रत्नगुणसंचयगाथा

विकिस्रोतः तः
रत्नगुणसंचयगाथा
[[लेखकः :|]]




ओं नमो भगवत्यै आर्यप्रज्ञापारमितारत्नगुणसंचयगाथायै ।

नमो आर्यमञ्जुश्रिये ।

१ अथ खलु भगवांस्तासां चतसृणां पर्षदां संप्रहर्षणार्थं पुनरपीमां प्रज्ञापारमितां परिदीपयमानस्तस्यां वेलायामिमा गाथा अभाषत -


पर प्रेम गौरव प्रसाद उपस्थपित्वा प्रजहित्व आवरण क्लेशमलातिक्रान्ताः ।
शृणुता जगार्थमभिप्रस्थित सुर(व्र?)तानां प्रज्ञाय पारमित यत्र चरन्ति शूराः ॥ १.१ ॥

यावन्ति नद्य प्रवहन्तिह जम्बुद्वीपे फल पुष्प औषधा(धि) वनस्पति रोहयन्ति ।
भूज(त) गजेन्द्रनागपतिनिश्रयनोवत(न)स्य(?) तस्यानुभावश्रिय साभु जगाधिपस्य ॥ १.२ ॥

यावन्ति धर्म जिनश्रावक देशयन्ति भाषन्ति युक्तिसहितांश्च उदीरयन्ति ।
परमार्थसौख्यक्रिय तत्फलप्राप्तिता च सर्वो अयं पुरुषकारु तथागतस्य ॥ १.३ ॥

किं कारणं य जिन भाषति धर्मनेत्रीं तत्राभिशिक्षित नरर्षभशिष्यभूताः ।
साक्षात्करित्व यथ शिक्षित देशयन्ति बुद्धानुभाव पुन आत्मबलानुभावा ॥ १.४ ॥

यस्मिन्न प्रज्ञवरपारमितोपलब्धिः न च बोधिसत्त्वौपलब्धि न चित्तबोधेः ।
एवं श्रुणित्व न च मुह्यति नास्ति त्रासो सो बोधि(स)त्त्व चरते सुगतान प्रज्ञाम् ॥ १.५ ॥

न च रुप वेदन न संज्ञ न चेतना च विज्ञान स्थानु अणुमात्र न भोन्ति तस्य ।
सो सर्वधर्मअस्थितो अनिकेतचारी अपरी(रि)गृहीत लभते सुगतान बोधिम् ॥ १.६ ॥

अथ श्रेणिकस्य अभुती परिव्राजकस्य ज्ञानोपलम्भु न हि स्कन्धविभावना च ।
यो बोधिसत्त्व परिजानति एव धर्मां न च निर्वृतिं स्पृशति सो विहराति प्रज्ञाम् ॥ १.७ ॥

व्युपरीक्षते पुनरयं कतरेषु प्रज्ञा कस्मात्कुतो व इमि शून्यक सर्व धर्माः ।
व्युपरीक्षमाणु न च लीयति नास्ति त्रासो आसन्नु सो भवति बोधयि बोधिसत्त्वो ॥ १.८ ॥

सचि रुप संज्ञ अपि वेदन चेतना च विज्ञान स्कन्ध चरती अप्रजानमानो ।

इमि स्कन्ध शून्य परिकल्पयि बोधिसत्त्वो चरती निमित्तअनुपादपदे असक्तो ॥ १.९ ॥

न च रुप वेदन न संज्ञ न चेतनाया विज्ञानि यो न चरती अनिकेतचारी ।
चरतीति सो न उपगच्छति प्रज्ञधारी अनुपादधी स्पृशति शान्ति समाधि श्रेष्ठाम् ॥ १.१० ॥


एवात्मशान्ति विहरन्निह बोधिसत्त्वो सो व्याकृतो पुरमकेहि तथागतेहि ।
न च मन्यते अहु समाधितु व्युत्थितो वा कस्मार्थ धर्मप्रकृतिं परिजानयित्वा ॥ १.११ ॥

एवं चरन्तु चरती सुगतान प्रज्ञां नो चापि सो लभति यत्र चराति धर्मम् ।
चरणं च सोऽचरणं च प्रजानयित्वा एषा स प्रज्ञवरपारमिताय चर्या ॥ १.१२ ॥


योऽसौ न विद्यति स एष अविद्यमानो तां बालु कल्पयि अविद्य करोति विद्याम् ।
विद्या अविद्य उभि एति असन्त धर्मा निर्याति यो इति प्रजानति बोधिसत्त्वो ॥ १.१३ ॥


मायोपमां य इह जानति पञ्च स्कन्धां न च माय अन्य न च स्कन्ध करोति अन्यान् ।
नानात्वसंज्ञविगतो उपशान्तचारी एषा स प्रज्ञवरपारमिताय चर्या ॥ १.१४ ॥


कल्याणमित्रसहितस्य विपश्यकस्य त्रासो न भेष्यति श्रुणित्व जिनान मात्राम् ।
यो पापमित्रसहितो च परप्रणेयो सो आमभाजन यथोदकस्पृष्ट भिन्नो ॥ १.१५ ॥


किं कारणमयु प्रवुच्यति बोधिसत्त्वो सर्वत्र सङ्गक्रिय इच्छति सङ्गछेदी ।
बोधिं स्पृशिष्यति जिनान असङ्गभूतां तस्माद्धि नाम लभते अयु बोधिसत्त्वो ॥ १.१६ ॥


महसत्त्व सोऽथ केनोच्यति कारणेन महताय अत्र अयु भेष्यति सत्त्वराशेः ।
दृष्टीगतां महति छिन्दति सत्त्वधातोः महसत्त्व तेन हि प्रवुच्यति कारणेन ॥ १.१७ ॥


महनायको महतबुद्धि महानुभावो महयान उत्तमजिनान समाधिरूढो ।
महता सनद्धु नमुचिं शठ धर्षयिष्ये महसत्त्व तेन हि प्रवुच्यति कारणेन ॥ १.१८ ॥


मायाकरो यथ चतुष्पथि निर्मिणित्वा महतो जनस्य बहु छिन्दति शीर्षकोटी ।
यथ ते च माय तथ जानति सर्वसत्त्वां निर्माणु सर्व जगतो न च तस्य त्रासो ॥ १.१९ ॥


रुपं च संज्ञ अपि वेदन चेतना च विज्ञान बन्धु न च मुक्त असङ्गभूतो ।
एवं च बोधि क्रमते न च लीनचित्तो संना ह एष वरपुद्गलौत्तमानाम् ॥ १.२० ॥


किं कारणमयु प्रवुच्यति बोधियानो यत्रारुहित्व स निर्वापयि सर्वसत्त्वान् ।
आकाशतुल्य अयु यान महाविमानो सुखसौख्यक्षेमभिप्रापणु यानश्रेष्ठो ॥ १.२१ ॥

न च लभ्यते य व्रजते दिश आरुहित्वा निर्वाणओकगमनं गति नोपलब्धिः ।
यथ अग्नि निर्वृतु न तस्य गतिप्रचारो सो तेन निर्वृति प्रवुच्यति कारणेन ॥ १.२२ ॥


पूर्वान्ततो न उपलभ्यति बोधिसत्त्वो अपरान्ततोऽपि प्रतिउपन्न त्रियध्वशुद्धो ।
यो शुद्ध सो अनभिसंस्कृतु निष्प्रपञ्चो एषा स प्रज्ञवरपारमिताय चर्या ॥ १.२३ ॥


यस्मिंश्च कालि समये विदु बोधिसत्त्वो एवं चरन्तु अनुपादु विचिन्तयित्वा ।
महतीं जनेति करुणां न च सत्त्वसंज्ञा एषा स प्रज्ञवरपारमिताय चर्या ॥ १.२४ ॥


सचि सत्त्वसंज्ञ दुखसंज्ञ उपादयाती हरिष्यामि दुःख जगतीं करिष्यामि अर्थम् ।
सो आत्मस(त्त्व) परिकल्पकु बोधिसत्त्वो न च एष प्रज्ञवरपारमिताय चर्या ॥ १.२५ ॥


यथ आत्मनं तथ प्रजानति सर्वसत्त्वां यथ सर्वसत्त्व तथ प्रजानति सर्वधर्मान् ।
अनुपादुपादु उभये अविकल्पमानो एषा स प्रज्ञवरपारमिताय चर्या ॥ १.२६ ॥


यावन्ति लोकि परिकीर्तित धर्मनाम सर्वेषुपादसमतिक्रमु निर्गमित्वा ।
अमृतं ति ज्ञानु परमं न तु यो परेण एकार्थ प्रज्ञ अयु पारमितेति नामा ॥ १.२७ ॥


एवं चरन्तु न च काङ्क्षति बोधिसत्त्वो ज्ञातव्य यो विहर ते स उपायप्रज्ञो ।
प्रकृतीअसन्त परिजानयमान धर्मामेषा स प्रज्ञवरपारमिताय चर्या ॥ १.२८ ॥



भगवत्यां रत्नगुणसंचयगाथायां सर्वाकारज्ञताचर्यापरिवर्तो नाम प्रथमः ॥


____________________________________________________________________________




रुपस्मि यो न स्थिहते न च वेदनायां संज्ञाय यो न स्थिहते न च चेतनायाम् ।
विज्ञानि यो न स्थिहते स्थितु धर्मतायामेषा स प्रज्ञवरपारमिताय चर्या ॥ २.१ ॥


नित्यमनित्यसुखदुःखशुभाशुभं ति आत्मन्यनात्मि तथता त(थ) शून्यतायाम् ।
फलप्राप्तिताय अथितो अरहन्तभूमौ प्रत्येकभूमिअथितो तथ बुद्धभूमौ ॥ २.२ ॥


यथ नायकोऽस्थितकु धातुअसंस्कृताया तथ संस्कृताय अथितो अनिकेतचारी ।
एवं च स्थानु अथितो स्थित बोधिसत्त्वो अस्थानु स्थानु अयु स्थानु जिनेन उक्तो ॥ २.३ ॥


यो इच्छती सुगतश्रावक हं भवेयं प्रत्येकबुद्ध भवियां तथ धर्मराजो ।
इमु क्षान्त्यनागमि न शक्यति प्रापुणेतुं यथ आरपारगमनाय अतीतदर्शी ॥ २.४ ॥


यो धर्म भाष्यति य भाष्यति भाष्यमाणां फलप्राप्त प्रत्ययजिनो तथ लोकनाथो ।
निर्वाणतो अधिगतो विदुपण्डितेहि सर्वे त आत्मज निदृष्ट तथागतेन ॥ २.५ ॥


चत्वारि पुद्गल इमे न त्रसन्ति येऽस्मिन् जिनपुत्र सत्यकुशलो अविवर्तियश्च ।
अर्हं विधूतमलक्लेश प्रहीणकाङ्क्षो कल्याणमित्रपरिपाचित यश्चतुर्थः ॥ २.६ ॥


एवं चरन्तु विदु पण्डितु बोधिसत्त्वो नार्हंमि शिक्षति न प्रत्ययबुद्धभूमौ ।
सर्वज्ञताय अनुशिक्षति बुद्धधर्मे शिक्षाअशिक्ष न य शिक्षति एष शिक्षा ॥ २.७ ॥


न च रुपवृद्धिपरिहाणिपरिग्रहाये न च शिक्षति विविधधर्मपरिग्रहाये ।
सर्वज्ञतां च परिगृह्णति शिक्षमाणो निर्यायती य इय शिक्ष गुणे रतानाम् ॥ २.८ ॥


रुपे न प्रज्ञ इति रुपि न अस्ति प्रज्ञा विज्ञान संज्ञ अपि वेदन चेतना च ।
न च एति प्रज्ञ इति तेष न अस्ति प्रज्ञा आकाशधातुसम तस्य न चास्ति भेदः ॥ २.९ ॥


आरम्बणान प्रकृती स अ(न)न्तपारा सत्त्वान या च प्रकृती स अनन्तपारा ।
आकाशधातुप्रकृती स अनन्तपारा प्रज्ञा पि लोकविदुनां स अनन्तपारा ॥ २.१० ॥


संज्ञेति नाम परिकीर्तितु नायकेन संज्ञां विभाविय प्रहाण व्रजन्ति पारम् ।
ये अत्र संज्ञविगममनुप्राप्नुवन्ति ते पारप्राप्त स्थित पारमिते हु भोन्ति ॥ २.११ ॥


