योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०२५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


पञ्चविंशः सर्गः २५

श्रीवसिष्ठ उवाच ।
इत्थं स कथयन्पक्षी पृष्टस्तत्र पुनर्मया ।
कीदृशी प्राणवातस्य गतिरित्येव राघव ।। १
भुशुण्ड उवाच ।
जानन्नपि मुने सर्व किं मां पृच्छसि लीलया ।
यथापृष्टमहं वच्मि शृणु तत्रापि मद्वचः ।। २
प्राणोऽयमनिशं ब्रह्मन्स्पन्दशक्तिः सदागतिः ।
सबाह्याभ्यन्तरे देहे प्राणोऽयमुपरि स्थितः ।। ३
अपानोऽप्यनिशं ब्रह्मन्स्पन्दशक्तिः सदागतिः ।
सबाह्याभ्यन्तरे देहे त्वपानोऽयमवाक्स्थितः ।। ४
जाग्रतः स्वपतश्चैव प्राणायामोऽयमुत्तमः ।
प्रवर्तते यतस्तज्ज्ञ तत्तावच्छ्रेयसे शृणु ।। ५
बाह्योन्मुखत्वं प्राणानां यद्धृदम्बुजकोटरात् ।
स्वरसेनास्तयत्नानां तं धीरा रेचकं विदुः ।। ६
द्वादशाङ्गुलपर्यन्तं बाह्यमाक्रमतामधः ।
प्राणानामङ्गसंस्पर्शो यः स पूरक उच्यते ।। ७
बाह्यात्परापतत्यन्तरपाने यत्नवर्जितः ।
योऽयं प्रपूरणः स्पर्शो विदुस्तमपि पूरकम् ।। ८
अपानेऽस्तंगते प्राणो यावन्नाभ्युदितो हृदि ।
तावत्सा कुम्भकावस्था योगिभिर्यानुभूयते ।। ९
रेचकः कुम्भकश्चैव पूरकश्च त्रिधा स्थितः ।
अपानस्योदयस्थाने द्वादशान्तादधो बहिः ।। 6.1.25.१०
स्वभावाः सर्वकालस्थाः सम्यग्यत्नविवर्जिताः ।
ये प्रोक्ताः स्फारमतिभिस्ताञ्छृणु त्वं महामते ।। ११
द्वादशाङ्गुलपर्यन्ताद्बाह्यादभ्युदितः प्रभो ।
यो वातस्तस्य तत्रैव स्वभावात्पूरकादयः ।। १२
हृदन्तरस्थानिष्पन्नघटवद्या स्थितिर्बहिः ।
द्वादशाङ्गुलपर्यन्ते नासाग्रसमसंमुखे ।। १३
व्योम्नि नित्यमपानस्य तं विदुः कुम्भकं बुधाः ।
बाह्योन्मुखस्य वायोर्या नासिकाग्रावधिर्गतिः ।। १४
तं बाह्यपूरकं त्वाद्यं विदुर्योगविदो जनाः ।
नासाग्रादपि निर्गत्य द्वादशान्तावधिर्गतिः ।। १५
या वायोस्तं विदुर्धीरा अपरं बाह्यपूरकम् ।
वहिरस्तंगते प्राणे यावन्नापान उद्गतः ।। १६
तावत्पूर्णं समावस्थं बहिष्ठं कुम्भकं विदुः ।
यत्तदन्तर्मुखत्वं स्यादपानस्योदयं विना ।। १७
तं बाह्यरेचकं विद्याच्चिन्त्यमानं विमुक्तिदम् ।
द्वादशान्ताद्यदुत्थाय रूपपीवरता परा ।। १८
अपानस्य बहिष्ठं तमपरं पूरकं विदुः ।
बाह्यानाभ्थन्तरांश्चैतान्कुम्भकादीननारतम् ।। १९
प्राणापानस्वभावांस्तमबुद्ध्वा भूयो न जायते ।
अष्टावेते महाबुद्धे रात्रिदिवमनुस्मृताः ।। 6.1.25.२०
स्वभावा देहवायूनां कथिता मुक्तिदा मया ।
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।। २१
एते निरोधमायान्ति प्रकृत्याऽतिचलानिलाः ।
यत्करोति यदश्नाति बुद्ध्यैवालमनुस्मरन् ।। २२
कुम्भकादीन्नरः स्वान्तस्तत्र कर्ता न किंचन ।
अव्यग्रमस्मिन्व्यापारे बाह्यं परिजहन्मनः ।। २३
दिनैः कतिपयैरेव पदमाप्नोति केवलम् ।
एतदभ्यसतः पुंसो बाह्ये विषयवृत्तिषु ।। २४
न बघ्नाति रतिं चेतः श्वदृतौ ब्राह्मणो यथा ।
