योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः १०

विकिस्रोतः तः
Jump to navigation Jump to search

दशमः सर्गः

श्रीवसिष्ठ उवाच ।
अथ वर्षसहस्रेण दिव्येन परमेश्वरः ।
भृगुः परमसंबोधाद्विरराम समाधितः ।। १
नापश्यदग्रे तनयं विनयावनताननम् ।
सामन्तं गुणसेनायाः पुण्यं मूर्तमिव स्थितम् २
अपश्यत्केवलं कायकङ्कालं पुरतो महत्।
देहयुक्तमिवाभाग्यं दारिद्र्यमिव मूर्तिमत्।। ३
तापशुष्कवपुः कृत्तिरन्ध्रस्फुरिततित्तिरि ।
संशुष्कान्त्रोदरगुहाछायाविश्रान्तदर्दुरम्।। ४
नेत्रगर्तकसंसक्तप्रसूतनवकीटकम्।
पर्शुकापञ्जरप्रोतकोशकारकृमिव्रजम् ।। ५
प्राक्तनीऽमुपभोगेहामिष्टानिष्टफलप्रदाम्।
धाराधौतान्त्रया तद्वद्भृशं शुष्कास्थिमालया ।। ६
शिरोघटेन शुभ्रेण मसृणेनेन्दुवर्चसा ।
विडम्बयच्च कर्पूराप्लुतलिङ्गशिरःश्रियम् ।। ७
ऋज्व्या संशुष्कशिरया स्वास्थिमात्रावशेषया ।
ग्रीवयात्मानुसृतया दीर्घीकुर्वदिवाकृतिम् ।। ८
मृणालिकापाण्डुरया धारावभृतमांसया ।
नासाग्रास्थिकया वक्त्रे कृतसीमाकृतिं दधत् ।। ९
दीर्घकन्धरया नूनमुन्नतीकृतवक्त्रया ।
प्रेक्षमाणमिव प्राणानुत्क्रान्तानम्बरोदरे ।। 4.10.१०
जङ्घोरुजानुदोर्दण्डैर्द्विगुणां दीर्घतां गतैः ।
प्रतिष्ठानमिवाशान्तं दीर्घाध्वश्रमभीतितः ।। ११
उदरेणातिरिक्तेन चर्मशेषेण शोषिणा ।
प्रदर्शयदिवाज्ञस्य हृदयस्यातिशून्यताम्।। १२
प्रेक्ष्य तच्छुष्ककङ्कालमालानं दुःखदन्तिनः ।
पूर्वापरपरामर्शमकुर्वन्भृगुरुत्थितः ।। १३
आलोकसमकाले हि प्रतिभानं ततो भृगोः ।
चिरमुत्क्रान्तजीवः किं मत्पुत्रोऽयमिति क्षणात्।।१४
अचिन्तयत एवास्य भविष्यं तनयं ततः ।
कालं प्रति बभूवाशु कोपः परमदारुणः ।। १५
अकाल एव मत्पुत्रो नीतः किमिति कोपितः ।
कालाय शापमुत्सष्टुं भगवानुपचक्रमे ।। १६
अथाकलितरूपोऽसौ कालः कवलितप्रजः ।
आधिभौतिकमास्थाय वपुर्मुनिमुपाययौ ।। १७
खड्गपाशधरः श्रीमान्कुण्डली कवचान्वितः ।
षड्भुजः षण्मुखो बह्व्या वृतः किङ्करसेनया ।। १८
यच्छरीरसमुत्थेन ज्वालाजालेन वल्गता ।
फुल्लकिंशुकवृक्षस्य बभाराद्रेः श्रियं नभः ।। १९
यत्करस्थत्रिशूलाग्रनिःसृतैरग्निमण्डलैः ।
विरेजुरुदितैराशाः कानकैरिव कुण्डलैः ।। 4.10.२०
यत्परश्वसनापास्तशिखरा मेदिनीभृतः ।
दोलामिव समारूढाश्चेलुः पेतुश्च घूर्णिताः ।। २१
यत्खड्गमण्डलोद्द्योतैः श्यामं बिम्बं विवस्वतः ।
कल्पदग्धजगद्धूमपर्याकुलमिवावभौ ।। २२
स उपेत्य महाबाहो कुपितं तं महामुनिम् ।
कल्पक्षुब्धाब्धिगम्भीरं सान्त्वपूर्वमुवाच ह ।। २३
विज्ञातलोकस्थितयो मुने दृष्टपरावराः ।
हेतुनापि न मुह्यन्ति किं नु हेतुं विनोत्तमाः ।। २४