सचि गङ्गवालुकसमानि स्थिहित्व कल्पां सत्त्वेति शब्द परिकीर्तयि नायकोऽयम् ।
सत्त्वस्युपादु कुतु भेष्यति आदिशुद्धो एषा स प्रज्ञवरपारमिताय चर्या ॥ २.१२ ॥


एवं जिनो भणति अप्रतिकूलभाणी यदहमिमाय वरपारमिताय आसी ।
तद व्याकृतोऽहु परापुरुषोत्तमेन बुद्धो भविष्यसि अनागतअध्वनस्मिन् ॥ २.१३ ॥



भगवत्यां रत्नगुणसंचयगाथायां शक्रपरिवर्तो नाम द्वितीयः ॥


____________________________________________________________________________




य इमां ग्रहीष्यति पर्यापुणती स नित्यं प्रज्ञाय पारमित यत्र चरन्ति नाथाः ।
विष वह्नि शस्त्र उदकं न क्रमाति तस्यो ओतारु मारु न च विन्दति मारपक्षो ॥ ३.१ ॥


परिनिर्वृतस्य सुगतस्य करेय्य स्तूपां पूजेय सप्तरतनामयु कश्चिदेव ।
तेहि प्रपूर्ण सिय क्षेत्रसहस्रकोट्यो यथ गङ्गवालिकसमैः सुगतस्य स्तूपैः ॥ ३.२ ॥


यावन्त सत्त्व पुन तान्तक क्षेत्रकोट्यो ते सर्वि पूजन करेयुरनन्तकल्पान् ।
दिव्येहि पुष्पवरगन्धविलेपनेहि कल्पांस्त्रियध्वपरिकल्प ततोऽपि भूयः ॥ ३.३ ॥


यश्चो इमां सुगतमात लिखित्व पुस्ते यत उत्पती दशबलान विनायकानाम् ।
धारेयि सत्करयि पुष्पविलेपनेहि कल पुण्य भोन्ति न स स्तूपि करित्व पूजाम् ॥ ३.४ ॥


महविद्य प्रज्ञ अयु पारमिता जनानां दुखधर्मशोकशमनी पृथुसत्त्वधातोः ।
येऽतीत येऽपि च दशद्दिश लोकनाथा इम विद्य शिक्षित अनुत्तरवैद्यराजाः ॥ ३.५ ॥


ये वा चरन्ति चरियां हितसानुकम्पामिह विद्यशिक्षित विदु स्पृशिष्यन्ति बोधिम् ।
ये सौख्य संस्कृत असंस्कृत ये च सौख्या सर्वे च सौख्य प्रसुता इतु वेदितव्याः ॥ ३.६ ॥


बीजाः प्रकीर्ण पृथिवीस्थित संभवन्ति सामग्रि लब्ध्व विरुहन्ति अनेकरुपाः ।
यावन्ति बोधिगुण पारमिताश्च पञ्च प्रज्ञाय पारमित ते विरुहन्ति सर्वे ॥ ३.७ ॥


येनैव राज व्रजते स ह चक्रवर्ती तेनैव सप्त रतना बलकाय सर्वे ।
येनैव प्रज्ञ इय पारमिता जिनानां तेनैव सर्वगुणधर्म समागमन्ति ॥ ३.८ ॥



भगवत्यां रत्नगुणसंचयगाथायामप्रमेयगुणधारणपारमितास्तूपसत्कारपरिवर्तो नाम तृतीयः ॥



____________________________________________________________________________




शक्रो जिनेन परिपृच्छितु प्रश्नमाहु सचि गङ्गवालिकसमा सिय बुद्धक्षेत्राः ।
जिनधातु सर्वि परिपूरित चूडिबद्धा इममेव प्रज्ञवरपारमिताहु गृह्णे ॥ ४.१ ॥


किं कारणं न मि शरीरि अगौरवत्वमपि तू खु प्रज्ञपरिभावित पूजयन्ति ।
यथ राजनिश्रित नरो लभि सर्वि पूजां तथ प्रज्ञपारमितनिश्रित बुद्धधातुः ॥ ४.२ ॥


मणिरत्न सर्वि गुणयुक्त अनर्घप्राप्तो यस्मिं करण्डकि भवे स नमस्यनीयः ।
तस्यापि उद्धृत स्पृहन्ति करण्डकस्मिं तस्यैव ते गुण महारतनस्य भोन्ति ॥ ४.३ ॥


एमेव प्रज्ञवरपारमितागुणानि यन्निर्वृतेऽपि जिनधातु लभन्ति पूजाम् ।
तस्मा हु तान् जिनगुणा(न्) परिघेत्तुकामो सो प्रज्ञपारमित गृह्णतु एष मोक्षो ॥ ४.४ ॥


पूर्वंगमा भवतु दानु ददन्तु प्रज्ञा शीले च क्षान्ति तथ वीर्य तथैव ध्याने ।
परिग्राहिका कुशलधर्मअविप्रणाशे एका च सा अपि निदर्शयि सर्वधर्मान् ॥ ४. ५ ॥


यथ जम्बुद्वीपि बहुवृक्षसहस्रकोटी नानाप्रकार विविधाश्च अनेकरूपाः ।
न वि छायनानतु भवेत विशेषतापि अन्यत्र छायगतसंख्य प्रभाषमाणा ॥ ४.६ ॥
एमेव पञ्च इमि पारमिता जिनानां प्रज्ञाय पारमित नामतया भवन्ति ।
सर्वज्ञताय परिणामयमाण सर्वे षडपीह एकनयमर्छति बोधिनामा ॥ ४.७ ॥



भगवत्यां रत्नगुणसंचयगाथायां गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः ॥



____________________________________________________________________________




सचि रूप संज्ञ अपि वेदन चेतनायां चित्तमनित्य परिणामयि बोधिसत्त्वो ।
प्र(ति)वर्णिकाय चरते अप्रजानमानो न हि धर्म पण्डित विनाश करोति जातु ॥ ५.१ ॥


यस्मिन्न रूप अपि वेदन चापि संज्ञा विज्ञान नैव न पि चेतनयोपलब्धिः ।
अनुपादु शून्य न य जानति सर्वधर्मानेषा स प्रज्ञवरपारमिताय चर्या ॥ ५.२ ॥


यावन्ति गङ्गनदिवालिकतुल्यक्षेत्रे तावन्ति सत्त्व अरहन्ति विनेय कश्चित् ।
यश्चैव प्रज्ञ इम पारमिता लिखित्वा परसत्त्वि पुस्तकु ददेय विशिष्टपुण्यः ॥ ५.३ ॥


किं कारणं त इह शिक्षित वादिश्रेष्ठा गमयन्ति धर्म निखिलानिह शून्यतायाम् ।
यां श्रुत्व श्रावक स्पृशन्ति विमुक्ति शीघ्रं प्रत्येकबोधि स्पृशयन्ति च बुद्धबोधिम् ॥ ५.४ ॥


असतोऽङ्कुरस्य द्रुमसंभवु नास्ति लोके कुत शाखपत्रफलपुष्पौपादु तत्र ।
विन बोधिचित्त जिनसंभवु नास्ति लोके कुत शक्रब्रह्मफल श्रावकप्रादुभावः ॥ ५.५ ॥


आदित्यमण्डलु यदा प्रभजाल मुञ्ची कर्मक्रियासु तद सत्त्व पराक्रमन्ति ।
तथ बोधिचित्त सद लोकविदुस्य ज्ञातो ज्ञानेन सर्वगुणधर्म समागमन्ति ॥ ५.६ ॥


यथ नोपतप्त असतो भुजगाधिपस्य कुत नद्यप्रस्रवु भवेदिह जम्बुद्वीपे ।
असता नदीय फलपुष्प न संभवेयुः न च सागराण रतना भवि नैकरूपाः ॥ ५.७ ॥


तथ बोधिचित्त असतीह तथागतस्य कुत ज्ञानप्रस्रवु भवेदिह सर्वलोके ।
ज्ञानस्य चो असति नास्ति गुणान वृद्धिः न च बोधि सागरसमा न च बुद्धधर्माः ॥ ५.८ ॥


यावन्ति लोकि क्वचि जोतिकप्राणभूता ओभासनार्थ प्रभ ओसरयन्ति सर्वे ।
वरसूर्यमण्डलविनिःसृत एकरश्मी न कला पि ज्योतिकगणे सिय सर्वआभाः ॥ ५.९ ॥



भगवत्यां रत्नगुणसंचयगाथायां पुण्यपर्यायपरिवर्तो नाम पञ्चमः ॥



____________________________________________________________________________



यावन्ति श्रावकगणाः प्रसवन्ति पुण्यं दानं च शीलमपि भावनसंप्रयुक्तम् ।
स हि बोधिसत्त्व अनुमोदन एकचित्ते न च सर्वश्रावकगणे सिय पुण्यस्कन्धो ॥ ६.१ ॥


ये बुद्धकोटिनियुता पुरिमा व्यतीता ये वा अनन्तबहुक्षेत्रसहस्रकोटयः ।
तिष्ठन्ति येऽपि परिनिर्वृत लोकनाथा देशन्ति धर्मरतनं दुखसंक्षयाय ॥ ६.२ ॥


प्रथममुपादु वरबोधयि चित्तुपादो यावत्सु धर्मक्षयकालु विनायकानाम् ।
एकस्मि तत्र चिय तेष जिनान पुण्यं सह युक्त पारमित येऽपि च बुद्धधर्माः ॥ ६.३ ॥


यश्चैव बुद्धतनयान(च) श्रावकाणां शैक्ष अशैक्ष कुशलास्रव नास्रवाश्च ।
परिपिण्डयित्व अनुमोदयि बोधिसत्त्वो सर्वं च नामयि जगार्थनिदान बोधि ॥ ६.४ ॥


परिणामयन्तु यदि वर्तति चित्तसंज्ञा तथ बोधिसत्त्वपरिणामन सत्त्वसंज्ञा ।
संज्ञाय दृष्टिस्थितु चित्त त्रिसङ्गयुक्तो परिणामितं न भवती उपलभ्यमानम् ॥ ६.५ ॥


सचि एव जानति निरुध्यति क्षीणधर्मा तच्चैत क्षीण परिणामयिष्यन्ति यत्र ।
न च धर्म धर्मि परिणामयते कदाचित्परिणामितं भवति एव प्रजानमाने ॥ ६.६ ॥


सचि सो निमित्त कुरुते न च मानयाति अथ आनिमित्त परिणामित भोन्ति बोधौ ।
विषसृष्ट भोजनु यथैव क्रियाप्रणीतो तथ शुक्लधर्मौपलम्भ जिनेन उक्तो ॥ ६.७ ॥


तस्मा हु नामपरिणामन शिक्षितव्या यथ ते जिना कुशल एव प्रजानयन्ति ।
यज्जातियोऽयं प्रभवो यदलक्षणं च अनुमोदमी तथ तथा परिणामयामि ॥ ६.८ ॥


एवं च पुण्य परिणामयमान बोधौ न च सो हि बुद्ध क्षिपते जिन उक्तवादी ।
यावन्ति लोकि उपलम्भिकबोधिसत्त्वा अभिभोन्ति सर्वि परिणामयमान शूरो ॥ ६.९ ॥



भगवत्यां रत्नगुणसंचयगाथायामनुमोदनापरिवर्तो नाम षष्ठमः ॥



____________________________________________________________________________




जात्यन्धकोटिनियुतान्यविउनायकानां मार्गे अकोविदु कुतो नगरप्रवेशे ।
विन प्रज्ञ पञ्च इमि पारमिता अचक्षुः अविनायका न प्रभवन्ति स्पृशेतु बोधिम् ॥ ७.१ ॥


यत्रान्तरस्मि भवते प्रगृहीत प्रज्ञा ततु लब्धचक्षु भवती इमु नामधेयम् ।
यथ चित्रकर्मपरिनिष्ठित चक्षुहीनो न च ताव पुण्यु लभते अकरित्व चक्षुः ॥ ७.२ ॥


यद धर्म संस्कृत असंस्कृत कृष्णशुक्लो अणुमात्रु नो लभति प्रज्ञ विभावमानः ।
यद प्रज्ञपारमित गच्छति संख्य लोके आकाश यत्र न प्रतिष्ठितु किंचि तत्र ॥ ७.३ ॥


