योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ४६

विकिस्रोतः तः


षट्चत्वारिंशः सर्गः ४६

श्रीवसिष्ठ उवाच ।
रम्ये धनेषु दारादौ शोकस्यावसरो हि कः ।
इन्द्रजालेक्षणाद्दृष्टे नष्टे का परिदेवना ।। १
गन्धर्वनगरस्यार्थे दूषिते भूषिते तथा ।
अविद्यांशे सुतादौ वा कः क्रमः सुखदुःखयोः ।। २
रम्ये धनेऽथ दारादौ हर्षस्यावसरो हि कः ।
वृद्धायां मृगतृष्णायां किमानन्दो जलार्थिनाम् ।। ३
धनदारेषु वृद्धेषु दुःखं युक्तं न तुष्टयः ।
वृद्धायां मोहमायायां कः समाश्वासवानिह ।। ४
यैरेव जायते रागो मूर्खस्याधिकतागतैः ।
तैरेव भोगैः प्राज्ञस्य विराग उपजायते ।।५
नष्टे धनेऽथ दारादौ हर्षस्यावसरो हि कः ।
पारावलोकिनस्त्वेतैर्विरागं यान्ति साधवः ।। ६
अतो राघव तत्त्वज्ञो व्यवहारेषु संसृतेः ।
नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर ।। ७
अनागतानां भोगानामवाञ्छनमकृत्रिमम् ।
आगतानां च संभोग इति पण्डितलक्षणम् ।। ८
संसारसंभ्रमे ह्यस्मिंश्छन्नात्मन्याततायिनि ।
तथा विहर संबुद्धो यथा नायासि मूढताम् ।। ९
संसाराडम्बरस्यास्य प्रपञ्चरहिते क्रमे ।
सम्यग्ज्ञा नानुपश्यन्ति ये हतास्ते कुबुद्धयः ।। १०
यया कयाचिद्युक्त्यैव दृश्याद्यस्य गता रतिः ।
परिमज्जति तस्यास्था न क्वचिद्विमला मतिः ।। ११
यस्यासदिदमित्यास्था निवृत्ता सर्ववस्तुषु ।
क्रोडीकरोति सर्वज्ञं नाविद्या तमवास्तवी ।। १२
अहं जगच्चैकमिदं सर्वमेवेति यस्य धीः ।
आस्थानास्थे परित्यज्य संस्थिता स न मज्जति ।। १३
शुद्धं सदसतोर्मध्यं पदं बुद्ध्याऽवलम्ब्य च ।
सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा ।। १४
अत्यन्तविरतः स्वस्थः सर्ववासविवर्जितः ।
व्योमवत्तिष्ठ नीरागो राम कार्यपरोऽपि सन् ।। १५
यस्य नेच्छा न वानिच्छा ज्ञस्य कर्मणि तिष्ठतः ।
न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः ।। १६
दर्शनस्पर्शनादीनि मा करोतु करोतु च ।
तवेन्द्रियमनो गौणं त्वमनिच्छो भवात्मवान् ।। १७
ममेदमित्यसद्भूतमिन्द्रियार्थे भवन्मनः ।
मा निमज्जत्वमग्नः सन्मा करोतु करोतु वा ।। १८
यदा ते नेन्द्रियार्थश्रीः स्वदते हृदि राघव ।
तदा विज्ञातविज्ञानः समुत्तीर्णभवार्णवः ।। १९
आस्वादितेन्द्रियार्थस्य सतनोरतनोरपि ।
अनिच्छतोऽपि संपन्ना मुक्तिरर्थवशात्तव ।। २०
उच्चैःपदाय परया प्रज्ञया वासनागणात् ।
पुष्पाद्गन्धमिवोदारं चेतो राम पृथक्कुरु ।। २१
संसाराम्बुनिधावस्मिन्वासनाम्बुपरिप्लुते ।
ये प्रज्ञा नावमारूढास्ते तीर्णा वुडिताः परे ।। २२
क्षुरधाराप्रमितया धिया परमधीरया ।
प्रविचार्यात्मनस्तत्त्वं ततः स्वपदमाविश ।। २३
यथा तत्त्वविदः प्राज्ञा ज्ञानबृंहितचेतसः ।
विहरन्ति तथा राम विहर्तव्यं न मूढवत् ।। २४
जीवन्मुक्ता महात्मानो नित्यतृप्ता महाधियः ।
आचारैरनुगन्तव्या न भोगकृपणाः शठाः ।। २५
न त्यजन्ति न वाञ्छन्ति व्यवहारं जगद्गतम् ।
सर्वमेवानुवर्तन्ते पारावारविदो जनाः ।। २६
प्रभावस्याभिमानस्य गुणानां यशसः श्रियः ।
न क्वचित्कृपणा लोके महान्तस्तत्त्वदर्शिनः ।। २७
सुशून्येऽपि न खिद्यन्ते देवोद्याने नसङ्गिनः ।
नियतिं च न मुञ्चन्ति महान्तो भास्करा इव ।। २८
विगतेच्छा यथाप्राप्तव्यवहारानुवर्तिनः ।
विचरन्ति समुन्नद्धाः स्वस्था देहरथे स्थिताः ।। २९
त्वमपि प्राप्तवान् राम विवेकमिममाततम् ।
प्रज्ञाबलेन चानेन ज्ञाने स्वस्थोऽसि सुन्दर ।। ३०
स्पष्टां दृष्टिमवष्टभ्य निर्मानो गतमत्सरः ।
विहरास्मिन्भुवः पीठे परां सिद्धिमवाप्स्यसि ।। ३१
स्वस्थः सर्वेहितत्यागी दूरालोकनवाञ्छनः ।
परां शीतलतामन्तरादाय विहरानघ ।। ३२
श्रीवाल्मीकिरुवाच ।
इत्थं गिरा विमलया विमलाशयस्य
रामो मुनेः सपदि मृष्ट इवाबभासे ।
ज्ञानामृतेन मधुरेण विराजितान्तः
पूर्णः शशाङ्क इव शीतलतां जगाम ।। ३३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे जीवन्मुक्तस्थितगुणवर्णनं नाम षट्चत्वारिंशः सर्गः ।। ४६ ।।