त्वमनन्ततपा विप्रो वयं नियतिपालकाः ।
तेन संपूज्यसे पूज्यः साधो नेतरयेच्छया ।। २५
मा तपःक्षपयाऽबुद्धे कल्पकालमहानलैः ।
यो न दग्धोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि ।।२६
संसारावलयो ग्रस्ता निगीर्णा रुद्रकोटयः ।
भुक्तानि विष्णुवृन्दानि क्व न शक्ता वयं मुने ।। २७
भोक्तारो हि वयं ब्रह्मन्भोजनं युष्मदादयः ।
स्वयं नियतिरेषा हि नावयोरेतदीहितम् ।। २८
स्वयमूर्ध्वं प्रयात्यग्निः स्वयं यान्ति पयांस्यधः ।
भोक्तारं भोजनं याति सृष्टिं चाप्यन्तकः स्वयम् ।।२९
इदमित्थं मुने रूपं ममेह परमात्मनः ।
स्वात्मनि स्वयमेवात्मा स्वत एव विजृम्भते ।। 4.10.३०
नेह कर्ता न भोक्तास्ति दृष्ट्या नष्टकलङ्कया ।
बहवश्चेह कर्तारो दृष्ट्याऽनष्टकलङ्कया ।। ३१
कर्तृताकर्तृते ब्रह्मन्केवलं परिकल्पिते ।
असम्यग्दर्शनेनैव न सम्यग्दर्शनस्य ते ।। ३२
पुष्पाणि तरुखण्डेषु भूतानि भुवनेषु च ।
स्वयमायान्ति यान्तीह कल्पते हेतुनामभिः ।। ३३
अब्बिम्बितस्य चन्द्रस्य चलने कर्त्रकर्तृते ।
न सत्ये नानृते यद्वत्तद्वत्कालस्य सृष्टिषु ।। ३४
मनो मिथ्याभ्रमाभोगे कर्तृताकर्तृतामयीम् ।
करोति कलनां रज्ज्वां भ्रान्तेक्षण इवाहिताम् ।। ३५
तेन मागा मुने कोपमापदामीदृशः क्रमः ।
यद्यथा तत्तथैवाशु सत्यमालोकयाकुलः ।। ३६
न वयं प्रतिभार्थेहा नाभिमानवशीकृताः ।
स्वतो हि तात वशगाः केवलं नियतौ स्थिताः ।। ३७
प्रकृतव्यवहारेहानियतीर्निंयतेर्वशात् ।
प्राज्ञाः समभिवर्तन्ते नाभिमानमहातमः ।। ३८
कर्तव्यमेव नियतं केवलं कार्यकोविदैः ।
सुषुप्तिवृत्तिमाश्रित्य कदाचित्त्वं न नाशय ।। ३९
क्व सा ज्ञानमयी दृष्टिः क्व महत्त्वं क्व धीरता ।
मार्गे सर्वप्रसिद्धेऽपि किमन्ध इव मुह्यसि ।। 4.10.४०
स्वकर्मफलपाकोत्थामविचार्य दशां मुने ।
किं मूर्ख इव सर्वज्ञ मुधा मां शप्तुमिच्छसि ।। ४१
देहिनामिह सर्वेषां शरीरं द्विविधं मुने ।
किं न जानासि तं देहमेकमन्यन्मनोभिधम् ।। ४२
तत्र देहो जडोऽत्यर्थमाविनाशपरायणः ।
मनस्तुच्छं च नियतं कदर्थीक्रियते तव ।। ४३
चतुरेण यथा साधो रथः सारथिनोह्यते ।
कुर्वता किंचन स्नेहाद्देहोऽयं मनसा तथा ।। ४४
असत्संकल्पः क्रियते सच्छरीरं विनाश्यते ।
क्षणेन मनसा पङ्कपुरुषः शिशुना यथा ।। ४५
चित्तमेवेह पुरुषस्तत्कृतं कृतमुच्यते ।
तद्बद्धं कलनाहेतोः कलनास्तं विमुच्यते ।। ४६
अयं देह इवात्रस्थमिदमङ्गमिदं शिरः ।
इदं स्फारविकारं तन्मन एवाभिधीयते ।। ४७
मनो हि जीवाज्जीवाख्यं निश्चयैकतया नु धीः ।
अहङ्कारोऽभिमन्तृत्वान्नानाता स्वयमेव हि ।। ४८
देहवासनया चेतस्त्वन्यानि स्वानि चेच्छया ।
