥
उदयभास्करनामरसो ह्ययं भवति रोगविघातकरः स्वयम् ।
मगधजामधुना सह गुञ्जिका- त्रयमितश्च सदा परिसेवितः ॥ ३.१२ ॥
ललितकामविधावभिलाषुकः स्थविरकोऽपि रतौ तरुणायते ।
गदहरो बलदोऽपि हि वर्णदो भवति कर्मविपाकजरोगहा ।
सकलसूतकशास्त्रविमर्शनाद्द्विजवरेण मया प्रकटीकृतः ॥ ३.१३ ॥
<मेर्चुर्य्:: रेद्भस्मन्>
रसविदापि रसः परिशोधितो विगतदोषकृतोऽपि हि गंधकः ।
विमललोहमये कृतखर्परे ह्यमलसाररजः परिमुच्यताम् ॥ ३.१४ ॥
अतिकुशाग्नियुते द्रवति स्वयं तदनु तत्र रसः परिमुच्यताम् ।
विशदलोहमयेन च दर्विणा विघटयेत्प्रहरत्रयसंमितम् ॥ ३.१५ ॥
तदनु काचघटीं विनिवेश्य वै सिकतयन्त्रवरेण हि पाचितः ।
द्विदशयाममधःकृतवह्निना भवति रक्तरसस्तलभस्मसात् ॥ ३.१६ ॥
गतबलेन नरेण सुसेवितो भवति वाजिकरः सुखदः सदा ॥ ३.१७ ॥
स च वलीपलितानि विनाशयेच्छतशरत्सु निरामयकृत्परम् ॥ ३.१८ ॥
<मेर्चुर्य्:: रेद्भस्मन्>
विमलनागवरैकविभागिकं हरजभागचतुष्टयमिश्रितम् ।
सततमेव विमर्द्य शिलातले बलिवसां च समां कुरु तद्भिषक् ॥ ३.१९ ॥
दिनमितं सुविमर्द्य च कन्यका- स्वरस ऐनकरेण विशोषयेत् ।
तदनु सूतवरस्य तु कज्जलीं रुचिरकाचघटे विनिवेशय ॥ ३.२० ॥
दिवसयुग्ममधः कृतवह्निना स च भवेदरुणः कमलच्छविः ।
सकलरोगविनाशनवह्निकृत्बलकरः परमोऽपि हि कान्तिकृत् ॥ ३.२१ ॥
नयनरोगविनाशकरो भवेत्सकलकामुकविभ्रमकारकः ।
स खलु कर्मविपाकजरोगहा विशदनागयुतः खलु पारदः ॥ ३.२२ ॥
<मेर्चुर्य्:: जारण wइथ्सुल्fउर्>
मृदुमृदा रचिता मसृणेष्टिका उपरि गर्तवरेण च संयुता ।
रसवरं दशशाणमितं हि तत्सशुकपिच्छवरेण निधापयेत् ॥ ३.२३ ॥
सकलपूर्णकृतं च सुगर्तकं गलितनिम्बुफलोद्भवकेन वै ।
स्थगय तं च पिधानवरेण वै मृदितया सुमृदा परिमुद्रितम् ॥ ३.२४ ॥
तदनु कुक्कुटानां पुटे शृतो हुपलकेन वनोद्भवकेन वै ।
विधिविदा भिषजा ह्यमुना कृतो विमलषड्गुणगन्धकमश्नुते ॥ ३.२५ ॥
स च शरीरकरोऽप्यथ लोहकृत्सकलसिद्धिकरः परमो भवेत् ।
शतगुणं हि यदा परिजीर्यते रसवरः खलु हेमकरो भवेत् ॥ ३.२६ ॥
<मेर्चुर्य्:: रसपोट्टली>
सशुकपिच्छसमोऽपि हि पारदो भवति खल्वतलेन च कुट्टितः ।
दृढतरामुपकल्पय पर्पटीं वसनबद्धकृतामपि पोटलीम् ॥ ३.२७ ॥
उपरि नागरसेन विलेपिता रविकरेण सदा परिशोषिताम् ।
कनकपत्ररसेन च सप्तधाप्यवनिगर्ततले विनिवेशय ॥ ३.२८ ॥
अवनिगर्तमरत्निकमायतं द्विदशमङ्गुलमेव सुनिम्नकम् ।
सिकतया परिपूर्य तदर्धकं तदनु तत्र निवेशय पोट्टलीम् ॥ ३.२९ ॥
उपरि वालुकया परिपूर्य तच्छगणकैश्च पुटं परिदीयताम् ।
द्विदशयाममथाग्निमहो कुरु भवति तेन महारसपोटली ।
इति मया कथिता रसपोटली बलकरा सुकरा सुखसिद्धिदा ॥ ३.३० ॥
<मेर्चुर्य्:: मारण>
विशदसूतसमोऽपि हि गंधकस्तदनु खल्वतले सुविमर्दितः ।
त्रिदिनमेव हि हंसपदीरसे दिनकरस्य करेण सुशोषितः ॥ ३.३१ ॥
विमललोहमये दृढखर्परे तदनु कज्जलिकां प्रतिमुच्य वै ।
करमिता सुकृतापि हि चुह्लिका ह्युपरि तत्र निवेशय च भाजनं ॥ ३.३२ ॥
अमललोहमयेन च दर्विणा रसवरं नियतं परिमर्दयेत् ।
तदनु वह्निमधः कुरु वै दृढं सततमेव हि यामचतुष्टयम् ॥ ३.३३ ॥
सुपच एष रसो जलदोपमो भवति वल्लमितो मधुना युतः ।
कवलितः क्षयरोगगणापहो मदनवृद्धिकरः परमो नृणाम् ॥ ३.३४ ॥
स च वलीपलितानि विनाशयेत्सकलकुष्ठविनाशकरः परः ॥ ३.३५ ॥
<मेर्चुर्य्:: मारण>
मृदुमृदा परिकल्पितमूषिकां रसमिताङ्गुलिकां भुवि संन्यसेत् ।
रसवरं विमलं च सुशोभितं सशुकपिच्छसमं परिमर्दितम् ॥ ३.३६ ॥
रससमानमितं धृतमूषया द्वितययुग्मकृतं परिमुद्रितम् ।
कनकमूलरसेन च पाचितं तदनु सप्तदिनं कृशवह्निना ॥ ३.३७ ॥
रसवरस्य शुभं हि विपाचनं यवमितो रसराजवरस्तदा ।
दिनमुखे प्रतिहन्ति सुभक्षितः सकलदोषकृतां विकृतिं जयेत् ॥ ३.३८ ॥
<रसपर्पटी>
रसवरं पलयुग्ममितं शुभं रुचिरताम्रमयः समभागिकम् ।
बलिवसां च घृतेन विमर्दयेदतिकृशाग्निकृते द्रवति स्वयम् ॥ ३.३९ ॥
तदनु ताम्ररसौ विनिवेश्यतां त्रयमिदं सरसं च विमर्दितम् ।
द्रुतमयं च सदायसभाजने तदनु सूतकृतां वरकज्जलीम् ॥ ३.४० ॥
विघटयेदथ लोहसुदर्विणा तदनु मोचदलोपरि ढाल्यते ।
भवति सारतमा रसपर्पटी सकलरोगविघातकरी हि सा ॥ ३.४१ ॥
कुरु समानकटुत्रयसंयुतां मरिचयुग्ममितां सुखदां सदा ॥ ३.४२ ॥
अनुपाने प्रयोक्तव्या त्रिफलाक्षौद्रसंयुता ।
पर्पटीं भक्षयेत्प्रातस्तथा त्र्यूषणसंयुताम् ॥ ३.४३ ॥
सन्निपातहरा सा तु पञ्चकोलेन संयुता ।
भक्षिता मधुना सार्धं सर्वज्वरविनाशिनी ॥ ३.४४ ॥
कणाक्षौद्रेण सहिता सर्वशोफान्निकृन्तति ।
श्यामात्रिकटुकेनापि वातजां ग्रहणीं जयेत् ॥ ३.४५ ॥
गुग्गुलुत्रिफलासार्धं वातरक्तं विनाशयेत् ।
वातशूलहरा सम्यखिंगुपुष्करसंयुता ॥ ३.४६ ॥
व्योषैः कन्यारसैर्वापि कफामयविनाशिनी ।
दशमूलशृतेनापि वातज्वरनिबर्हणी ॥ ३.४७ ॥
वाकुचीबीजकल्केन कण्डूपामे विनाशयेत् ।
आरुष्करेण सहिता सा तु सिध्मविनाशिनी ॥ ३.४८ ॥
गोमूत्रेणानुपानेन चार्शोरोगविनाशिनी ।
नवमाल्यर्जुनश्चैव चित्रको भृङ्गराजकः ॥ ३.४९ ॥
शाल्मली निम्बपंचांगं कल्हारश्च गुडूचिका ।
निर्गुंडी च समांशानि कारयेद्भिषगुत्तमः ॥ ३.५० ॥
चूर्णीकृत्य च तत्सर्वं पर्पट्याश्चानुपानकम् ।
अष्टादश च कुष्ठानि निहन्त्येव न संशयः ॥ ३.५१ ॥
पर्पटी रसराजश्च रोगान्हन्त्यनुपानतः ।
अपथ्यं नैव भुञ्जीयाद्दोषदूष्याद्यपेक्षया ॥ ३.५२ ॥
<रसपर्पटी>
शुद्धं रसं गंधकमेव शुद्धं पृथक्समांशं कुरु यत्नतस्ततः ।
एरंडमूलस्य रसेन सूतं तथाद्रिकर्ण्या स्वरसेन मर्दयेत् ॥ ३.५३ ॥
तं काकमाच्याः स्वरसेन पिष्ट्वा तथा च तं दाडिमबीजतोयैः ।
क्रमेण सूतं हि दिनैश्चतुर्भिः शुद्धत्वमायाति हि निश्चयेन ॥ ३.५४ ॥
ततस्तु गंधं खलु मार्कवद्रवैर्विभाव्यमानं कुरु लोहपात्रे ।
प्रद्रावयेत्तं बदरस्य चाग्निना प्रढालयेद्भृंगरसे त्रिवारम् ॥ ३.५५ ॥
कार्या ततः कज्जलिका विमर्द्य तां द्रावयेल्लोहमये सुपात्रे ।
प्रढालयेत्तां कदलीदले हि संछाद्य चान्येन दलेन पश्चात् ॥ ३.५६ ॥
तस्यास्त्वधोर्ध्वं प्रददीत गोमयं शीतीकृता गव्यघृतेन भर्जिता ।
रोगानशेषान्मलदोषजातान् हिनस्ति चैषा रसपर्पटी हि ॥ ३.५७ ॥
सा जीरकेणैव तु रामठेन वातामशूलं गृहणीं सकामलाम् ।
गुल्मानि चाष्टावुदराणि हन्यात्संसेविता शुद्धरसस्य पर्पटी ॥ ३.५८ ॥
मयापि सद्वैद्यहिताय नूनं प्रदर्शितेयं खलु रोगनाशिनी ॥ ३.५९ ॥
<मेर्चुर्य्:: मारण>
सूतं सुशुद्धं लवणैश्चतुर्भिः क्षारैस्त्रिभिश्चापि विमर्दयेच्च ।
संशोष्य पश्चादपि हिंगुराजिका- शुंठीभिरेभिश्च समं विमर्द्य ॥ ३.६० ॥
रसेन सार्धं हि कुमारिकाया मूषां विदध्याद्रविघर्मशोषिताम् ।
तस्यां निधायाथ रसस्य गोलकं तं स्वेदितं चाम्लरसेन सम्यक् ॥ ३.६१ ॥
यामाष्टकेनाग्निकृतेन दोलया पश्चाद्रसेनाभिविमर्दितोऽसौ ।
भेकपर्ण्युरुवुभृंगराजकैः शृङ्गवेरगिरिकर्णिकारसैः ॥ ३.६२ ॥
काकमाचिजविभक्तिकाजलैर्धूर्तजैरपि जयन्तिकाद्रवैः ।
सिंधुवारकरसेन मर्दितं मसृणखल्वतले त्रिवासरम् ॥ ३.६३ ॥
प्रतिरसं च विशोष्य हि भक्षयेद्रक्तिकाद्वयमितं रुजापहम् ।
केकिमाहिषवराहपित्तकैः कच्छपस्य च रसेन मर्दितम् ।
जायतेऽधिकतरं गुणेन वै सन्निपातभवमूर्च्छनं जयेत् ॥ ३.६४ ॥
यः श्रीसूतवरस्य सेवनमिदं नित्यं करोतीह वै दीर्घायुर्धनधान्यधर्मसहितः प्राप्नोति सौख्यं परम् ।
लोके कीर्तिपरंपरां वितनुते धर्मे मतिर्जायते प्रान्ते तस्य परा गतिर्हि नियतं सत्यं शिवेनोदितम् ॥ ३.६५ ॥


____________________________________________________________

अध्यायः ४[सम्पाद्यताम्]


