योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ०५

विकिस्रोतः तः


पञ्चमः सर्गः ५

श्रीवसिष्ठ उवाच ।
इदमुत्तमसिद्धान्तसुन्दरं सुन्दराकृते ।
उपशान्तिप्रकरणं श्रृणुष्वावहितो हितम् ।। १
दीर्घसंसारमायेयं राम राजसतामसैः ।
धार्यते जन्तुभिर्नित्यं सुस्तम्भैरिव मण्डपः ।। २
सत्त्वस्यजातिभिर्धीरैस्त्वादृशैर्गुणबृंहितैः ।
हेलया त्यज्यते पक्वा मायेयं त्वगिवोरगैः ।। ३
ये सत्त्वजातयः प्राज्ञास्तथा राजससात्त्विकाः ।
विचारयन्ति ते साधो जगत्पूर्वपरम्पराम् ।। ४
शास्त्रसज्जनसत्कार्यसङ्गेनोपहतैनसाम् ।
सारावलोकिनी बुद्धिर्जायते दीपिकोपमा ।। ५
स्वयमेव विचारेण विचार्यात्मानमात्मना ।
यावन्नाधिगतं ज्ञेयं न तावदधिगम्यते ।। ६
प्रज्ञावतां नयवतां धीराणां कुलशालिनाम् ।
जात्या राजससत्त्वानां मुख्यस्त्वं रघुनन्दन ।। ७
स्वयमालोकय प्राज्ञ संसारारम्भदृष्टिषु ।
किं सत्यं किमसत्यं वा भव सत्यपरायणः ।। ८
आदावन्ते च यन्नास्ति कीदृशी तस्य सत्यता ।
आदावन्ते च यन्नित्यं तत्सत्यं नाम नेतरत् ।। ९
आद्यन्तासन्मये यस्य वस्तुन्यासज्जते मनः ।
तस्य मुग्धपशोर्जन्तोर्विवेकः केन जन्यते ।। १०
जायते मन एवेह मन एव विवर्धते ।
सम्यग्दर्शनदृष्ट्या तु मन एव हि मुच्यते ।। ११
श्रीराम उवाच ।
ज्ञातमेतन्मया ब्रह्मन्यथास्मिन्भुवनत्रये ।
मन एव हि संसारिजरामरणभाजनम् ।। १२
यस्तस्योत्तरणोपायस्तन्मे ब्रूहि सुनिश्चितम् ।
हार्दं तमस्त्वयार्केण राघवाणां विनाश्यते ।। १३
श्रीवसिष्ठ उवाच ।
पूर्वं राघव शास्त्रेण वैराग्येण परेण च ।
तथा सज्जनसङ्गेन नीयतां पुण्यतां मनः ।। १४
सौजन्योपहितं चेतो यदा वैराग्यमागतम् ।
तदानुगम्या गुरवो विज्ञानगुरवोऽपि ये ।। ११
ततस्तस्योपदिष्टेन कृत्वा ध्यानार्चनादिकम् ।
क्रमेण पदमाप्नोति तद्यत्परमपावनम् ।। १६
विचारेणावदातेन पश्यत्यात्मानमात्मना ।
इन्दुना शीतलेनान्तर्विश्वं खमिव तेजसा ।। १७
तावद्भवमहाम्भोधौ जनस्तृणवदुह्यते ।