सचि मन्यते अहु चरामि जिनान प्रज्ञां मोचिष्य सत्त्वनियुतां बहुरोगस्पृष्टान् ।
अयु सत्त्वसंज्ञपरिकल्पकु बोधिसत्त्वो न च एष प्रज्ञवरपारमिताय चर्या ॥ ७.४ ॥


यो बोधिसत्त्व वरपारमितेति चीर्णो परिचारिका य न च काङ्क्षति पण्डितेहि ।
सह श्रुत्व तस्य पुन भेष्यति शास्तृसंज्ञा सो वा लघू अनुबुधिष्यति बोधि शान्ताम् ॥ ७.५ ॥


सत्कृत्य बुद्धनियुतां परिचारिकायां न च प्रज्ञपारमित श्रद्दधिता जिनानाम् ।
श्रुत्वा च सो इमु क्षिपिष्यति सोऽल्पबुद्धिः स क्षिपित्व यास्यति अवीचिमत्राणभूतो ॥ ७.६ ॥


तस्मा हु श्रद्दधत एव जिनान मातां यदि इच्छथा स्पृशितु उत्तमबुद्धज्ञानम् ।
सो वाणिजो यथ व्रजित्वन रत्नद्वीपं मूलातु छेदन करित्व पुन आगमेया ॥ ७.७ ॥



भगवत्यां रत्नगुणसंचयगाथायां निरयपरिवर्तो नाम सप्तमः ॥



____________________________________________________________________________




रूपस्य शुद्धि फलशुद्धित वेदितव्या फलरूपशुद्धित सर्वज्ञतशुद्धिमाहुः ।
सर्वज्ञताय फलशुद्धित रूपशुद्धी आकाशधातुसमताय अभिन्नछिन्नाः ॥ ८.१ ॥


त्रैधातुकं समतिक्रान्त न बोधिसत्त्वा क्लेशापनीत उपपत्ति निदर्शयन्ति ।
जरव्याधिमृत्युविगताश्च्युति दर्शयन्ति प्रज्ञाय पारमित यत्र चरन्ति धीराः ॥ ८.२ ॥


नामेव रूपि जगती अयु पङ्कसक्ता संसारचक्रि भ्रमतेऽनिलचक्रतुल्ये ।
जानित्व भ्रान्तु जगती मृगवागुरेव आकाश पक्षिसदृशा विचरन्ति प्रज्ञाः ॥ ८.३ ॥


रूपस्मि यो न चरते परिशुद्धचारी विज्ञान संज्ञ अपि वेदन चेतनायाम् ।
एवं चरन्तु परिवर्जयि सर्वसङ्गां सङ्गाद्विमुच्य चरते सुगतान प्रज्ञाम् ॥ ८.४ ॥



भगवत्यां रत्नगुणसंचयगाथायां विशुद्धिपरिवर्तो नामाष्टमः ॥



____________________________________________________________________________




एवं चरन्तु विदु पण्डितु बोधिसत्त्वो सङ्गा उछिन्नु व्रजते जगती असक्तो ।
सूर्यो व राहुग्रहमुक्त विरोचमानो अग्नीव युक्त तृणकाष्ठवनं दहाति ॥ ९.१ ॥


प्रकृतीय शुद्ध परिशुद्धिमि सर्वधर्मां प्रज्ञाय पारमित पश्यति बोधिसत्त्वो ।
न च पश्यकं लभति नापि च सर्वधर्मानेषा स प्रज्ञवरपारमिताय चर्या ॥ ९.२ ॥



भगवत्यां रत्नगुणसंचयगाथायां स्तुतिपरिवर्तो नाम नवमः ॥



____________________________________________________________________________




शक्रो जिनस्य परिपृच्छति देवराजो चरमाण प्रज्ञ कथ युज्यति बोधिसत्त्वो ।
अणुमात्र यो न खलु युज्यति स्कन्धधातौ यो एव युज्यति(स युज्यति)बोधिसत्त्वः ॥ १०.१ ॥


चिरयानप्रस्थितु स वेदयितव्य सत्त्वो बहुबुद्धकोटिनयुतेहि कृताधिकारो ।
यो श्रुत्व धर्मि इमि निर्मितमायकल्पां न च काङ्क्षते अयु प्रयुज्यति शिक्षमाणः ॥ १०.२ ॥


कान्तारमार्गि पुरुषो बहु(भी)जनेहि गोपाल सीम वनसंपद पश्यते यो ।
आश्वासप्राप्त भवती न च तस्य त्रासो अभ्याश ग्रामनगराण इमे निमित्ताः ॥ १०.३ ॥


एमेव प्रज्ञवरपारमिता जिनानां शृणु तात यो लभति बोधि गवेषमाणः ।
आश्वासप्राप्त भवती न च तस्य त्रासो नार्हन्तभूमि न पि प्रत्ययबुद्धभूमी ॥ १०.४ ॥


पुरुषो हि सागरजलं व्रजि पश्यनाय सचि पश्यते द्रुमवनस्पतिशैलराजम् ।
अथवा न पश्यति निमित्त निकाङ्क्ष भोति अ(भ्याश)तो महसमुद्र न सोऽतिदूरे ॥ १०.५ ॥


एमेव बोधिवरप्रस्थितु वेदितव्यो श्रुणमाण प्रज्ञ इमि पारमिता जिनानाम् ।
यद्यापि संमुख न व्याकृतु नायकेनो तथपि स्पृशिष्यति नचिरेण हु बुद्धबोधिम् ॥ १०.६ ॥


सुवसन्ति कालि पतिते तृणपत्रशाखा नचिरेण पत्रफलपुष्प समागमन्ति ।
प्रज्ञाय पारमित यस्यिमु हस्तप्राप्ता नचिरेण बोधिवर प्राप्स्यति नायकानाम् ॥ १०.७ ॥


यथ इस्त्रि गुर्विणि य चेष्टति वेदनाभि ज्ञातव्यु कालु अयमस्य प्रजायनाय ।
तथ बोधिसत्त्व श्रुणमाणु जिनान प्रज्ञां रति छन्द वीक्षति स्पृशिष्यति बोधि शीघ्रम् ॥ १०.८ ॥


चरमाणु प्रज्ञवरपारमिताय योगी न च रूपवृद्धि न च पश्यति पारिहाणिम् ।
धर्मा अधर्म इमु पश्यति धर्मधातुं न च निर्वृतिं स्पृशति सो विहराति प्रज्ञाम् ॥ १०.९ ॥


चरमाणु यो न इह कल्पयि बुद्धधर्मां बल ऋद्धिपाद न च कल्पयि बोधि शान्ताम् ।
अविकल्पकल्पविगतोऽधिष्ठानचारी एषा स प्रज्ञवरपारमिताय चर्या ॥ १०.१० ॥



भगवत्यां रत्नगुणसंचयगाथायां धारणीगुणपरिवर्तो नाम दशमः ॥


____________________________________________________________________________



बुद्धं सुभूति परिपृच्छति वादिचन्द्रं क्यन्तन्तरायु भविष्यन्ति गुणे रतानाम् ।
बहु अन्तरायु भविष्यन्ति भणाति शास्त ततु अल्पमात्र परिकीर्तयिष्यामि तावत् ॥ ११.१ ॥


प्रतिभान नेक विविधानि उपपद्यिष्यन्ति लिखमान प्रज्ञ इमु पारमिता जिनानाम् ।
युत शीघ्र विद्युत यथा परिहायिष्यन्ति अकरित्व अर्थ जगती इमु मारकर्म ॥ ११.२ ॥


काङ्क्षा च केषचि भविष्यति भाषमाणे न ममात्र नाम परिकीर्तितु नायकेन ।
न च जाति भूमि परिकीर्तितु नापि गोत्रं न च सो श्रुणिष्यति क्षिपिष्यति मारकर्म ॥ ११.३ ॥


एवं त मूलमपहाय अजानमानो शाखापलाश परिएषयिष्यन्ति मूढाः ।
हस्तिं लभित्व यथ हस्तिपदं गवेषे तथ प्रज्ञपारमित श्रुत्व सूत्रान्त एषेत् ॥ ११.४ ॥


यथ भोजनं शतरसं लभियान कश्चित्मार्गेषु षष्टिकु लभित्व स भोजनाग्र्यम् ।
तथ बोधिसत्त्व इम पारमितां लभित्वा (अ)र्हन्तभूमि(त) गवेषयिष्यन्ति बोधिम् ॥ ११.५ ॥


सत्कारकाम भविष्यन्ति च लाभकामाः सापेक्षचित्त कुलसंस्तवसंप्रयुक्ताः ।
छोरित्व धर्म करिष्यन्ति अधर्मकार्यं पथ हित्व उत्पथगता इम मारकर्म ॥ ११.६ ॥


ये चापि तस्मि समये इमु धर्म श्रेष्ठं श्रुणनाय छन्दिक उत्पादयिष्यन्ति श्रद्धाम् ।
ते धर्मभाणक विदित्वन कार्ययुक्तं प्रेमापनीत गमिष्यन्ति सुदुर्मनाश्च ॥ ११.७ ॥


इमि मारकर्म भविष्यन्ति य तस्मि काले अन्ये च नेक विविधा बहु अन्तराया ।
येही समाकुलिकृता बहु भिक्षु तत्र प्रज्ञाय पारमित एतु न धारयन्ति ॥ ११.८ ॥

ये ते भवन्ति रतना य अनर्घप्राप्ता ते दुर्लभा बहुप्रत्यर्थिक नित्यकालम् ।
एमेव प्रज्ञवरपारमिता जिनानां दुर्लाभु धर्मरतनं बद्दुपद्रवं च ॥ ११.९ ॥


नवयानप्रस्थित स सत्त्व परीत्तबुद्धिः य इमं दुर्लाभु धर्मरतनं परापुणन्ति ।
मारोऽत्र उत्सुकु भविष्यति अन्तराये बुद्धा दशद्दिशि परिग्रहसंप्रयुक्ताः ॥ ११.१० ॥



भगवत्यां रत्नगुणसंचयगाथायां मारकर्मपरिवर्तो नामैकादशमः ॥


____________________________________________________________________________





मात्राय पुत्र बहु सन्ति गिलानि काये ते सर्वि दुर्मनस तत्र प्रयुज्ययेयुः ।
एमेव बुद्ध(पिं) दशद्दिशि लोकधातौ इम प्रज्ञपारमित मात्र समन्वाहरन्ति ॥ १२.१ ॥


येऽतीत येऽपि च दशद्दिशि लोकनाथा इतु ते प्रसूत भविष्यन्त्यनागताश्च ।
लोक(स्य) दर्शिक जनेत्रि जिनान माता परसत्त्वचित्तचरितान निदर्शिता(का) च ॥ १२.२ ॥


लोकस्य या तथत या तथतार्हतानाम् । प्रत्येकबुद्धतथता तथता जिनानाम् ।
एकैव भावविगता तथता अनन्या प्रज्ञाय पारमित बुद्ध तथागतेन ॥ १२.३ ॥


तिष्ठन्तु लोकविदुनां परिनिर्वृतानां [स्थित एष धर्मतनियाम शून्यधर्मा ।
तां बोधिसत्त्व तथतामनुबुद्धयन्ति तस्मा हु बुद्ध कृत नाम तथागतेभिः ॥ १२.४ ॥


अयु गोचरो दशबलान विनायकानां] प्रज्ञाय पारमित रम्यवनाश्रितानाम् ।
दुखितांश्च सत्त्व त्रिअपाय समुद्धरन्ति न पि सत्त्वसंज्ञ अपि तेषु कदाचि भोति ॥ १२.५ ॥


सिंहो यथैव गिरिकन्दरि निश्रयित्वा नदते अछम्भि मृग क्षुद्रक त्रासयन्तो ।
तथ प्रज्ञपारमितनिश्रय नराण सिंहो नदते अछम्भि पृथुतीर्थिक त्रासयन्तो ॥ १२.६ ॥


आकाशनिश्रित यथैव हि सूर्य[रश्मि] तापेतिमां धरणि दर्शयते च रूपम् ।
तथ प्रज्ञपारमितनिश्रित धर्मराजो तापेति तृष्णनदि धर्म निदर्शयाति ॥ १२.७ ॥


रूपस्य दर्शनु अदर्शनु वेदनाये संज्ञाय दर्शनु अदर्शनु चेतनाये ।
विज्ञानचित्तमनुदर्शनु यत्र नास्ति अय धर्मदर्शनु निदिष्टु तथागतेन ॥ १२.८ ॥