अथेदानीं प्रवक्ष्यामि धातुशोधनमारणम् ।
अनुभूतं मया किंचित्किंचित्शास्त्रानुसारतः ॥ ४.१ ॥
<अष्टधातवः>
सुवर्णं रजतं चेति शुद्धलोहमुदीरितम् ।
ताम्रं चैवाश्मसारं च नागवंगौ तथैव ॥ ४.२ ॥
पूतिलोहं निगदितं द्वितीयं रसवेदिना ।
संमिश्रलोहं त्रितयं सौराष्ट्ररीतिवर्तकम् ।
एतेऽष्टौ धातवो ज्ञेया लोहान्येवं भवन्ति हि ॥ ४.३ ॥
<सुवर्णभेदाः>
सुवर्णं द्विविधं ज्ञेयं रसजं खनिसंभवम् ।
अन्ये त्रयः सुवर्णस्य प्रकाराः सन्ति नोदिताः ॥ ४.४ ॥
<गोल्द्:: रसज>
रसजं रसवेधेन जायते हेम सुन्दरं ।
तच्चतुर्दशवर्णाढ्यं सर्वकार्यकरं परम् ॥ ४.५ ॥
<खनिज:: ओरिगिन्>
पर्वते भूमिदेशेषु खन्यमानेषु कुत्रचित् ।
दृश्यते खनिजं प्राज्ञैस्तच्चतुर्दशवर्णकम् ॥ ४.६ ॥
<गोल्द्:: शोधन>
रूप्यादियोगेन यदा मिश्रं स्वर्णं हि जायते ।
हेमकार्यं न चेत्तेन तदा शोध्यं भिषग्वरैः ॥ ४.७ ॥
हीनवर्णस्य हेम्नश्च पत्राण्येव तु कारयेत् ।
खटिकापटुचूर्णं च कांजिकेन प्रमर्दयेत् ॥ ४.८ ॥
पत्राणि लेपयेत्तेन कल्केनाथ प्रयत्नतः ।
आरण्योत्पलकैः कार्या कोष्ठिका नातिविस्तृता ॥ ४.९ ॥
मध्ये तत्संपुटं मुक्त्वा वह्निं प्रज्वालयेत्ततः ।
एवं पुटत्रयं दत्त्वा शुद्धं हेम समुद्धरेत् ॥ ४.१० ॥
न तु शुद्धस्य हेम्नश्च शोधनं कारयेद्भिषक् ।
अन्येषामेव लोहानां शोधनं कारयेद्भिषक् ॥ ४.११ ॥
<गोल्द्:: मारण:: निरुत्थ>
ततः स्वर्णभवं पत्रं तापितं हि विनिक्षिपेत् ।
ज्वालामुखीरसे षष्ठी- पुटैर्भस्मीभवत्यलम् ॥ ४.१२ ॥
गुरुणा कथितं सम्यक्निरुत्थं जायते ध्रुवम् ।
रोगान्हिनस्ति सकलान्नात्र कार्या विचारणा ॥ ४.१३ ॥
<गोल्द्:: मारण:: निरुत्थ>
हेम्नः पत्राणि सूक्ष्माणि सूचिवेध्यानि कारयेत् ।
पुराम्बुभस्मसूतेन लेपयित्वाथ शोषयेत् ॥ ४.१४ ॥
संपुटे च ततो रुन्ध्यात्पुटयेद्दशभिः पुटैः ।
म्रियते नात्र संदेहो निरुत्थं भस्म जायते ॥ ४.१५ ॥
<गोल्द्:: मारण>
हेम्नः सूक्ष्मदलानि भूर्जसदृशान्यादाय संलेप्य वै वज्रीदुग्धकहिङ्गुहिङ्गुलसमैरेकत्र पिष्टीकृतैः ।
सत्यं संपुटके निधाय दशभिश्चैवं पुटैः कुक्कुटैः पाच्यं हेम च रक्तगैरिकसमं संजायते निश्चितम् ॥ ४.१७ ॥
<गोल्द्:: मारण>
लोहपर्पटीकाबद्धं मृतं सूतं समांशकम् ।
विद्रुते हेम्नि निक्षिप्तं स्वर्णभूतिप्रभं भवेत् ॥ ४.१७ ॥
तद्भस्म पुरतोयेन दरदेन समन्वितम् ।
मर्दयेद्दिनमेकं तु संपुटे धारयेत्ततः ॥ ४.१८ ॥
पुटितं दशवारेण स्वर्णं सिंदूरसन्निभम् ।
जायते नात्र संदेहो रंजनं कुरुते ध्रुवम् ।
देहं लोहं च मतिमान् सुधनी साधयेदिदम् ॥ ४.१९ ॥
<गोल्द्:: मृत:: मेदिच्. प्रोपेर्तिएस्>
एतत्स्वर्णभवं करोतिच रजः सौन्दर्यतां वै सदा रोगान्दैवकृतान्निहन्ति सकलान्येवं त्रिदोषोद्भवान् ।
यः सेवेत नरः समान् द्विदशकान् वृद्धश्च नो जायते दोषाश्चैव गरोद्भवा विषकृता आगन्तुजा नैव हि ॥ ४.२० ॥
<सिल्वेर्:: सुब्त्य्पेस्>
रूप्यं च त्रिविधं प्रोक्तं खनिजं सहजं तथा ।
कृत्रिमं च त्रयो भेदाः कथिताः पूर्वसूरिभिः ॥ ४.२१ ॥
<सिल्वेर्:: खनिज>
भूधरे कुत्र चेत्प्राप्तं खन्यमाने च खनिजम् ।
<सिल्वेर्:: सहज>
कैलासशिखराज्जातं सहजं तदुदीरितम् ॥ ४.२२ ॥
<सिल्वेर्:: कृत्रिम>
रसवेधेन यज्जातं वङ्गात्तत्कृत्रिमं मतम् ।
<सिल्वेर्:: शुद्ध:: परीक्षा>
यद्रूप्यं वह्निना तप्तमुज्ज्वलं हि विनिःसरेत् ।
तच्छुद्धं कलधूतं हि सर्वकार्यकरं परम् ॥ ४.२३ ॥
<सिल्वेर्:: शोधन>
ताम्रादिसंसर्गभवं त्वशुद्धं रूप्यं हि मिश्रं खलु दोषलं च ।
तच्छोधयेद्वै भसितस्य मूष्यां सीसेन सार्धं रजतं तु ध्मापयेत् ॥ ४.२४ ॥
ताराच्च षड्गुणं नागं ध्मापयेद्यत्नतः सुधीः ।
शनैर्विधम्यमानं हि दोषशून्यं प्रजायते ॥ ४.२५ ॥
अनेनैव प्रकारेण शोधयेद्रजतं सदा ।
सर्वकार्ये प्रयोक्तव्यं सर्वसिद्धिविधायकम् ॥ ४.२६ ॥
<सिल्वेर्:: मारण>
भागमेकं तु रजतं सूतभागचतुष्टयम् ।
मर्दयेद्दिनमेकं तु सततं निम्बुवारिणा ॥ ४.२७ ॥
पेषणाज्जायते पिष्टीर्दिनैकेन तु निश्चितम् ।
मूषामध्ये तु तां मुक्त्वा अधोर्ध्वं गंधकं न्यसेत् ॥ ४.२८ ॥
वालुकायंत्रमध्यस्थां दिनैकं तु दृढाग्निना ।
पाचितां तु प्रयत्नेन स्वांगशीतलतां गताम् ॥ ४.२९ ॥
तालेनाम्लेन सहितां मर्दितां हि शिलातले ।
ततो द्वादशवाराणि पुटान्यत्र प्रदापयेत् ॥ ४.३० ॥
अनेन विधिना सम्यक्रजतं म्रियते ध्रुवम् ।
<सिल्वेर्:: मारण>
तारमाक्षिकयोश्चूर्णमम्लेन सह मर्दयेत् ॥ ४.३१ ॥
विंशत्पुटेन तत्तारं भूतीभवति निश्चितम् ।
<रेपेअतेद्मारण>
पुटाधिक्यं हि लोहानां सम्यक्स्याद्गुणकारि च ।
रंजनं कुरुतेऽत्यर्थं रक्तं श्वेतत्वमादिशेत् ॥ ४.३२ ॥
<सिल्वेर्:: मृत:: मेदिच्. प्रोपेर्तिएस्>
शुद्धं भस्मीकृतं रूप्यं सारघाज्यसमन्वितम् ।
नेत्ररोगानपि सदा क्षवजान्गुदजानपि ॥ ४.३३ ॥
पित्तजान् काससम्भूतान् पाण्डुजानुदराणि च ।
दोषजानपि सर्वांश्च नाशयेदरुचिं सदा ॥ ४.३४ ॥
<चोप्पेर्:: सुब्त्य्पेस्>
ताम्रं चापि द्विधा प्रोक्तं नेपालं म्लेच्छदेशजम् ।
नेपालदेशजादन्यन्म्लेच्छं तत्कथितं बुधैः ॥ ४.३५ ॥
<चोप्पेर्:: शोधन>
सीसकेन समं ताम्रं रजतेनैव शोधयेत् ।
पश्चान्मारणकं सम्यक्कर्तव्यं रसवादिना ॥ ४.३६ ॥
<चोप्पेर्:: मारणम्>
कृत्वा ताम्रस्य पत्राणि कन्यापत्रे निवेशयेत् ।
कुक्कुटाख्ये पुटे सम्यक्पुटयेत्तदनंतरम् ॥ ४.३७ ॥
सूतगंधकयोः पिष्टिः कार्या चातिमनोरमा ।
विमर्द्य निम्बुतोयेन तानि पत्राणि लेपयेत् ॥ ४.३८ ॥
स्थालीमध्ये निरुन्ध्याथ पचेद्यामचतुष्टयम् ।
पञ्चदोषविनिर्मुक्तं शुल्बं तेनैव जायते ॥ ४.३९ ॥
<चोप्पेर्:: मारण>
रवितुल्येन बलिना सूतकेन समेन च ।
तालकेन तदर्धेन शिलया च तदर्धया ॥ ४.४० ॥
चूर्णं कज्जलसंकाशं कारयेन्मतिमान् भिषक् ॥ ४.४१ ॥
शरावसंपुटस्यान्तः पत्राण्याधाय यत्नतः ।
उपर्युपरि पत्राणि कज्जलीं च निधापयेत् ॥ ४.४२ ॥
यामैकं पाचयेदग्नौ गर्भयन्त्रोदरान्तरे ।
स्वांगशीतं समुत्तार्य खल्वे सूक्ष्मं प्रचूर्णयेत् ॥ ४.४३ ॥
लेहयेन्मधुसंयुक्तमनुपानैर्यथोचितैः ।
<चोप्पेर्:: मारण (?)।सोमनाथ (?)>
शुद्धताम्रस्य पत्राणि कर्तव्यानि प्रयत्नतः ॥ ४.४४ ॥
तत्समांशस्य गंधस्य पारदस्य समस्य च ॥ ४.४५ ॥
तालकस्य तदर्धस्य शिलायाश्च तदर्धतः ।
लांगलीचित्रकव्योष- तालमूलीकरञ्जकैः ॥ ४.४६ ॥
विषशम्याकातिविषा- सैंधवैश्च समांशकैः ।
जंबीरस्य द्रवेणाथ चूर्णं चातिद्रवीकृतम् ॥ ४.४७ ॥
तत्सर्वं हि शिलाभाण्डे विनिधाय प्रयत्नतः ।
सूचीवेध्यानि पत्राणि रसेनालेपितानि च ॥ ४.४८ ॥
कल्कमध्ये विनिःक्षिप्य दिनसप्तकमेव हि ।
चूर्णीकृतं तु मध्वाज्यैः कणाद्वयसमन्वितम् ॥ ४.४९ ॥
लेहितं वल्लमात्रं हि जरामृत्युविनाशनम् ।
कथितं सोमदेवेन सोमनाथाभिधं शुभम् ॥ ४.५० ॥
<चोप्पेर्:: मारण>
शुद्धं शुल्वं गंधकं वै समांशं पूर्वं स्थाल्यां स्थापयेद्गंधकार्धम् ।
मध्ये शुल्बं स्थापनीयं प्रयत्नात्तस्योर्ध्वं वै गंधचूर्णस्य चार्धम् ॥ ४.५१ ॥
स्थालीमुखे चूर्णघटीं निवेश्य लेपं तथा सैन्धवमृत्स्नयापि ।
चुल्ल्यां च कुर्यादथ वह्निमेव यामत्रयेणैव सुपाचितं भवेत् ॥ ४.५२ ॥
शीतीभूतं दोषहीनं तदेव कृत्वा चूर्णं गालितं वस्त्रखण्डे ।
सेव्यं सम्यक्चैकवल्लप्रमाणं कासं श्वासं हन्ति गुल्मप्रमेहान् ॥ ४.५३ ॥
<चोप्पेर्:: मृत:: मेदिच्. उसे>
वल्लमेकं ताम्रभस्म पूर्वाह्णे भिषजाज्ञया ।
परिणामभवं शूलं तथा चाष्टविधं च रुक् ॥ ४.५३* ॥
उदरं पाण्डुशोफं च गुल्मप्लीहयकृत्क्षयान् ।
अग्निसादक्षयकृतान्मेहादीन् ग्रहणीगदान् ॥ ४.५४ ॥
जयेद्बहुविधान् रोगाननुपानप्रभेदतः ।
पिप्पलीमधुना सार्धं सर्वदोषहरं परम् ॥ ४.५५ ॥
अर्शोऽजीर्णज्वरादींश्च निहन्ति च रसायनम् ।
वृद्धिश्वसनकासघ्नं जरामृत्युविनाशनम् ॥ ४.५६ ॥
<इरोन्:: सुब्त्य्पेस्>
यथोत्तरं स्याद्गुणवर्णहीनं प्रकाशितं वैद्यवरेण सम्यक् ।
कांतं तथा तीक्ष्णवरं हि मुण्डं लोहं भवेद्वै त्रिविधं क्रमेण ॥ ४.५७ ॥
<कान्त:: सुब्त्य्पेस्>
कांतं चतुर्धा किल कथ्यतेऽत्र तद्रोमकं भ्रामकचुम्बके च ।
संद्रावकं श्रेष्ठतमं तथा हि संकथ्यते शास्त्रविदै रसज्ञैः ॥ ४.५८ ॥
<रोमकम्>
खन्यां संखन्यमानायां पाषाणा निःसरन्ति ये ।
तेभ्यो यद्द्रावितं लोहं रोमकं तत्प्रचक्षते ॥ ४.५९ ॥
<भ्रामकम्>
यत्र क्वापि गिरौ श्रेष्ठे लभ्यते भ्रामकोपलः ।
तस्माज्जातं तु यल्लौहं भ्रामकं तदिहोच्यते ॥ ४.६० ॥
<चुम्बकम्>
विंध्याचले भवेदश्मा लोहं चुम्बति चाद्भुतम् ।
न मुञ्चत्येव सततं शिवभक्तिं यथानुगः ॥ ४.६१ ॥
<द्रावकम्>
हिमाद्रौ लभ्यते दुःखाद्यः स्पृष्टो द्रावयेदयः ।
सुवर्णादींश्च तद्वद्धि तत्कांतं द्रावकं भवेत् ॥ ४.६२ ॥
<कान्त:: परीक्षा:: शुद्ध>
शुद्धे कांतभवे पात्रे शृतं दुग्धं हि नोद्गिरेत् ।
पानीयं क्वथितं चास्मिन् हिंगुगंधसमं भवेत् ॥ ४.६३ ॥
तैलबिंदुर्जले क्षिप्तो न चातिप्रसृतो भवेत् ।
लेपोऽपि नैव जायेत शुद्धकांतस्य लक्षणम् ॥ ४.६४ ॥
मुंडाच्छतगुणं तीक्ष्णं तीक्ष्णात्कांतं महागुणम् ।
कोटिसंख्यागुणं प्रोक्तं चुंबकं द्रावकं तथा ॥ ४.६५ ॥
<इरोन्:: शोधन>
शशरक्तेन लिप्तं हि सप्तवारेण तापितम् ।
कांतादिसर्वलोहं हि शुध्यत्येव न संशयः ॥ ४.६६ ॥
<इरोन्:: शोधन>
सामुद्रलवणैस्तद्वल्लेपितं त्रिफलाजले ।
निर्वापितं भवेच्छुद्धं सत्यं गुरुवचो यथा ॥ ४.६७ ॥
<इरोन्:: मारण>
लोहचूर्णं घृताक्तं हि क्षिप्त्वा लोहस्य खर्परे ।
अग्निवर्णप्रभं यावत्तावद्दर्व्या प्रचालयेत् ॥ ४.६८ ॥
खल्वे च विपचेत्तद्वत्पञ्चवारमतः परम् ।
वरोदकैः पुटेल्लोहं चतुर्वारमिदं खलु ॥ ४.६९ ॥
सुपेषितं वारितरं जायते नात्र संशयः ।
अनेन विधिना कार्यं सर्वलोहस्य साधनम् ॥ ४.७० ॥
जायते सर्वरोगानां सेवितं पलितापहम् ।
<इरोन्:: मारण>
लोहचूर्णं पलद्वंद्वं गुडगंधौ समांशकौ ॥ ४.७१ ॥
खल्वे विमर्द्य नितरां पुटेद्विंशतिवारकम् ।
पेषणं तु प्रकर्तव्यं पुटः पश्चात्प्रदीयते ॥ ४.७२ ॥
अनेन विधिना सम्यग्भस्मीभवति निश्चितम् ।
सर्वरोगान्निहन्त्येव नात्र कार्या विचारणा ॥ ४.७३ ॥
श्वेता पुनर्नवापत्र- तोयेन दशसंख्यकाः ।
पुटास्तत्र प्रदेयाश्च सिन्दूराभं प्रजायते ॥ ४.७४ ॥
<इरोन्:: मारण>
अथापरः प्रकारोऽत्र कथ्यते लोहमारणे ।
लोहचूर्णसमं गंधं मर्दयेत्कन्यकाद्रवैः ॥ ४.७५ ॥
पिण्डीकृतं लोहपात्रे छायायां स्थापयेच्चिरम् ।
म्रियते नात्र संदेहो ह्यनुभूतं मयैव हि ॥ ४.७६ ॥
<इरोन्:: भस्मन्:: मेदिच्. उसे>
निरुत्थं लोहजं भस्म सेवेतात्र पुमान्सुधीः ।
व्योषवेल्लाज्यमधुना टंकमानेन मिश्रितम् ॥ ४.७७ ॥
जरां च मरणं व्याधिं हन्यात्पुत्रप्रदायकम् ।
जरादोषकृतान् रोगान् विनिहन्ति शरीरिणाम् ॥ ४.७८ ॥
<तिन्:: सुब्त्य्पेस्>
बंगं तु द्विविधं प्रोक्तं खुरं मिश्रं तथैव च ।
<खुर:: फ्य्स्. प्रोपेर्तिएस्>
यच्छुद्धं सरलं शुभ्रं खुरं तदभिधीयते ॥ ४.७९ ॥
<खुर:: शोधन>
भल्लातकभवे तैले खुरं शुध्यति ढालितम् ।
<तिन्:: मिश्रक:: शोधन>
पुनर्नवासिन्धुचूर्ण- विषयुक्तं प्रढालितम् ।
तक्रमध्ये त्रिवारं हि मिश्रं बंगं विशुध्यति ॥ ४.८० ॥
<तिन्:: मारण>
छाणोपरि कृते गर्ते चिंचात्वक्चूर्णकं क्षिपेत् ।
कर्षमानां बंगचक्रीं तत्रोपरि निधापयेत् ॥ ४.८१ ॥
चक्रीं चतुर्गुणेनैव वेष्टितां धारयेत्ततः ।
छगणेन विशुष्केण पुटाग्निं दापयेत्ततः ॥ ४.८२ ॥
स्वांगशीतं समुद्धृत्य सर्वकार्येषु योजयेत् ।
अनेन विधिना शेषमपक्वं मारयेद्ध्रुवम् ॥ ४.८३ ॥
<तिन्:: मारण>
अथापरः प्रकारो हि वक्ष्यते चाधुना मया ।
शुद्धबंगस्य पत्राणि समान्येव तु कारयेत् ॥ ४.८४ ॥
अजाशकृत्वरा तुल्या चूर्णिता च निशा तथा ।
चतुरस्रमथो निम्नं गर्तं हस्तप्रमाणकम् ॥ ४.८५ ॥
कृत्वा छगणकैश्चार्धं पूरयेत्सततं भिषक् ।
ततः शणभवेनापि वस्त्रेणाच्छाद्य गर्तकम् ॥ ४.८६ ॥
पूर्वं प्रकल्पितं चूर्णं तत्रोपरि च विन्यसेत् ।
तस्योपरि च पत्राणि समानि परितो न्यसेत् ॥ ४.८७ ॥
चूर्णेनाच्छाद्य यत्नेन छगणेनाथ पूरयेत् ।
पुटयेदग्निना सम्यक्स्वांगशीतं समुद्धरेत् ॥ ४.८८ ॥
मृतं बंगं ततः पश्चान्मर्दयेत्पूरवारिणा ।
समांशं रससिन्दूरमनेन सह मेलयेत् ॥ ४.८९ ॥
खल्वे दृढतरं पिष्ट्वा काचकूप्यां निवेशयेत् ।
विपचेदग्नियोगेन यामषोडशमात्रया ॥ ४.९० ॥
हेमप्रभं मृतं बंगं जायते रसवङ्गकम् ।
<तिन्:: मृत:: मेदिच्. प्रोपेर्तिएस्>
बंगं वातकरं रूक्षं तिक्तं मेहप्रणाशनम् ।
मेदःकृम्यामयघ्नं हि कफदोषविषापहम् ॥ ४.९१ ॥
सर्वरोगान् हरत्याशु शक्तिदायि गुणाधिकम् ॥ ४.९२ ॥
यथारोगबलं वीक्ष्य दातव्यं वल्लमात्रकम् ।
अशीतिर्वातजान् रोगान् तथा मेहांश्च विंशतिः ।
हन्ति भक्षणमात्रेण सप्तकैकेन नान्यथा ॥ ४.९३ ॥
<तिन्:: मृत:: मेदिच्. प्रोपेर्तिएस्>
बंगं वातकरं रूक्षं प्रोक्तं मेहप्रणाशनम् ।
कृमिमेदामयघ्नं हि कफदोषविषापहम् ॥ ४.९४ ॥
<लेअद्:: परीक्षा:: गोओदॄउअलित्य्>
छेदे कृष्णं गुरु स्निग्धं द्रुतद्रावमथोज्ज्वलम् ।
कृष्णवर्णं बहिः शुद्धं नागं हितमतोऽन्यथा ॥ ४.९५ ॥
<लेअद्:: शोधन>
दालयेच्च रसे नागं सिन्दुवारहरिद्रयोः ।
एवं नागो विशुद्धः स्यान्मूर्च्छास्फोटादि नाचरेत् ॥ ४.९६ ॥
<लेअद्:: मारण>
शुद्धनागस्य पत्राणि सदलान्येव कारयेत् ।
शिलां वासारसेनापि मर्दयेद्याममात्रकम् ॥ ४.९७ ॥
पत्राण्यालेपयेत्तेन ततः संपुटके न्यसेत् ।
पुटेन विपचेद्धीमान् वाराहेण खराग्निना ।
एवं कृते त्रिवारेण नागभस्म प्रजायते ॥ ४.९८ ॥
<लेअद्:: मारण>
अथापरप्रकारेण नागमारणकं भवेत् ।
लोहपात्रे द्रुते नागे घर्षणं तु प्रकारयेत् ॥ ४.९९ ॥
चतुर्यामं प्रयत्नेन मूलैश्चैव पलाशजैः ।
अधस्ताज्ज्वालयेत्सम्यखठाग्निं म्रियते ध्रुवम् ।
रक्ताभं जायते चूर्णं सर्वकार्येषु योजयेत् ॥ ४.१०० ॥
जायते सर्वकार्येषु रोगोच्छेदकरं सदा ।
नागस्य मारणं प्रोक्तं बहुधा बहुभिर्बुधैः ॥ ४.१०१ ॥
सर्वथा सूतनागस्य शंभोश्च मरणं नहि ॥ ४.१०२ ॥
<लेअद्:: मृत:: मेदिच्. प्रोपेर्तिएस्>
प्रमेहान् वातजान् रोगान् धनुर्वातादिकान् गदान् ।
विंशतिश्लेष्मजांश्चैव निहन्ति च न संशयः ॥ ४.१०३ ॥
<ब्रस्स्:: सुब्त्य्पेस्>
पित्तलं द्विविधं प्रोक्तं रीतिका काकतुंडिका ।
<रीतिका:: परीक्षा>
तप्ता तुषजले क्षिप्ता शुक्लवर्णा तु रीतिका ॥ ४.१०४ ॥
<काकतुण्डी:: परीक्षा>
निक्षिप्ता कांजिके कृष्णा सा स्मृता काकतुण्डिका ॥ ४.१०५ ॥
<ब्रस्स्:: परीक्षा:: गोओदॄउअलित्य्>
पीताभा मृदु चेद्गुर्वी साराङ्गी हेमवर्णिका ।
मसृणाङ्गी तु सुस्निग्धा शुभा रीतीति कथ्यते ॥ ४.१०६ ॥
<ब्रस्स्:: परीक्षा:: बदॄउअलित्य्>
दुर्गन्धा पूतिगन्धा वा खरस्पर्शा च पाण्डुरा ।
घनघाताक्षमा रूक्षा रीतिर्नेष्टा रसायने ॥ ४.१०७ ॥
<ब्रस्स्:: शोधन>
तापिता चैव निर्गुंडी- रसे क्षिप्ता प्रयत्नतः ।
पञ्चवाराणि चायाति शुद्धिं रीतिस्तु तत्क्षणात् ॥ ४.१०८ ॥
<ब्रस्स्:: मारण>
शिलागंधकसिन्धूत्थ- रसैश्चातिप्रमर्दितैः ।
रीतिपत्राणि लेप्यानि पुटितान्यष्टधा पुनः ।
सद्यो भस्मत्वमायान्ति ततो योज्या रसायने ॥ ४.१०९ ॥
<ब्रस्स्:: रीतिका:: मृत:: मेदिच्. प्रोपेर्तिएस्>
रक्तपित्तहरा रूक्षा कृमिघ्नी रीतिका मता ।
<ब्रस्स्:: काकतुण्डिका:: मृत:: मेदिच्. प्रोपेर्तिएस्>
काकतुंडा कुष्ठहरा सोष्णवीर्या सरा मता ॥ ४.११० ॥
<ब्रोन्शे:: प्रोदुच्तिओन्>
चतुर्भागेन रविणा भागैकं त्रपु चोत्तमम् ।
जायते प्रवरं कांस्यं तत्सौराष्ट्रभवं शुभम् ॥ ४.१११ ॥
<ब्रोन्शे:: शोधन>
तप्तं कांस्यं गवां मूत्रे सप्तवारेण शुध्यति ।
<ब्रोन्शे:: मारण>
हरितालकगंधाभ्यां म्रियते पञ्चभिः पुटैः ॥ ४.११२ ॥
<ब्रोन्शे:: मृत:: मेदिच्. प्रोपेर्तिएस्>
मृतं कांस्यं वातहरं प्रमेहाणां च नाशनम् ।
शुद्धे कांस्यभवे पात्रे सर्वमेव हि भोजनम् ।
पथ्यं संजायते नाम्लं घृतशाकादिवर्जितम् ॥ ४.११३ ॥
<वर्तलोह:: प्रोदुच्तिओन्>
लोहकांस्यार्करीतिभ्यो जातं तद्वर्तलोहकम् ।
तदेव विडलोहाख्यं विद्वद्भिः समुदाहृतम् ॥ ४.११४ ॥
<वर्तलोह:: शोधन>
हयमूत्रे द्रुतं सम्यक्निक्षिप्तं शुद्धिमृच्छति ।
<वर्तलोह:: मारण>
गन्धतालेन पुटितं म्रियते वर्तलोहकम् ॥ ४.११५ ॥
<वर्तलोह:: मृत:: मेदिच्. प्रोपेर्तिएस्>
श्लेष्मपित्तहरं चाम्लं रुच्यं कृमिहरं तथा ।
नेत्ररोगप्रशमनं गलरोगनिबर्हणम् ॥ ४.११६ ॥
पथ्यं सर्वं हि तद्भाण्डे सर्वदोषहरं परम् ।
क्षारेणाम्लेन च विना दीप्तिकृत्पाचनं परम् ॥ ४.११७ ॥
संशोधनान्येव हि मारणानि गुणागुणान्येव मयोदितानि ।
अन्यानि शास्त्राणि सुविस्तराणि निरीक्ष्य यत्नात्कृतमेव सम्यक् ॥ ४.११८ ॥


____________________________________________________________

अध्यायः ५[सम्पाद्यताम्]


अथेदानीं प्रवक्ष्यामि गुणाधिक्यान्महारसान् ।
तेषां नामानि वर्गांश्च सत्त्वानि तद्गुणांस्तथा ॥ ५.१ ॥
<महारसाः>
क्रमेण गगनं ताप्यं वैक्रांतं विमलं तथा ।
रसकं शैलसंभूतं राजावर्तकसस्यके ।
एते महारसाश्चाष्टावुदिता रसवादिभिः ॥ ५.२ ॥
<अभ्र:: सुब्त्य्पेस्:: चोलोउर्>
क्रमप्राप्तमहं वक्ष्ये गगनं तु चतुर्विधम् ।
श्वेतं रक्तं तथा पीतं कृष्णं परमसुंदरम् ॥ ५.३ ॥
श्वेतं श्वेतक्रियायोग्यं रक्तं पीतं हि पीतकृत् ।
कृष्णाभ्रं सर्वरोगाणां नाशनं परमं सदा ॥ ५.४ ॥
<अभ्र:: सुब्त्य्पेस्>
वज्रं पिनाकं नागं च मंडूकमभिधीयते ।
अनेन विधिना प्रोक्ता भेदाः सन्तीह षोडश ॥ ५.५ ॥
अभ्राणामेव सर्वेषां वज्रमेवोत्तमं सदा ।
शेषाणि त्रीणि चाभ्राणि घोरान् व्याधीन् सृजन्ति हि ।
तस्माद्यत्नेन सद्वैद्यैर्वर्जनीयानि नित्यशः ॥ ५.६ ॥
<वज्र:: परीक्षा>
वज्राभ्रं धम्यमानेऽग्नौ विकृतिं न क्वचिद्भजेत् ।
सेवितं तन्मृतिं हन्ति वज्राभं कुरुते वपुः ॥ ५.७ ॥
<पिनाक:: परीक्षा>
पिनाकं चाग्निसंतप्तं विमुञ्चति दलोच्चयम् ।
सेवितं चैकमासेन कृमिं कुष्ठं करोत्यलम् ॥ ५.८ ॥
<नाग:: परीक्षा>
नागाभ्रं ध्मापितं सम्यक्नागवत्स्फूर्जते ध्रुवम् ।
<नाग:: मेदिच्. प्रोपेर्तिएस्>
सेवितं तत्प्रकुरुते क्षयरोगसमुद्भवम् ॥ ५.९ ॥
विषं हालाहलं पीतं मारयत्येव निश्चितम् ।
तथा नागाभ्रनामेदं सद्वैद्यः कथयत्यलम् ॥ ५.१० ॥
<मण्डूक:: परीक्षा>
मंडूकाभ्रं प्रकुरुते ताप्यमानं हि नित्यशः ।
क्षणं चाग्नौ न तिष्ठेत मंडूकसदृशां गतिम् ॥ ५.११ ॥
मंडूकाभ्रं न सेव्यं हि कथितं रसवेदिभिः ॥ ५.१२ ॥
<अभ्रक:: शोधन>
स्वेदयेद्दिनमेकं तु कांजिकेन तथाभ्रकम् ।
पश्चात्कुलत्थजे क्वाथे तक्रे मूत्रेऽथ वह्निना ॥ ५.१३ ॥
<अभ्र:: शोधन>
पाचितं दोषशून्यं तु शुद्धिमायाति निश्चितम् ।
तथाग्नौ परितप्तं तु निषिञ्चेत्सप्तवारकम् ॥ ५.१४ ॥
कांजिके चापि निर्दोषमभ्रके जायते ध्रुवम् ।
वराक्वाथे तथा दुग्धे गवां मूत्रे तथैव च ।
मार्कवस्य रसेनापि दोषशून्यं प्रजायते ॥ ५.१५ ॥
<अभ्र:: मारण>
सूक्ष्मचूर्णं ततः कृत्वा पिष्ट्वा हंसपदीरसैः ।
चक्राकारं कृतं शुष्कं दद्यादर्धगजाह्वये ॥ ५.१६ ॥
षट्पुटानि ततो दत्त्वा पुनरेवं पुनर्नवा ।
रसेन मर्दितं गाढमभ्रांशेन तु टंकणम् ॥ ५.१७ ॥
पुनश्च चक्रिकां कृत्वा सप्तवारं पुटेत्खलु ।
तण्डुलीयरसेनैव तद्वद्वासारसेन च ॥ ५.१८ ॥
पुटयेत्सप्तवाराणि पुटं दद्याद्गजार्धकम् ।
अनेन विधिना चाभ्रं म्रियते नात्र संशयः ।
चन्द्रिकारहितं सम्यक्सिंदूराभं प्रजायते ॥ ५.१९ ॥
<अभ्र:: मारण>
कासमर्दरसेनैव धान्याभ्रं पाचितं शुभम् ।
शतवारेण म्रियते नात्र कार्या विचारणा ॥ ५.२० ॥
<अभ्र:: मारण>
एवं मुस्तारसेनापि तण्डुलीयशिफारसैः ।
टंकणेन समं पिष्ट्वा चक्राकारमथाभ्रकम् ॥ ५.२१ ॥
षष्टिसंख्यपुटैः पक्वं सिन्दूरसदृशं भवेत् ।
कुष्ठक्षयादिरोगघ्नमभ्रकं जायते ध्रुवम् ॥ ५.२२ ॥
<अभ्र:: मारण>
नागवल्लीदलरसैर्वटमूलत्वचा तथा ।
वृषामत्स्यादनीभ्यां च मत्स्याक्ष्या सपुनर्भुवा ॥ ५.२३ ॥
वटवृक्षस्य मूलेन मर्दितं पुटितं घनम् ।
सिंदूरसदृशं वर्णे भवेद्विंशतिमे पुटे ॥ ५.२४ ॥
सूक्ष्मं सूक्ष्मं जलप्लावं रक्तवर्णसमुज्ज्वलम् ।
सर्वरोगहरं चापि जायते बहुभिः पुटैः ॥ ५.२५ ॥
<अभ्र:: मृत:: मेदिच्. प्रोपेर्तिएस्>
मृतं वज्राभ्रकं सम्यक्सेवनीयं सदा बुधैः ।
वलिपलितनाशाय दृढतायै शरीरिणाम् ॥ ५.२६ ॥
सर्वव्याधिहरं त्रिदोषशमनं वह्नेश्च संदीपनं वीर्यस्तंभविवृद्धिकृत्परमिदं कृच्छ्रादिरोगापहम् ।
भूतोन्मादनिवारणं स्मृतिकरं शोफामयध्वंसनं सद्यः प्राणविवर्धनं ज्वरहरं सेव्यं सदा चाभ्रकम् ॥ ५.२७ ॥