एतां दृष्टिमवष्टभ्य ये स्थिताः कृतबुद्धयः ।। २५
प्राप्तप्राप्तव्यमखिलं तैरखिन्नास्त एव हि ।
तिष्ठता गच्छता नित्यं स्वपता जाग्रता तथा ।। २६
एषा चेत्प्रेक्ष्यते दृष्टिस्तन्न बन्धनमाप्यते ।
प्राणापानानुसरणप्राप्तबोधवतामलम् ।। २७
संशान्तमलमोहेन स्वस्थेनान्तरिहोष्यते ।
सर्वारम्भान्सदा स्वच्छः कुर्वन्वापि बुधो जनः ।। २८
प्राणापानगतिं प्राप्य सुस्वस्थः सुखमेधते ।
प्राणस्याभ्युदयो ब्रह्मन्पद्मपत्राद्धृदि स्थितात् ।। २९
द्वादशाङ्गुलपर्यन्ते प्राणोऽस्तं यात्ययं बहिः ।
अपानस्योदयो बाह्याद्द्वादशान्तान्महामुने ।। 6.1.25.३०
अस्तंगतिरथाम्भोजमध्ये हृदयसंस्थिते ।
प्राणो यत्र समायाति द्वादशान्ते नभःपदे ।। ३१
पदात्तस्मादपानोऽयं खादेति समनन्तरम् ।
बाह्याकाशोन्मुखः प्राणो वहत्यग्निशिखा यथा ।। ३२
हृदाकाशोन्मुखोऽपानो निम्ने वहति वारिवत् ।
अपानश्चन्द्रमा देहमाप्याययति बाह्यतः ।। ३३
प्राणः सूर्योऽग्निरथवा पचत्यन्तरिदं वपुः ।
प्राणो हि हृदयाकाशं तापयित्वा प्रतिक्षणम् ।। ३४
मुखाग्रगगनं पश्चात्तापयत्युत्तमो रविः ।
अपानेन्दुर्मुखाग्रं तु प्लावयित्वा हृदम्बरम् ।। ३५
पश्चादाप्याययत्येष निमेषसमनन्तरम् ।
अपानशशिनोऽन्तस्था कला प्राणविवस्वता ।। ३६
यत्र ग्रस्ता तदासाद्य पदं भूयो न शोच्यते ।
प्राणार्कस्य तथान्तस्था यत्रापानसितांशुना ।। ३७
ग्रस्ता तत्पदमासाद्य न भूयो जन्मभाङ्नरः ।
प्राण एवार्कतां याति सबाह्याभ्यन्तरेऽम्बरे ।। ३८
आप्यायनकरीं पश्चाच्छशितामधितिष्ठति ।
प्राण एवेन्दुतां त्यक्त्वा शरीराप्यायकारिणीम् ।।३९
क्षणादायाति सूर्यत्वं संशोषणकरं पदम् ।
अर्कतां संपरित्यज्य न यावच्चन्द्रतां गतः ।। 6.1.25.४०
प्राणस्तावद्विचार्यन्तेऽदेशकाले न शोच्यते ।
हृदि चन्द्रार्कयोर्ज्ञात्वा नित्यमस्तमयोदयम् ।। ४१
आन्मनो निजमाधारं न भूयो जायते मनः ।
सोदयास्तमयं सेन्दुं सरश्मिं सगमागमम् ।। ४२
हृदये भास्करं देवं यः पश्यति स पश्यति ।
न क्षीणं नापरिक्षीणं बहिष्ठं सिद्धये तमः ।। ४३
हार्दं तु क्षपयेद्ध्वान्तं यत्क्षये सिद्धिरुत्तमा ।
बाह्ये तमसि संक्षीणो लोकालोकः प्रजायते ।। ४४
हार्दे तु तमसि क्षीणे स्वालोको जायते मुने ।
हार्दान्धकारक्षयदं परिज्ञातं विमुक्तिदम् ।। ४५
सोदयास्तमयं यत्नात्प्राणार्कमवलोकयेत् ।
अपानेन्दुः प्रयात्यस्तं यत्र हृत्पद्मकोटरे ।। ४६
पदात्तस्मादुदेत्यन्तः प्राणार्को बहिरुन्मुखः ।
अपानेऽस्तंगते प्राणः समुदेति हृदम्बुजात् ।। ४७
छायायां गलिताङ्गायां तत्रैवाशु यथातपः ।
प्राणे त्वस्तंगते बाह्यादपानः प्रोदितः क्षणात् ।। ४८
आतपे परितो नष्टे छायेवानुपदं तथा ।
प्राणजन्मावनौ नष्टमपानं विद्धि सन्मते ।। ४९
अपानजन्मभूमौ च प्राणं नष्टमवेहि हि ।
अस्तंगतवति प्राणे त्वपानेऽभ्युदयोन्मुखे ।। 6.1.25.५०
बहिः कुम्भकमालम्ब्य चिरं भूयो न शोच्यते ।
अपानेऽस्तंगते प्राणे किंचिदभ्युदयोन्मुखे ।। ५१