विचारतटविश्रान्तिमेति यावन्न चेतसा ।। १८
विचारेण परिज्ञातवस्तुनोऽस्य जनस्य धीः ।
सर्वानधःकरोत्याधीन्सौम्याम्भ इव वालुकाः ।। १९
इदं रुक्ममिदं भस्म परिज्ञातमिति स्फुटम् ।
न यथा हेमकारस्य हेमज्ञानात्मनस्तथा ।। २०
अक्षयोऽयं मनागात्मा स्वात्मन्यवगते चिरम् ।
भवतीति नरस्येह मोहस्यावसरः कुतः ।। २१
अपरिज्ञातसारे हि मनोऽन्तर्यदि मुह्यते ।
ज्ञातसारे त्वसंदिग्धमसती किल मूढता ।। २२
हे जना अपरिज्ञात आत्मा वो दुःखसिद्धये ।
परिज्ञातस्त्वनन्ताय सुखायोपशमाय च ।। २३
मिश्रीभूतमिवानेन देहेनोपहतात्मना ।
व्यक्तीकृत्य स्वमात्मानं स्वस्था भवत मा चिरम् ।। २४
देहेनास्य न संबन्धो मनागेवामलात्मनः ।
हेम्नः पङ्कलवेनेव तद्गतस्यापि मानवाः ।। २५
पृथगात्मा पृथग्देही जलपद्मलवोपमौ ।
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।। २६
जडधर्मि मनो यावद्गर्तकच्छपवत्स्थितम् ।
भोगमार्गवदामूढं विस्मृतात्मविचारणम् ।। २७
तावत्संसारतिमिरं सेन्दुनापि सवह्निना ।
अर्कद्वादशकेनापि मनागपि न भिद्यते ।। २८
संप्रबुद्धे हि मनसि स्वां विवेचयति स्थितिम् ।
नैशमर्कोदय इव तमो हार्दं पलायते ।। २९
नित्यमुत्तमबोधाय योगशय्यागतं मनः ।
बोधयेद्भवभेदाय भवो ह्यत्यन्तदुःखदः ।। ३०
यथा रजोभिर्गगनं यथा कमलमम्बुभिः ।
न लिप्यते हि संश्लिष्टैर्देहैरात्मा तथैव च ।। ३१
कर्दमादि यथा हेम्ना श्लिष्टिमेति पृथक्स्थितम् ।
नान्तःपरिणतिं याति जडो देहस्तथात्मना ।। ३२
सुखदुःखानुभावित्वमात्मनीत्यवबुध्यते ।
असत्यमेव गगने बिन्दुताम्लानते यथा ।। ३३
सुखदुःखे न देहस्य सर्वातीतस्य नात्मनः ।
एते ह्यज्ञानकस्यैव तस्मिन्नष्टे न कस्यचित् ।। ३४
न कस्यचित्सुखं किंचिद्दुःखं च नच कस्यचित् ।
सर्वमात्ममयं शान्तमनन्तं पश्य राघव ।। ३५
इमा याः परिदृश्यन्ते वितताः सृष्टिदृष्टयः ।
पयसीव तरङ्गास्ते पिच्छं व्योम्नीव चात्मनि ।। ३६
यथा मणिर्ददात्यात्मच्छायाः स्वयमकारणम् ।
तेजोमयीस्तथैवायमात्मा सृष्टीः प्रयच्छति ।। ३७
आत्मा जगच्च सुमते नैकं न द्वैतमप्यसत् ।
आभासमात्रमेवेदमित्थं संप्रति जृम्भते ।। ३८
समस्तं खल्विदं ब्रह्म सर्वमात्मैवमाततम् ।
अहमन्यदिदं चान्यदिति भ्रान्तिं त्यजानघ ।। ३९
तते ब्रह्मघने नित्ये संभवन्ति न कल्पनाः ।
विच्छित्तयः पयोराशौ यथा राम न सन्मयाः ।। ४०
एकस्मिन्नेव सर्वस्मिन्परमात्मनि वस्तुनि ।
द्वितीया कल्पना नास्ति वह्नौ हिमकणा यथा ।। ४१
भावयन्नात्मनात्मानं चिद्रूपेणैव चिन्मयम् ।
ऋजूज्ज्वलमये ह्यात्मा स्वयमात्मनि जृम्भते ।। ४२
न शोकोस्ति न मोहोस्ति न जन्मास्ति न जन्मवान् ।
यदस्तीह तदेवास्ति विज्वरो भव राघव ।। ४३
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।
अद्वितीयो विशोकात्मा विज्वरो भव राघव ।। ४४
समः स्वस्थः स्थिरमतिः शान्तशोकमना मुनिः ।
मौनी वरमणिस्वच्छो विज्वरो भव राघव ।। ४५
विविक्तः शान्तसंकल्पो धीरधीर्विजिताशयः ।
यथाप्राप्तानुवर्ती च विज्वरो भव राघव ।। ४६
वीतरागो निरायासो विमलो वीतकल्मषः ।
नादाता न परित्यागी विज्वरो भव राघव ।। ४७
विश्वातीतपदं प्राप्तः प्राप्तप्राप्तव्यपूरितः ।
पूर्णार्णववदक्षुब्धो विज्वरो भव राघव ।। ४८
विकल्पजालनिर्मुक्तो मायाञ्जनविवर्जितः ।
आत्मनात्मनि तृप्तात्मा विज्वरो भव राघव ।। ४९
अनन्तापारपर्यन्तवपुरात्मविदांवर ।
धराधरशिरोधीरो विज्वरो भव राघव ।। ५०
यथाप्राप्तानुभवनात्सर्वत्रानभिवाञ्छनात् ।
त्यागादानपरित्यागाद्विज्वरो भव राघव ।। ५१
आत्मन्येवात्मनौदार्यं भज पूर्णं इवार्णवः ।
आत्मन्येवात्मनाह्लादं भज पूर्णन्दुबिम्बवत् ।। ५२
विश्वप्रपञ्चरचनेयमसत्यरूपा
नासत्यरूपमनुधावति राम तज्ज्ञः ।
तज्ज्ञोऽसि शान्तकलनोऽसि निरामयोऽसि
नित्योदितोऽसि भव सुन्दर शान्तशोकः ।।५३
एकातपत्रमवनौ गुरुणोपदिष्टं
सम्यक्सुपालय चिरं समयेह दृष्ट्या ।

राज्यं समस्तगुणरञ्जितराजलोक-
स्त्वाशो न युक्तइह कर्मसु नापि रागः ।। ५४

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु उपशमप्रकरणे प्रशमोपदेशो नाम पञ्चमः सर्गः ।। ५ ।।