यथा विषं यथा वज्रं शस्त्रोऽग्निः प्राणहृद्यथा ।
भक्षितं चन्द्रिकायुक्तमभ्रकं तादृशं गुणैः ॥ ५.२८ ॥
<अभ्र:: सत्त्व:: पातन>
पादांशं टंकणं दत्त्वा मुसलीरसमर्दितम् ।
ध्मापितं कोष्ठिकायन्त्रे सत्त्वरूपं प्रजायते ॥ ५.२९ ॥
<अभ्र:: सत्त्व:: पातन>
खल्वे पिष्ट्वा तु मतिमान् सूक्ष्मचूर्णं तु कारयेत् ।
गालितं वस्त्रखण्डेन घृतेन च परिप्लुतम् ॥ ५.३० ॥
भर्जितं दशवाराणि लोहखर्परकेण वै ।
अग्निवर्णसमं यावत्तावत्पिष्ट्वा तु भर्जयेत् ॥ ५.३१ ॥
शुकपिच्छसमं पिष्ट्वा क्वाथे तु वटमूलजे ।
ततो विंशतिवाराणि पुटेच्छूकरसंज्ञकैः ॥ ५.३२ ॥
वराकषायैर्मतिमान् तथा कुरु भिषग्वर ।
नीलीगुंजावरापथ्याम्- ऊलकेन सुभावयेत् ॥ ५.३३ ॥
संशुष्कं भक्षयेद्विद्वान् सर्वरोगहरं परम् ।
अभ्रसत्वात्परं नास्ति रसायनमनुत्तमम् ॥ ५.३४ ॥
यदि चेत्शतवाराणि पाचयेत्तीव्रवह्निना ।
तदामृतोपमं चाभ्रं देहलोहकरं परम् ॥ ५.३५ ॥
<अभ्र:: सत्त्व:: पातन>
धान्याभ्रकं ततः कृत्वा द्वात्रिंशत्पलमात्रकम् ।
लाक्षागुंजाक्षुद्रमीनाः टङ्कणं दुग्धमाविकम् ॥ ५.३६ ॥
सर्षपाः शिग्रुपिण्याकं सिन्धूत्थं मृगशृङ्गकम् ।
माक्षिकं च समांशानि सर्वाण्येव तु कारयेत् ॥ ५.३७ ॥
धान्याभ्रकेन तुल्येन मर्दयेन्मतिमान्भिषक् ।
पुनर्नवाया वासायाः कासमर्दस्य तण्डुलैः ॥ ५.३८ ॥
मत्स्याक्ष्या हंसपद्याश्च कारवेल्ल्या रसैः पृथक् ।
खलगोधूमयोश्चूर्णैः कारयेद्वटकान् शुभान् ॥ ५.३९ ॥
पश्चात्कोष्ठ्यां धमेच्छुष्कान् भस्त्रिकाद्वितयेन तान् ।
खदिरस्य तु चांगारैः सत्वं निःसरति ध्रुवम् ॥ ५.४० ॥
पृथक्कृत्वा तु रवकान् कांस्यवर्णान् विशेषतः ।
तत्किट्टं गोमयेनाथ वटकान्कारयेत्पुनः ॥ ५.४१ ॥
ध्मापयेत्पूर्वविधिना पुनः सत्वं हि निःसरेत् ।
अनेन विधिना कार्यं पञ्चगव्येन मिश्रितम् ॥ ५.४२ ॥
पञ्चाजेनाथ महिषी- पञ्चकेन समं कुरु ।
पतत्येवमसंदिग्धं सत्यं गुरुवचो यथा ॥ ५.४३ ॥
<अभ्र:: सत्त्व:: मारण>
अथाभ्रसत्त्वरवकानम्लवर्गेण पाचयेत् ।
शोधनीयगणेनैव मूषामध्ये तु शोधयेत् ॥ ५.४४ ॥
काचटंकणगुंजाज्य- सारघैः शोधयेत्खलु ।
मधुतैलवसाज्येषु दशवाराणि ढालयेत् ॥ ५.४५ ॥
मार्दवं कारयेत्सत्यं योगेनानेन सर्वदा ।
सत्वस्य गोलकानेवं तप्तानेवं तु कांजिके ॥ ५.४६ ॥
निर्वाप्य तत्क्षणादेव कण्डयेल्लोहपारया ।
अनेनैव प्रकारेण सूक्ष्मचूर्णं तु कारयेत् ॥ ५.४७ ॥
भर्जयेद्घृतमध्ये तु त्रीणि वाराणि यत्नतः ।
पेषणं तु प्रकर्तव्यं शिलापट्टेन यत्नतः ॥ ५.४८ ॥
धात्रीपत्ररसेनापि तस्याः फलरसेन वा ।
पुनर्भुवा वासया च कांजिकेनाथ गन्धकैः ।
पुटयेद्दशवाराणि म्रियते चाभ्रसत्त्वकम् ॥ ५.४९ ॥
<अभ्र:: सत्त्व:: मृत:: मेदिच्. प्रोपेर्तिएस्>
मृतं सत्वं हरेन्मृत्युं सर्वरोगविनाशनम् ।
क्षयं पाण्डुं ग्रहणिकां श्वासं शूलं सकामलम् ॥ ५.५० ॥
ज्वरान्मेहांश्च कासांश्च गुल्मान्पञ्चविधानपि ।
मन्दाग्निमुदराण्येवमर्शांसि विविधानि च ॥ ५.५१ ॥
अनुपानप्रयोगेण सर्वरोगान्निहन्ति च ।
अभ्रसत्वगुणान्वक्तुं शक्यते न समासतः ॥ ५.५२ ॥
<राजावर्त:: परीक्षा:: गोओदॄउअलित्य्>
किंचिद्रक्तोऽथ नीलश्च मिश्रवर्णप्रभः सदा ।
तौल्ये गुरुश्च मसृणो राजावर्त्तो वरः स्मृतः ॥ ५.५३ ॥
<राजावर्त:: शोधन>
गोमूत्रेणाथ क्षारैश्च तथाम्लैः स्वेदिताः खलु ।
त्रिवारेण विशुध्यन्ति राजावर्तादयो रसाः ॥ ५.५४ ॥
<राजावर्त:: मारण>
चूर्णितः शुकपिच्छेन भृंगराजरसेन वै ।
सप्तवारेण पुटितो राजावर्त्तो मरिष्यति ॥ ५.५५ ॥
<राजावर्त:: मृत:: मेदिच्. प्रोपेर्तिएस्>
श्लेष्मप्रमेहदुर्नाम- पाण्डुक्षयनिवारणः ।
पाचनो दीपनश्चैव वृष्योऽनिलविषापहः ॥ ५.५६ ॥
<राजावर्त:: सत्त्व:: पातन>
कोशातकी क्षीरकन्दो वंध्याकर्कोटकी तथा ।
काकमाची राजशमी त्रिफला गृहधूमकः ॥ ५.५७ ॥
राजावर्तो रसैरेषां सत्वं मुञ्चति मर्दितः ।
ध्मापितः खदिरांगारैर्भस्त्रिकाद्वितयेन च ॥ ५.५८ ॥
<वैक्रान्त:: फ्य्स्. प्रोपेर्तिएस्>
अष्टधारोष्ठफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रांत उच्यते ॥ ५.५९ ॥
<वैक्रान्त:: सुब्त्य्पेस्:: चोलोउर्>
श्वेतः पीतस्तथा कृष्णो नीलः पारावच्छविः ।
कर्बूरः श्यामवर्णश्च वैक्रांतश्चाष्टधा स्मृतः ॥ ५.६० ॥
<वैक्रान्त:: शोधन>
क्वाथे कुलत्थजे स्विन्नो वैक्रांतः शुध्यति ध्रुवम् ।
<वैक्रान्त:: मारण>
गन्धनिम्बूरसैर्मर्द्यः पुटितो म्रियते ध्रुवम् ॥ ५.६१ ॥
<वैक्रान्त:: मृत:: मेदिच्. प्रोपेर्तिएस्>
आयुःप्रदस्त्रिदोषघ्नो वृष्यः प्राणप्रदः सदा ।
वेगप्रदो वीर्यकर्ता प्रज्ञावर्णौ करोति हि ॥ ५.६२ ॥
रसायनेषु सर्वेषु पूर्वगण्यस्तु रोगहा ।
वज्रवद्गुणकारी च वैक्रांतो रसबन्धकः ॥ ५.६३ ॥
<वैक्रान्त:: सत्त्व:: पातन>
सूर्यातपे मर्दितोऽसौ सत्वपातगणौषधैः ।
शुष्कायितो वटीकृत्य मूषास्थो ध्मापितोऽपि वै ॥ ५.६४ ॥
सत्वं मुञ्चति वैक्रांतः सत्यं गुरुवचो यथा ।
<वैक्रान्त:: सत्त्व:: मेदिच्. उसे>
मृतसूतेन तुल्यांशं सत्वं वैक्रांतसंभवम् ॥ ५.६५ ॥
मृताभ्रसत्वसंयुक्तं मर्दितं सममात्रकम् ।
कणामध्वाज्यसंमिश्रं वल्लमात्रं निषेवितम् ॥ ५.६६ ॥
सर्वान् रोगान्निहन्त्याशु जीवेद्वर्षशतं सुखी ।
त्रिवर्षसेवनान्नूनं वलीपलितनाशनम् ॥ ५.६७ ॥
<सस्यक:: म्य्थ्. ओरिगिन्>
सद्यो हालाहलं पीतममृतं गरुडेन च ।
सुधायुक्ते विषे वान्ते पर्वते मरुताह्वये ॥ ५.६८ ॥
घनीभूतं च संजातं सस्यकं खलु कथ्यते ।
<सस्यक:: परीक्षा:: गोओदॄउअलित्य्>
नीलं मरकतच्छायं तेजोयुक्तं प्रशस्यते ॥ ५.६९ ॥
<सस्यक:: शोधन>
स्वेदितं माहिषाज्याभ्यां गवां मूत्रैर्नरस्य वा ।
दोलायन्त्रेण यामौ द्वौ शुध्यत्येव हि सस्यकम् ॥ ५.७० ॥
<सस्यक:: मारण>
गंधाश्मटंकणाभ्यां च लकुचद्रावमर्दितम् ।
कुक्कुटाह्वैः सप्तपुटैर्म्रियते चांधमूषया ॥ ५.७१ ॥
<सस्यक:: सत्त्व:: पातन>
निघृष्टं टंकणेनैव निम्बूद्रावेण मूषया ।
ध्मातं च ताम्ररूपं हि सत्त्वं मुञ्चति सस्यकम् ॥ ५.७२ ॥
विषेण सहितं यस्मात्तस्माद्विषगुणाधिकम् ।
सुधायुक्तं विषं येन सुधाधिकगुणं तथा ॥ ५.७३ ॥
<सस्यक:: मृत:: मेदिच्. प्रोपेर्तिएस्>
त्रिदोषशमनं चैव विषहृद्गुदशूलनुत् ।
अम्लपित्तविबन्धघ्नं रसायनवरं सदा ॥ ५.७४ ॥
वान्तिं करोति रेकं च श्वित्रकुष्ठापहं तथा ।
नाम्ना मयूरतुत्थं हि सर्वव्याधिनिवारणम् ॥ ५.७५ ॥
<सस्यक, भूनाग:: सत्त्व:: रिन्ग्>
भूनागसत्वसंयुक्तं सत्वमेतत्समीकृतम् ।
अनयोर्मुद्रैका कार्या शूलघ्नी सा भवेत्खलु ॥ ५.७६ ॥
डाकिनीभूतसंवेश- चराचरविषं जयेत् ।
राज्ञां सदैव रक्षार्थं विधातव्या सुमुद्रिका ॥ ५.७७ ॥
<माक्षिक>
माक्षिकं द्विविधं ज्ञेयं रुक्मताप्यप्रभेदतः ।
<स्वर्णमाक्षिक (?)>
प्रथमं माक्षिकं स्वर्णं कान्यकुब्जसमुत्थितम् ॥ ५.७८ ॥
सुवर्णवर्णसदृशं नववर्णसमन्वितम् ।
<माक्षिक:: ताप्य (<> स्वर्ण)>
तटे तपत्याः संजातं ताप्याख्यं माक्षिकं वदेत् ॥ ५.७९ ॥
पाषाणदलसंमिश्रं पाण्डुरं पञ्चवर्णवत् ।
गुणाल्पकं भवत्येतत्स्वल्पं सत्त्वं विमुञ्चति ॥ ५.८० ॥
<माक्षिक:: मारण>
मूत्रे तक्रे च कौलत्थे मर्दितं शुष्कमेव च ।
गंधाश्मबीजपूराभ्यां पिष्टं तच्छ्रावसंपुटे ॥ ५.८१ ॥
पञ्चवाराहपुटकैर्दग्धं मृतिमवाप्नुयात् ॥ ५.८२ ॥
<माक्षिक:: सत्त्व:: पातन>
लोहपात्रे सुसंदग्धं लोहदण्डेन घर्षितम् ।
यदा रक्तं धातुनिभं जायते निंबुकद्रवैः ॥ ५.८३ ॥
घर्षयेत्त्रिगुणं सूतं मुक्त्वा संघर्षणं कुरु ।
दिनैकं घर्षयित्वा तु दृढवस्त्रेण गालयेत् ॥ ५.८४ ॥
वस्त्रस्था पिष्टिका लग्ना त्वधः पतति पारदः ।
अनेनैव प्रकारेण द्वित्रिवारेण गालयेत् ॥ ५.८५ ॥
तत्पिष्टीगोलकं ग्राह्यं यंत्रे डमरुके न्यसेत् ।
प्रहरद्वयमात्रं चेदग्निं प्रज्वालयेदधः ॥ ५.८६ ॥
इन्द्रगोपसमं सत्वमधःस्थं ग्राहयेत्सुधीः ।
अनेनैव विधानेन ताप्यसत्वं समाहरेत् ॥ ५.८७ ॥
टंकणेन समायुक्तं द्रावितं मूषया यदा ।
तदा ताम्रप्रभं सत्वं जायते नात्र संशयः ॥ ५.८८ ॥
देहलोहकरं सम्यक्देवीशास्त्रेण भाषितम् ॥ ५.८९ ॥
सर्वामयघ्नं सततं पारदस्यामृतं परम् ।
मेलनं कुरुते लोहे परमं च रसायनम् ॥ ५.९० ॥
<विमल:: सुब्त्य्पेस्>
प्रथमो हेमविमलो हेमवद्वर्णसंयुतः ।
द्वितीयो रूप्यविमलो रूप्यवद्दृश्यते खलु ॥ ५.९१ ॥
तृतीयः कांस्यविमलः कांस्यवर्णसमो हि सः ।
<विमल:: फ्य्स्. प्रोपेर्तिएस्>
स्निग्धश्च वर्तुलश्चैव षट्कोणः फलकान्वितः ॥ ५.९२ ॥
<विमल:: शोधन>
वासारसे मर्दितो हि शुद्धोऽतिविमलो भवेत् ।
<विमल:: मारण>
गंधाश्मनिंबुकद्रावैर्मर्दितः पुटितो मृतिम् ।
शृङ्गस्य भस्मना चापि पुटैश्च दशधा पुटेत् ॥ ५.९३ ॥
<विमल:: सत्त्व:: पातन>
निम्बूरसेन संपिष्ट्वा मूषामध्ये निरुध्य च ।
विमलः सीससदृशं ध्मातो मुञ्चति सत्त्वकम् ॥ ५.९४ ॥
<विमल:: सत्त्व:: मेदिच्. उसे>
पिष्टीकृतं हि तत्सत्वं पारदेन समन्वितम् ।
द्रुते गंधे हि निक्षिप्तं तालकं त्रिगुणं तथा ॥ ५.९५ ॥
मनःशिला पञ्चगुणा वालुकायन्त्रके खलु ।
ज्वालयेत्क्रमशश्चैव पश्चाद्रजतभस्मकम् ॥ ५.९६ ॥
सममात्रं हि वैक्रांतं सर्वं संचूर्णयेत्खलु ।
संगाल्य यत्नतो वस्त्रात्स्थापयेत्कूपिकान्तरे ॥ ५.९७ ॥
वह्निं कुर्यादष्टयामं स्वांगशीतं समुद्धरेत् ।
वल्लमात्रं च मधुना लेहयेत्व्योषसंयुतं ॥ ५.९८ ॥
बालानां रोगहरणं ज्वरपाण्डुप्रमेहनुत् ।
ग्रहणीकामलाशूल- मन्दाग्निक्षयपित्तहृत् ॥ ५.९९ ॥
अनुपानविशेषणं सर्वरोगान्निहन्ति च ॥ ५.१०० ॥
वृष्यः पित्तानिलहरो रसायनवरः खलु ॥ ५.१०१ ॥
<शिलाजतु:: सुब्त्य्पेस्>
तत्राद्यं द्विविधं चैव सत्सत्वं सत्वहीनकम् ।
गुणाधिकं तयोर्मध्ये यत्पूर्वं सर्वदोषहृत् ॥ ५.१०२ ॥
<शिलाजतु:: ओरिगिन् fरों रोच्क्स्>
निदाघे तीव्रतापाद्धि हिमप्रत्यन्तपर्वतात् ।
हेमतारार्कगर्भेभ्यः शिलाजतु विनिःसरेत् ॥ ५.१०३ ॥
<शिलाजतु:: fरों गोल्द्>
बन्धूकपुष्पसदृशं गुरु स्निग्धं सुशीतलम् ।
रुक्मगर्भगिरौ जातं परमं तद्रसायनम् ॥ ५.१०४ ॥
किंचित्तिक्तं च मधुरं शिलाजं सर्वदोषनुत् ॥ ५.१०५ ॥
<शिलाजतु:: fरों सिल्वेर्>
तारगर्भगिरेर्जातं पाण्डुरं स्वादु शीतलम् ।
पित्तपाण्डुक्षयघ्नं च शिलाजतु हि पाण्डुरम् ॥ ५.१०६ ॥
<शिलाजतु:: fरों चोप्पेर्>
शुल्वगर्भगिरेर्जातं कृष्णवर्णं घनं गुरु ।
गिरिजं कफवातघ्नं विशेषात्सर्वरोगजित् ॥ ५.१०७ ॥
<शिलाजतु:: परीक्षा:: शुद्ध>
अग्नौ यज्जायते क्षिप्तं लिंगाकारमधूमकम् ।
उदके च विलीयेत तच्छुद्धं च विधीयते ॥ ५.१०८ ॥
<शिलाजतु:: शोधन>
अम्लैश्च गुग्गुलूपेतैः क्षाराद्यैर्भाण्डमध्यतः ।
विशुध्यति शिलाजातं स्वेदितं घटिकाद्वयम् ॥ ५.१०९ ॥
<शिलाजतु:: मारण>
मनःशिलालुङ्गरसैः शिलया गंधकेन वा ।
तालकेनाथ पुटितं शिलाजं म्रियते ध्रुवम् ॥ ५.११० ॥
छगणैरष्टभिः कृत्वा भस्मीभूतं शिलाजतु ॥ ५.१११ ॥
<शिलाजतु:: मेदिच्. उसे>
शिलाजतु तु संशुद्धं सेवेत यः पुमान् सदा ।
जीवेद्वर्षशतं साग्रं न रोगैर्बाध्यते खलु ॥ ५.११२ ॥
मूत्रकृच्छ्राश्मरीरोगाः प्रयान्त्येव न संशयः ।
महारसे चोपरसे धातुरत्नेषु पारदे ।
ये गुणाः कथिताः सद्भिः शिलाधातौ वदन्ति ते ॥ ५.११३ ॥
वैक्रांतकांतत्रिफला- त्रिकटुभिः समन्वितम् ।
वल्लोन्मितं वै सेवेत सर्वरोगगणापहम् ॥ ५.११४ ॥
पलितं वलिभिः सार्धं हन्यादेव न संशयः ॥ ५.११५ ॥
<कर्पूरशिलाजतु>
कर्पूरसदृशं श्वेतं कर्पूराख्यं शिलाजतु ।
<कर्पूरशिलाजतु:: मेदिच्. प्रोपेर्तिएस्>
अश्मरीमेहकृच्छ्रघ्नं कामलापाण्डुनाशनम् ॥ ५.११६ ॥
<कर्पूरशिलाजतु:: शोधन>
अम्लतोयेन संस्विन्नं शुष्कं शुद्धिमुपैति च ।
<कर्पूरशिलाजतु:: मारण, सत्त्वपातन>
नोदितं मारणं तस्य सत्वपातनकं बुधैः ॥ ५.११७ ॥
<रसक:: सुब्त्य्पेस्>
द्विविधो रसकः प्रोक्तः कारवेल्लकदर्दुरः ।
<कारवेल्लक:: मेदिच्. प्रोपेर्तिएस्>
सत्वपाते परः प्रोक्तः प्रथमश्चौषधादिषु ॥ ५.११८ ॥
सर्वमेहहरश्चैव पित्तश्लेष्मविनाशनः ।
नागार्जुनेन कथितौ सिद्धौ श्रेष्ठरसावुभौ ॥ ५.११९ ॥
कृतौ येनाग्निसहनौ सूतखर्परकौ शुभौ ।
तेन स्वर्गमयी सिद्धिरर्जिता नात्र संशयः ॥ ५.१२० ॥
<रसक:: शोधन>
रसकस्तापितः सम्यक्निक्षिप्तो रसपूरके ।
निर्मलत्वमवाप्नोति सप्तवारं निमज्जितः ॥ ५.१२१ ॥
<रसक:: शोधन>
कांजिके वाथ तक्रे वा नृमूत्रे मेषमूत्रके ।
द्रावितो ढालितः सम्यक्खर्परः परिशुध्यति ॥ ५.१२२ ॥
<रसक:: रञ्जन ओf चोप्पेर्wइथ्ँ>
खर्परं रेतितं शुद्धं स्थापितं नरमूत्रके ।
रञ्जयेन्मासमेकं हि ताम्रं स्वर्णप्रभं वरम् ॥ ५.१२३ ॥
<रसक:: सत्त्व:: पातन>
शिला हरिद्रा त्रिफला गृहधूमैः ससैंधवैः ।
भल्लातकैष्टंकणैश्च क्षारैरम्लैश्च वर्तितम् ॥ ५.१२४ ॥
पादांशसंयुतैर्मूषां वृंताकफलसन्निभाम् ।
निरुध्य शोषयित्वाथ मूषां मूषोपरि न्यसेत् ॥ ५.१२५ ॥
प्रध्माते खर्परे ज्वाला सिता नीला भवेद्यदा ।
लोहसंदंशके कृत्वा धृत्वा मूषामधोमुखीम् ॥ ५.१२६ ॥
भूम्यामाढालयेत्सत्त्वं यथा नालं न भज्यते ।
तदा सीसोपमं सत्वं पतत्येव न संशयः ॥ ५.१२७ ॥
अनेनैव प्रकारेण त्रिवारं हि कृते सति ।
विनिःसरेत्सर्वसत्वं सत्यं हि गुरुणोदितम् ॥ ५.१२८ ॥
<रसक:: सत्त्व:: मारण>
तालकेन समायुक्तं सत्वं निक्षिप्य खर्परे ।
घर्षयेल्लोहदण्डेन म्रियते च न संशयः ॥ ५.१२९ ॥
<रसक:: सत्त्व:: मृत:: मेदिच्. उसे>
मृतं सत्वं मृतं कांतं समांशेनापि योजितम् ।
माषमात्रमिदं चूर्णं वराक्वाथेन संयुतम् ॥ ५.१३० ॥
लोहपात्रस्थितं रात्रौ तिलजप्रतिवापकम् ।
निहन्ति मधुमेहं च क्षयं पाण्डुं तथानिलम् ॥ ५.१३१ ॥
योनिरोगांश्च नारीणां ज्वरांश्च विषमानपि ।
स्त्रीरोगान्हन्ति सर्वांश्च श्वासकासपुरोगमान् ॥ ५.१३२ ॥