आकाश दृष्टु इति सत्त्व प्रव्याहरन्ति नभदर्शनं कुतु विमृष्यथ एतमर्थम् ।
तथ धर्मदर्शनु निदिष्ट तथागतेन न हि दर्शनं भणितु शक्य निदर्शनेन ॥ १२.९ ॥



भगवत्यां रत्नगुणसंचयगाथायां लोकसंदर्शनपरिवर्तो नाम द्वादशमः ॥



____________________________________________________________________________




यो एव पश्यति स पश्यति सर्वधर्मान् सर्वानमात्यकिरिया ति उपेक्ष्य राजा ।
यावन्ति बुद्धक्रिय धर्मत श्रावकाणां प्रज्ञाय पारमित सर्व करोति तानि ॥ १३.१ ॥


न च राज ग्राम व्रजते न च राज्यराष्ट्रान् सर्वं च आददति सो विषयातु आयम् ।
न च बोधिसत्त्व चलते क्वचि धर्मतायां सर्वांश्च आददति ये गुण बुद्धधर्मे ॥ १३.२ ॥



भगवत्यां रत्नगुणसंचयगाथायामचिन्त्यपरिवर्तो नाम त्रयोदशमः ॥



____________________________________________________________________________




यस्यामि श्रद्ध सुगते दृढ बोधिसत्त्वो वरप्रज्ञपारमितआशयसंप्रयोगो ।
अतिक्रम्य भूमिद्वय श्रावकप्रत्ययानां लघु प्राप्स्यते अनभिभू(तु) जिनान बोधिम् ॥ १४.१ ॥


सामुद्रियाय यथ नावि प्रलुप्तिकाये भृतकं मनुष्य तृणकाष्ठमगृह्णमानो ।
विलयं प्रयाति जलमध्य अप्राप्ततीरो यो गृह्णते व्रजति पारस्थलं प्रयाति ॥ १४.२ ॥


एमेव श्रद्धसंगतो य प्रसादप्राप्तो प्रज्ञाय पारमित मात्र विवर्जयन्ति ।
संसारसागर तदा सद संसरन्ति जातीजरामरणशोकतरंगभङ्गे ॥ १४.३ ॥


ये ते भवन्ति वरप्रज्ञपरिगृहीता भावस्वभावकुशला परमार्थदर्शी ।
ते पुण्यज्ञानधनसंभृतयानपात्राः परमाद्भुतां सुगतबोधि स्पृशन्ति शीघ्रम् ॥ १४.४ ॥


घटके अपक्वि यथ वारि वहेय काचित्ज्ञातव्यु क्षिप्र अयु भेत्स्यति दुर्बलत्वात् ।
परिपक्वि वारि घटके वहमानु मार्गे न च भेदनाद्भयमुपैति च स्वस्ति गेहम् ॥ १४.५ ॥


किंचापि श्रद्धबहुलो सिय बोधिसत्त्वो प्रज्ञाविहीन विलयं लघु प्रापुणाति ।
तं चैव श्रद्ध परिगृह्णयमान प्रज्ञा अतिक्रम्य बोधिद्वय प्राप्स्यति अग्रबोधिम् ॥ १४.६ ॥


नावा यथा अपरिकर्मकृता समुद्रे विलयमुपैति सधना सह वाणिजेभिः ।
सा चैव नाव परिकर्मकृता सुयुक्ता न च भिद्यते धनसमग्रमुपैति तीरम् ॥ १४.७ ॥


एमेव श्रद्धपरिभावितु बोधिसत्त्वो प्रज्ञाविहीनु लघु बोधिमुपैति हानिम् ।
सो चैव प्रज्ञवरपारमितासुयुक्तोऽक्षतोऽनुपाहतु स्पृशाति जिनान बोधिम् ॥ १४.८ ॥


पुरुषो हि जीर्ण दुखितो शतविंशवर्षो किंचापि उत्थितु स्वयं न प्रभोति गन्तुम् ।
सो वामदक्षिणद्वये पुरुषे गृहीते पतनाद्भयं न भवते व्रजते सुखेन ॥ १४.९ ॥


एमेव प्रज्ञ इह दुर्बलु बोधिसत्त्वो किंचापि प्रस्थिहति भज्यति अन्तरेण ।
सो वा उपायबलप्रज्ञपरिगृहीतो न च भज्यते स्पृशति बोधि नरर्षभाणाम् ॥ १४.१० ॥



भगवत्यां रत्नगुणसंचयगाथायामौपम्यपरिवर्तो नाम चतुर्दशमः ॥



____________________________________________________________________________




यो आदिकर्म स्थितु भूमिय बोधिसत्त्वो अध्याशयेन वर प्रस्थित बुद्धबोधिम् ।
तेही सुशिष्यगुरुगौरवसंप्रयुक्तो कल्याणमित्र सद सेवयितव्य विज्ञैः ॥ १५.१ ॥


किं कारणं ततु गुणागमु पण्डितानां प्रज्ञाय पारमित ते अनुशासयन्ति ।
एवं जिनो भणति सर्वगुणाग्रधारी कल्याणमित्रमुपनिश्रित बुद्धधर्माः ॥ १५.२ ॥


दानं च शीलमपि क्षान्ति तथैव वीर्यं ध्यानानि प्रज्ञ परिणामयितव्य बोधौ ।
न च बोधिस्कन्ध विमृशित्व परामृशेया ये आदिकर्मिक न देशयितव्य एवम् ॥ १५.३ ॥


एवं चरन्त गुणसागर वादिचन्द्राः त्राणा भवन्ति जगती शरणा च लेना ।
गति बुद्धि द्वीप परिणायक अर्थकामाः प्रद्योत उल्क वरधर्मकथी अक्षोभ्याः ॥ १५.४ ॥


संनाहु दुष्करू महायशु संनहन्ती न च स्कन्धधातु न च आयतनैः सनद्धाः ।
त्रिभि यानसंज्ञविगता अपरिगृहीता अविवर्तिका अचलिताश्च अकोप्यधर्माः ॥ १५.५ ॥


ते एव धर्मसमुदागत निष्प्रपञ्चा काङ्क्षाविलेखविमतीविगतार्थयुक्ताः ।
प्रज्ञाय पारमित श्रुत्व न सीदयन्ति अपरप्रणेय अविवर्तिय वेदितव्याः ॥ १५.६ ॥


गम्भीर धर्म अयु दुर्दृशु नायकानां न च केनचीदधिगतो न च प्रापुणन्ति ।
एतार्थु बोधिमधिगम्य हितानुकम्पी अल्पोत्सुको क इमु ज्ञास्यति सत्त्वकायो ॥ १५.७ ॥


सत्त्वश्च आलयरतो विषयाभिलाषी स्थित अग्रहे अबुध यो महअन्धभूतो ।
धर्मो अनालयु अनाग्रहु प्रापितव्यो लोकेन सार्ध अयु विग्रहु प्रादुभूतो ॥ १५.८ ॥



भगवत्यां रत्नगुणसंचयगाथायां देवपरिवर्तो नाम पञ्चदशमः ॥


____________________________________________________________________________




आकाशधातु पुरिमादिशि दक्षिणायां तथ पश्चिमोत्तरदिशाय अनन्तपारा ।
उपराधराय दशद्दिशि यावदस्ति नानात्वता न भवते न विशेषप्राप्ता ॥ १६.१ ॥


अतिक्रान्त या तथत या तथता अप्राप्ता प्रत्युत्पन्न या तथत या तथतार्हतानाम् ।
या सर्वधर्मतथता तथतार्हतानां सर्वेष धर्मतथता न विशेषप्राप्ता ॥ १६.२ ॥


यो बोधिसत्त्व इमि इच्छति प्रापुणेतुं नानात्वधर्मविगतां सुगतान बोधिम् ।
प्रज्ञाय पारमित युज्यतु याय युक्तो विन प्रज्ञ नास्त्यधिगमो नरनायकानाम् ॥ १६.३ ॥


पक्षिस्य योजनशतं महतात्मभावो पञ्चाशता पि अबलोभयक्षीणपक्षो ।
सो त्रायत्रिंशभवनादिषु जम्बुद्वीपे आत्मानमोसरियि तं विलयं व्रजेय्या ॥ १६.४ ॥


यद्यापि पञ्च इम पारमिता जिनानां बहुकल्पकोटिनियुतां समुदानयेय्या ।
प्रणिधीननन्तविपुलां सद सेव्य लोके अनुपाय प्रज्ञविकला परि श्रावकत्वे ॥ १६.५ ॥


निर्यायनाय य इच्छति बुद्धज्ञाने समचित्त सर्वजगती पितृमातृसंज्ञा ।
हितचित्त मैत्रमन एव पराक्रमेय्या अखिलार्जवो मृदुगिराय पराक्रमेय्या ॥ १६.६ ॥



भगवत्यां रत्नगुणसंचयगाथायां तथतापरिवर्तो नाम षोडशमः ॥


____________________________________________________________________________




स्थविरो सुभूति परिपृच्छति लोकनाथमरणाय लिङ्ग भणही गुणसागराणाम् ।
अविवर्तिया यथ भवन्ति महानुभावा तां व्याकुरुष्व जिनगुणान प्रदेशमात्रम् ॥ १७.१ ॥


नानात्वसंज्ञविगता गिर युक्तभाणी न च अन्य ते श्रमण ब्राह्मण आश्रयन्ति ।
त्रियपायवर्जित विदू सदकालि भोन्ति दशभिश्च ते कुशलकर्मपथेभि युक्ता ॥ १७.२ ॥


धर्मं निरामिषु जगस्यनुशासयन्ति एकान्तधर्मनियताः सद स्निग्धवाक्याः ।
स्थितिचंक्रमं शयनिषद्य सुसंप्रजाना युगमात्रप्रेक्षिण व्रजन्त्यभ्रान्तचिन्ता ॥ १७.३ ॥


शुचिशौचअम्बरधरा त्रिविवेकशुद्धा न च लाभकाम वृषभा सद धर्मकामाः ।
मारस्यतीतविषया अपरप्रणेया चतुध्यानध्यायि न च निश्रित तत्र ध्याने ॥ १७.४ ॥


न च कीर्तिकाम न च क्रोधपरीतचित्ता गृहिभूत नित्य अनध्योषित सर्व वस्तुं ।
न च जीविकाविषयभोग गवेषयन्ति अभिचारमन्त्र न च इस्त्रिप्रयोगमन्त्राः ॥ १७.५ ॥


न च आदिशन्ति पुरुषैः स्त्रिय इच्छकर्मां प्रविविक्त प्रज्ञवरपारमिताभियुक्ताः ।
कलहाविवादविगता दृढमैत्रचित्ता सर्वज्ञकाम सद शासनि निम्नचित्ताः ॥ १७.६ ॥


प्रत्यन्तम्लेच्छजनवर्जितअन्तदेशाः स्वकभूमि काङ्क्षविगताः सद मेरुकल्पाः ।
धर्मार्थ जीवित त्यजन्ति प्रयुक्तयोगा अविवर्तियान इमि लिङ्ग प्रजानितव्या ॥ १७.७ ॥



भगवत्यां रत्नगुणसंचयगाथायामविनिवर्तनीयलिङ्गाकारपरिवर्तो नाम सप्तदशमः ॥


____________________________________________________________________________




गम्भीर रुप अपि वेदन चेतना च विज्ञान संज्ञ प्रकृती अनिमित्तशान्ता ।
काण्डेन गाध यथ सागरि एषमाणो प्रज्ञाय स्कन्ध विमृषित्व अलब्धगाधा ॥ १८.१ ॥


यो बोधिसत्त्व इमु बुध्यति एव धर्मां गम्भीरयानपरमार्थनिरुपलेपान् ।
यस्मिन्न स्कन्ध न पि आयतनं न धातु किं वा स्वपुण्यसमुदागमु किंचि तस्य ॥ १८.२ ॥


यथ रागधर्मचरितः पुरुषः स्त्रियाये संकेत कृत्व अलभन्तु विवर्तयेया ।
यावन्ति चित्तचरिता दिवसेन तस्य तावन्त कल्प अनुबुध्यति बोधिसत्त्वो ॥ १८.३ ॥


यो बोधिसत्त्व बहुकल्पसहस्रकोटयो दानं ददेयु विमलं तथ शील रक्षे ।
यश्चैव प्रज्ञवरपारमिताप्रयुक्तो धर्मं भणेय कल पुण्य न दानशीले ॥ १८.४ ॥