पार्थिवानि शरीराणि ह्यसन्ति परिपश्यति ।। ४९
आलोकयति चेत्सत्यं तदा सत्यमयीं मनः ।
शरीरभावनां त्यक्त्वा परामायाति निर्वृतिम् ।। 4.10.५०
तन्मनस्तव पुत्रस्य समाधौ त्वयि संस्थिते ।
स्वमनोरथमार्गेण दूराद्दूरतरं गतम् ।। ५१
इममौशनसं त्यक्त्वा देहं मन्दरकन्दरे ।
प्रयातो वैबुधं सद्म नीडोड्डीनः खगो यथा ।। ५२
तत्र मन्दरगुञ्जेषु पारिजाततलेषु च ।
नन्दनोद्यानखण्डेषु लोकपालपुरेषु च ।। ५३
मुने चतुर्युगान्यष्टौ विश्वाचीं देवसुन्दरीम् ।
असेवत महातेजाः षट्पदः पद्मिनीमिव ।। ५४
तीव्रसंवेगसंपन्नस्वसंकल्पोपकल्पिते ।
अथ पुण्यक्षये जाते नीहार इव शार्वरे ।। ५५
प्रम्लानकुसुमोत्तंसः खिन्नाङ्गावयवोल्लसः ।
स पपात तया सार्धं कालपक्वं फलं यथा ।। ५६
वैबुधं तत्परित्यज्य नभस्येव शरीरकम् ।
भूताकाशमथासाद्य वसुधायां व्यजायत ।। ५७
आसीद्विप्रो दशार्णेषु कोसलेषु महीपतिः ।
धीवरोऽथ महाटव्यां हंसस्त्रिपथगातटे ।। ५८
सूर्यवंशे नृपः पौण्ड्रः सौरशाल्वेषु देशिकः ।
कल्पं विद्याधरः श्रीमान्धीमानथ मुनेः सुतः ।। ५९
मद्रेष्वथ महीपालस्ततस्तापसबालकः ।
वासुदेव इति ख्यातः समङ्गायास्तटे स्थितः ।। 4.10.६०
अन्यास्वपि विचित्रासु वासनावशतः स्वयम् ।
विषमास्वेव पुत्रस्ते चचारान्तरयोनिषु ।। ६१
अभूद्विन्ध्यनगे भूयः किरातः कैकटेषु च ।
सौवीरेष्वथ सामन्तस्त्रिगर्तेषु च गर्दभः ।। ६२
वंशगुल्मः किरातेषु हरिणश्चीनजङ्गले ।
सरीसृपस्तालवृक्षे तमाले वनकुक्कुटः ।। ६३
अयं स पुत्रो भवतो भूत्वा मन्त्रविदां वरः ।
प्रजजाप पुरा विद्यां विद्याधरपुरप्रदाम् ।। ६४
तेनासावभवद्ब्रह्मन्व्योम्नि विद्याधरो महान् ।
हारकुण्डलकेयूरलीलानिचयलालकः ।। ६५
नायिकानलिनीभानुः पुष्पचाप इवापरः ।
विद्याधरीणां दयितो गन्धर्वपुरभूषणः ।। ६६
स कल्पावधिमासाद्य द्वादशादित्यधामनि ।
जगाम भस्मशेषत्वं शलभः पावके यथा ।। ६७
जगन्निर्माणरहिते स्फारे नभसि सा ततः ।
वासना तस्य बभ्राम निर्नीडा विहगी यथा ।। ६८
अथ कालेन संजाते विचित्रारम्भकारिणि ।
संसाररचनारम्भे ब्राह्मे रात्रिविपर्यये ।। ६९
सा मुने वासना तस्य वातव्याचलिता सती ।
कृते ब्राह्मणतामेत्य जातोऽद्य वसुधातले ।। 4.10.७०
वासुदेवाभिधानोऽसौ मुने विप्रकुमारकः ।
जातो मतिमतां मध्ये समधीताखिलश्रुतिः ।। ७१
कल्पं विद्याधरो भूत्वा नद्यास्त्वथ महामुने ।
तपश्चरति ते पुत्रः समङ्गायास्तटे स्थितः ।। ७२
विविधविषयवासनानुवृत्त्या खदिरकरञ्जकरालकोटरासु ।
जगति जठरयोनिषु प्रयातो गहनतरासु च काननस्थलीषु ।। ७३

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे भार्गवोपाख्याने कालवचनं नाम दशमः सर्गः ।। १० ।।