____________________________________________________________

अध्यायः ६[सम्पाद्यताम्]


<उपरसाः>
तालकं तुवरी गंधं कंकुष्ठं कुनटी तथा ।
सौवीरं गैरिकं चैवमष्टमं खेचराह्वयम् ॥ ६.१ ॥
<हरिताल:: सुब्त्य्पेस्>
तालकं द्विविधं प्रोक्तं दलाख्यं चाश्मसंज्ञितम् ।
<पत्त्रतालक:: फ्य्स्. प्रोपेर्तिएस्>
सूक्ष्मपत्रं हेमवर्णं गुरु स्निग्धं च भासुरम् ॥ ६.२ ॥
दलाख्यं तालकं तच्च बहुसत्वं रसायनम् ।
<अश्मतालक:: फ्य्स्. प्रोपेर्तिएस्>
निष्पत्रं चाश्मसदृशं किंचित्सत्वं तथागुरु ॥ ६.३ ॥
नारीणां पुष्पहृत्तत्तु कुपथ्यं चाश्मतालकम् ।
<हरिताल:: शोधन>
कुष्माण्डतोयसंस्विन्नं ततः क्षारजलेन वा ।
चूर्णतोयेन वा स्विन्नं दोलायंत्रेण शुध्यति ॥ ६.४ ॥
<हरिताल:: सत्त्व:: पातन>
कुलत्थक्वाथसौभाग्य- माहिषाज्यमधुप्लुतम् ।
खल्वे क्षिप्त्वा च तत्तालं मर्दयेदेकवासरम् ॥ ६.५ ॥
निस्तुषीकृत्य चैरण्ड- बीजान्येव तु मर्दयेत् ।
पलाष्टमानं तालस्य चाष्टमांशं तु कारयेत् ॥ ६.६ ॥
बीजान्येरण्डजान्येव क्षिप्त्वा चैकत्र मर्दयेत् ।
यवाभा गुटिका कार्या शुष्का कुप्यां निधाय च ॥ ६.७ ॥
वालुकायंत्रमध्ये तु वह्निं द्वादशयामकम् ।
स्वांगशीतं समुत्तार्य ऊर्ध्वगं सत्वमाहरेत् ॥ ६.८ ॥
पाषाणधातुसत्त्वानां प्रकाराः सन्त्यनेकशः ।
यानि कार्यकराण्येव सत्वानि कथितानि वै ॥ ६.९ ॥
<हरिताल:: मेदिच्. प्रोपेर्तिएस्>
वातश्लेष्महरं रक्त- भूतनुत्पुष्पहृत्स्त्रियाः ।
सुस्निग्धमुष्णकटुकं दीपनं कुष्ठहारि तत् ॥ ६.१० ॥
<सौराष्ट्री:: ओरिगिन्>
सौराष्ट्रदेशे संजाता खनिजा तुवरी मता ।
<सौराष्ट्री:: चोलोर्स्fअब्रिच्>
या लेपिता श्वेतवस्त्रे रङ्गबन्धकरी हि सा ॥ ६.११ ॥
<सौराष्ट्री:: सुब्त्य्पेस्>
फुल्लिका खटिका तद्वत्द्विप्रकारा प्रशस्यते ।
किंचित्पीता च सुस्निग्धा गरदोषविनाशिनी ॥ ६.१२ ॥
श्वेतवर्णापरा साम्ला फुल्लिका लोहमारणी ।
<सौराष्ट्री:: मेदिच्. प्रोपेर्तिएस्>
कषाया मधुरा कांक्षी कटुका विषनाशिनी ॥ ६.१३ ॥
व्रणघ्नी कफहा चैव नेत्रव्याधित्रिदोषहा ।
कुष्ठरोगहरा सा तु पारदे बीजधारिणी ॥ ६.१४ ॥
<सौराष्ट्री:: शोधन>
धान्याम्ले तुवरी क्षिप्ता शुध्यति त्रिदिनेन वै ।
<सौराष्ट्री:: सत्त्व:: पातन>
क्षारैरम्लैश्च मृदिता ध्माता सत्वं विमुञ्चति ।
<सौराष्ट्री:: सत्त्व:: मेदिच्. उसे>
तत्सत्वं धातुवादार्थे औषधे नोपपद्यते ॥ ६.१५ ॥
<मनःशिला:: सुब्त्य्पेस्>
मनःशिला त्रिप्रकारा श्यामा रक्ता च खण्डिका ।
<श्यामा>
श्यामा रक्ता मिश्रवर्णा भाराढ्या श्यामिका भवेत् ॥ ६.१६ ॥
<कणवीरका>
कणवीरा सुरक्ताङ्गी ताम्राभा सैव शस्यते ।
<खण्डिका>
चूर्णिता याति रक्ताङ्गी गुरुः स्निग्धा च खण्डिका ॥ ६.१७ ॥
सर्वाः कुनट्यः कथिताः पूर्वं पूर्वं गुणोत्तराः ।
<मनःशिला:: शोधन>
मुनिपत्ररसेनापि शृङ्गवेररसेन वा ॥ ६.१८ ॥
भाविता सप्तवारेण विशुध्यति न संशयः ।
<मनःशिला:: सत्त्व:: पातन>
सर्पिषा च गुडेनाथ किट्टगुग्गुलुनाथ वा ॥ ६.१९ ॥
ध्माता तु कोष्ठिकायन्त्रे मुञ्चेत्सत्त्वं न संशयः ॥ ६.२० ॥
<मनःशिला:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्>
रसायनवरा सर्वा वातश्लेष्मविनाशिनी ।
सत्वाधिका विषघ्नी च भूतकण्डूक्षयापहा ।
अग्निमांद्यं प्रशमयेत्कोष्ठरोगनिबर्हिणी ॥ ६.२१ ॥
<अञ्जन:: सुब्त्य्पेस्>
सौवीरं च रसांजनं निगदितं स्रोतोंजनं चैव हि तद्वत्पुष्पमथाञ्जनं तदनु चेन्नीलांजनं कथ्यते ।
पञ्चानामपि नामवर्णगुणवद्रूपाणि सम्यग्विधौ कथ्यन्तेऽत्र मयापि शोधनमिदं सत्वं मृतिश्चोच्यते ॥ ६.२२ ॥
<सौवीर>
सौवीराख्यं चांजनं धूमवर्णं पित्तास्रघ्नं छर्दिहिध्माव्रणघ्नम् ।
नेत्रव्याधौ शोधने रोपणे च श्रेष्ठं प्रोक्तं कर्णरोगप्रशांत्यै ॥ ६.२३ ॥
<रसाञ्जन>
पीताभं विषरक्तदोषशमनं सश्वासहिध्मापहं वर्ण्यं वातविनाशनं कृमिहरं दार्व्युद्भवं शोभनम् ।
<स्रोतोञ्जन>
स्निग्धं स्वादु कषायकं विषवमीपित्तास्रनुल्लेखनं नेत्र्यं हिध्मरुजापहं निगदितं स्रोतोंजनं सर्वदा ॥ ६.२४ ॥
<पुष्पाञ्जन>
सितं स्निग्धं हिमं चैव नेत्ररोगविषापहम् ।
ज्वरघ्नमतिहिध्माघ्नं पुष्पांजनमिहोदितम् ॥ ६.२५ ॥
<नीलाञ्जन>
रसायनं सुवर्णघ्नं गुरु स्निग्धं त्रिदोषहा ।
नीलांजनं च कथितं लोहमार्दवकारकम् ॥ ६.२६ ॥
<अञ्जन:: शोधन>
भृंगराजरसेनैव सर्वाण्येवांजनानि हि ।
विशुध्यन्तीह सततं सत्यं गुरुवचो यथा ।
<अञ्जन:: सत्त्व:: पातन>
शिलायाः सत्ववत्सत्त्वमञ्जनानां च पातयेत् ॥ ६.२७ ॥
<सुल्fउर्:: सुब्त्य्पेस्:: चोलोउर्>
गंधकस्य चतुर्भेदा लक्षिताः पूर्वसूरिभिः ।
श्वेतः पीतस्तथा रक्तः कृष्णश्चेति चतुर्विधः ॥ ६.२८ ॥
<सुल्fउर्:: wहिते>
श्वेतस्तु खटिकाकारो लेपनाल्लोहमारणम् ।
जायते नात्र संदेहो ह्यनुभूतं मया खलु ॥ ६.२९ ॥
<सुल्fउर्:: येल्लोw>
पीतवर्णो भवेद्यस्तु स चोक्तोऽमलसारकः ।
रसे रसायने श्रेष्ठः शुकपिच्छः स कथ्यते ॥ ६.३० ॥
<सुल्fउर्:: रेद्>
लाक्षारसनिभो रक्तः शुकतुण्डः स कथ्यते ।
धातूनां रंजनं कुर्याद्रसबन्धं करोत्यलम् ॥ ६.३१ ॥
<सुल्fउर्:: ब्लच्क्>
यः कृष्णवर्णः स तु दुर्लभोऽस्ति नाशं करोतीह जरापमृत्योः ।
संसेवनाद्वज्रसमं शरीरं भवेत्सुकान्तं हि निरामयं च ॥ ६.३२ ॥
<सुल्fउर्:: शोधन>
घटीमध्ये पयः क्षिप्त्वा मुखे वस्त्रं प्रबन्धयेत् ।
वस्त्रोपरि बलेश्चूर्णं मुखं रुद्ध्वा शरावतः ॥ ६.३३ ॥
भूमौ निधाय तत्पात्रं पुटं दद्यात्प्रयत्नतः ।
विंशत्युपलकैश्चैव स्वांगशीतं समुद्धरेत् ॥ ६.३४ ॥
अनेनैव प्रकारेण स्वांगशीतं पुनः पुनः ।
एवं संशोधितो गन्धः सर्वकार्यकरो भवेत् ॥ ६.३५ ॥
<सुल्fउर्:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्>
विपाके मधुरो गन्ध- पाषाणस्तु रसायनः ।
विसर्पकण्डुकुष्ठस्य शमनो दीपनस्तथा ॥ ६.३६ ॥
आमाजीर्णप्रशमनो विषहा रसशोषणः ।
सूतस्य वीर्यदः साक्षात्पार्वतीपुष्पसंभवः ॥ ६.३७ ॥
कृमिरोगहरः सम्यक्सूतं मूर्छयति ध्रुवम् ।
<सुल्fउर्:: निरुक्ति fओर्बलिवसा>
सेवितो बलिराज्ञा यः प्रभूतबलहेतवे ॥ ६.३८ ॥
तस्माद्बलिवसेत्युक्तो गंधकोऽतिमनोहरः ।
<सुल्fउर्::मेदिच्. उसे>
शुकपिच्छस्तु मरिच- समांशेन तु कल्कितः ॥ ६.३९ ॥
त्रिफला षड्गुणा कार्या मर्दयेत्कृतमालकैः ।
मूलद्रवैस्ततः पीतो हन्ति कुष्ठान्यनेकशः ॥ ६.४० ॥
तन्मूलसलिले घृष्टं वपुस्तेनाथ लेपितम् ।
कुष्ठान्येव निहन्त्याशु सद्यः प्रत्ययकारकम् ॥ ६.४१ ॥
<सुल्fउर्:: मेदिच्. उसे>
संशुद्धगंधकं चैव तैलेन सह पेषयेत् ।
अपामार्गक्षारतोयैस्तैलेन मरिचेन च ॥ ६.४२ ॥
विलिप्य सकलं देहं तिष्ठेत्सूर्यातपेषु च ।
भोजयेत्तक्रभक्तं च तृतीये प्रहरे खलु ॥ ६.४३ ॥
वह्निना स्वेदयेद्रात्रौ प्रातरुत्थाय मर्दयेत् ।
महिषस्य पुरीषेण स्नायाच्छीतेन वारिणा ॥ ६.४४ ॥
स्नानं कुर्यादुषस्येवं कण्डूः पामा च नश्यति ।
दृष्टप्रत्यययोगोऽयं कथितोऽत्र मया खलु ।
नाशयेच्चिरकालोत्थाः कुष्ठपामाविचर्चिकाः ॥ ६.४५ ॥
<सुल्fउर्:: मेदिच्. उसे>
कलांशव्योषसंयुक्तं शुद्धगन्धकचूर्णकम् ।
वस्त्रे वितस्तिमात्रे तु गंधचूर्णं सतैलकम् ॥ ६.४६ ॥
विलिप्य वेष्टयित्वा च वर्तिं सूत्रेण वेष्टयेत् ।
धृत्वा संदंशतो वर्ति- मध्यं प्रज्वालयेच्च ताम् ॥ ६.४७ ॥
विद्रुतः पतते गंधो बिन्दुशः काचभाजने ।
तां द्रुतिं प्रक्षिपेत्पत्त्रे नागवल्ल्यास्त्रिबिन्दुकाम् ॥ ६.४८ ॥
रसं वल्लमितं तत्र दत्त्वाङ्गुल्या विमर्दयेत् ।
तत्सर्वं भक्षयेत्पश्चाद्गोदुग्धं चानु सम्पिबेत् ॥ ६.४९ ॥
कामस्य दीप्तिं कुरुते क्षयपाण्डुविनाशनम् ।
ग्रहणीं नाशयेद्दुष्टां शूलार्तिश्वासकासकम् ॥ ६.५० ॥
आमाजीर्णं प्रशमयेल्लघुत्वं च प्रजायते ।
गंधकस्य गुणान्वक्तुं शक्तः कः शंभुना विना ॥ ६.५१ ॥
<कङ्कुष्ठ:: ओरिगिन्>
पर्वते हिमसमीपवर्तिनि जायतेऽतिरुचिरं कङ्कुष्ठकम् ।
<कङ्कुष्ठ:: सुब्त्य्पेस्>
एकमेव नलिकाभिधानकं रेणुकं तदनु चापरं भवेत् ॥ ६.५२ ॥
<नलिका:: फ्य्स्. प्रोपेर्तिएस्>
पीतवर्णमसृणं च वै गुरु स्निग्धमुत्तमतरं प्रवक्ष्यते ।
<रेणुक:: फ्य्स्. प्रोपेर्तिएस्>
श्यामपीतमतिहीनसत्त्वकं रेणुकं हि कथितं द्वितीयकम् ॥ ६.५३ ॥
<कङ्कुष्ठ:: थिर्द्त्य्पे fरों थे fएचेसोf अ नेwबोर्नेलेफन्त्>
वदन्ति कंकुष्ठमथापरे हि सद्यः प्रसूतस्य च दन्तिनः शकृत् ।
तत्कृष्णपीतं भवतीव रेचनं तृतीयमाहुर्विबुधा भिषग्वराः ॥ ६.५४ ॥
<कङ्कुष्ठ:: ४. त्य्पे = नाल ओf होर्सेस्>
चतुर्थकङ्कुष्ठमिहैव वाजिनां नालं हि केचित्प्रवदन्ति तज्ज्ञाः ।
यद्धस्तिजं श्वेतमथातिपीतं विरेचनं तत्प्रकरोति शीघ्रम् ॥ ६.५५ ॥
रसायने श्रेष्ठतरं रसे च सत्वेन युक्तं खलु गौरवान्वितम् ।
<कङ्कुष्ठ:: शोधन>
शुंठ्यम्भसा भावितमेव शुद्धिं कंकुष्ठमायाति हि सत्यमुक्तम् ॥ ६.५६ ॥
<कङ्कुष्ठ:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्>
कङ्कुष्ठकं तिक्तकटूष्णवीर्यं विशेषतो रेचनकं करोति ।
गुदार्तिगुल्मव्रणशूलहृत्परं प्रचक्षते शास्त्रविदः पुराणाः ॥ ६.५७ ॥
<कङ्कुष्ठ:: सत्त्व:: पातन>
सत्त्वाकृष्टिर्न च प्रोक्ता यस्मात्सत्वमयं हि तत् ।
<कङ्कुष्ठ:: मेदिच्. उसे>
यवमात्रं भजेदेनं विरेकार्थं न संशयः ॥ ६.५८ ॥
क्षणादामज्वरं हन्ति जाते सति विरेचने ।
तांबूलेन समं चैवं भक्षितं सारयेद्ध्रुवम् ॥ ६.५९ ॥
बब्बूलमूलिकाक्वाथं सौभाग्याजाजिसंयुतम् ।
भूयो भूयः पिबेद्धीमान् विषं कंकुष्ठजं जयेत् ॥ ६.६० ॥
<कासीस:: सुब्त्य्पेस्>
कासीसं प्रथमं हि सैकतमिदं पुष्पाख्यमन्यत्तथा क्षाराम्लं गुरु धूम्रवर्णविषहृत्वीर्योष्णकं रागदम् ।
<वालुकाकासीस:: मेदिच्. प्रोपेर्तिएस्>
श्वित्रघ्नं मुखकेशरंजनकरं तत्सैकतं पूर्वकं पुष्पाख्यं ह्यपरं गुणैश्च सहितं सेव्यं सदा रोगहृत् ॥ ६.६२ ॥
<पुष्पकासीस:: मेदिच्. प्रोपेर्तिएस्>
पुष्पाभिधं च कासीसं प्रसिद्धं नेत्ररोगहा ।
सोष्णवीर्यं कषायाम्लं विषघ्नं श्लेष्मनाशनम् ।
व्रणहृत्क्षयरोगघ्नं पटरञ्जनकं परम् ॥ ६.६३ ॥
<कासीस:: शोधन>
भृंगराजरसे स्विन्नं निर्मलं हि प्रजायते ।
<कासीस:: सत्त्व:: पातन>
सौराष्ट्रीसत्ववत्सत्त्वमेतस्यापि समाहरेत् ॥ ६.६४ ॥
<कासीस:: मेदिच्. उसे>
कासीसं भस्म कांतस्य चोभयं समभागिकम् ।
वराविडङ्गसंयुक्तं घृतक्षौद्रप्लुतं प्रगे ॥ ६.६५ ॥
भक्षितं हन्ति वेगेन पाण्डुयक्ष्माणमेव च ।
प्लीहं गुल्मं गुदे शूलं मूत्रकृच्छ्राण्यशेषतः ॥ ६.६६ ॥
सेवितं सर्वरोगघ्नं रसायनविधानतः ।
अग्निसंधुक्षणं कुर्यात्वलीपलितनाशनम् ।
आमाजीर्णभवान् रोगान्निहन्त्येव न संशयः ॥ ६.६७ ॥
<नवसार:: स्य्नोन्य्म्स्>
उद्दिष्टं नवसाराख्यं लवणं चुल्लिकाभिधम् ।
<नवसार:: अल्छेम्., मेदिच्. प्रोपेर्तिएस्>
लोहद्रावणकं प्रोक्तं रसजारणकं तथा ॥ ६.६८ ॥
वह्निं च दीपयत्याशु गुल्मप्लीहामयापहम् ।
मांसादिजारणं सम्यक्भुक्तपाकं करोति तत् ॥ ६.६९ ॥
<वराटिका:: परीक्षा>
पीता वराटिका या तु सार्धनिष्कप्रमाणिका ।
श्रेष्ठा सैव बुधैः प्रोक्ता टङ्कभारा हि मध्यमा ॥ ६.७० ॥
पादोनटङ्कभारा या कथ्यते सा कनिष्ठिका ॥ ६.७१ ॥
<मोनेय्चोwरिए:: मेदिच्. प्रोपेर्तिएस्>
रसे रसायने प्रोक्ता परिणामादिशूलनुत् ।
ग्रहणीक्षयरोगघ्नी वीर्योष्णा दीपनी मता ॥ ६.७२ ॥
वृष्या दोषहरी नेत्र्या कफवातविनाशिनी ।
रसेन्द्रजारणे शस्ता बिडमध्ये सदा हिता ॥ ६.७३ ॥
स्थूला वराटिका प्रोक्ता गुरुश्च श्लेष्मपित्तहा ।
<मोनेय्चोwरिए:: शोधन>
स्वेदिता ह्यारनालेन यामाच्छुद्धिमवाप्नुयात् ॥ ६.७४ ॥
<दरद:: सुब्त्य्पेस्>
दरदः शुकतुण्डाख्यो हंसपाकस्तथापरः ।
<शुकतुण्ड:: फ्य्स्. प्रोपेर्तिएस्>
चर्मारः प्रथमः प्रोक्तो हीनसत्वः स उच्यते ॥ ६.७५ ॥
<हंसपाक:: फ्य्स्. प्रोपेर्तिएस्>
प्रवालाभः शलाकाढ्यः उत्तमो हंसपाककः ।
<दरद:: मेदिच्. प्रोपेर्तिएस्>
दीपनः सर्वदोषघ्नो हिंगुलोऽतिरसायनः ॥ ६.७६ ॥
सर्वरोगहरः साक्षात्द्रावणे संप्रशस्यते ।
<मेर्चुर्य्:: हिङ्गुलाकृष्ट>
यथा षड्गुणगंधेन जारितरसराजकः ॥ ६.७७ ॥
दरदाकर्षितः सूतो गुणैरेवंविधो भवेत् ।
<दरद:: शोधन>
कुष्माण्डखण्डमध्ये तु स्वेदितो लकुचाम्बुना ।
सकृत्संजायते शुद्धः सर्वकार्येषु योजयेत् ॥ ६.७८ ॥
<गैरिक:: सुब्त्य्पेस्>
पाषाणगैरिकं चैकं द्वितीयं स्वर्णगैरिकम् ।
<पाषाणगैरिक:: फ्य्स्. प्रोपेर्तिएस्>
पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् ॥ ६.७९ ॥
<स्वर्णगैरिक:: फ्य्स्. प्रोपेर्तिएस्>
अत्यन्तशोणितं स्निग्धं मसृणं स्वर्णगैरिकम् ।
<स्वर्णगैरिक:: मेदिच्. प्रोपेर्तिएस्>
स्वादु तिक्तं हिमं नेत्र्यं कषायं रक्तपित्तनुत् ॥ ६.८० ॥
हिक्कावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् ।
<पाषाणगैरिक:: मेदिच्. प्रोपेर्तिएस्>
पाषाणगैरिकं चान्यत्पूर्वस्मादल्पकं गुणैः ॥ ६.८१ ॥
<गैरिक:: शोधन>
गैरिकं तु गवां दुग्धैर्भावितं शुद्धिमृच्छति ।
<गैरिक:: सत्त्व:: पातन>
गैरिकं सत्वरूपं हि नन्दिना परिकीर्तितम् ॥ ६.८२ ॥
<अग्निजार:: ओरिगिन्>
समुद्रेणाग्निनक्रस्य जरायुर्बहिरुज्झितः ।
रवितापेन संशुष्कः सोऽग्निजार इति स्मृतः ॥ ६.८३ ॥
<अग्निजार:: मेदिच्. प्रोपेर्तिएस्>
त्रिदोषशमनो ग्राही धनुर्वातहरः परः ।
वर्धनो रसवीर्यस्य जारणः परमः स्मृतः ॥ ६.८४ ॥
<गिरिसिन्दूर:: ओरिगिन्>
महागिरौ शिलान्तस्थो रक्तवर्णच्युतो रसः ।
सूर्यातपेन संशुष्को गिरिसिन्दूरसंज्ञितः ॥ ६.८५ ॥
<गिरिसिन्दूर:: मेदिच्. प्रोपेर्तिएस्>
रसबंधकरो भेदी त्रिदोषशमनस्तथा ।
देहलोहकरो नेत्र्यो गिरिसिन्दूर ईरितः ॥ ६.८६ ॥
<उदारशृङ्ग:: ओरिगिन्>
भवेद्गुर्जरके देशे सदलं पीतवर्णकम् ।
अर्बुदस्य गिरेः पार्श्वे नाम्ना वोदारशृङ्गकम् ॥ ६.८७ ॥
<उदारशृङ्ग:: मेदिच्. प्रोपेर्तिएस्>
नागसत्वं लिंगदोष- हरं श्लेष्मविकारनुत् ।
रसबन्धकरं सम्यक्श्मश्रुरञ्जनकं परम् ॥ ६.८८ ॥
<साधारणरस:: शोधन>
साधारणरसाः सर्वे बीजपूररसेन वै ।
त्रिवारं भाविताः शुष्का जायन्ते दोषवर्जिताः ॥ ६.८९ ॥
<विड्लवण:: मेदिच्. प्रोपेर्तिएस्>
बिडं हि कथ्यते तद्वत्सर्वदोषहरं परम् ॥ ६.९० ॥