यो बोधिसत्त्व वरप्रज्ञ विभावयन्तो तत उत्थितो कथयि धर्म निरुपलेपम् ।
तं चापि नामयि जगार्थनिदान बोधौ नास्ति त्रिलोक शुभ तेन समं भवेया ॥ १८.५ ॥


तं चैव पुण्य पुन ख्यायति रिक्तमेव तथ शून्य तुच्छ वशिकं च असारकं च ।
एवं चरन्तु चरती सुगतान प्रज्ञां चरमाणु पुण्यु परिगृह्णति अप्रमेयम् ॥ १८.६ ॥

अभिलापमात्र इम जानति सर्वधर्मां बुद्धेन देशित प्रयुक्त प्रकाशितांश्च ।
कल्पान कोटिनयुतां बहु भाषमाणो न च क्षीयते न च विवर्धति धर्मधातुः ॥ १८.७ ॥


ये चापि पञ्च इमि पारमिता जिनानामेतेऽपि धर्म परिकीर्तित नाममात्राः ।
परिणामयाति न च मन्यति बोधिसत्त्वो न च हीयते स्पृशति उत्तमबुद्धबोधिम् ॥ १८.८ ॥



भगवत्यां रत्नगुणसंचयगाथायां शून्यतापरिवर्तो नामाष्टादशमः


____________________________________________________________________________




तैलस्य वर्ति ज्वलिता प्रथमे निपाते न च दग्ध वर्ति असता न विना य दग्धा ।
न हि अर्चि पश्चिमनिपात स वर्ति दग्धा असता पि पश्चिम न दह्यति दीपवर्ति ॥ १९.१ ॥


प्रथमेव चित्त स्पृशती न च अग्रबोधिमसता न तस्य स्पृशता पुन शक्य भोन्ति ।
न च चित्त पश्चिम शिवामनुप्रापुणाति असता न तस्य पुन प्रापणनाय शक्यम् ॥ १९.२ ॥


बीजातु स्तम्ब फल पुष्प समागमन्ति सो वानिरुद्ध असतो न हि तस्य वृक्षो ।
एमेव चित्त प्रथमं तु निदान बोधेः सो वा निरुद्ध असतो न हि तस्य बोधिः ॥ १९.३ ॥


बीजं प्रतीत्य च भवेद्यवशालिकादेस्तत्तत्फलं न च तदस्ति न चापि नास्ति ।
उत्पत्तितो भवति बोधिरियं जिनानां भावस्वभावविगता भवतीह माया ॥ १९.४ ॥


उदकबिन्दु कुम्भ परिपूर्यति स्तोकस्तोकं प्रथमे निपाति अनुपूर्व स पश्चिमेन ।
एमेव चित्त प्रथमं वरबोधिहेतुरनुपूर्व शुक्लगुणपूर्ण भवन्ति बुद्धाः ॥ १९.५ ॥


शून्यानिमित्तप्रणिधिं चरमाणु धर्मा न च निर्वृतिं स्पृशति नो च निमित्तचारी ।
यथ नाविको कुशल गच्छति आरपारमुभयान्ति अस्थितु न तिष्ठति अर्णवेस्मिन् ॥ १९.६ ॥


एवं चरन्तु न च मन्यति बोधिसत्त्वो अहु व्याकृतो दशबलेहि स्पृशेय बोधिम् ।
न च त्रासु बोधि भवते न इहास्ति किंचिदेवं चरन्तु चरती सुगतान प्रज्ञाम् ॥ १९.७ ॥


कान्तारमार्गि दुरभिक्षि सव्याधि लोकां पश्यित्व नास्ति भय उत्तरि संनहन्ते ।
अपरान्तकोटि सद युक्त प्रजानमानो अणुमात्र खेद मनसो न उपादियाति ॥ १९.८ ॥



भगवत्यां रत्नगुणसंचयगाथायां गङ्गदेवाभगिनीपरिवर्तो नामैकान्नविंशतिमः ॥



____________________________________________________________________________



पुन बोधिसत्त्व चरमाणु जिनान प्रज्ञामनुपाद स्कन्ध इमि जानति आदिशून्यान् ।
असमाहितो करुण प्रेक्षति सत्त्वधातुमत्रान्तरे न परिहायति बुद्धधर्मान् ॥ २०.१ ॥


पुरुषो यथा कुशल सर्वगुणैरुपेतो बलवान् दुधर्षु कृतयोग्य कलाविधिज्ञो ।
इष्वस्त्रपारमिगतो पृथुशिल्पयुक्तो मायाविधिज्ञपरमो जगदर्थकामो ॥ २०.२ ॥


माता पिता च परिगृह्य सपुत्रदारं कान्तारमार्गि प्रतिपद्य बहूअमित्रो ।
सो निर्मिणित्व पुरुषान् बहु शूरवीरान् क्षेमेण गत्व पुन गेहमुपागमेय्या ॥ २०.३ ॥


एमेव यस्मि समये विदु बोधिसत्त्वो महमैत्रि सर्वि उपबन्धति सत्त्वधातौ ।
चतुरो स मार अतिक्रम्य द्वये च भूमिमस्मिन् समाधि स्थितु नो च स्पृशाति बोधिम् ॥ २०.४ ॥


आकाशनिश्रित समीरण आपस्कन्धो त हि निश्रिता इह महापृथिवी जगच्च ।
सत्त्वान कर्मौपभोगनिदानमेव आकाशस्थानु कुतु चिन्तयि एतमर्थम् ॥ २०.५ ॥


एमेव शून्यतप्रतिष्ठितु एष सत्त्वो जगति क्रियां विविध दर्शयते विचित्राम् ।
सत्त्वान ज्ञानप्रणिधानअधिष्ठानमेव न च निर्वृतिं स्पृशति शून्यत नास्ति स्थानम् ॥ २०.६ ॥


यस्मिंश्च कालि विदु पण्डितु बोधिसत्त्वो चरती इमां प्रवर शून्य समाधि शान्ताम् ।
अत्रान्तरे न च निमित्त प्रभावितव्यो न च आनिमित्तस्थितु शान्त प्रशान्तचारी ॥ २०.७ ॥


पक्षिस्य नास्ति पदु गच्छत अन्तरीक्षे नो चापि तत्र स्थितु नो च पताति भूमौ ।
तथ बोधिसत्त्व चरमाणु विमोक्षद्वारे न च निर्वृतिं स्पृशति नो च निमित्तचारी ॥ २०.८ ॥


इष्वस्त्रशिक्षित यथा पुरुषोध काण्डं क्षेपित्व अन्य पुन काण्ड परस्परेण ।
पतनाय तस्य पुरिमस्य न देय भूमिमाकाङ्क्षमाण पुरुषस्य पतेय काण्डम् ॥ २०.९ ॥


एमेव प्रज्ञवरपारमितां चरन्तो प्रज्ञा उपाय बल ऋद्धि विचारमाणो ।
तावन्न तां परमशून्यत प्रापुणोति यावन्न ते कुशलमूल भवन्ति पूर्णाः ॥ २०.१० ॥


भिक्षू यथा परमऋद्धिबलेनुपेतो गगने स्थितो यमक कुर्वति प्रातिहार्यां ।
गतिचंक्रमं शयनिषद्य निदर्शयाति न निवर्तते न पि च खिद्यति याव तत्र ॥ २०.११ ॥


एमेव शून्यतस्थितो विदु बोधिसत्त्वो ज्ञानर्द्धिपारमिगतो अनिकेतचारी ।
विविधां क्रियां जगति दर्शयते अनन्तां न च भज्यती न पि च खिद्यति कल्पकोटी ॥ २०.१२ ॥

पुरुषा यथा महप्रपाति स्थिहित्व केचिदुभि पाणि छत्रद्वय गृह्ण उपक्षयेय्या ।
आकालि वायुरवसृज्य महाप्रपाते नो च प्रपात पतियाति न याव तत्र ॥ २०.१३ ॥


एमेव स्थित्व करुणां विदु बोधिसत्त्वो प्रज्ञाउपायद्वयछत्रपरिगृहीतो ।
शून्यानिमित्तप्रणिधिं विमृषाति धर्मान्न च निर्वृतिं स्पृशति पश्यति धर्मचारी ॥ २०.१४ ॥


रतनार्थिको यथ व्रजित्वन रत्नद्वीपं लब्ध्वान रत्न पुन गेहमुपागमेय्या ।
किंचापि तत्र सुख जीवति सार्थवाहो अपि दुःखितो मनसि भोति स जातिसंघो ॥ २०.१५ ॥


एमेव शून्यत व्रजित्वन रत्नद्वीपं लब्ध्वान ध्यान बल इन्द्रिय बोधिसत्त्वो ।
किंचापि निर्वृति स्पृशेदभिनन्दमानो अपि सर्वसत्त्व दुखिता मनसी भवन्ति ॥ २०.१६ ॥


अभ्यन्तरे य नगरे निगमे च ग्रामे कामार्थ वाणिजु यथा गमि जाननाय ।
नो चापि तत्र स्थिहती न च रत्नद्वीपे न च गेह मार्गि कुशलो पुन भोति विज्ञो ॥ २०.१७ ॥


तथ ज्ञान श्रावकविमुक्तिसप्रत्ययानां सर्वत्र भोति कुशलो विदु बोधिसत्त्वो ।
नो चापि तत्र स्थिहते न च बुद्धज्ञाने न च संस्कृते भवति मार्गविदू विधिज्ञो ॥ २०.१८ ॥


यं कालि मैत्रि जगती अनुबन्धयित्वा शून्यानिमित्तप्रणिधी चरते समाधिम् ।
अस्थानमेव यदि निर्वृति प्रापुणेया अथवापि संस्कृत स प्रज्ञपनाय शक्यः ॥ २०.१९ ॥


यथ निर्मितो पुरुष नो व अदृश्यकायो नामेन वा पुन स प्रज्ञपनाय शक्यः ।
तथ बोधिसत्त्व चरमाणु विमोक्षद्वारं नामेन वा पुन स प्रज्ञपनाय शक्यः ॥ २०.२० ॥


यदि पृच्छमान चरि इन्द्रिय बोधिसत्त्वो गम्भीरधर्मपरिदीपन नो करोति ।
शून्यानिमित्त अविवर्तियबोधिधर्मां न च शोचती न च स व्याकृतु वेदितव्यो ॥ २०.२१ ॥


अर्हन्तभूमिमपि प्रत्ययबुद्धभूमौ त्रैधातुकं न स्पृशते सुपिनान्तरेऽपि ।
बुद्धांश्च पश्यति कथेति जनस्य धर्ममविवर्तियेति अयु व्याकृतु वेदितव्यो ॥ २०.२२ ॥


त्रिअपायप्राप्तु सुपिनस्मि विदित्व सत्त्वान् प्रणिधेति तत्क्षण अपाय उच्छोषयेयम् ।
सत्याधिष्ठानि प्रशमेति स चाग्निस्कन्धमविवर्तियेति अयु व्याकृतु वेदितव्यो ॥ २०.२३ ॥


भूतग्रहा विविध व्याधय मर्त्यलोके सत्याधिष्ठानि प्रशमेति हितानुकम्पी ।
न च तेन मन्यनुपपद्यति नापि मानमविवर्तियेति अयु व्याकृतु वेदितव्यः ॥ २०.२४ ॥



भगवत्यां रत्नगुणसंचयगाथायामुपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः ॥



____________________________________________________________________________




अथवास्य मन्यनुपपद्यति व्याकृतोऽस्मि सत्याधिष्ठान विविधानि समृद्ध्ययन्ति ।
यदि अन्य व्याकृतकु मन्यति बोधिसत्त्वो ज्ञातव्य मन्यनस्थितो अयु अल्पबुद्धिः ॥ २१.१ ॥


नामाधिष्ठान पुन मार उपागमित्वा एवं वदिष्यति इदं तव नामधेयम् ।
मातापिताय अनुसप्तमुपैति वंशो बुद्धो यदा भवि इदं तव नामधेयम् ॥ २१.२ ॥


धुतवृत्त यादृशु स भेष्यति युक्तयोगी पूर्वं पि तुभ्य इमि आसि गुणोवरूपा ।
यो एव श्रुत्व अभिमन्यति बोधिसत्त्वो ज्ञातव्यु मारु पर्युत्थितु अल्पबुद्धिः ॥ २१.३ ॥


