योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १३०

विकिस्रोतः तः

श्रीवाल्मीकिरुवाच ।
अथ राम उवाचास्य मुने केन विपश्चितः ।
स्यादुपायेन दुःखान्तः प्राक्तनात्मोदयादिति ।। १
श्रीवसिष्ठ उवाच ।
येनैवाभ्युदिता यस्य तस्य तेन विना गतिः ।
न शोभते न सुखदा न हिताय न सत्फला ।।
विपश्चितोऽग्निः शरणं तत्प्रवेशादयं मृगः ।
पूर्वरूपमवाप्नोति निर्मलं कनकं यथा ।। ३
करोम्येतदहं सर्वं दृश्यतां दर्शयामि वः ।
अग्निप्रवेशं हरिणः करोत्येषोऽधुना पुरः ।। ४
श्रीवाल्मीकिरुवाच ।
इत्युक्त्वा स मुनिस्तत्र वसिष्ठः श्रेष्ठचेष्टितः ।
उपस्पृश्य यथान्यायं स्वकमण्डलुवारिणा ।। ५
दध्यावनिन्धनं वह्निं ज्वालापुञ्जमयात्मकम् ।
तद्ध्यानेन सभामध्याज्ज्वालाजालं समुद्ययौ ।। ६
अङ्गाररहिताकारमिन्धनेन विवर्जितम् ।
स्वच्छं धमधमायन्तमधूममपकज्जलम् ।। ७
मुग्धमुग्धकचत्कान्ति हेममन्दिरसुन्दरम् ।
उत्फुल्लकिंशुकाकारं संध्याम्बुदवदुत्थितम् ।। ८
दूरापसृतसभ्यं तज्ज्वालाजालं विलोकयन् ।
मृगः प्राग्भक्तिभावेन प्रोल्ललास विलोकितैः ।। ९
तं समालोकयन्वह्निं विविक्षुः क्षीणदुष्कृतः ।
पश्चादुपससाराशु दूरं सिंह इवोत्पतन् ।। १०
एतस्मिन्नन्तरे ध्याने विचार्य मुनिपुङ्गवः ।
मृगं विलोकितैः क्षीणपापं कुर्वन्नुवाच ह ।। ११
संस्मृत्य प्राक्तनीं भक्तिं भगवन्हव्यवाहन ।
कुरु कारुण्यतः कान्तं मृगमेनं विपश्चितम् ।। १२
वदत्येवं मुनौ दूराद्धावित्वा नृपसंसदि ।
मृगोऽग्निं वेगनिर्मुक्तः शरो लक्ष्यमिवाविशत् ।। १३
ज्वालाजालं प्रविष्टोऽसावादर्श इव बिम्बितः ।
संध्याभ्र इव विश्रान्तो दृष्टः स्पष्टशरीरकः ।। १४
स पश्यत्स्वेव सभ्येषु मृगोऽथ नरतामगात् ।
ज्वालोदरे नभस्यभ्रलवो रूपान्तरं यथा ।। १५
अदृश्यताथ ज्वालायामन्तःकनककान्तिमान् ।
पुरुषः पावनाकारः कान्तावयवसुन्दरः ।। १६
अर्कबिम्ब इवादित्यश्चन्द्रबिम्ब इवोडुपः ।
महाम्भसीव वरुणः संध्याभ्र इव वा शशी ।। १७
चक्षुःकनीनिकाकोशे मुकुरे सलिले मणौ ।
प्रतिबिम्ब इवार्काभो भक्तिनाधारपावकः ।। १८
अनन्तरं सभामध्याद्वातैर्दीप इवाहतः ।
ज्वालाजालं ययौ क्वापि संध्याम्बुद इवाम्बरात् ।। १९
कुटीकुड्येषु भग्नेषु प्रतिबिम्ब इवामरः ।
अतिष्ठत्पुरुषस्तत्र पटान्नट इवोद्गतः ।। २०
अक्षमालाधरः शान्तो हेमयज्ञोपवीतवान् ।
अग्निशौचाम्बरच्छन्नः सद्यश्चन्द्र इवोदितः ।। २१
अहो भा इति सभ्योक्त्या तस्य वेषस्य भासनात् ।
भास्वानिव विशालाभो भास इत्येष शब्दितः ।। २२
असौ मूर्त इवाभासो भासनाम्ना भविष्यति ।
सभास्थैः कैश्चिदित्युक्तं तेन भासः स उच्यते ।। २३
अथोपविश्य तत्रैव स भासो ध्यानसंस्थितः ।
आत्मोदन्तमशेषेण सस्मार प्राक्तनं तनौ ।। २४
सभालोके गतस्पन्दे स्मयेनात्मनि तिष्ठति ।
भासो मुहूर्तमात्रेण दृष्ट्वा स्वोदन्तमक्षतम् ।। २५
आययौ पूर्वजन्मभ्यो ध्यानालोकाद्व्यबुध्यत ।
सभामालोकयामास समुत्थाय यथाक्रमम् ।। २६
स चागत्य वसिष्ठाय प्रणाममकरोन्मुदा ।
ज्ञानार्कप्राणद ब्रह्मन्नमस्तेऽस्त्वित्युदाहरत् ।। २७
तमुवाच वसिष्ठोऽपि हस्तेन शिरसि स्पृशन् ।
अद्य ते सुचिराद्राजन्नविद्यायाः क्षयोऽस्त्विति।। २८
रामं जयेति जल्पन्तं नतं दशरथोऽथ तम् ।
आसनात्किंचिदुत्तिष्ठन्समुवाच हसन्निव ।। २९
दशरथ उवाच ।
स्वागतं तेऽस्तु भो राजन्निदमासनमास्यताम् ।
अनेकभवसंभारभ्रान्त विश्रम्यतामिह ।। ३०
श्रीवाल्मीकिरुवाच ।
वदत्येवं दशरथे विपश्चिद्भासनामभृत् ।
विवेश विष्टरे विश्वामित्रादीन्प्रणमन्मुनीन् ।। ३१
दशरथ उवाच ।
अहो बत चिरं कालमालानेनेव दन्तिना ।
वन्येनाविद्यया दुःखमनुभूतं विपश्चिता ।। ३२
असम्यग्बोधदुर्दृष्टेरहो नु विषमा गतिः ।
व्योम्न्येव दर्शयत्येषा सर्गाडम्बरसंभ्रमम् ।। ३३
कियन्त्याश्चर्यमेतानि जगन्ति विततात्मनि ।
संततानि चिरं तानि विभ्रान्तानि विपश्चिता ।। ३४
व्योमात्मनोऽपि महिमायमहो नु कीदृगस्य स्वभावविभवस्य चिदात्मवृत्तेः ।
यः शून्य एव परमात्मघनेऽम्बरेऽन्तरेवंविधानि विविधानि जगन्ति भान्ति ।।३५
इत्यार्षे श्रीवासिष्ठमहा० वाल्मीकीये दे० मो० निर्वाण० उ० अ० वि० मृगवह्निप्रवेशो नाम त्रिंशदधिकशततमः सर्गः ।। १३० ।।