____________________________________________________________

अध्यायः ७[सम्पाद्यताम्]


<नव रत्नानि>
माणिक्यं मौक्तिकं चैव विद्रुमं तार्क्ष्यं पुष्पकम् ।
वज्रं नीलं च गोमेदं वैडूर्यं च क्रमेण हि ॥ ७.१ ॥
सुजातिगुणसम्पन्नं रत्नं सर्वार्थसिद्धिदम् ।
दाने रसायने चैव धारणे देवतार्चने ॥ ७.२ ॥
<रुब्य्:: सुब्त्य्पेस्>
पद्मरागाभिधं श्रेष्ठं प्रथमं तदुदीरितम् ।
<रुब्य्:: नीलगन्धि>
द्वितीयं नीलगन्धि स्याद्घनं रक्तं सुशोभनम् ॥ ७.३ ॥
<रुब्य्:: परीक्षा>
महच्च कमलच्छायं स्निग्धं स्वच्छं गुरु स्फुटम् ।
समं वृत्तायतं गात्रे माणिक्यं चोत्तमं मतम् ॥ ७.४ ॥
<नीलगन्धि:: फ्य्स्. प्रोपेर्तिएस्>
गंगोदकसमुद्भूतं नीलगर्भारुणच्छवि ।
माणिक्यं पूर्ववच्छायं नीलगन्धि तदुच्यते ॥ ७.५ ॥
<रुब्य्:: परीक्षा:: बदॄउअलित्य्>
माणिक्यं चाष्टधा नेष्टं सच्छिद्रं मलिनं लघु ।
कर्कशं चिपिटं वक्रं सूक्ष्मं चाविशदं तथा ॥ ७.६ ॥
<रुब्य्:: मेदिच्. प्रोपेर्तिएस्>
संदीपनं वृष्यतमं हि रूक्षं वातापहं कर्मरुजापहं च ।
भूतादिदोषत्रयनाशनं परं राज्ञां सदा योग्यतमं प्रशस्तम् ॥ ७.७ ॥
<पेअर्ल्:: परीक्षा:: गोओदॄउअलित्य्>
ह्लादि श्वेतं रश्मिमन्निर्मलं च वृत्तं ख्यातं मौक्तिकं तोयभासम् ।
स्निग्धं तौल्ये गौरवं चेन्महत्तल्लिंगैरेतैर्लक्षितं तच्च शुद्धम् ॥ ७.८ ॥
<पेअर्ल्:: परीक्षा:: बदॄउअलित्य्>
रूक्षाङ्गं चेन्निष्प्रभं श्यावताम्रं चार्धं शुभ्रं ग्रंथिलं मौक्तिकं च ।
क्षाराभासं वैकटं युग्मकं च दोषैर्युक्तं सर्वथा त्याज्यमेभिः ॥ ७.९ ॥
<पेअर्ल्:: मेदिच्. प्रोपेर्तिएस्>
कासं श्वासं वह्निमांद्यं क्षयं च हन्याद्वृष्यं बृंहणं पित्तहारि ।
दाहश्लेष्मोन्मादवातादिरोगान् हन्यादेवं सेवितं सर्वकाले ॥ ७.१० ॥
<चोरल्:: परीक्षा:: गोओदॄउअलित्य्>
स्निग्धं स्थूलं पक्वबिम्बीफलाभं वृत्तं दीर्घं निर्व्रणं चाप्यदीर्घम् ।
ख्यातं सद्भिः सप्तधा विद्रुमं च दोषैर्मुक्तं सर्वकार्येषु शस्तम् ॥ ७.११ ॥
<चोरल्:: परीक्षा:: बदॄउअलित्य्>
रूक्षं श्वेतं सव्रणं धूसरं च निर्भारं चेच्छुल्बवर्णं प्रवालम् ।
दोषैर्युक्तं कोटरैरावृतं च नेष्टं सद्भिर्भक्षणे धारणे च ॥ ७.१२ ॥
<चोरल्:: मेदिच्. प्रोपेर्तिएस्>
पित्तास्रघ्नं श्वासकासादिरोगान् हन्यादेवं दुर्निवारं विषं च ।
भूतोन्मादान्नेत्ररोगान्निहन्यात्सद्यः कुर्याद्दीपनं पाचनं च ॥ ७.१३ ॥
<एमेरल्द्:: परीक्षा:: गोओदॄउअलित्य्>
तार्क्ष्यं स्निग्धं भासुरं शष्पवर्णं गात्रैः शुद्धं भारवद्रश्मियुक्तम् ।
एते प्रोक्ता सप्तसंख्या गुणा वै दाने शस्तं भक्षणे धारणे च ॥ ७.१४ ॥
<एमेरल्द्:: परीक्षा:: बदॄउअलित्य्>
नीलं श्वेतं कर्कशं श्यावरूक्षं वक्रं कृष्णं चिप्पटं भारहीनम् ।
<एमेरल्द्:: मेदिच्. प्रोपेर्तिएस्>
दुष्टं तार्क्ष्यं चौषधेनोपयोज्यं कासं श्वासं सन्निपाताग्निमांद्यम् ॥ ७.१५ ॥
शोफं शूलं जूर्तिरोगं विषं च दुर्नामानं पाण्डुरोगं निहन्यात् ॥ ७.१६ ॥
<पुष्पराग:: परीक्षा:: गोओदॄउअलित्य्>
स्वच्छं स्थूलं पुष्परागं गुरु स्यात्स्निग्धं वर्णे कर्णिकारप्रसूनम् ।
तच्चावक्रं मसृणं कोमलं च लिंगैरेतैः शोभनं पुष्परागम् ॥ ७.१७ ॥
<पुष्पराग:: परीक्षा:: बदॄउअलित्य्>
रूक्षं पीतं कर्कशं श्यामलं च पाण्डु स्याद्वा कापिलं तोयहीनम् ।
दोषैर्युक्तं निष्प्रभं पुष्परागं नो सेव्यं तन्नैव देयं द्विजेभ्यः ॥ ७.१८ ॥
<पुष्पराग:: मेदिच्. प्रोपेर्तिएस्>
कुष्ठं छर्दिं श्लेष्मवातौ निहन्ति मंदाग्नीनामेतदेव प्रशस्तम् ।
दाहे कृच्छ्रे दीपनं पाचनं च तस्मात्सेव्यं सर्वकालं मनुष्यैः ॥ ७.१९ ॥
<वज्र:: सुब्त्य्पेस्:: गेन्देर्>
सर्वेषु रत्नेषु सदा वरिष्ठं मूल्यैर्गरिष्ठं विविधं हि वज्रम् ।
नरश्च नारी च तथा तृतीयं तेषां गुणान्वच्मि समासतो हि ॥ ७.२० ॥
पूर्वं पूर्वं श्रेष्ठमेतत्प्रदिष्टं द्रव्याद्वीर्यात्पाकतश्च प्रभावात् ।
तेषां वर्णा जातयश्च प्रभेदाः कथ्यन्तेऽष्टौ शास्त्रतश्चापकर्षात् ॥ ७.२१ ॥
श्वेतादिकं वर्णचतुष्टयं हि सर्वेषु रत्नेषु च कथ्यते बुधैः ।
स्युर्ब्राह्मणक्षत्रियवैश्यशूद्रास्ते जातयो वै क्रमशश्च वर्णाः ॥ ७.२२ ॥
<पुंवज्र:: फ्य्स्. प्रोपेर्तिएस्>
पुंवज्रं यत्प्रोच्यते चाष्टधारं षट्कोणं चेदिन्द्रचापेन तुल्यम् ।
अष्टौ चेत्स्युः फालका भासुरं वै पूर्वं श्रेष्ठं सर्वदोषापहं स्यात् ॥ ७.२३ ॥
<स्त्रीवज्र:: फ्य्स्. प्रोपेर्तिएस्>
स्त्रीवज्रं चेत्तादृशं वर्तुलं हि किंचिच्चैवं चिप्पटं कर्कशं च ।
<नपुंसक:: फ्य्स्. प्रोपेर्तिएस्>
कोणाग्रं वै कुण्ठितं वर्तुलं च किंचिद्धीनं प्रोच्यते तत्तृतीयम् ॥ ७.२४ ॥
स्त्री पुमान्नो स्त्री पुमान् यच्च वज्रं योज्यं तच्च स्त्रीषु पुंस्वेव षण्ढे ।
व्यत्यासाद्वै नैव दत्तं फलं तद्दद्याद्वज्रं वा विना तत्पुमांसम् ॥ ७.२५ ॥
वर्णेऽप्येवं यस्य वर्णस्य वज्रं तत्तद्वर्णे शोभनीयं प्रदिष्टम् ।
न्यायश्चायं भैरवेण प्रदिष्टः सर्वेष्वेव रत्नवर्गेषु सम्यक् ॥ ७.२६ ॥
<वज्र:: शोधन>
यामावधि स्वेदितमेव वज्रं शुद्धिं प्रयातीह कुलत्थतोये ।
सिद्धं तथा कोद्रवजे शृते वा वज्रं विशुध्येद्धि विनिश्चितेन ॥ ७.२७ ॥
<वज्र:: मारण:: वारितर>
सुभावितं मत्कुणशोणितेन वज्रं चतुर्वारविशोषितं च ।
छुच्छुंदरीस्थं हि विपाचितं पुटे पुटेद्वराहेण च त्रिंशदेवम् ॥ ७.२८ ॥
ध्मातं पुनर्ध्माय शतं हि वारान् क्वाथे कुलत्थस्य हि निक्षिपेच्च ।
संपेषयेत्तं हि शिलातलेन मनःशिलाभिः सह कारयेद्वटीम् ॥ ७.२९ ॥
क्षिप्त्वा निरुन्ध्यापि च मूषिकायां पुटान्यथाष्टौ च वनोपलैर्ददेत् ।
वारान् शतं चापि ततो धमेत्तं संमर्दितं शोधितपारदेन ॥ ७.३० ॥
वज्राणि सर्वाणि मृतीभवन्ति तद्भस्मकं वारितरं भवेच्च ।
श्रीसोमदेवेन च सत्यवाचा वज्रस्य मृत्युः कथितो हि सम्यक् ॥ ७.३१ ॥
<वज्र:: मारण>
कासमर्दरसपूर्णलोहजे मत्कुणस्य रुधिरैर्विलेपितम् ।
स्वेदितं च भिदुरं हि सप्तभिर्वासरैः परिनिषेच्य मूत्रके ॥ ७.३२ ॥
ध्मापितं हि खलु वज्रसंज्ञकं मारयेदिति वदन्ति तद्विदः ।
<वज्र:: मारण>
नीलज्वालावीरुधः कन्दकेषु घृष्टं घर्मे शोषितं भस्मभावम् ॥ ७.३३ ॥
वज्रं याति स्वैरवह्निप्रदानात्पिष्टैश्चापि क्षोणिनागैः प्रलिप्तम् ।
विंशद्वारान् संपुटेच्च प्रयत्नादारण्यैर्वा गोमयैस्तद्धठाग्नौ ।
वज्रं चैवं भस्मसाद्वीर्ययुक्तं सर्वस्मिन्वै योजनीयं रसादौ ॥ ७.३४ ॥
<वज्र:: मृत:: मेदिच्. प्रोपेर्तिएस्>
आयुःप्रदं वृष्यतमं प्रदिष्टं दोषत्रयोन्मूलनकं तथैव ।
रसेन्द्रकस्यापि हि बंधकृत्सदा सुधासमं चापमृतिं च हन्यात् ॥ ७.३५ ॥
<वज्र:: मेदिच्. उसे>
भूनागसत्वेन समं विमर्द्य वज्रस्य भूतिं च समानहेम्ना ।
ध्मातं रसादावपि योजनीयं रसायनं तद्भवतीह सम्यक् ॥ ७.३६ ॥
भागास्त्रयश्चैव हि सूतकस्य भागं विमर्द्याथ मृतं हि वज्रम् ।
वज्रस्य भूतिः किल पोटलीकृता मुखे धृता दार्ढ्यकरी द्विजानाम् ॥ ७.३७ ॥
<वज्ररसायनं षाड्गुण्यसिद्धिदम्>
वज्रभस्म किल भागत्रिंशकं स्वर्णमेव कथितं कलांशकम् ।
अष्टभागमिह तारकं कुरु सूतमत्र समभागकं सदा ॥ ७.३८ ॥
अभ्रसत्वभसितं समांशकं तुर्यभागमिह ताप्यकं भवेत् ।
वैक्रांतभस्मात्र तथाष्टभागकं षडेव भागा हि बलेर्विधेयाः ॥ ७.३९ ॥
षाड्गुण्यसंसिद्धिमुपैति सर्वदा सर्वार्थसंसिद्धिमुपैति सेविते ॥ ७.४० ॥
<सप्फिरे:: सुब्त्य्पेस्>
इन्द्रनीलमथ वारिनीलकं श्वैत्यगर्भितमथापि नीलकम् ।
कथ्यते हि लघु वारिनीलकं तुच्छमेव कथितं भिषग्वरैः ।
<इन्द्रनील:: परीक्षा>
कान्त्या युक्तं कार्ष्ण्यगर्भं च नीलं तच्चाप्युक्तं शक्रनीलाभिधानम् ॥ ७.४१ ॥
<सप्फिरे:: परीक्षा:: गोओदॄउअलित्य्>
एकच्छायं स्निग्धवर्णं गुरु स्यात्स्वच्छं मध्ये चोल्लसत्कांतियुक्तम् ।
नीलं प्रोक्तं पिण्डितं सप्तसंज्ञैरेतैर्लिङ्गैर्लक्षितं चोत्तमं हि ॥ ७.४२ ॥
<सप्फिरे:: परीक्षा:: बदॄउअलित्य्= जलनील>
निर्भारं चेत्कोमलं चास्रगन्धि रूक्षं वर्णे सूक्ष्मकं चिप्पिटं च ।
प्रोक्तं वै तद्वारिनीलं भिषग्भिरेतैर्लिंगैः सप्तभिः क्षेपणीयम् ॥ ७.४३ ॥
<सप्फिरे:: मेदिच्. प्रोपेर्तिएस्>
संदीपनं श्वासहरं च वृष्यं दोषत्रयोन्मूलनकं विषघ्नम् ।
दुर्नामपांडुघ्नमतीव बल्यं जूर्तिं जयेन्नीलमिदं प्रशस्तम् ॥ ७.४४ ॥
<गोमेद:: परीक्षा:: गोओदॄउअलित्य्>
गोमेदकं रत्नवरं प्रशस्तं गोमेदवद्रागयुतं प्रचक्षते ।
सुस्वच्छगोमूत्रसमानवर्णं गोमेदकं शुद्धमिहोच्यते खलु ॥ ७.४५ ॥
दीप्तं स्निग्धं निर्दलं मसृणं वै मूत्रच्छायं स्वच्छमेतत्समं च ।
एभिर्लिङ्गैर्लक्षितं वै गरीयः सर्वास्वेतद्योजनीयं क्रियासु ॥ ७.४६ ॥
<गोमेद:: परीक्षा:: बदॄउअलित्य्>
विच्छायं वा चिप्पिटं निष्प्रभं च रूक्षं चाल्पं चावृतं पाटलेन ।
निर्भारं वा पीतकाचाभयुक्तं गोमेदं चेदीदृशं नो वरिष्ठम् ॥ ७.४७ ॥
<गोमेद:: मेदिच्. प्रोपेर्तिएस्>
गोमेदकं पित्तहरं प्रदिष्टं पाण्डुक्षयघ्नं कफनाशनं च ।
संदीपनं पाचनमेव रुच्यमत्यंतबुद्धिप्रविबोधनं च ॥ ७.४८ ॥
<वैडूर्य:: परीक्षा:: गोओदॄउअलित्य्>
स्वच्छं समं चापि विडूर्यकं हि श्यामाभशुभ्रं च गुरु स्फुटं वा ।
यज्ञोपवीतोपमशुद्धरेषास्तिस्रश्च संदर्शयतीह शुभ्राः ॥ ७.४९ ॥
<वैडूर्य:: परीक्षा:: बदॄउअलित्य्>
कर्कशं च लघु चिप्पटं सदा श्यामतोयमिव दृश्यते छविः ।
रक्तगर्भसममुत्तरीयकं नैव शोभनमिदं विडूर्यकम् ॥ ७.५० ॥
<वैडूर्य:: मेदिच्. प्रोपेर्तिएस्>
रक्तपित्तशमनं विडूर्यकं बुद्धिवर्धनकरं च दीपनम् ।
पित्तरोगमलमोचनं सदा धारयेच्च मतिमान् सुखावहम् ॥ ७.५१ ॥
<सर्वरत्नेषु दोषाः>
घर्षश्च बिंदुश्च तथैव रेषा त्रासश्च पानीयकृता सगर्भता ।
सर्वेषु रत्नेषु च पञ्चदोषाः साधारणास्ते कथिता मुनीन्द्रैः ॥ ७.५२ ॥
ये क्षेत्रतोयप्रभवाश्च दोषाः सर्वेषु रत्नेषु गलन्ति सम्यक् ॥ ७.५३ ॥
तेषां च शुद्धिं शृणु भैरवोक्तां यथा हि दोषस्य विनाशनं स्यात् ।
<जेwएल्:: शोधन>
अम्लेन वै शुध्यति माणिक्याख्यं जयन्तिकायाः स्वरसेन मौक्तिकम् ॥ ७.५४ ॥
क्षारेण सर्वेण हि विद्रुमं च गोदुग्धतस्तार्क्ष्यमुपैति शुद्धिम् ।
धान्यस्याम्लैः पुष्परागस्य शुद्धिं कौलत्थे वै क्वाथ्यमानं हि वज्रम् ॥ ७.५५ ॥
नीलं नीलीपत्रजातै रसैश्च गोमेदं वै रोचनाया रसेन ।
वैडूर्यं चेदुत्तमाक्वाथयुक्तं यामैकैकं स्वेदितं शुद्धिमेति ॥ ७.५६ ॥
<रत्नमारणम्>
तालगंधकशिलासमन्वितं मर्दयेल्लकुचवारिणा खलु ।
वज्रवर्ज्यमपि चाष्टभिः पुटै रत्नभस्म भवतीति निश्चितम् ॥ ७.५७ ॥
<जेwएल्:: द्रावण>
रामठं लवणपंचकं सदा क्षारयुग्ममपि चेत्सुपेषितम् ।
चूलिकालवणमम्लवेतसं पक्वकुम्भिकफलं तथैव च ॥ ७.५८ ॥
चित्रमूलकरुदन्तिके शुभा जम्बुकी जलयुता द्रवन्तिका ।
अर्कदुग्धसमसौधदुग्धकं सर्वमेव मृदितं शिलातले ॥ ७.५९ ॥
गोलमस्य च विधाय निक्षिपेद्रत्नजातिषु वराणि पेषयेत् ।
भूर्जपत्रमभिवेष्ट्य गोलके गोलकोपरि निवेष्ट्य मूत्रतः ॥ ७.६० ॥
वस्त्रेण संवेष्ट्य ततः प्रयत्नाद्दोलाख्ययंत्रेऽथ निवेश्य गोलकम् ।
सर्वाम्लयुक्ते तुषवारिपूरिते पात्रं दृढे मृण्मयसंज्ञके हि ॥ ७.६१ ॥
दिनत्रयं स्वेदनकं विधेयमाहृत्य तस्माद्वरगोलकं हि ।
संक्षालयेच्चाम्लजलेन चापि संजायते रत्नभवा द्रुतिश्च ॥ ७.६२ ॥
<द्रुतिलक्षणानि>
वर्णेन सा रत्ननिभा च कान्त्या लघ्वी भवेद्देहकरी च सम्यक् ।
लोहस्य वेधं प्रकरोति सम्यक्सूतेन सम्यङ्मिलनं प्रयाति ॥ ७.६३ ॥
तदा भवेयुः खलु सिद्धता यदा हिंग्वादिवर्गेण मिलन्ति सम्यक् ।
यामद्वयं कांस्यविमर्दिता वै चातिप्रयत्नेन तु वैद्यवर्यैः ॥ ७.६४ ॥
कस्यापि नुः सिध्यति वै द्रुतिश्च यदा प्रसन्नः खलु पार्वतीशः ।
न स्याद्यावद्भैरवस्य प्रसादस्तावत्सूते बन्धनं दुर्लभं हि ।
तासां मध्ये दुर्लभाभ्रद्रुतिश्च स्वल्पं भाग्यं भूरिदौर्भाग्यभाजाम् ॥ ७.६५ ॥
रत्नानां क्रमतो गुणाश्च कथितास्तच्छोधनं मारणं तेभ्यश्चैव हि सत्वपातनमथो सम्यग्द्रुतेः पातनम् ।
सर्वेषां हि परीक्षणं च द्रुतयः सम्मेलनं वै रसे अध्यायेऽत्र निदर्शितानि सकलान्येवं हि कर्माणि वै ॥ ७.६६ ॥