प्रविविक्त ग्रामनगरे गिरिकन्दराणि रण्या विविक्त वनप्रस्थ निषेवमाणो ।
आत्मानुकर्षि पर पंसयि बोधिसत्त्वो ज्ञातव्यु मारु पर्युत्थितु अल्पबुद्धिः ॥ २१.४ ॥


ग्रामे च राष्ट्रि निगमे विहरन्ति नित्यं रहप्रत्ययानि स्पृहतां जनयन्ति तत्र ।
अन्यत्र सत्त्वपरिपाचनबोधियुक्ता एषो विवेकु कथितो सुगतात्मजानाम् ॥ २१.५ ॥


यो पञ्चयोजनशते गिरिकन्दरेषु व्यालावकीर्णि निवसेद्बहुवर्षकोटी ।
नो चा विवेकु इमु जानति बोधिसत्त्वो संकीर्ण सो विहरते अधिमानप्राप्तः ॥ २१.६ ॥


सो चंक्रमार्थमभियुक्तकबोधिसत्त्वान् बलध्यानैन्द्रियविमोक्षसमाधिप्राप्तान् ।
अभिमन्यते न इमि रण्यविवेकचारी न विवेकगोचरु अयं हि जिनेन उक्तो ॥ २१.७ ॥


ग्रामान्ति यो विहरते अथवा अरण्ये द्वययानचित्तविगतो नियतोऽग्रबोधिम् ।
एषो विवेकु जगदर्थभिप्रस्थितानामात्मा क्षिणोति तुलयेय स बोधिसत्त्वो ॥ २१.८ ॥



भगवत्यां रत्नगुणसंचयगाथायां मारकर्मपरिवर्तो नामैकविंशतितमः ।



____________________________________________________________________________




तस्मा हु मानु निहनित्वन पण्डितेन गुरुआशयेन वरबोधि गवेषमाणः ।
वैद्यो व आतुर स्वरोगचिकित्सनार्थं कल्याणमित्र भजितव्य अतन्द्रितेन ॥ २२.१ ॥


बुद्धा य बोधिवरप्रस्थित बोधिसत्त्वा कल्याणमित्र इमि पारमिता निदिष्टाः ।
ते चानुशासक इयं प्रतिपत्तिभूमी दुवि कारणेन अनुबुध्यति बुद्धबोधिम् ॥ २२.२ ॥


अतिक्रान्तनागत जिना स्थित ये दिशासु सर्वेषु मार्गु अयु पारमिता अनन्यो ।
ओभास उल्क वरबोधयि प्रस्थितानामालोक शास्त्रि इमि पारमिता प्रदिष्टाः ॥ २२.३ ॥


यथ प्रज्ञपारमित शून्यत लक्षणेन तथलक्षणा य इमि जानति सर्वधर्मान् ।
शून्यानलक्षण प्रजानयमान धर्मानेवं चरन्तु चरती सुगतान प्रज्ञाम् ॥ २२.४ ॥


आहारकाम परिकल्पयमान सत्त्वाः संसारि युक्तमनसः सद संस्मरन्ति ।
अहु मह्य धर्म उभि एति अभूत शून्या आकाशगण्ठि अयु आत्मन बद्ध बाले ॥ २२.५ ॥


यथ शङ्कितेन विषसंज्ञत अभ्युपैति नो चास्य कोष्ठगतु सो विषु पात्यते च ।
एमेव बालुपगतो अहु मह्य एषो अहसंज्ञि जायि म्रियते च सदा अभूतो ॥ २२.६ ॥


यथ उद्ग्रहो तथ प्रकाशितु संकिलेशो व्योदान उक्त अहु मह्य अनोपलब्धि ।
न हि अत्र कश्चि यो क्लिश्यति शुध्यते वा प्रज्ञाय पारमित बुध्यति बोधिसत्त्वे ॥ २२.७ ॥


यावन्त सत्त्व निखिले इह जम्बुद्विपे ते सर्वि बोधिवरचित्त उपादयित्वा ।
दानं ददित्व बहुवर्षसहस्रकोटीः सर्वं च नामयि जगार्थनिदान बोधौ ॥ २२.८ ॥


यश्चैअव प्रज्ञवरपारमिताभियुक्तो दिवसं पि अन्तमश एकनुवर्तयेया ।
कलपुण्य सो न भवती इह दानस्कन्धो तदतन्द्रितेन सद ओसरितव्य प्रज्ञा ॥ २२.९ ॥


चरमाणु प्रज्ञवरपारमिताय योगी महतीं जनेति करुणां न च सत्त्वसंज्ञा ।
तद भोन्ति सर्वजगती विदु दक्षिणीया सततममोघु परिभुञ्जति राष्ट्रपिण्डम् ॥ २२.१० ॥


चिरबुद्धदेवमनुजान् त्रिअपायि सत्त्वान् परिमोचितुं य इह इच्छति बोधिसत्त्वो ।
पृथुमार्गु तीरु उपदर्शयि सत्त्वधातौ प्रज्ञाय पारमित युक्त दिवा च रात्रौ ॥ २२.११ ॥


पुरुषो य अग्रु रतनस्य अलब्धपूर्वो अपरस्मि कालि पुन लब्ध्व भवेय तुष्टो ।
स ह लब्ध्व नाशयि पुनोऽपि प्रमादभूतो नाशित्व दुःखि सततं रतनाभिकाङ्क्षी ॥ २२.१२ ॥


एमेव बोधिवरप्रस्थित रत्नतुल्यो प्रज्ञाय पारमित योगु न रिञ्चितव्यो ।
रतनं व लब्ध्व गृहमाणु अभिन्नसत्त्वो अनुबुद्धयति त्वरितो शिवमभ्युपैति ॥ २२.१३ ॥



भगवत्यां रत्नगुणसंचयगाथायां कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः ॥



____________________________________________________________________________


उदयाति सूर्यु विगताश्च मरीचिमाला विधमित्व सर्व तमसाकुलमन्धकारम् ।
अविभोन्ति सर्व क्रिमिजोतिकप्राणभूतां सर्वांश्च तारकगणानपि चन्द्रआभाम् ॥ २३.१ ॥


एमेव प्रज्ञवरपारमितां चरन्तो विधमित्व दृष्टिगहनं विदु बोधिसत्त्वो ।
अभिभोन्ति सर्वजगती रहप्रत्ययांश्च शून्यानिमित्तचरितो पृथु बोधिसत्त्वो ॥ २३.२ ॥


यथ राजपुत्र धनदायकु अर्थकामो सर्वेषु श्रेष्ठ भवते अभिगामिनीये ।
स ह्येष एतरहि सत्त्व प्रमोचयाति प्रागेव राज्यस्थितु भेष्यति पट्टधारी ॥ २३.३ ॥


एमेव प्रज्ञचरितो विदु बोधिसत्त्वो अमृतस्य दायकु प्रियो मरुमानुषाणाम् ।
अयु एष एषति हि सत्त्वसुखाभियुक्तो प्रागेव याव स्थितु भेष्यति धर्मराजो ॥ २३.४ ॥



भगवत्यां रत्नगुणसंचयगाथायां शक्रपरिवर्तो नाम त्रयोविंशतितमः ॥



____________________________________________________________________________




मारोऽपि तस्मि समये भवते सशल्यो शोकातु दुःखितु अनन्तमनोऽल्पस्थामो ।
दिशदाह उल्क क्षिपते भयदर्शनार्थं कथमेष दीनमनसो भवि बोधिसत्त्वो ॥ २४.१ ॥


[यथ ते भवन्ति विदु आशयसंप्रयुक्ता दिवरात्रि प्रज्ञवरपारमितार्थदर्शी] ।
तद कायचित्त खगपक्षिसतुल्यभूता अवतारु सो कुतु लभिष्यति कृष्णबन्धुः ॥ २४.२ ॥


कलहाविवादुपगता यद बोधिसत्त्वा भोन्ति परस्परविरुद्धक रुष्टचित्ताः ।
तद मार तुष्टु भवती परममुदग्रो उभि एति दूर भविष्यन्ति जिनान ज्ञाने ॥ २४.३ ॥


उभि एति दूरि भविष्यन्ति पिशाचतुल्या उभि एति आत्म करिष्यन्ति प्रतिज्ञहानिम् ।
दुष्टान क्षान्तिविकलान कुतोऽस्ति बोधि तद मारु तुष्टु भवती नमुचीसपक्षो ॥ २४.४ ॥


यो बोधिसत्त्व अयु व्याकृतु व्याकृतस्मिं चित्तं प्रदूषयि विवादु समारभेय्या ।
यावन्ति चित्तक्षणिका खिलदोषयुक्तास्तावन्त कल्प पुन संनहितव्य भोन्ति ॥ २४.५ ॥


अथ तस्युपद्यति मतीति अशोभना ति क्षान्तीय पारमित बोधि स्पृशन्ति बुद्धाः ।
प्रतिदर्शयाति पुन आयति संवराणि अपयाति वा स इह शिक्षति बुद्धधर्मे ॥ २४.६ ॥



भगवत्यां रत्नगुणसंचयगाथायामभिमानपरिवर्तो नाम चतुर्विंशतितमः ॥



____________________________________________________________________________


यो शिक्षमाणु न उपैति कहिंचि शिक्षां न च शिक्षकं लभति नापि च शिक्षधर्मान् ।
शिक्षा अशिक्ष उभयो अविकल्पमानो यो शिक्षते स इह शिक्षति बुद्धधर्मे ॥ २५.१ ॥


यो बोधिसत्त्व इमु जानति एव शिक्षां न स जातु शिक्षविकलो भवते दुशीलो ।
आराधितेषु इह शिक्षति बुद्धधर्मं शिक्षातिशिक्षकुशलो ति निरूपलम्भो ॥ २५.२ ॥


शिक्षन्तु एव विदु प्रज्ञ प्रभंकराणां नोत्पद्यते अकुशलमपि एकचित्तम् ।
सूर्ये यथा गगनि गच्छति अन्तरीक्षे रश्मीगते न स्थिहते पुरतोऽन्धकारम् ॥ २५.३ ॥


प्रज्ञाय पारमित शिक्षित संस्कृतानां सर्वेष पारमित भोन्तिह संगृहीताः ।
सत्कायदृष्टि यथ षष्टि दुवे च दृष्टी अन्तर्गतास्तथमि पारमिता भवन्ति ॥ २५.४ ॥


यथ जीवितेन्द्रिय निरुद्धि य केचिदन्ये भोन्ती निरुद्ध पृथु इन्द्रिय यावदस्ति ।
एमेव प्रज्ञचरिते विदु उत्तमानां सर्वेत पारमित उक्त य संगृहीता ॥ २५.५ ॥


ये चापि श्रावकगुणा तथ प्रत्ययानां सर्वेषु भोन्ति विदु शिक्षितु बोधिसत्त्वा ।
नो चापि तत्र स्थिहतान स्पृहेति तेषामयु शिक्षितव्यमति शिक्षति एतमर्थम् ॥ २५.६ ॥



भगवत्यां रत्नगुणसंचयगाथायां शिक्षापरिवर्तो नाम पञ्चविंशतिमः ॥



____________________________________________________________________________




अविवर्तियस्य वरबोधयि प्रस्थितस्य यो चित्तुपादु अनुमोदितु आशयेन ।
त्रिसहस्र मेरु तुलयित्व सियाप्रमाणो न त्वेव तस्य कुशलस्यनुमोदनाये ॥ २६.१ ॥


यावन्त सत्त्व कुशलार्थिक मोक्षकामा सर्वेष भोन्ति अनुमोदितु पुण्यराशि ।
सत्त्वर्थि ते जिनगुण अनन्त प्रापुणित्वा दास्यन्ति धर्म जगती दुखसंक्षयाये ॥ २६.२ ॥


यो बोधिसत्त्व अविकल्पकु सर्वधर्मान् शून्यानिमित्त परिजानति निष्प्रपञ्चान् ।
न च प्रज्ञ बोधि परिएषति आशयेन सो युक्त प्रज्ञवरपारमिताय योगी ॥ २६.३ ॥


आकाशधातु गगनस्य सिया विरोधो न हि तेन तस्य कुतु केनचिदेष प्राप्ता ।
एमेव प्रज्ञचरितो विदु बोधिसत्त्वो अभ्योवकाशसदृशो उपशान्तचारी ॥ २६.४ ॥


