योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०२४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


चतुविशः सर्गः २४

भुशुण्ड उवाच ।
एकैव केवला दृष्टिर्निरापाया गतभ्रमा ।
विद्यते सर्ववित्त्वेषु सर्वश्रेष्ठा समुन्नता ।। १
आत्मचिन्ता समस्तानां दुःखानामन्तकारिणी ।
चिरसंभृतदुःस्वप्नसंसारभ्रमहारिणी ।। २
निष्कलङ्कमनोमार्गविपुलाङ्गणचारिणी ।
तथा समस्तदुःखानां चिन्तानर्थविनाशिनी ।। ३
ज्योत्स्नयेवान्धकाराणामलमन्तः प्रजायते ।
सा स्वात्मचिन्ता भगवन्सर्वसंकल्पवर्जिता ।। ४
युष्मदादिषु सुप्रापा दुष्प्रापैवास्मदादिषु ।
समस्तकलनातीतं परां कोटिमुपागतम् ।। ५
पदमासादयन्त्येतत्कथं सामान्यबुद्धयः ।
आत्मचिन्ताविलासिन्यास्तस्याः सख्यो महामुने ।। ६
किंचित्साम्यमुपायाता विज्ञानशशिशीतलाः ।
आत्मचिन्तासमानानां विविधानां मुनीश्वर ।। ७
आत्मचिन्तावयस्यानां मध्यादेकतमा मया ।
सर्वदुःखक्षयकरी सर्वसौभाग्यवर्धिनी ।। ८
कारणं जीवितस्येह प्राणचिन्ता समाश्रिता ।
श्रीवसिष्ठ उवाच ।
इत्युक्तवन्तं विहगं भुशुण्डं पुनरप्यहम् ।
जानन्नपीदमव्यग्रः पृष्टवान्क्रीडया मुनिम् ।। ९
सर्वसंशयविच्छेदिन्नत्यन्तचिरजीवित ।
यथार्थम ब्रूहि मे साधो प्राणचिन्ता किमुच्यते ।। 6.1.24.१०
भुशुण्ड उवाच ।
सर्ववेदान्तवेत्तासि सर्वसंशयनाशकः ।
मामेतत्परिहासार्थं मुने पृच्छसि वायसम् ।। ११
अथवा भवतामेव भगवन्परिशिक्षितुम् ।
पुनः प्रत्युत्तराणीदं का मे क्षतिरुपस्थिता ।। १२
भुशुण्डजीवितकरं भुशुण्डस्वात्मलाभदम् ।
शृणु प्राणसमाधानं वक्ष्यमाणमिदं मया ।। १३
पश्येदं भगवन्सर्वं देहगेहं मनोरमम् ।
त्रिप्रकारमहास्थूणं नवद्वारसमावृतम् ।। १४
पुर्यष्टककलत्रेण तन्मात्रस्वजनेन च ।
अहंकारगृहस्थेन सर्वतः परिपालितम् ।। १५
अन्तः पश्यसि सत्कर्णशष्कुलीचन्द्रशालिकम् ।
शिरोरुहाच्छादनवद्विपुलाक्षिगवाक्षकम् ।। १६
आस्यप्रधानसुद्वार भुजपार्श्वोपमन्दिरम् ।
दन्तालिकेसरस्रग्भिर्भूषितद्वारकोटरम् ।। १७
अनारतं रूपरसस्पर्शनद्वारपालवत् ।
संकुलालोकवलितं तारालिन्दकृतस्थिति ।। १८
रक्तमांसवसादिग्धं स्नायुसंततिवेष्टितम् ।
स्थूलास्थिकाष्ठसंबद्धं सुकुडयं सुसमाहितम् ।। १९
इडा च पिङ्गला चास्य देहस्य मुनिनायक ।
सुस्थिते कोमले मध्ये पार्श्वकोष्ठे निमीलिते ।। 6.1.24.२०
पद्मयुग्मत्रयं यन्त्रमस्थिमांसमयं मृदु ।
ऊर्ध्वाधोनालमन्योन्यमिलत्कोमलसद्दलम् ।। २१
सेकेन विकसत्पत्रं सकलाकाशचारिणा ।
चलन्ति तस्य पत्राणि मृदु व्याप्तानि वायुना ।। २२
चलत्सु तेषु पत्रेषु स मरुत्परिवर्धते ।
वाताहते लतापत्रजाले बहिरिवाभितः ।। २३
वृद्धिं नीतः स नाडीषु कृत्वा स्थानमनेकधा ।
ऊर्ध्वाधोवर्तमानासु देहेऽस्मिन्प्रसरत्यथ ।। २४
प्राणापानसमानाद्यैस्ततः स हृदयानिलः ।
संकेतैः प्रोच्यते तज्ज्ञैर्विचित्राचारचेष्टितैः ।। २५
हृत्पद्मयन्त्रत्रितये समस्ताः प्राणशक्तयः ।
ऊर्ध्वाधः प्रसृता देहे चन्द्रबिम्बादिवांशवः ।। २६
यान्त्यायान्ति विकर्षन्ति हरन्ति विहरन्ति च ।
उत्पतन्ति पतन्त्याशु ता एताः प्राणशक्तयः ।। २७
स एष हृत्पद्मगतः प्राण इत्युच्यते बुधैः ।
अस्य काचिन्मुने शक्तिः प्रस्पन्दयति लोचने ।। २८
काचिस्पर्शमुपादत्ते काचिद्वहति नासया ।
काचिदन्नं जरयति काचिद्वक्ति वचांसि च ।। २९
बहुनात्र किमुक्तेन सर्वमेव शरीरके ।
करोति भगवान्वायुर्यन्त्रेहामिव यान्त्रिकः ।। 6.1.24.३०
तत्रोर्ध्वाधोद्विसंकेतौ प्रसृतावनिलौ मुने ।
प्राणापानाविति ख्यातौ प्रकटौ द्वौ वरानिलौ ।। ३१
तयोरनुसरन्नित्यं मुने गतिमहं स्थितः ।
शीतोष्णवपुषोर्नित्यं नित्यमम्बरपान्थयोः ।। ३२
कलेवरमहायन्त्रवाहयोः श्रमहीनयोः ।
हृदाकाशार्कशशिनोस्त्वग्नीषोमस्वरूपयोः ।। ३३
शरीरपुरपालस्य मनसो रथचक्रयोः ।
अहंकारनृपस्यास्य प्रशस्येष्टतुरङ्गयोः ।। ३४
तयोर्ममानुसरतः प्राणापानाभिधानयोः ।
गतिं शरीरमरुतोराशरीरमरुद्धयोः ।। ३५
जाग्रत्स्वप्नसुषुप्तेषु सदैव समरूपयोः ।
सुषुप्तसंस्थितस्येव ब्रह्मन् गच्छन्ति वासराः ।। ३६
सहस्रविनिकृत्ताङ्गाद्बिसतन्तुलवादपि ।
दुर्लक्ष्या विद्यमानापि गतिः सूक्ष्मतराऽनयोः ।। ३७
अविरतगतयोर्गतिं विदित्वा हृदि मरुतोरनुसृत्य चोदितां ताम् ।
न पुनरिह हि जायते महात्मन्मुदितमनाः पुरुषः प्रणष्टपाशः ।। ३८
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषु निर्वाणप्र० पू० भुशुण्डोपाख्याने प्राणविचारणं नाम चतुर्विंशः सर्गः ।। २४ ।।