____________________________________________________________

अध्यायः ८[सम्पाद्यताम्]


भवति गदगणानां नाशनं येन सद्यो विविधरसविधानं कथ्यतेऽत्रैव सम्यक् ।
रसनिगमसुधाब्धौ मथ्यमाने मयैव गणितरसशतानां संग्रहः प्रोच्यते वै ॥ ८.१ ॥
<ज्वराङ्कुश (१)>
सुखण्डितं हारिणजं विषाणं रसेन पाच्यं जलजंबुकस्य ।
रुद्ध्वाथ भाण्डे विपचेच्च चुल्ल्यां यामद्वयं शीतगतं समुद्धरेत् ॥ ८.२ ॥
ततोऽष्टभागं त्रिकटुं नियोज्य निष्कप्रमाणं च भजेत्प्रभाते ।
तं नागवल्लीदलजेन सार्धं निहन्ति वातोद्भवकं ज्वरं च ॥ ८.३ ॥
<ज्वराङ्कुश (२)>
सूतगंधविषकारवीकणा- दन्तिबीजमिति वर्धितैः क्रमात् ।
मर्दितैश्च दशनिंबुकद्रवै रक्तिकार्धतुलिता वटी कृता ।
भक्षिता ज्वरगणान्निहन्त्ययं रेचनो ज्वरहरोऽयमङ्कुशः ॥ ८.४ ॥
एक एव कथितस्तु सोऽमलः स्वेदितोऽपि सह चूर्णजलेन ।
यामपूर्वमपि रक्तिकामितो भक्षितः सकलशीतजूर्तिहृत् ॥ ८.५ ॥
<ज्वरारिरस>
पारदं रसकगंधतालकं तुत्थटंकणयुतं सुशोधितम् ।
मर्दयेच्च सममात्रमेकतः कारवेल्लजरसैर्दिनं तथा ॥ ८.६ ॥
लेपयेच्च रविभाजनोदरे चांगुलार्धमपि मानमेव हि ।
ताम्रभाजनमुखं निरुध्य वै तं पचेत्सिकतयंत्रमध्यतः ॥ ८.७ ॥
धान्यकान्युपरि मुञ्चितानि चेत्संस्फुटन्ति यदि शुद्धमुच्यते ।
जायतेऽतिरुचिरो ज्वरारिकः सेवितो ज्वरगणापहारकः ॥ ८.८ ॥
माषमात्रमुषणैः समैः सदा पर्णखण्डसहितैश्च भक्षितः ।
नाशयेद्धि विषमोद्भवान् ज्वरानन्धकारमिव भास्करोदयः ॥ ८.९ ॥
<तरुणज्वरारिरसः>
तालताम्ररसगंधतुत्थकान् शाणमात्रतुलितान् समस्तकान् ।
निष्कमात्ररुचिरां मनःशिलां मर्दयेत्त्रिफलकाम्बुभिर्दृढम् ॥ ८.१० ॥
गोलमस्य च विधाय संपुटे पाचयेच्च पुटपाकयोगतः ।
अर्कवज्रिपयसा सुभावयेत्सप्तवारमथ दन्तिकाशृतैः ॥ ८.११ ॥
माषमात्ररस एष भक्षितः शाणमानमरिचैर्युतो यदा ।
सार्धनिष्ककगुडेन योजितः सौरसैर्द्विदशपत्रकैर्युतः ॥ ८.१२ ॥
शीतपूर्वमथ दाहपूर्वकं द्व्याहिकं च सकलान् ज्वरानपि ।
नाशयेद्धि तरुणज्वरारिकः सर्वदोषशमनः सुखावहः ॥ ८.१३ ॥
<ज्वरघ्नी वटी>
भागैकः स्यात्पारदः शोधितश्च एलीयः स्यात्पिप्पली श्रेयसी च ।
आकल्लो वै गंधकः सार्षपेण तैलेनाथो शोधितो बुद्धिमद्भिः ॥ ८.१४ ॥
तुर्यान्भागानिन्द्रवल्लीफलानां कृत्वा चूर्णं शोषयेत्सूर्यतापे ।
चूर्णं चैतद्भावयेत्तद्रसेन माषैस्तुल्यां कारयेत्तद्वटीं च ॥ ८.१५ ॥
दत्त्वा चैकां जातसद्योज्वराय छिन्नाङ्गायाः क्वाथपानं विधेयम् ।
दोषोद्भूतं सन्निपातोद्भवां च जूर्तिं सम्यङ्नाशयत्याशु तीव्राम् ॥ ८.१६ ॥
<ज्वरकृन्तनरसः>
शुद्धः सूतो गंधको वत्सनाभः प्रत्येकं वै शाणमात्रा विधेया ।
धूर्ताद्बीजं कारयेद्वै त्रिशणं सर्वेभ्यो वै द्वैगुणा हेमदुग्धा ॥ ८.१७ ॥
सूक्ष्मं चूर्णं कारयेत्तत्प्रयत्नाद्देयं गुंजायुग्ममानं च सम्यक् ।
खादेदार्द्रं चानुपाने ज्वरार्तः सद्यो हन्यात्सर्वदोषोत्थजूर्तिम् ॥ ८.१८ ॥
<ज्वरारिरसः>
सूतं गंधं हिङ्गुलं दंतिबीजं भागैर्वृद्धं कारयेच्च क्रमेण ।
चूर्णं कृत्वा मर्दितं दंतितोयैर्गुंजामात्रो भक्षितश्चेज्ज्वरारिः ॥ ८.१९ ॥
<सूर्यरसः>
एकं भागं वत्सनाभं च कुर्याद्द्वौ भागौ चेट्टङ्कणं दंतिबीजम् ।
त्रीण्येवैते हिंगुलस्यापि तुर्यः सद्यो जूर्तिं नाशयत्येव सूर्यः ॥ ८.२० ॥
<प्रतिज्ञावाचकरसः>
शुद्धं सूतं भागमेकं तु तालाद्द्वौ भागौ चेद्वेदसंख्याः शिलायाः ।
ताम्रस्यैवं भागयुग्मं प्रकुर्याद्भल्लातं वा वेदभागं तथैव ॥ ८.२१ ॥
अर्कक्षीरैर्भावयेच्च त्रिवारं कृत्वा चूर्णं कारयेद्गोलकं तत् ।
स्थालीमध्ये स्थापितं तच्च गोलं दत्त्वा मुद्रां भस्मना सैंधवेन ॥ ८.२२ ॥
धूम्रस्यैवं रोधनं च प्रकुर्याच्छाणैर्दद्यात्स्वेदनं मन्दवह्नौ ।
पश्चात्तोयेनैव भाव्यं च चूर्णं गोलं कृत्वा मंदवह्नौ विपाच्य ॥ ८.२३ ॥
पश्चादेनं भक्षयेद्वै रसेन्द्रं वल्लं चैकं शर्कराचूर्णमिश्रम् ॥ ८.२४ ॥
तद्वत्कृष्णामाक्षिकेणैव जूर्तिं हन्यादेतत्सर्वदोषोत्थितां वै ॥ ८.२५ ॥
<अतिसारसंग्रहणीहरा योगाः>
अथातीसारशमनान् रसान् संकथयामि वै ।
भक्षिताश्चैव ये नित्यं सद्यः प्रत्ययकारकाः ॥ ८.२६ ॥
<शङ्खोदररसः>
शुद्धं सूतं गंधकं वै समांशं चित्रोन्मत्तैर्मर्दयेद्वासरैकम् ।
चूर्णैरेतैः शंखमापूरितं वै भाण्डे स्थाप्यं मुद्रितव्यं प्रयत्नात् ॥ ८.२७ ॥
तस्याधस्तादष्टयामं प्रकुर्याद्वह्निं शीते कर्षमात्रं विषं हि ।
दत्त्वा घर्मे त्रीणि चाथो पुटानि दद्यात्तद्वत्कन्यकाया रसेन ॥ ८.२८ ॥
वल्लं योज्यं जीरकेणाथ भृंग्या क्षौद्रैर्युक्तं भक्षितं संग्रहण्याम् ।
श्वासे शूले चानिले श्लेष्मजे वा कासेऽर्शःसु विड्ग्रहे चातिसारे ॥ ८.२९ ॥
<आनन्दभैरवी गुटी>
सौभाग्यं वै हिंगुलं वत्सनाभं मारीचं वै हेमबीजेन युक्तम् ।
कृत्वा चूर्णं सर्वमेतत्समांशं जम्बीरैस्तन्मर्दितं यामयुग्मम् ।
गुंजामात्रा निर्मिता भक्षिता हि गुट्यो हन्युः सन्निपातातिसारान् ॥ ८.३० ॥
<अतिसारभैरवी गुटी>
जातीपत्त्री देवपुष्पं च शुण्ठी कङ्कोल्लं चेच्चंदनं कुंकुमं च ।
कृष्णायुक्तं शुद्धमाकल्लकं स्यात्सर्वाण्येवं चूर्णयेद्वै समानि ॥ ८.३१ ॥
सूतस्यैवं भस्म मिश्रं प्रकुर्याद्भागं चैकं मिश्रयेन्नागफेनम् ।
खल्वे सर्वं मर्दितं चैकयामं कार्या गोली वल्लमात्रा जलेन ॥ ८.३२ ॥
भक्षेद्रात्रौ पाययेत्तंडुलोदं हन्यात्सर्वान् सर्वदोषातिसारान् ॥ ८.३३ ॥
<कनकसुन्दररसः>
मारीचं चेट्टंकणं हिंगुलं च गंधाश्मा वै पिप्पली वत्सनाभम् ।
धूर्तस्यैवं बीजकानीह शुद्धान्येवं कृत्वा तच्च चूर्णं विधेयम् ॥ ८.३४ ॥
प्रातः सायं भक्षितं वल्लमात्रं जूर्तिं रक्तं नाशयेच्चातिसारम् ।
दध्यन्नं वा भोजयेत्तक्रयुक्तं हन्यादेवं चाग्निमान्द्यं सुतीव्रम् ॥ ८.३५ ॥


____________________________________________________________

अध्यायः ९[सम्पाद्यताम्]


<दिव्यौषधी>
दिव्यौषधीनां नामानि कथ्यन्तेऽत्र मयाधुना ।
चतुःषष्टिमिताः सम्यग्- रसबन्धकराः शुभाः ।
सोमवल्ली तथा सोभवृक्षं सोमकला लता ॥ ९.१ ॥
भूपद्मिनी गोनसा चेदुच्चटा चेश्वरी लता ।
भूतकेशी कृष्णलता लशुनी च रुदन्तिका ।
वाराही सप्तपत्त्रा च नागिनी सर्पिणी तथा ॥ ९.२ ॥
छत्त्रिणी चैव गोशृंगी ज्योतिर्नाम्नी च रक्तिका ।
पत्त्रवल्ली काकिनी च चाण्डाली ताम्रवल्लिका ॥ ९.३ ॥
पीतवल्ली च विजया महौषध्यमरी लता ।
नवनीता रुद्रवल्ली लम्बिनी भूमितुम्बिका ॥ ९.४ ॥
गान्धर्वी व्याघ्रपादी च गोमारी च त्रिशूलिनी ।
त्रिदण्डी करसी भृंग- वल्ली चमरिका तथा ॥ ९.५ ॥
करवल्ली लता चैव वज्राङ्गी चिरवल्ल्यपि ।
रोहिणी बिल्विनी भूत- शोचनी चैव कथ्यते ॥ ९.६ ॥
मार्कण्डी च करीरी च ह्यक्षरा कुटजा तथा ।
मूलकन्दाम्बुवल्ली च मुनिवल्ली च कीर्तिता ॥ ९.७ ॥
घृतगन्धा निम्बुवल्ली तिलकन्दातसीतला ।
बोधवल्ली सत्त्वगन्धा कूर्मवल्ली च माधवी ॥ ९.८ ॥
विशाला च महानागी मण्डूकी क्षीरगन्धिका ।
चतुःषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबलाः ॥ ९.९ ॥
एकैकाया रसेनापि सूतो बन्धत्वमाप्नुयात् ।
अनया साधितः सूतो जरादारिद्र्यनाशनः ॥ ९.१० ॥
तास्तु लक्षणसंयुक्ताः सोमदेवेन भाषिताः ।
ग्रन्थविस्तरभीत्यात्र नाममात्रेण कीर्तिताः ॥ ९.११ ॥
<रसौध्यः>
अतः परं रसौषध्यः प्रोच्यन्ते शास्त्रवर्त्मना ।
जलोत्पला चिञ्चिका च जलापामार्गमांसिके ॥ ९.१२ ॥
जलकुम्भी मेघनादा ईश्वरी चापराजिता ।
मालार्जुनी वेणुका च शिखिपादा च तिक्तिका ॥ ९.१३ ॥
काश्मर्यतिविषा प्रोक्ता समङ्गा जालिनी तथा ।
तुषम्बुका च दुर्गन्धा पाषाणी शुकनासिका ॥ ९.१४ ॥
वनमाली च वाराही गोजिह्वा मुसली तथा ।
पटोली शठिका मूर्वा पाटला जलमूलका ॥ ९.१५ ॥
रसाजमारी कथिता शिंशिका सितगन्धिका ।
पोतकी च विषघ्नी च बृहती गरुडी तथा ॥ ९.१६ ॥
तुलसी च विदारी च मञ्जिष्ठा चित्रपालिका ।
जलपिप्पलिका भार्ंगी मण्डूकी चोत्तमा तथा ॥ ९.१७ ॥
चन्द्रोदका सारिवा च हरिणी कुक्कुटापि च ।
सर्पाक्षी हंसपादी च वनकुष्माण्डवल्लिका ॥ ९.१८ ॥
मर्कस्फोटी धन्वयासः पागवः स्थलसारिणी ।
अर्धचन्द्रा हेमपुष्पी मोहिनी वज्रकन्दिका ॥ ९.१९ ॥
अलम्बुषा च हलिनी रसचित्रा च नन्दिनी ।
वृश्चिकाली गुडूची च वासा शृङ्गी च कथ्यते ॥ ९.२० ॥
अष्टषष्टिरिति प्रोक्ता रसौषध्यो महाबलाः ।
सूतस्य मारणे प्रोक्ता जारणे च नियामने ॥ ९.२१ ॥
<महौषध्यः>
अष्टषष्टिर्महौषध्यः प्रोच्यन्ते रसशास्त्रतः ।
ऋद्धिः शोषिण्यधोगुप्ता श्रावणी सारिवा तथा ॥ ९.२२ ॥
ज्योतिष्मती तेजवती रास्ना बाकुची बिम्बिका ।
विषाणिका चाश्वगन्धा वर्षाभूः शरपुष्पिका ॥ ९.२३ ॥
बला चातिबला नाग- बला दन्ती महाबला ।
द्रवन्ती नीलिनी चैव शतपुष्पा प्रसारणी ॥ ९.२४ ॥
वरा शतावरी चैला हपुषा सातला त्रिवृत् ।
स्वर्णक्षीरी तुगा पृथ्वी विशाला नलिकामली ॥ ९.२५ ॥
इन्द्रवारुणिकाकाह्वे सिन्दुवारोऽजमोदिका ।
त्रायमाणासुरी शंख- पुष्पी च गिरिकर्णिका ॥ ९.२६ ॥
धातकी कदली दूर्वा अम्लिका कासमर्दिका ।
जन्तुपादी च निर्गुण्डी द्राक्षा नीलोत्पलं शमी ॥ ९.२७ ॥
नालिकेरी च खर्जूरी फल्गुः शिंशी च मल्लिका ।
वार्षिकी शाल्मली जाती ग्रीष्मवर्षा तु यूथिका ॥ ९.२८ ॥
केकिचूडाजगन्धा च लक्ष्मणा तरुणीति च ।
अष्टषष्टिरिति प्रोक्ता महौषध्यो महाबलाः ॥ ९.२९ ॥
<सिद्धौषध्यः>
अथेदानीं प्रवक्ष्यामि सिद्धौषध्यो रसाधिकाः ।
देवीलता कालवर्णी विजयासुरी सिंहिका ॥ ९.३० ॥
पालाशतिलका क्षेत्री संवीरा ताम्रवल्लिका ।
नाही कन्या तथा सोम- राजिका च टुटुम्भटी ॥ ९.३१ ॥
कुबेराक्षी गृध्रनखी पर्पटी छिद्रलम्बिका ।
क्षुत्कारी दुग्धिका भृंगी गङ्गेटी शरपुङ्खिका ॥ ९.३२ ॥
अष्टावल्ली राजशमी पनसी च जयन्तिका ।
विषखर्परिकावन्ती काकाण्डोलाम्बुमूलिका ॥ ९.३३ ॥
सिद्धेश्वरी हंसपादी खोटका शृङ्गरीटिका ।
अधःपुष्पी मधुराख्या शृङ्खला गृञ्जनीति च ॥ ९.३४ ॥
जारावली महाराष्ट्री सहदेवेश्वरी तथा ।
काष्ठगोधामती देव- गान्धारी रजनीङ्गुदी ॥ ९.३५ ॥
पलाशिनी नाकुली च काम्बोजिकाश्विनी तथा ।
चक्रवल्ली सर्पदंष्ट्रा शल्लकी रोहिता तथा ॥ ९.३६ ॥
तौवरी वङ्गजा राज- पद्मा जम्बीरवल्लिका ।
गजपिप्पलिका भृंग- वल्ली चैवार्कवल्लिका ॥ ९.३७ ॥
जन्तुकारी शिग्रुवल्ली करवीरा शिवाटिका ।
नाराची काञ्चनी चाज- गन्धा सूतेन्द्रसिद्धिदाः ॥ ९.३८ ॥
अष्टषष्टिरिति प्रोक्ताः सिद्धौषध्यो रसाधिकाः ।
सर्वकार्यकरा देह- लोहसिद्धिप्रदायकाः ॥ ९.३९ ॥


____________________________________________________________

अध्यायः १०[सम्पाद्यताम्]