यथ मायकारपुरुषस्य न एव भोति ते शिष्य मां जनत सो च करोति कार्यम् ।
पश्यन्ति तं विविध कार्यु निदर्शयन्तं न च तस्य कायु न पि चित्त न नामधेयम् ॥ २६.५ ॥


एमेव प्रज्ञचरिते न कदाचि भोति बुद्धित्व बोधि जगती परिमोचयित्वा ।
आत्मोपपत्ति विविधां क्रियसंप्रयोगां दर्शेति मायसदृशो न विकल्पचारी ॥ २६.६ ॥


यथ बुद्ध निर्मित करोति च बुद्धकार्यं न च तस्युपद्यति मदो करमाणु किंचित् ।
एमेव प्रज्ञचरितो विदु बोधिसत्त्वो दर्शेति सर्व क्रिय निर्मितमायतुल्यम् ॥ २६.७ ॥


पलगण्ड दक्ष विदुना कृतु दारुयन्त्रो पुरुषे स्त्रितुल्य स करोति ह सर्वकार्यम् ।
एमेव प्रज्ञचरितो विदु बोधिसत्त्वो ज्ञानेन सर्व क्रिय कुर्वति निर्विकल्पो ॥ २६.८ ॥



भगवत्यां रत्नगुणसंचयगाथायां मायोपमपरिवर्तो नाम षड्विंशतिमः ॥



____________________________________________________________________________




एवं चरन्तु विदु ना पृथुदेवसंघाः कृतअञ्जलीपुट प्रणम्य नमस्ययन्ति ।
बुद्धा पि यावत दशद्दिशि लोकधातौ गुणवर्णमालपरिकीर्तन कुर्वयन्ति ॥ २७.१ ॥


यावन्ति गङ्गनदिवालिसमे हि क्षेत्रे सत्त्वा त सर्वि परिकल्प भवेयु माराः ।
एकैक रोम पुन तान्तक निर्मिणेय्या सर्वे न शक्य करणे विदु अन्तरायम् ॥ २७.२ ॥


चतुकारणेहि बलवां विदु बोधिसत्त्वो भवते दुघर्षु चतुमारअसंप्रकम्प्यो ।
शून्याविहारि भवते न च सत्त्वत्यागी यथवादि सत्त्वकरुणानुगतावस्थानः ॥ २७.३ ॥


यो बोधिसत्त्व अधिमुच्यति भाष्यमाणामिम प्रज्ञपारमित मात तथागतानाम् ।
प्रतिपत्तिया च अभियुज्यति आशयेन सर्वज्ञताय अभिप्रस्थितु वेदितव्यो ॥ २७.४ ॥


न च धर्मधातुतथताय उपैति स्थानं भवती अथानस्थित सो लघु अन्तरीक्षे ।
विद्याधरो व अभिलम्भु वनाभिप्राया खगु कालहीन द्रुम मन्त्रबलाधिष्ठानो ॥ २७.५ ॥


एवं चरन्तु विदु पण्डितु बोधिसत्त्वो न च बुध्यकं लभति नापि च बुद्धधर्मान् ।
न च देशिकं न पि च पश्यक धर्मतायां शान्तैषिणामयु विहार गुणे रतानाम् ॥ २७.६ ॥


यावन्त श्रावकविहार सप्रत्ययानां शान्ता समाधिप्रशमे सुखसंप्रयुक्ता ।
अर्हन्विमोक्ष स्थपयित्व तथागतानां सर्वेषु अग्र अयु विहारु निरुत्तरश्च ॥ २७.७ ॥


आकाशि पक्षि विहराति न चो पताति दकमध्यि मत्स्य विहराति न चो मराति ।
एमेव ध्यानबलपारगु बोधिसत्त्वो शून्याविहारि न च निर्वृति प्रापुणाति ॥ २७.८ ॥


यो सर्वसत्त्वगुणअग्रतु गन्तुकामो अग्रं स्पृशेय परमाद्भुत बुद्धज्ञानम् ।
अग्रं ददेय वर उत्तमधर्मदानमिमु अग्रु सेवतु विहारु हितंकराणाम् ॥ २७.९ ॥



भगवत्यां रत्नगुणसंचयगाथायां सारपरिवर्तो नाम सप्तविंशतिमः ॥



____________________________________________________________________________




यावन्ति शिक्ष परिदीपित नायकेन सर्वेष शिक्ष अयु अग्रु निरुत्तरा च ।
यः सर्वशिक्षविदु इच्छति पार गन्तुमिमु प्रज्ञपारमित शिक्षति बुद्धशिक्षाम् ॥ २८.१ ॥


अग्रं निधान अयु उत्तमधर्मकोश बुद्धान गोत्रजननं सुखसौख्यगञ्जो ।
अतिक्रान्तनागत दशद्दिशि लोकनाथा इतु ते प्रसूत न च क्षीयति धर्मधातुः ॥ २८.२ ॥


यावन्ति वृक्ष फलपुष्पवनस्पती या सर्वे च मेदिनिसमुद्गत प्रादुभूताः ।
न च मेदिनी क्षयमुपैति न चापि वृद्धिं न च खिद्यती न परिहायति निर्विकल्पा ॥ २८.३ ॥


यावन्त बुद्धसम श्रावकप्रत्ययाश्च मरुतश्च सर्वजगती सुखसौख्यधर्माः ।
सर्वे ति प्रज्ञवरपारमिताप्रसूता न च क्षीयते न च विवर्धति जातु प्रज्ञा ॥ २८.४ ॥


यावन्त सत्त्व मृदुमध्यमुत्कृष्ट लोके सर्वे अविद्यप्रभवा सुगतेन उक्ताः ।
सामग्रिप्रत्ययु प्रवर्तति दुःखयन्त्रो न च यन्त्र क्षीयति अविद्य न चापि वृद्धिः ॥ २८.५ ॥


यावन्ति ज्ञान नयद्वार उयायमूलाः सर्वे ति प्रज्ञवरपारमिताप्रसूताः ।
सामग्रिप्रत्यय प्रवर्तति ज्ञानयन्त्रो न च प्रज्ञपारमित वर्धति हीयते वा ॥ २८.६ ॥


यो तु प्रतीत्यसमुत्पादु अनुद्भवाये इमु प्रज्ञ अक्षयत बुध्यति बोधिसत्त्वो ।
सो सूर्य अभ्रपटले यथ मुक्तरश्मी विधमित्वविद्यपटलं भवते स्वयंभूः ॥ २८.७ ॥



भगवत्यां रत्नगुणसंचयगाथायामवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतिमः ॥



____________________________________________________________________________




चतुर्भी च ध्यान विहरन्ति महानुभावा न च आलयो न पि च निश्रयु कुर्वयाति ।
अपि खो पुनाश्रयु इमे चतुध्यान साङ्गा भेष्यन्ति बोधिवरौत्तमप्रापणाय ॥ २९.१ ॥


ध्याने स्थितोऽत्र भवती वरप्रज्ञलाभी आरूप्यरूपि च समाधि चतस्र श्रेष्ठा ।
उपकारिभूत इमि ध्यान वराग्रबोधौ न पुनास्रवक्षति स शिक्षति बोधिसत्त्वो ॥ २९.२ ॥


आश्चर्यमद्भुतमिदं गुणसंचयानां ध्याने समाधि विहरन्ति निमित्त नास्ति ।
तत्र स्थितान यदि भज्यति आत्मभावो पुन कामधातु उपपद्यति यथाभिप्राया ॥ २९.३ ॥


यथ जम्बुद्वीपक मनुष्य अलब्धपूर्वा दिवि देवौत्तमपुरा अनुप्रापुणेया ।
पश्यित्व ते विषय तत्र परिगृहीता पुनरागमेय न च निश्रयु तत्र कुर्यात् ॥ २९.४ ॥


एमेव ते गुणधरा वरबोधिसत्त्वा ध्याने समाधि विहरित्व प्रयुक्तयोगी ।
पुन कामधातुस्थित भोन्ति अनोपलिप्ता पद्मेव वारिणि अनिश्रित बालधर्मे ॥ २९.५ ॥


अन्यत्र सत्त्वपरिपाचन क्षेत्रशोधी परिपूरणार्थ इमि पारमिता महात्मा ।
आरूप्यधातुउपपत्ति न प्रार्थयन्ती यत्रेह बोधिगुणपारमितान हानि ॥ २९.६ ॥


यथ कश्चिदेव पुरुषो रतनं निधानं लब्ध्वा तु तत्र स्पृहबुद्धि न संजनेय्या ।
एकाकि सो पुन गृहीत्व परस्मि काले गृह्णित्व गेह प्रविशित्व न भोति लुब्धो ॥ २९.७ ॥


एमेव ध्यान चतुरेव समाधि शान्तां लब्ध्वान प्रीति सुखदां विदु बोधिसत्त्वाः ।
अवसृज्य ध्यानसुखप्रीतिसमाधिलाभं पुन कामधातु प्रविशन्ति जगानुकम्पी ॥ २९.८ ॥


यदि बोधिसत्त्व विहराति समाधिध्याने रहप्रत्ययानि स्पृहबुद्धि न संजनेय्या ।
असमाहितो भवति उद्धतक्षिप्तचित्तो परिहीनबुद्धिगुण नाविक भिन्ननावो ॥ २९.९ ॥


किंचापि रूपमपि शब्द तथैव गन्धो रस स्पर्श कामगुण पञ्चभि युक्त भोगी ।
रहप्रत्ययान विगतोऽनन्तबोधिसत्त्वो सततं समाहितु प्रजानयितव्य शूरो ॥ २९.१० ॥


परसत्त्वपुद्गलनिदान विशुद्धसत्त्वा विचरन्ति वीर्यबलपारमिताभियुक्ताः ।
यथ कुम्भदासि अवशावश भर्तिकस्य तथ सर्वसत्त्ववशतामुपयान्ति धीराः ॥ २९.११ ॥


न च स्वामिकस्य प्रतिवाक्यु ददाति दासी आक्रुष्ट चापि अथवा सद ताडिता वा ।
एकान्तत्रस्तमनसा स भयाभिभूता मामेव सो अनु वधिष्यति कारणेन ॥ २९.१२ ॥


एमेव बोधिवरप्रस्थितु बोधिसत्त्वो तिष्ठेय सर्वजगती यथ प्रेष्यभूतो ।
अनु बोधिआगमु गुणान च पारिपूरी तृण अग्नि काष्ठप्रभवो दहते तमेव ॥ २९.१३ ॥


अवसृज्य आत्म सुगतां परसत्त्वकार्ये अभियुक्त रात्रिदिव निष्प्रतिकाङ्क्षचित्तो ।
मातेव एकसुतके परिचार्यमाणो अध्याशये न परिखिन्न उपस्थिहेति ॥ २९.१४ ॥



भगवत्यां रत्नगुणसंचयगाथायामनुगमपरिवर्तो नामैकूनत्रिंशतिमः ॥



____________________________________________________________________________




यो बोधिसत्त्व चिरसंसरणाभिप्रायो सत्त्वार्थ क्षेत्रपरिशोधनयुक्तयोगी ।
न च खेदबुद्धि अणुमात्र उपादियाति सो वीर्यपारमितयुक्त अतन्द्रितश्च ॥ ३०.१ ॥


सचि कल्पकोटि गणये विदु बोधिसत्त्वो चिरसंज्ञ बोधि समुदानिय तेन दुःखे ।
चिरदुःख भेष्यति समाचरमाणु धर्मं ततु वीर्यपारमितहीन कुसीदरूपो ॥ ३०.२ ॥


प्रथममुपादु वरबोधयि चित्तुपादो सो वा अनुत्तरशिवामनुप्रापुणेया ।
रात्रिंदिवैकमनसा तमधिष्ठिहेया आरम्भवीर्य विदु पण्डितु वेदितव्यो ॥ ३०.३ ॥


सचि कश्चिदेव वदयेय सुमेरुशैलं भिन्दित्व पश्च अधिगम्यसि अग्रबोधिम् ।
सचि खेदबुद्धि कुरुते च प्रमाणबुद्धिं कौसीद्यप्राप्त भवते तद बोधिसत्त्वो ॥ ३०.४ ॥


अथ तस्युपद्यति मती किमुताल्पमात्रं क्षणमात्र भस्म नयती विलयं सुमेरुम् ।
आरम्भवीर्य भवते विदु बोधिसत्त्वो नचिरेण बोधिवर लप्स्यति नायकानाम् ॥ ३०.५ ॥