अन्तःकुम्भकमालम्ब्य चिरं भूयो न शोच्यते ।
प्राणरेचकमालम्ब्य अपानाद्दूरकोटिगम् ।। ५२
स्वच्छं कुम्भकमभ्यस्य न भूयः परितप्यते ।
अपाने रेचकाधारं प्राणपूरान्तरास्थितम् ।। ५३
स्वसंस्थं पूरकं दृष्ट्वा न भूयो जायते नरः ।
प्राणापानावुभावन्तर्यत्रैतौ विलयं गतौ ।। ५४
तदालम्ब्य पदं शान्तमात्मानं नानुतप्यते ।
प्राणभक्षोन्मुखेऽपाने देशं कालं च निष्कलम् ।। ५५
विचार्य बहिरन्तर्वा न भूयः परिशोच्यते ।
अपानभक्षणपरे प्राणे हृदि तथा बहिः ।। ५६
देशं कालं च संप्रेक्ष्य न भूयो जायते मनः ।
यत्र प्राणो ह्यपानेन प्राणेनापान एव च ।। ५७
निगीर्णौ बहिरन्तश्च देशकालौ च पश्य तौ ।
क्षणमस्तंगतप्राणमपानोदयवर्जितम् ।। ५८
अयत्नसिद्धबाह्यस्थं कुम्भकं तत्पदं विदुः ।
अयत्नसिद्धो ह्यन्तस्थकुम्भकः परमं पदम् ।। ५९
एतत्तदात्मनो रूपं शुद्धैषा परमैव चित् ।
एतत्तत्तत्सदाभासमेतत्प्राप्य न शोच्यते ।। 6.1.25.६०
पुष्पस्यान्तरिवामोदः प्राणस्यान्तरवस्थितम् ।
न स प्राणं न वाऽपानं चिदात्मानमुपास्महे ।। ६१
जलस्यान्तरिवास्वादमपानस्यान्तरस्थितम् ।
न सप्राणं न वाऽप्राणं चिदात्मानमुपास्महे ।। ६२
प्राणक्षयस्योपान्तस्थमपानक्षयकोटिगम् ।
अपानप्राणयोर्मध्यं चिदात्मानमुपास्महे ।। ६३
प्राणस्य प्राणनं प्रोच्चैः परं जीवस्य जीवनम् ।
देहस्य धारणं धुर्यं चिदात्मानमुपास्महे ।। ६४
मनसो मननं सत्यं बुद्धेरेकावबोधनम् ।
अहंकृतेरहंकारं चिदात्मानमुपास्महे ।। ६५
यस्मिन्सर्व यतः सर्वं यत्सर्वं सर्वतश्च यत् ।
यच्च सर्वमयं नित्यं तच्चित्तत्त्वमुपास्महे ।। ६६
आलोकालोकनं पुण्यं सर्वपावनपावनम् ।
न च भावनमन्नूनं तच्चित्तत्त्वमुपास्महे ।। ६७
[ अपानोऽस्तं गतो यत्र प्राणो नाभ्युदितः क्षणम् ।
कलाकलङ्करहितं तच्चित्तत्त्वमुपास्महे ।।]
नापानोऽभ्युदितो यत्र प्राणश्चान्तमुपागतः ।
नासाग्रगगनावर्तं तच्चित्तत्त्वमुपास्महे ।। ६८
यत्र प्राणोऽस्तमायाति यत्रापानोऽस्तमेति च ।
यत्र द्वावप्यनुत्पन्नौ तच्चित्तत्त्वमुपास्महे ।। ६९
प्राणापानोद्भवस्थाने बाह्याभ्यन्तरमास्थिते ।
ये द्वे योगिपदाधारस्तच्चित्तत्त्वमुपास्महे ।। 6.1.25.७०
प्राणापानरथारूढं प्राणापानमनाततम् ।
यच्छक्तिरूपं शक्तीनां तच्चित्तत्त्वमुपास्महे ।। ७१
हृत्प्राणकुम्भकं देवं बहिश्चापानकुम्भकम् ।
पूरकांशविसृष्टं यत्तच्चित्तत्त्वमुपास्महे ।। ७२
प्राणापानपरामर्शं सत्ताबोधं विरूपकम् ।
यत्प्राप्यं प्राणमननात्तच्चित्तत्त्वमुपास्महे ।। ७३
यत्प्राणपवनस्पन्दो यत्स्पन्दानन्दकारकम् ।
कारणं कारणानां यत्तच्चित्तत्त्वमुपास्महे ।। ७४
यदखिलकलनाकलङ्कहीनं
परिवलितं च सदा कलागणेन ।
स्वनुभवविभवं पदं तदग्र्यं
सकलसुरप्रणतं परं प्रपद्ये ।। ७५
इत्यार्षे श्रीवा०रामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० भुशुण्डोपाख्याने समाधिवर्णनं नाम पञ्चविंशः सर्गः ।। २५ ।।