अथ यन्त्राणि वक्ष्यन्ते पारदो येन यन्त्र्यते ।
तस्माद्यन्त्रस्य रूपाणि दर्शनीयानि शास्त्रतः ॥ १०.१ ॥
<यन्त्राणि>
दोला पलभलीयन्त्रमूर्ध्वपातनकं च यत् ।
अधःपातनकं चापि तिर्यक्पातनकं तथा ॥ १०.२ ॥
घटीयन्त्रं गर्भयन्त्रमिष्टिका जलयन्त्रकम् ।
खल्वं डमरुकाख्यं च चिपिटाख्यं तुलाभिधम् ॥ १०.३ ॥
लवणं कोष्ठिकासंज्ञमन्तरालिकसंज्ञितम् ।
धूपयन्त्रं नाभियन्त्रं ग्रस्तयन्त्रं तथैव च ॥ १०.४ ॥
विद्याधरं कुण्डकं च ढेकीसंज्ञमुदाहृतम् ।
सोमानलं च निगडं किंनरं भैरवाभिधम् ॥ १०.५ ॥
वालुकानामकं चापि पातालं भूधराभिधम् ।
सारणायन्त्रकं गुह्यं गन्धपिष्टकयन्त्रकम् ॥ १०.६ ॥
कूपीयन्त्रं पालिकाख्यं दीपिकायन्त्रकं तथा ।
स्थालीयन्त्रं भस्मयंत्रं देगयन्त्रमुदीरितम् ॥ १०.७ ॥
घाणिकायन्त्रमुद्दिष्टं हंसपाकाभिधं तथा ।
ऊनचत्वारिंशदत्र यन्त्राण्युक्तानि नामतः ॥ १०.८ ॥
<मूषाः>
अथ मूषाश्च कथ्यन्ते मृत्तिकाभेदतः क्रमात् ।
<च्रुचिब्ले:: स्य्नोन्य्म्स्>
मूषा कुमुदिका प्रोक्ता कोविका करहाटिका ॥ १०.९ ॥
पातिनी कथ्यते सैव वह्निमित्रा प्रकीर्तिता ।
<योगमूषा>
तुषभस्मयुता मृत्स्ना वाल्मिकी बिडसंयुता ॥ १०.१० ॥
तया या रचिता मूषा योगमूषेति कथ्यते ।
<गारमूषा>
गारभूनागसत्वाभ्यां शणैर्दग्धतुषैस्तथा ॥ १०.११ ॥
मर्दिता महिषीक्षीरे मृत्तिका पक्षमात्रकम् ।
तन्मृदा रचिता मूषा गारमूषेति कथ्यते ॥ १०.१२ ॥
<वरमूषा>
वस्त्रांगारतुषास्तुल्यास्तच्चतुर्गुणमृत्तिका ।
भूनागमृत्तिका तुल्या सर्वैरेभिर्विमर्दिता ।
कथिता वरमूषा सा यामं वह्निं सहेत वै ॥ १०.१३ ॥
<वर्णमूषा>
पूर्वोक्ता मृत्तिका या तु रक्तवर्गांबुभाविता ।
रक्तवर्गयुता मृत्स्ना- कारिता मूषिका शुभा ॥ १०.१४ ॥
तुरीपुष्पकसीसाभ्यां लेपिता सा च मूषिका ।
वर्णोत्कर्षे प्रयोक्तव्या वर्णमूषेति कथ्यते ॥ १०.१५ ॥
<रूप्यमूषा>
श्वेतवर्गेण वै लिप्ता रूप्यमूषा प्रकीर्तिता ॥ १०.१६ ॥
<विडमूषा>
विडेन रचिता या तु विडेनैव प्रलेपिता ।
देहलोहार्थसिद्ध्यर्थं विडमूषेत्युदाहृता ॥ १०.१७ ॥
<वज्रमूषा>
गारभूनागसत्त्वाभ्यां तुषमिश्रा शणेन च ।
मृत्समा महिषीक्षीरैर्दिवसत्रयमर्दिता ॥ १०.१८ ॥
संस्थिता पक्षमात्रं हि पश्चान्मूषा कृता तया ।
लेपिता मत्कुणस्याथ शोणितेन बलारसैः ॥ १०.१९ ॥
चतुर्यामं ध्मापिता हि द्रवते नैव वह्निना ।
वज्रमूषेति कथिता वज्रद्रावणहेतवे ॥ १०.२० ॥
<वृन्ताकमूषा>
वृन्ताकाकारमूषायां नालं कृत्वा दशांगुलम् ।
धत्तूरपुष्पवद्दीर्घं सुदृढं चैव कारयेत् ॥ १०.२१ ॥
अष्टांगुलं च सच्छिद्रं भवेद्वृन्ताकमूषिका ।
अनया खर्परादीनां मृदूनां सत्त्वमाहरेत् ॥ १०.२२ ॥
<गोस्तनमूषा>
गोस्तनाकारमूषा या मुखोपरि विमुद्रिता ।
सत्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत् ॥ १०.२३ ॥
<मल्लमूषा>
निर्दिष्टा मल्लमूषा या मल्लद्वितयसंपुटात् ।
रसपर्पटिकादीनां स्वेदनाय प्रकीर्तिता ॥ १०.२४ ॥
<पक्वमूषा>
पक्वमूषा कुलालभाण्डरूपा या दृढा च परिपाचिता ।
पक्वमूषेति सा प्रोक्ता सत्वरद्रव्यशोधिनी ॥ १०.२५ ॥
<महामूषा>
अतिस्थूलातिदीर्घा च मुखे किंचिच्च विस्तृता ।
महामूषेति सा प्रोक्ता सत्वरद्रव्यशोधिनी ॥ १०.२६ ॥
<मञ्जूषमूषा>
षडंगुलोन्नता दीर्घा चतुरस्रा च निम्नका ।
मञ्जूषाकारमूषा सा कथिता रसमारणे ॥ १०.२७ ॥
<गर्भमूषा>
भूमौ निखन्यमानां हि मूषामाच्छाद्य वालुकैः ।
गर्भमूषा तु सा ज्ञेया पारदस्य निबन्धिनी ॥ १०.२८ ॥
<मुशलमूषा>
मूषा या चिपिटा मूले वर्तुलाष्टांगुलोच्छ्रया ।
मूषा सा मुसलाख्या स्याच्चक्रीबद्धरसे हिता ॥ १०.२९ ॥
<कोष्ट्ःयः, अङ्गारकोष्ठी>
अंगारकोष्ठिका नाम राजहस्तप्रमाणका ।
द्वादशांगुलविस्तारा चतुरस्रा प्रकीर्तिता ॥ १०.३० ॥
वेष्टिता मृण्मयेनाथ एकभित्तौ च गर्तकम् ।
वितस्तिमात्रं द्वारं च सार्धवैतस्तिकं दृढम् ॥ १०.३१ ॥
अधोभागे विधातव्या देहली धमनाय वै ।
प्रादेशमात्रा भित्तिः स्यादुत्तरङ्गस्य चोर्ध्वतः ॥ १०.३२ ॥
प्रादेशमात्रं कर्तव्यं द्वारं तस्योपरि ध्रुवम् ।
द्वारं चेष्टिकया रुद्ध्वा संधिरोधं च कारयेत् ॥ १०.३३ ॥
पूरयेत्कोकिलैस्तां तु भस्त्रिकां प्रधमेत्खलु ।
कोकिलाधमनद्रव्यमूर्ध्वद्वारे विनिक्षिपेत् ॥ १०.३४ ॥
एषा चांगारकोष्ठी च खराणां सत्त्वपातनी ॥ १०.३५ ॥
<पातालकोष्ठी>
गर्तं खनेद्दृढं भूमौ द्वादशांगुलमात्रकम् ।
तन्मध्ये वर्तुलं गर्तं चतुरङ्गुलकं दृढम् ॥ १०.३६ ॥
खर्परं स्थापयेत्तत्र मध्यगर्तोपरि दृढम् ।
आपूर्य कोकिलैर्गर्तं प्रधमेदेकभस्त्रया ।
पातालकोष्ठिका सा तु मृदुसत्त्वस्य पातनी ॥ १०.३७ ॥
<गारकोष्ठी>
वितस्तिप्रमिता निम्ना प्रादेशप्रमिता तथा ।
उपरिष्टात्पिधानं तु भूरिच्छिद्रसमन्वितम् ॥ १०.३८ ॥
गर्तमापूर्य चांगारैः प्रधमेद्वंकनालतः ।
गारगोष्ठी समुद्दिष्टा सत्वपातनहेतवे ॥ १०.३९ ॥
<तिर्यक्प्रधमनकोष्ठी>
वितस्तिप्रमितोत्सेधा सा बुध्ने चतुरंगुला ।
तिर्यक्प्रधमनाख्या च मृदुसत्वस्य पातनी ॥ १०.४० ॥
<महापुट>
भूम्यां वै खनयेद्गर्तं द्विहस्तं चतुरस्रकम् ।
छगणानां सहस्रेण पूरयेत्तमनन्तरम् ॥ १०.४१ ॥
औषधं धारयेन्मध्ये तमाच्छाद्य वनोत्पलैः ।
सहस्रार्धैश्च वै सम्यग्- वह्निं प्रज्वालयेत्ततः ॥ १०.४२ ॥
महापुटमिदं प्रोक्तं ग्रन्थकारेण निर्मितम् ॥ १०.४३ ॥
<गजपुट>
राजहस्तप्रमाणं हि चतुरस्रं हि गर्तकम् ।
वनोत्पलसहस्रेण गर्तमध्यं च पूरितम् ॥ १०.४४ ॥
मूषिकां चौषधेनाथ पूरितां तां तु मुद्रयेत् ।
गर्तमध्ये निधायाथ गिरिण्डानि च निक्षिपेत् ।
अधोऽग्निं ज्वालयेत्सम्यकेवं गजपुटो भवेत् ॥ १०.४५ ॥
<वाराहपुट>
अरत्निमात्रे कुण्डे च वाराहपुटमुच्यते ।
<कुक्कुटपुट>
वितस्तिद्वयमानेन गर्तं चेच्चतुरस्रकम् ।
कुक्कुटाख्यं पुटं विद्यादौषधानां च साधनम् ॥ १०.४६ ॥
<कपोतपुट>
छगणैरष्टभिः सम्यक्कपोतपुटमुच्यते ॥ १०.४७ ॥
<गोवरपुट>
तुषैर्वा गोमयैर्वापि रसभस्मप्रसाधनम् ।
माणिकाद्वयमानेन गोवरं पुटमुच्यते ॥ १०.४८ ॥
<मृद्भाण्डपुट>
मृदा भाण्डं प्रपूर्यैव मध्ये द्रव्यं तु विन्यसेत् ।
अधस्ताज्ज्वालयेदग्निं मृद्भाण्डपुटमुच्यते ॥ १०.४९ ॥
<वालुकापुट>
गर्ते तु वालुकापूर्णे मध्ये द्रव्यं तु विन्यसेत् ।
उपरिष्टादधस्ताच्च वह्निं कुर्यात्प्रयत्नतः ।
तद्वालुकापुटं सम्यगुच्यते शास्त्रकोविदैः ॥ १०.५० ॥
<भूधरपुट>
मूषिकां भूमिमध्ये तु स्थापितां द्व्यंगुलादधः ।
उपरिष्टात्पुटं दद्यात्तत्पुटं भूधराह्वयम् ॥ १०.५१ ॥
<लावकपुट>
गोवरैर्वा तुषैर्वापि कर्षमात्रमितैः पुटम् ।
यत्र तल्लावकाख्यं स्यान्मृदुद्रव्यस्य साधने ॥ १०.५२ ॥
<द्रिएद्चोwदुन्ग्>
उत्पलं पिष्टकं छाणमुपलं च गरिण्डकम् ।
छगणोपलसारी च नवारि छगणाभिधाः ॥ १०.५३ ॥


____________________________________________________________

अध्यायः ११[सम्पाद्यताम्]


अथातः सम्प्रवक्ष्यामि धातूनां कौतुकं परं ।
स्वानुभूतं मया किंचित्श्रुतं वा शास्त्रतः खलु ।
तदहं सम्प्रवक्ष्यामि यत्कृत्वा ना सुखी भवेत् ॥ ११.१ ॥
<हेमकरणविधिः (१)>
रसकं दरदं ताप्यं गगनं कुनटी समम् ।
रक्तस्नुहीपयोभिश्च मर्दयेद्दिनसप्तकम् ॥ ११.२ ॥
जलयंत्रेण वै पाच्यं चतुर्विंशतियामकम् ।
तेन वेध्यं द्रुतं ताम्रं तारं वा नागमेव वा ॥ ११.३ ॥
सहस्रवेधी तत्कल्को जायते नात्र संशयः ॥ ११.४ ॥
<हेमकरणविधिः (२)>
एकभागस्तथा सूतो वज्रवल्ल्याथ मर्दितः ।
खल्वे त्रिनेम्याः स्वरसे पञ्चभागसमन्विते ॥ ११.५ ॥
वेत्रयष्ट्या च रागिण्या पीतकल्कं प्रजायते ।
षोडशांशेन दातव्यं द्रुते ताम्रं सुशोधिते ॥ ११.६ ॥
जायते प्रवरं हेम शुद्धं वर्णचतुर्दशम् ॥ ११.७ ॥
<हेमकरणविधिः (३)>
सुवर्णमाक्षिकं स्वेद्यं कांजिके दिवसत्रयम् ।
चर्मरङ्ग्या रसेनैव मर्दयेद्दिनसप्तकम् ।
जलेन धौतं तावच्च यावद्धेमनिभं भवेत् ॥ ११.८ ॥
<हेमकरणविधिः (४)>
दरदं रोमदेशीयं गोमूत्रेणैव स्वेदयेत् ।
दोलायंत्रे चतुर्यामं पश्चाच्छुद्धतमो भवेत् ॥ ११.९ ॥
मनःशिला पद्मनिभा रक्ता चैव सुशोभना ।
स्वेदिता मुनिपुष्पस्य रसेनैव तु दोलया ॥ ११.१० ॥
याममर्धमितं शुद्धा सर्वकार्येषु योजयेत् ।
नवसारस्तथा सूतः शोधितोऽग्निसहः खलु ॥ ११.११ ॥
समभागानि सर्वाणि मर्दयेन्निम्बुकै रसैः ।
मातलुंगरसेनैव कुमारीस्वरसेन च ॥ ११.१२ ॥
सूर्यातपे विमर्द्योऽसौ पाचितो जलयन्त्रके ।
दिनानि त्रीणि तीव्राग्नौ ततस्तदवतारयेत् ॥ ११.१३ ॥
शतांशं वेधयेत्तारं शुद्धं हेम प्रजायते ।
जलभेदो यदा न स्यान्नात्र कार्या विचारणा ॥ ११.१४ ॥
<हेमकरणविधिः (५)>
शिलया मारितं नागं कुमार्याः स्वरसेन च ।
पुटद्वादशयोगेन नागभस्म प्रजायते ॥ ११.१५ ॥
शतसंख्यानि वै कुर्यात्पुटान्येवं शरावके ।
कुमार्याः स्वरसेनैव भावयेद्दिनसप्तकम् ॥ ११.१६ ॥
पूर्ववत्पुटनं कार्यं शतसङ्ख्यामितं तथा ।
सूतभस्म शिला ताल- समं चेन्नागभस्मकम् ॥ ११.१७ ॥
त्रिंशद्वनोपलैर्दद्यात्पुटं वाराहसंज्ञितम् ।
अनेन विधिना सम्यक्शतसंख्यानि दापयेत् ॥ ११.१८ ॥
पुटान्येवं कृते त्रीणि शतानि द्वादशाधिकम् ।
पश्चाद्दृढे काचमये कूपे द्वात्रिंशयामकम् ॥ ११.१९ ॥
वालुकाग्निं प्रदद्याच्च स्वांगशीतं समुद्धरेत् ।
तलभस्म गृहीतव्यं वेधयेच्छुल्बतारके ॥ ११.२० ॥
शुद्धहेम भवेत्तेन नात्र कार्या विचारणा ।
दृष्टप्रत्यययोगोऽयं कथितो नात्र संशयः ॥ ११.२१ ॥
<हेमकरणविधिः (६)>
गोमूत्रे काञ्जिके चाथ कुलत्थे वासरत्रयम् ।
ताप्यकं स्वेदयेत्पश्चाल्लोहपात्रे प्रमर्दयेत् ॥ ११.२२ ॥
तप्तखल्वेन संमर्द्य सेचयेन्निम्बुजद्रवैः ।
सैन्धवं दापयेत्पश्चाच्चतुर्थांशं विशेषतः ॥ ११.२३ ॥
भागैकं ताप्यकं सूताद्भागांस्त्रीनेव कारयेत् ।
मर्दयेन्निम्बुनीरेण शुद्धवस्त्रेण गालयेत् ॥ ११.२४ ॥
वस्त्रे लग्ना तु या पिष्टी ग्राहयेत्तां भिषग्वरः ।
एवं कृते द्विस्त्रिवारं ताप्यसत्वं ग्रसेद्रसः ॥ ११.२५ ॥
पिष्ट्या गोलस्तु कर्तव्यो मूषायां ध्मापयेत्सुधीः ।
इन्द्रगोपनिभं ग्राह्यं ताप्यसत्वं सुशोभनम् ॥ ११.२६ ॥
हीनवर्णसुवर्णेऽपि गद्याणे वल्लमात्रकम् ।
तुत्थकं वल्लमात्रं च दत्त्वा हेम प्रगालयेत् ॥ ११.२७ ॥
तत्सुवर्णस्य पत्राणि कार्याण्येवं प्रलेपयेत् ।
तुत्थकं बीजपूरस्य रसेनापि प्रमर्दयेत् ॥ ११.२८ ॥
गैरिकेण समं कृत्वा हेमपत्राणि लेपयेत् ।
मन्दवह्नौ च प्रपुटेत्द्वित्रिवारं प्रयत्नतः ॥ ११.२९ ॥
कुङ्कुमाभं सुवर्णं हि जायते नात्र संशयः ।
वार्तिकेन्द्राः कुरुध्वं हि सत्यं गुरुवचो यथा ॥ ११.३० ॥
द्वौ वर्णौ वर्धते सम्यक्नात्र कार्या विचारणा ॥ ११.३१ ॥
<हेमकरणविधिः (७)>
शुद्धं ताम्रं ताप्यचूर्णेन तुल्यं द्राव्यं पश्चाड्ढालयेल्लाकुचे हि ।
गन्धाच्चूर्णं ताप्यताम्रावशेषं कृत्वा दद्याद्वल्लकं हीनवये ।
वर्णोत्कर्षो जायते तेन सम्यक्सत्यं प्रोक्तं नन्दिना कौतुकाय ॥ ११.३२ ॥
<हेमकरणविधिः (८)>
ताप्यं नागं गन्धकं सूतराजो हिंगूलं वै हेम शुद्धं शिला च ।
चूर्णं कृत्वा निक्षिपेत्काचकूप्यामापूर्यान्ते स्वै रसैः शाकजैर्वा ॥ ११.३३ ॥
अग्निं दद्याल्लावकाख्ये पुटे च शुद्धः कल्को जायते षष्टिसंख्यैः ।
शुद्धं तारं वेधितं वल्लकेन गद्याणं वै जायते शुद्धहेम ॥ ११.३४ ॥
<हेमकरणविधिः (९)>
अहिरिपुमहितुल्यं सारितं सूतराजे बलिवसगिरिचूर्णैः कान्तपात्रे सुदग्धम् ।
सुविहितफणिभागैर्हेमगर्भेण बद्धो भुजगजितरसेन्द्रो वेधयेल्लक्षवेधी ॥ ११.३५ ॥
<हेमकरणविधिः (१०)>
द्वौ भागौ शुद्धताम्रस्य द्वौ भागौ शुद्धहेमजौ ।
चतुर एव भागांश्च शुद्धतारस्य कारयेत् ॥ ११.३६ ॥
अष्टौ भागाः प्रकर्तव्या रसकस्य प्रयत्नतः ।
अन्धमूषागतं ध्मातं द्रावितं हेम जायते ॥ ११.३७ ॥
<हेमकरणविधिः (११)>
विदितागमवृद्धैर्हि पुटे पक्वं कनीयसि ।
त्रिगुणं चूर्णनिर्बद्धं तारमायाति काञ्चनम् ॥ ११.३८ ॥
<हेमकरणविधिः (१२)>
पारदं पलमेकं तु प्रस्थार्धं शुद्धगन्धकम् ।
किंशुपत्ररसेनैव रसैर्वा पुष्पसंभवैः ॥ ११.३९ ॥
सूर्यातपे मर्दयेद्धि षण्मासावधिमात्रकम् ।
षोडशांशेन रजतं विध्यते नात्र संशयः ॥ ११.४० ॥
सप्तवर्णं भवेद्धेम हट्टविक्रययोग्यकम् ॥ ११.४१ ॥
<हेमकरणविधिः (१३)>
पारदं गंधकं शुल्वं माक्षिकं तुत्थकं तथा ।
रसकं दरदं स्वर्ण- गैरिकं नवसादरम् ॥ ११.४२ ॥
सूरक्षारं शिलां चैव समभागानि मर्दयेत् ।
तदर्धं रसकं मुक्त्वा वज्रमूषे निरुन्धयेत् ॥ ११.४३ ॥
यथा धूमो न निर्गच्छेत्तथा मुद्रां प्रदापयेत् ।
तोलमेकं सुवर्णं हि जायते नात्र संशयः ॥ ११.४४ ॥
घटिकातुर्यमात्रं हि ध्मापयेत्सततं भिषक् ॥ ११.४५ ॥
<हेमकरणविधिः (१४)>
स्वल्पवर्णसुवर्णस्य गद्याणैकस्य मुद्रिका ।
माक्षिकं रसकं तुत्थं गैरिकं नवसादरम् ॥ ११.४६ ॥
सूरक्षारं सदरदं टङ्कणेन समन्वितम् ।
प्रतिवल्लद्वयं कुर्यात्कासमर्दप्रसूनकैः ॥ ११.४७ ॥
स्त्रीदुग्धेन च संमर्द्य लेपयेत्तेन मुद्रिकाम् ।
सोरक्षारं सदरदं टंकणेन समन्वितम् ॥ ११.४८ ॥
सैंधवस्य च भागैकमिष्टिकाभागयुग्मकम् ।
स्थालिकायन्त्रमध्यस्थं मध्ये संस्थाप्य मुद्रिकाम् ॥ ११.४९ ॥
यामत्रितयपर्यन्तं वह्निं कुर्यात्प्रयत्नतः ।
स्वांगशीतं ततः कृत्वा मुद्रिकां तां समुद्धरेत् ।
वेदवर्णास्तु संघर्षाद्वर्धन्ते नात्र संशयः ॥ ११.५० ॥
<हेमकरणविधिः (१५)>
घोषाकृष्टं तु यत्ताम्रं रजतेन समन्वितम् ।
तीक्ष्णचूर्णं सदरदं घृष्टं कन्यारसेन वै ॥ ११.५१ ॥
पश्चाद्विधेया गुटिकाः सूक्ष्माश्चैवाढकीसमाः ।
वापिता द्राविते द्रव्ये सर्वं ताम्रं तु संक्षिपेत् ॥ ११.५२ ॥
रूप्यमानं समुत्तार्य समहेम्ना च गालयेत् ।
जायते दशवर्णं तु सत्यमेतदुदीरितम् ॥ ११.५३ ॥
<हेमकरणविधिः (१६)>
ताम्रे सप्तगुणं नागं वाहितं पुनरेव हि ।
तेन ताम्रेण रसकं सप्तवारं च वाहयेत् ॥ ११.५४ ॥
स्वर्णवर्णं हि तत्ताम्रं जायते नात्र संशयः ॥ ११.५५ ॥
<हेमकरणविधिः (१७)>
भूनागसत्त्वमूषायां द्रावयेत्स्वर्णमुत्तमम् ।
ताप्यसत्वेन संयुक्तं शतवारं पुनः पुनः ।
जपापुष्पनिभं स्वर्णं जायते नात्र संशयः ॥ ११.५६ ॥
<हेमकरणविधिः (१८)>
दशवर्णस्य गद्याणे रक्तं तद्धेमवल्लकम् ।
द्वौ वर्णौ वर्धतः सम्यखट्टविक्रययोग्यकम् ॥ ११.५७ ॥
<हेमकरणविधिः (१९)>
पुष्पकासीसकं रम्यं मर्दयेदर्कपत्रजे ।
रसेऽथ च चक्रिकां कुर्याद्रसकस्य पलोन्मिताम् ॥ ११.५८ ॥
वेष्टितां पूर्वकल्केन रविघर्मेण शोषयेत् ।
त्रिंशद्वनोपलैः सम्यक्पुटान्येवं हि विंशतिः ॥ ११.५९ ॥
षोडशांशेन रजतं विध्यते नात्र संशयः ।
सप्तवर्णसवर्णं हि जायते नात्र संशयः ॥ ११.६० ॥
<हेमकरणविधिः (२०)>
सूतको द्विपलः कार्यः सुम्बिलश्च चतुष्पलः ।
चतुष्टंकमिता कार्या स्फटिकी निर्मला शुभा ॥ ११.६१ ॥
वृश्चिकालीरसे घृष्टा दिनमेकं तु वार्तिकैः ।
पश्चाच्च शोषयेत्सर्वं यन्त्रे डमरुके न्यसेत् ॥ ११.६२ ॥
गैरिकं स्थापयेत्पूर्वं खटिकां च तथोपरि ।
तन्मध्ये गर्तकं कृत्वा गर्तके नवसादरम् ॥ ११.६३ ॥
टङ्कमानं प्रकर्तव्यं तस्योपरि च सूतकम् ।
सूतकोपरि सारं हि पूर्वोक्तं टंकमानकम् ॥ ११.६४ ॥
मुद्रां कृत्वा शोषयित्वा पश्चाच्चुल्ल्यां निवेशयेत् ।
अग्निं कुर्यात्प्रयत्नेन यामषोडशमात्रकं ॥ ११.६५ ॥
स्वांगशीतं समुत्तार्य ऊर्ध्वलग्नं तु ग्राहयेत् ।
पश्चात्खल्वे निधायाथ वृश्चिकाल्या प्रमर्दयेत् ॥ ११.६६ ॥
काचकूप्यां क्षिपेत्सर्वं कूपीं वालुकायन्त्रके ।
वह्निं द्वादशभिर्यामैः कुर्याच्छीतं समाहरेत् ॥ ११.६७ ॥
वल्लमात्रं ततो दद्यात्सार्धटङ्के सुताम्रके ।
दृष्टप्रत्यययोगोऽयं नाथसुन्दरभाषितः ॥ ११.६८ ॥
<रौप्यकरणविधिः (१)>
लोहचूर्णं पलमितं सुमलक्षारमभ्रकम् ।
टंकणं शाणमानं हि तैलेनैरण्डजेन वै ॥ ११.६९ ॥
घर्षयेद्वटिकायुग्मं गोलं कृत्वा धमेत्ततः ।
भस्त्रया ध्मापयेत्सम्यक्लोहं रसनिभं भवेत् ॥ ११.७० ॥
तल्लोहं त्रिगुणं चैव रसकं कारयेत्सुधीः ।
लोहं च रसकं पश्चाद्गालितं वज्रमूषया ॥ ११.७१ ॥
लोहशेषं समुत्तार्य ताम्रे दद्याच्च वल्लकम् ।
गद्याणके भवेत्तारं तत्तारं शुद्धतारके ॥ ११.७२ ॥
अर्धभागे भवेच्छुद्धं तारं दोषविवर्जितम् ॥ ११.७३ ॥
<रौप्यकरणविधिः (२)>
खण्डं कर्षप्रमाणं हि सुमलक्षारकस्य हि ।
वेष्टितं नरकेशेन द्रुते नागे निमज्जितम् ॥ ११.७४ ॥
निर्वापितं निम्बुजले चैकविंशतिवारकम् ।
द्रुते शुल्वस्य गद्याणे रक्तिकापञ्चमात्रकम् ॥ ११.७५ ॥
कल्कं दद्यात्प्रयत्नेन तारवर्णं प्रजायते ।
गद्याणे चतुरो वल्लान् रूप्यं दत्त्वा प्रगालयेत् ।
जायते रुचिरं तारं सत्यमेतदुदीरितम् ॥ ११.७६ ॥
<रौप्यकरणविधिः (३)>
शंखं सुम्बलनामानं पलान्यष्टौ प्रकल्पयेत् ।
गोजिह्वारससंमिश्रं दिनमेकं प्रमर्दयेत् ॥ ११.७७ ॥
निम्बूरसेन धूर्तेन काकमाचीरसेन वै ।
गृंजनस्य रसेनैव दिनमेकं प्रमर्दयेत् ॥ ११.७८ ॥
अर्कदुग्धेन वै भाव्यं तैलेनैरण्डजेन च ।
यवमात्रां गुटीं कृत्वा विशोष्य चातपे खरे ॥ ११.७९ ॥
काचकूप्यां विनिक्षिप्य मुद्रयेत्कूपिकामुखं ।
संस्थाप्य वालुकायन्त्रे पचेत्षोडशयामकम् ॥ ११.८० ॥
स्वांगशीतं समुत्तार्य ग्राह्यं सत्वं तदूर्ध्वगम् ।
सत्त्वं गद्याणमेकं तु तन्मात्रं तारसंपुटम् ॥ ११.८१ ॥
सूतं गद्याणकं स्वच्छं टंकणं वल्लपञ्चकम् ।
सूतमात्रं क्षारसत्त्वं सर्वं चैकत्र मर्दितम् ॥ ११.८२ ॥
स्वरसेन तु केतक्या गोलं कृत्वा विशोषितम् ।
तारसंपुटमध्ये तु धारितं तं च गोलकम् ॥ ११.८३ ॥
पश्चात्ताम्रकृतां मूषामष्टवल्लमितां शुभाम् ।
शरावसंपुटस्यान्तर्धारयेत्तदनंतरम् ॥ ११.८४ ॥
धान्याभ्रं तुल्यं पंकेन कृत्वा श्रावं तु पूरयेत् ।
वाराहाख्यपुटैकेन जायते कल्क उत्तमः ॥ ११.८५ ॥
ताम्रं द्वादशवल्लं हि रूप्यं वल्लद्वयं तथा ।
वंगं वल्लमितं शुद्धं सर्वमेकत्र गालयेत् ॥ ११.८६ ॥
चतुर्गुञ्जाप्रमाणं हि दापयेन्मतिमान् भिषक् ।
जायते प्रवरं तारं सत्यमेतदुदीरितम् ॥ ११.८७ ॥
<रौप्यकरणविधिः (४)>
अस्थिभक्षमलबंगमारितं तालकाभ्रविषसूतटंकणम् ।
वज्रिभानुपयसा सुभावितं स्यान्नरेन्द्र शुभतारपर्वतम् ॥ ११.८८ ॥
<रौप्यकरणविधिः (५)>
वंगं तालकमभ्रकं शशिरसं तीक्ष्णं विषं टंकणं ।
त्रैवारेण च मूकमूषधमितं विन्दन्ति चन्द्रप्रभम् ॥ ११.८९ ॥
आरं द्वादशभागमष्टरविणो बीजं चतुर्थांशकम् ।
भूगण्डादिसमस्तदोषरहितं श्रीपूज्यपादोदितम् ॥ ११.९० ॥
<रौप्यकरणविधिः (६)>
पारदस्य त्रयो भागा भागैकं रजतस्य हि ।
निम्बूरसेन संमर्द्य पिष्टीं कृत्वा प्रयत्नतः ॥ ११.९१ ॥
कांजिकेन तु तां पिष्टीं स्तम्भयेद्वासरत्रयम् ।
सारयेद्बंगमध्ये तु सूतकं तदनंतरम् ॥ ११.९२ ॥
सारितं सूतकं तेन तालसत्त्वेन साधयेत् ।
तेन वेध्यं द्रुतं ताम्रं षोडशांशेन यत्नतः ॥ ११.९३ ॥
जायते प्रवरं तारं चंद्रनक्षत्रसन्निभम् ॥ ११.९४ ॥
<रौप्यकरणविधिः (७)>
सूतकस्य त्रयो भागा बंगं भागद्वयं तथा ।
मर्दयेद्दिनमेकं तु कांजिकेन समन्वितम् ॥ ११.९५ ॥
सर्वेभ्यस्त्रिगुणेनाथ सुम्बलेन प्रमर्दयेत् ।
स्नुह्यर्कदुग्धेन समं भावयेद्वासरत्रयम् ॥ ११.९६ ॥
यवप्रमाणां गुटिकां रवितापेन शोषिताम् ।
काचकूप्यां निधायाथ वह्निं कुर्यात्प्रयत्नतः ॥ ११.९७ ॥
यामषोडशपर्यंतं वालुकायंत्रके पचेत् ।
स्वांगशीतं समुद्धृत्य चोर्ध्वगं सत्वमाहरेत् ॥ ११.९८ ॥
षोडशांशेन शुल्बं हि कुन्तवेधेन वेधयेत् ।
जायते प्रवरं तारं हट्टविक्रययोग्यकम् ॥ ११.९९ ॥
<रौप्यकरणविधिः (८)>
पलाष्टमात्रं तालं तु द्विकर्षप्रमितं रसम् ।
निम्बूरसेन संमर्द्यं वासरैकं प्रयत्नतः ॥ ११.१०० ॥
पश्चात्तं मर्दयेद्धीमान् तैलेनैरण्डजेन वै ।
वालुकायन्त्रमध्यस्थं पचेद्यामांस्तु षोडश ॥ ११.१०१ ॥
पश्चात्सत्त्वं समुद्धृत्य मर्दयेदेकवासरम् ।
अतसीतिलतैलेन काचकूप्यां निधापयेत् ॥ ११.१०२ ॥
पूर्ववत्पाचयेद्वह्नौ स्वांगशीतं समुद्धरेत् ।
अनेनैव प्रकारेण पुनरेवं तु कारयेत् ॥ ११.१०३ ॥
कूपीतलस्थितं सत्त्वं ग्राह्यं चेत्प्रवरं सदा ।
षोडशांशेन शुल्बस्य वेधं कुर्यान्न संशयः ॥ ११.१०४ ॥
<रौप्यकरणविधिः (९)>
पारदं टंकमानं तु लवणं द्विगुणं तथा ।
खल्वे विमर्दयेत्तावद्यावन्नष्टो रसो भवेत् ॥ ११.१०५ ॥
ताम्रं गद्याणकं शुद्धं बंगं वल्लमितं कुरु ।
द्रुते ताम्रेऽथ लवणं सूतकेन समन्वितम् ॥ ११.१०६ ॥
माषमात्रं प्रदातव्यं चतुर्थांशेन रूप्यकम् ।
तद्रूप्ये मर्दितं सूतं क्षेप्तव्यं जलयन्त्रके ॥ ११.१०७ ॥
तत्त्रयोदशकं रूप्यं जायते नात्र संशयः ॥ ११.१०८ ॥
<रौप्यकरणविधिः (१०)>
तालेन निहतं बंगं तद्बंगेन तु रूप्यकम् ।
पचेद्यामाष्टकं सम्यक्कल्क एवं प्रजायते ।
वल्लं गद्याणके दद्याद्बंगं स्तम्भयते ध्रुवम् ॥ ११.१०९ ॥
<रौप्यकरणविधिः (११)>
दरदं खण्डशः कृत्वा टंकत्रयमितं पृथक् ।
वज्रीक्षीरेण तत्स्वेद्यं दोलायंत्रेण वार्तिकैः ॥ ११.११० ॥
तारचूर्णं समं लेप्यं लुङ्गतोयसमं तथा ।
गोवरैः पाचयेत्स्वल्पमेव द्वादशयामकम् ॥ ११.१११ ॥
पिष्टिस्तम्भो भवेत्तेन पश्चात्ताररजः पृथक् ।
कुर्याद्दरदखण्डेन समं सीसं च दापयेत् ॥ ११.११२ ॥
गालयेन्मूषिकामध्ये शीतं कृत्वा तु खोटकम् ।
भस्म मूषोपरि न्यस्य ध्मापयेच्च शनैः शनैः ॥ ११.११३ ॥
शुद्धशङ्खनिभं रूप्यं निष्कमात्रं हि निःसरेत् ॥ ११.११४ ॥
<रौप्यकरणविधिः (१२)>
द्विपलं शुद्धसूतं च द्विपलं रसकस्य च ।
तालकं च पलद्वंद्वं सुर्मिलं युग्ममात्रकम् ॥ ११.११५ ॥
कूप्यामारोपयेत्सर्वं मुखं ताम्रेण रुन्धयेत् ।
वालुकायन्त्रके सम्यक्पचेद्द्वादशयामकम् ॥ ११.११६ ॥
कूपीमुखे तु यल्लग्नं सत्त्वं ग्राह्यं प्रयत्नतः ।
शुल्बे षोडशवेधेन कारयेद्रजतं वरम् ॥ ११.११७ ॥
<रौप्यकरणविधिः (१३)>
सूतकं पलमेकं तु शंखाभं सुर्मिलं पलम् ।
एरण्डतैले घृष्टं तद्धारितं खर्परे वरे ॥ ११.११८ ॥
अन्धितं ताम्रपात्रेण मुद्रितं सुदृढं कृतम् ।
पश्चाच्चुल्ल्यां समारोप्य वह्निं कुर्याच्छनैः शनैः ॥ ११.११९ ॥
सार्धं यामं ततः पाच्यं स्वांगशीतं समुद्धरेत् ।
ताम्रपात्रे तु यल्लग्नं सर्वं सत्त्वं समाहरेत् ॥ ११.१२० ॥
घृताक्तं टंकणोपेतं गालितं मूषिकामुखे ।
देयं तद्वल्लमात्रं हि द्रुते ताम्रे तु सत्त्वकम् ॥ ११.१२१ ॥
शंखाभं जायते तारं नात्र कार्या विचारणा ॥ ११.१२२ ॥
<रौप्यकरणविधिः (१४)>
तालं ताम्रं रीतिघोषं समांशं कुर्यादेवं गालितं ढालितं हि ।
अम्ले वर्गे सप्तवारं प्रढाल्य पश्चाद्योज्यं तुल्यभागे च रूप्ये ।
शुद्धं रूप्यं षोडशाख्यं हि सम्यक्जातं दृष्टं नानृतं सत्यमेतत् ॥ ११.१२३ ॥
<रौप्यकरणविधिः (१५)>
श्वेतं सौवीरकं शुद्धं पाचितं विषमुष्टिना ।
स्वच्छे सूतवरे वल्लं निक्षिप्तं रूप्यकृद्भवेत् ॥ ११.१२४ ॥
<रौप्यकरणविधिः (१६)>
शुद्धस्फटिकसंकाशं सुर्मिलं दृश्यते क्वचित् ।
मृत्खर्परे पाचितं हि निम्बूकद्रवसंयुतम् ॥ ११.१२५ ॥
घटिकाद्वयमानेन शुद्धकल्कः प्रजायते ।
चतुःषष्ट्यंशमानेन वेधयेच्छुल्बकं शुभम् ॥ ११.१२६ ॥
जायते प्रवरं तारं सर्वदोषविवर्जितम् ॥ ११.१२७ ॥
<रौप्यकरणविधिः (१७)>
सप्तधातुमयी मूषा क्षारभस्मप्रपूरिता ।
कदल्याः क्षारकेणैव तथापामार्गसंभवैः ॥ ११.१२८ ॥
मध्ये पारदकं मुक्त्वा पुनरेवं प्रपूरयेत् ।
अनेन विधिना पूर्या द्वितीया मूषिका शुभा ॥ ११.१२९ ॥
मुद्रितव्या प्रयत्नेन गोवरे पुटके न्यसेत् ।
सूतकं बन्धमायाति वङ्गाभं तु प्रजायते ।
द्रुतद्रावं घातसहं दृष्टमेवं मया खलु ॥ ११.१३० ॥
<कृत्रिममौक्तिककरणम्>
नेत्राण्याहृत्य मत्स्यानां पक्त्वा दुग्धेन यामकम् ।
पश्चादाकृष्णकणकानाकृष्य किल कण्डयेत् ॥ ११.१३१ ॥
तानि शालिसमेतानि तावच्छुभ्राणि कारयेत् ।
पश्चादिष्टिकचूर्णेन हस्ते कृत्वा प्रमर्दयेत् ॥ ११.१३२ ॥
मौक्तिकानि हि जायन्ते कृतान्येवं मया खलु ॥ ११.१३३ ॥
<सूक्ष्ममौक्तिकेभ्यो बृहन्मौक्तिककरणम्>
मूषिकां कारयेच्छुद्धां स्फाटिकीं दहनोपलाम् ।
मौक्तिकानि तु सूक्ष्माणि निम्बूद्रावे निधापयेत् ॥ ११.१३४ ॥
अहोरात्रेण सर्वाणि नवनीतसमानि च ।
तस्य पंकस्य गुटिकां मसृणां तु प्रकारयेत् ॥ ११.१३५ ॥
पश्चात्तां मूषिकामध्ये चित्राघर्मे द्वियामकम् ।
चत्वारि कांस्यभाण्डानि चतुर्दिक्षु गतानि च ॥ ११.१३६ ॥
अर्भकाः पातयेत्सर्वाः मध्यभाजनकोपरि ।
बध्यते मौक्तिकं श्रेष्ठ- तरं सर्वगुणैर्युतम् ॥ ११.१३७ ॥
<कृत्रिमप्रवालकरणम्>
शुद्धशङ्खस्य चूर्णं हि सूक्ष्मं कृत्वा प्रयत्नतः ।
अर्धभागं च दरदं चूर्णयेन्मतिमांस्ततः ॥ ११.१३८ ॥
सद्यः सूताविकक्षीरं तेन दुग्धेन मर्दयेत् ।
वर्तिं विधाय मतिमान् कार्पासास्थिषु स्वेदयेत् ॥ ११.१३९ ॥
स्वांगशीतं समुत्तार्य प्रवालं रुचिरं भवेत् ॥ ११.१४० ॥