सचि कायचित्तवचसा च पराक्रमेय्या परिपाचयित्व जगती करिष्यामि अर्थम् ।
कौसीद्यप्राप्त भवती स्थितु आत्मसंज्ञैः नैरात्मभावनविदूरि नभं व भूमेः ॥ ३०.६ ॥


यस्मिन्न कायु न पि चित्त न सत्त्वसंज्ञा संज्ञाविवर्ति स्थितु अद्वयधर्मचारी ।
अयु वीर्यपारमित उक्त हितंकरेण आकाङ्क्षमाणु शिवमच्युतमग्रबोधिम् ॥ ३०.७ ॥


परुषं श्रुणित्व वचनं परतो दुरुक्तं परितोषयाति सुसुखं विदु बोधिसत्त्वो ।
को भाषते क शृणुते कुतु कस्य केन सो युक्त क्षान्तिवरपारमिताय विज्ञो ॥ ३०.८ ॥


सो बोधिसत्त्व क्षमते गुणधर्मयुक्तो यश्चैव रत्नभरितं त्रिसहस्र दद्यात् ।
बुद्धान लोकविदुनार्हतप्रत्ययानां कलपुण्य सो न भवते इह दानस्कन्धे ॥ ३०.९ ॥


क्षान्तीस्थितस्य परिशुध्यति आत्मभावो द्वात्रिंशलक्षणप्रभाव अनन्तपारो ।
[सत्त्वान शून्यवरधर्म निशामयाती प्रियु भोति सर्वजगती क्षममाणु विज्ञो ॥ ३०.१० ॥


सचि कश्चि चन्दनपुटं ग्रहियान सत्त्वो अभ्योकिरेय गुरुप्रेमत बोधिसत्त्वम् ।
द्वितीयोऽपि] अग्नि सकले शिरसि क्षिपेया उभयत्र तुल्यु मनु तेन उपादितव्यो ॥ ३०.११ ॥


एवं क्षमित्व विदु पण्डितु बोधिसत्त्वो तं चित्तुपादु परिणामयि अग्रबोधौ ।
यावन्ति क्षान्ति रहप्रत्ययसत्त्वधातोः अभिभोति सर्वजगती क्षममाणु शूरः ॥ ३०.१२ ॥


क्षममाणु एव पुन चित्त उपादितव्यो नरकेषु तिर्ययमलोकि अनेक दुःखा ।
अनुभूय कामगुणहेतु अकामकारा कस्मा हु अद्य न क्षमेय निदान बोधौ ॥ ३०.१३ ॥


कशदण्डशस्त्रवधबन्धनताडनाश्च शिरछेदकर्णचरणाकरनासछेदाः ।
यावन्ति दुःख जगती अहु तत्सहामि क्षान्तीय पारमित तिष्ठति बोधिसत्त्वो ॥ ३०.१४ ॥



भगवत्यां रत्नगुणसंचयगाथायां सदाप्ररुदितपरिवर्तो नाम त्रिंशतिमः ॥



____________________________________________________________________________




शीलेन उद्गत भवन्ति समाधिकाङ्क्षी स्थित गोचरे दशबलान अखण्डशीलाः ।
यावन्ति संवरक्रिय अनुवर्तयन्ति तां सर्वसत्त्वहित बोधयि नामयन्ति ॥ ३१.१ ॥


सचि प्रत्ययानरहबोधि स्पृहां जनेति [दुःशील भोति]विदुषां तथ छिद्रचारी ।
अथ बोधि उत्तमशिवां परिणामयन्ति स्थितु शीलपारमित कामगुणेभि युक्तो ॥ ३१.२ ॥


यो धर्म बोधिगुणआगमु सूरतानां सो शीलअर्थु गुणधर्मसमन्वितानाम् ।
यो धर्म बोधिगुणहानि हितंकराणां दुःशीलता अयु प्रकाशितु नायकेन ॥ ३१.३ ॥


यदि पञ्च कामगुण भुञ्जति बोधिसत्त्वो बुद्धं च धर्म शरणागतु आर्यसंघम् ।
सर्वज्ञता च मनसी भविष्यामि बुद्धो स्थितु शीलपारमित वेदयितव्य विज्ञो ॥ ३१.४ ॥


यदि कल्पकोटि दशभी कुशलैः पथेभिश्चरमाणु प्रत्ययरहत्वस्पृहां जनेति ।
तद खण्डशीलु भवते अपि छिद्रशीलो पाराजिको गुरुतरो अयु चित्तुपादो ॥ ३१.५ ॥


रक्षन्तु शील परिणामयि अग्रबोधिं न च तेन मन्यति न आत्मन कर्षयेथा ।
अहुसंज्ञता च परिवर्जित सत्त्वसंज्ञा स्थितु शीलपारमिति वुच्यति बोधिसत्त्वो ॥ ३१.६ ॥


यदि बोधिसत्त्व चरमाणु जिनान मार्गे इमि शीलवानिमि दुशील करोति सत्त्वान् ।
नानात्वसंज्ञप्रसृतो परमं दुशीलो अपि छिद्रशीलु न तु सो परिशुद्धशीलो ॥ ३१.७ ॥


यस्यो न अस्ति अहसंज्ञ न सत्त्वसंज्ञा संज्ञाविरागु कुतु तस्य असंवरोऽस्ति ।
यस्यो न संवरि असंवरि मन्यनास्ति अयु शीलसंवरु प्रकाशितु नायकेन ॥ ३१.८ ॥


यो एवशीलसमन्वागतु निष्प्रपञ्चो अनपेक्षको भवति सर्वप्रियाप्रियेषु ।
शिरहस्तपाद त्यजमान अदीनचित्तो सर्वास्तित्यागि भवते सततमलीनो ॥ ३१.९ ॥


ज्ञात्वा च धर्मप्रकृतीं वशिका निरात्म्यमात्मान मांस त्यजमानु अदीनचित्तो ।
प्रागेव वस्तु तद बाहिर नात्यजेया अस्थानमेत यदि मत्सरि सो करेया ॥ ३१.१० ॥


अहसंज्ञतस्तु ममता भवते च रागो कुतु त्यागबुद्धि भविष्यति सा मुहानाम् ।
मात्सर्य प्रेत भवते उपपद्ययाती अथवा मनुष्य तद भोति दरिद्ररूपो ॥ ३१.११ ॥


तद बोधिसत्त्व इमि ज्ञात्व दरिद्रसत्त्वान् दानाधिमुक्त भवती सद मुक्तत्यागी ।
चत्वारि द्वीपि समलंकृतु खेटतुल्यं दत्त्वा उदग्र भवते न हि द्वीपलब्धो ॥ ३१.१२ ॥


दानं ददित्व विदु पण्डितु बोधिसत्त्वो यावन्ति सत्त्व त्रिभवे समन्वाहरित्वा ।
सर्वेषु तेषु भवते अयु दत्तदानं तं चाग्रबोधि परिणामयते जगार्थम् ॥ ३१.१३ ॥


न च वस्तुनिश्रयु करोति ददित्व दानं विदु पाकु नैव प्रतिकाङ्क्षति सो कदाचित् ।
एवं त्यजित्व भवते विदु सर्वत्यागी अल्पं त्यजित्व लभते बहु अप्रमेयम् ॥ ३१.१४ ॥


यावन्त सत्त्व त्रिभवे निखिलेन अस्ति ते सर्वि दान ददयन्ति अनन्तकल्पान् ।
बुद्धानुलोकि विदु नार्हतिप्रत्ययानां यावन्ति श्रावकगुणान् परिकल्प स्थाने ॥ ३१.१५ ॥


यश्चो उपायकुशलो विदु बोधिसत्त्वो तेषां स पुण्यक्रियवस्त्वनुमोदयित्वा ।
सत्त्वार्थ अग्रवरबोधयि नामयेया अभिभोति सर्वजगती परिणामयुक्तो ॥ ३१.१६ ॥


काचस्य वा मणिन राशि सिया महन्तो वैडूर्यरत्न अभिभोति स सर्व एको ।
एमेव सर्वजगती पृथु दानस्कन्धो अभिभोति सर्वपरिणामकु बोधिसत्त्वो ॥ ३१.१७ ॥


यदि बोधिसत्त्व ददमान जगस्य दानं ममतां न तत्र करयेन्न च वस्तुप्रेम ।
ततु वर्धते कुशलमूल महानुभावो चन्द्रो व तत्र प्रभमण्डलु शुक्लपक्षे ॥ ३१.१८ ॥



भगवत्यां रत्नगुणसंचयगाथायां धर्मोद्गतपरिवर्तो नामैकत्रिंशतिमः ॥



____________________________________________________________________________




दानेन प्रेतगति छिन्दति बोधिसत्त्वो दारिद्रकं च छिनती तथ सर्वक्लेशान् ।
भोगांश्चनन्तविपुलां लभते चरन्तो दानेन सत्त्व परिपाचयि कृच्छ्रप्राप्तान् ॥ ३२.१ ॥


शीलेन तीर्यगति वर्जयि नेकरुपामष्टौ च अक्षण क्षणां लभते स नित्यम् ।
क्षान्तीय रुप लभते परममुदारं सुवर्णच्छवि प्रियु जगस्य उदीक्षणीयो ॥ ३२.२ ॥


वीर्येण शुक्लगुण हानि न अभ्युपैति ज्ञानमनन्त लभते जिनकोशगञ्जम् ।
ध्यानेन कामगुण उत्सृजते जुगुप्स्यान् विद्या अभिज्ञ अभिनिर्हरते समाधिम् ॥ ३२.३ ॥


प्रज्ञाय धर्मप्रकृती परिजानयित्वा त्रैधातुकान्त समतिक्रमते अपायान् ।
वर्तित्व चक्ररतनं पुरुषर्षभाणां देशेति धर्म जगती दुखसंक्षयाये ॥ ३२.४ ॥


परिपूरयित्व इमि धर्म स बोधिसत्त्वो अपि क्षेत्रशुद्धि परिगृह्णति सत्त्वशुद्धिम् ।
अपि बुद्धवंश परिगृह्णति धर्मवंशं तथ संघवंश परिगृह्णति सर्वधर्मान् ॥ ३२.५ ॥


वैद्योत्तमो जगति रोगचिकित्सकारी प्रज्ञोपदेश कथितो अयु बोधिमार्गो ।
नामेन रत्नगुणसंचय बोधिमार्गः तं सर्वसत्त्व इतु मार्गतु प्राप्नुवन्ति ॥ ३२.६ ॥



भगवत्यां रत्नगुणसंचयगाथायां परीन्दनापरिवर्तो नाम द्वात्रिंशतिमः ॥




____________________________________________________________________________




[आचार्यहरिभद्रकृता प्रशस्तिः] ।



लोकं प्रापयितुं सुखेन पदवीं संपद्दूयावाहिनीं कारुण्याहितचेतसा भगवता बुद्धेन संदीपितम् ।
श्रुत्वा तेऽखिलधर्मतत्त्वनिलयं सूत्रं समादानतो गत्वा स्थानमहर्निशं निजमलं ध्मायन्तु येऽभ्यागताः ॥ ह्प्र्_१ ॥



कालेऽस्मिन् बहुदृष्टिसंकुलकलौ पाठेऽपि दूरं गते गाथाभेदमनेकपुस्तकगतं दृष्ट्वाधुना न्यायतः ।
कूपं वादिगजेन्द्रकुम्भदरणे भद्रेण या शोधिता लोकार्थं हरिणा मया सुविहिता सेयं बुधैर्गृह्यताम् ॥ ह्प्र्_२ ॥



आर्याष्टसाहस्रिकाया भगवत्याः प्रज्ञापारमितायाः परिवर्तानुसारेण भगवती रत्नगुणसंचयगाथा समाप्ता ॥


ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।

तेषां च यो निरोध एवं वादी महाश्रमणः ॥


[लेखकप्रशस्तिः] ।


योऽसौ धर्मं सुगतगदितं पठते भक्तिभावान्मात्राहीनं कथमपि पदं पादगाथाक्षरं वा ।
जिह्वादोषैः पवनचरितैः श्लेष्मदोषप्रचारैर्यूयं बुद्धाः सुभवनगता बोधिसत्त्वाः क्षमध्वम् ॥ ल्प्र्_१ ॥


समाप्तम् ।
शुभम् ॥

"https://sa.wikisource.org/w/index.php?title=रत्नगुणसंचयगाथा&oldid=371219" इत्यस्माद् प्रतिप्राप्तम्