____________________________________________________________

अध्यायः १२[सम्पाद्यताम्]


<वानरी वटी>
आत्मगुप्ताफलं शुष्कं निस्तुषं चाष्टपालिकम् ।
माषस्याष्टपलं तद्वज्जलेन परिपेषितम् ॥ १२.१ ॥
आर्द्रं कृत्वोभयं सम्यक्शिलापट्टेन पेषयेत् ।
कुंकुमं केसरं चैव जातीपत्रं शतावरी ॥ १२.२ ॥
गोक्षुरेक्षुरबीजानि लवंगं मरिचं कणा ।
शृङ्गाटकं कर्षमितं कुर्यादेवं पृथक्पृथक् ॥ १२.३ ॥
सूक्ष्मचूर्णं विधायाथ पूर्वपिष्टे निधापयेत् ।
वटकान् कारयेत्पश्चात्कर्षमात्रान् विपाचयेत् ॥ १२.४ ॥
घृतप्रस्थत्रयेणैव सुतलथ्य निमज्जयेत् ।
माक्षिके घृतमाने वै मुखं रुन्ध्याद्दिनत्रयम् ॥ १२.५ ॥
मध्वाज्यमिश्रितं भुञ्ज्यादेकैकं वटकं प्रगे ।
सप्तकानि च पञ्चैवमाहारं मधुरं भजेत् ॥ १२.६ ॥
दुग्धौदनं तथा रात्रौ क्षारमम्लं च वर्जयेत् ।
रेतःक्षयी तथा क्लीबो गच्छेच्च प्रमदाशतम् ॥ १२.७ ॥
अपुत्रः पुत्रमाप्नोति षण्ढोऽपि पुरुषायते ।
दृष्टप्रत्यययोगोऽयं सत्यमेतदुदीरितम् ॥ १२.८ ॥
<शतावर्यादिवाजीकरोऽवलेहः (१)>
शतावरीं क्षीरविदारिकां च प्रस्थार्धमानां पृथगेव कुर्यात् ।
रसं तथा शाल्मलिमध्यमूलात्प्रस्थं सितार्धाढकमत्र देयम् ॥ १२.९ ॥
सुपाचितं वै मृदुवह्निना तथा दर्वीप्रलेपोऽपि हि जायते यथा ।
त्वक्पत्रकैलाः सह केसरेण पलप्रमाणा हि ततो विदध्यात् ॥ १२.१० ॥
लेहे सुशीते मधु बिल्वमात्रं प्रातः प्रभक्षेदिह कर्षमात्रम् ॥ १२.११ ॥
<शृङ्गातकादिवाजीकरोऽवलेहः (२)>
शृङ्गाटकस्यापि पलं विधेयं वाराहिकन्दश्च पलप्रमाणः ।
चूर्णीकृतं गालितमेव वस्त्राद्भृष्टं तथाज्येन सितासमेतम् ॥ १२.१२ ॥
लवंगकृष्णागरुकेशराणां पलं प्रदद्याद्दशभागदुग्धम् ।
लेहं सुजातं खलु भक्षयेत्तत्कर्षप्रमाणं नितरां प्रभाते ।
कामस्य बोधं कुरुते हि शीघ्रं नारीं रमेद्वै चटकायतेऽसौ ॥ १२.१३ ॥
<कामदीप्तिकरवाजीकरोऽवलेहः (३)>
शतावरीगोक्षुरदर्भमूलं शृङ्गाटकं नागबलात्मगुप्ते ।
संचूर्ण्य सर्वं पृथगेव पालिकं क्षीरेण पाच्यं दशभागकेन ॥ १२.१४ ॥
सिता प्रदेया दशपालिकात्र पाकं विदध्यादपि चाग्नियोगात् ।
मधुप्लुतं भक्षितमर्धयामात्कामप्रदीप्तिं कुरुते सदैव ॥ १२.१५ ॥
वीर्यस्य वृद्धिं जठराग्निवृद्धिं कामाग्निवृद्धिं सहसा करोति ॥ १२.१६ ॥
<माषादिवाजीकरोऽवलेहः (४)>
माषाणामात्मगुप्ताया बीजानामाढकं नवम् ।
जीवकर्षभकौ जीवां मेदां वृद्धिं शतावरीम् ॥ १२.१७ ॥
मधुकं चाश्वगन्धां च साधयेत्प्रसृतोन्मिताम् ।
रसे तस्मिन्घृतप्रस्थं गव्यं दशगुणं पयः ॥ १२.१८ ॥
विदारीस्वरसप्रस्थं प्रस्थमिक्षुरसस्य च ।
दत्त्वा मृद्वग्निना साध्यं सिद्धसर्पिर्निधापयेत् ॥ १२.१९ ॥
शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक्पृथक् ।
भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत्पलम् ॥ १२.२० ॥
पलं पूर्वमितो लीढ्वा ततोऽन्नमुपयोजयेत् ।
यदीच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम् ॥ १२.२१ ॥


____________________________________________________________

अध्यायः १३[सम्पाद्यताम्]

<वीर्यस्तम्भकरी वटी>
श्रीवासमस्तकीनाग- केसरं च लवंगकम् ।
कंकोलं तुलसीबीजं खुरासान्यहीफेनकम् ॥ १३.१ ॥
जावित्रिकाब्धिशोषं च करभागुरुकुंकुमम् ।
कङ्कोलकतुगाक्षीरी- जातीफलसमांशकान् ॥ १३.२ ॥
सर्वाण्येवं विचूर्ण्याथ नालिकेरोदरे क्षिपेत् ।
दुग्धमध्ये विपाच्यैनं दिनान्येवं हि पञ्च च ॥ १३.३ ॥
नालिकेरफलाद्ग्राह्यं मर्दयेन्मधुना सह ।
गुटिका कोलमात्रा हि भक्षणीया निशामुखे ॥ १३.४ ॥
वीर्यस्तंभं करोत्युग्रं चतुर्यामावधिं तथा ॥ १३.५ ॥
<शुक्रस्तम्भकरी वटी>
लवंगं शुद्धकर्पूरं जातीपत्रं फलं तथा ।
कुङ्कुमं स्वर्णबीजं च धूर्तपर्णं प्रसूनकम् ॥ १३.६ ॥
मूलं त्वक्चाब्धिशोषस्य सर्वाण्येकत्र मर्दयेत् ।
गोदुग्धे शोधनीयं च भागमेकं प्रकल्पयेत् ॥ १३.७ ॥
भृङ्गीपत्त्रभवं चूर्णं भागैकं स्वर्णगैरिकम् ।
भावनां पोस्ततोयेन एकविंशतिसंख्यया ॥ १३.८ ॥
कारयेन्मतिमान् वैद्यः शुक्रस्तंभकरीं वटीम् ॥ १३.९ ॥
<रेतःस्तम्भकरी वटी>
जातीफलार्ककरहाटलवङ्गशुण्ठीकङ्कोलकेशरकणाहरिचन्दनानि एतैः समानमहिफेनमनेन चाभ्रं श्वेतं निधाय मधुना वटकान् विदध्यात् ।
माषद्वयोन्मितममुं निशि भक्षयित्वा मृष्टं पयस्तदनु माहिषमाशु पीत्वा कुर्वन्तु कामुकजनाः प्रतिरुद्धपाताश्चेतांसि तानि चकितानि कलावतीनाम् ॥ १३.१० ॥
<वीर्यस्तम्भकरी लेपवटी>
स्कन्धदेशाच्च संजातं वीर्यं दर्दुरसंभवम् ।
घनसारेण संयुक्तं करहाटस्य चूर्णकम् ॥ १३.११ ॥
संमर्द्य कारयेच्चूर्णं वटीं मुद्गप्रमाणकाम् ।
संघर्ष्य मुखतोयेन लिंगलेपं प्रकारयेत् ॥ १३.१२ ॥
यामार्धं धारयेद्बिन्दुं सत्यं गुरुवचो यथा ॥ १३.१३ ॥
<शुक्रस्तम्भकचूर्णम्>
पोस्तकं पलमेकं वै शुंठीकर्षः सिता पलैका च ।
कर्षमिता त्वक्पयसा पीतं रेतो ध्रुवं धत्ते ॥ १३.१४ ॥
श्रीगङ्गाधरभक्तिसक्तमनसो विद्याविनोदाम्बुधेः श्रीगोडान्वयपद्मनाभसुधियस्तस्यात्मजेनाप्ययम् ।
सद्वैद्येन यशोधरेण कविना विद्वज्जनानन्दकृद्ग्रन्थोऽयं ग्रथितः करोतु सततं सौख्यं सतां मानसे ॥ १३.१५ ॥
देशानां सुरराष्ट्रमुत्तमतमं तत्रापि जीर्णाभिधः प्राकारोऽस्ति स वेदशास्त्रनिरतैर्विप्रैश्च संशोभितः ।
तस्मिन् शंभुपदारविन्दरतिकृच्छ्रीपद्मनाभः स्वयं तत्पुत्रेण यशोधरेण कविना ग्रंथः स्वयं निर्मितः ॥ १३.१६ ॥
संबोधाय सतां सुखाय सरुजां शिष्यार्थसंसिद्धये वैद्यानामुपजीवनाय विदुषामुद्वेगनाशाय वै ।
श्रीमद्दुर्गपुरातनेऽतिनिपुणः श्रीपद्मनाभात्मजः श्रीमद्भट्टयशोधरः कविवरो ग्रन्थः स्वयं निर्ममे ॥ १३.१७ ॥

"https://sa.wikisource.org/w/index.php?title=रसप्रकाशसुधाकरः&oldid=333661" इत्यस्माद् प्रतिप्राप्तम्