योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०२१

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्



एकविंशः सर्गः २१

भुशुण्ड उवाच ।
युगक्षोभेषु घोरेषु वाक्यासु विषमासु च ।
सुस्थिरः कल्पवृक्षोऽयं न कदाचन कम्पते ।। १
अगम्योऽयं समग्राणां लोकान्तरविहारिणाम् ।
भूतानां तेन तिष्ठाम इह साधो सुखेन वै ।। २
हिरण्याक्षो धरापीठं द्वीपसप्तकवेष्टितम् ।
यदा जहार तरसा नाकम्पत तदा तरुः ।। ३
यदा लोलायितवपुर्बभूवामरपर्वतः ।
सर्वतो दत्तसाम्याद्रिस्तदा नाकम्पत द्रुमः ।। ४
भुजावष्टम्भविनमन्मेरुर्नारायणो यदा ।
मन्दरं प्रोद्दधाराद्रिं तदा नाकम्पत द्रुमः ।। ५
यदा सुरासुरक्षोभपतच्चन्द्रार्कमण्डलम् ।
आसीज्जगदतिक्षुब्धं तदा नाकम्पत द्रुमः ।। ६
उन्मूलिताद्रीन्द्रशिला यदोत्पातानिला ववुः ।
आधूतमेरुतरवस्तदा नाकम्पत द्रुमः ।। ७
यदा क्षीरोदलोलाद्रिकन्दरानिलकम्पिताः ।
कल्पाभ्रपङ्क्तयश्चेरुस्तदा नाकम्पत द्रुमः ।। ८
यदा समन्ततो मेरुः कालनेमिभुजान्तरे ।
किंचिदुन्मूलितोऽतिष्ठत्तदा नाकम्पत द्रुमः ।। ९
पक्षीशपक्षपवना अमृताक्रान्तिसंगरे ।
यदा ववुः पतत्सिद्धास्तदायं नापतद्द्रुमः ।। 6.1.21.१०
यदा शेषाकृतिं रुद्रो नसमाप्तैकचेष्टिताम् ।
ययौ गरुत्मान्ब्रह्माण्डं तदा नाकम्पत द्रुमः ।। ११
यदा कल्पानलशिखाः शैलाब्धिसकलोल्बणः ।
शेषः फणाभिस्तत्याज तदा नाकम्पत द्रुमः ।। १२
एवंरूपे द्रुमवरे तिष्ठतामापदः कुतः ।
अस्माकं मुनिशार्दूल दौःस्थित्येन किलापदः ।। १३
श्रीवसिष्ठ उवाच ।
कल्पान्तेषु महाबुद्धे वहत्सूत्पातवायुषु ।
प्रपतत्स्विन्दुभार्केषु कथं तिष्ठसि विज्वरः ।। १४
भुशुण्ड उवाच ।
यदा पपात कल्पान्ते व्यवहारो जगत्स्थितौ ।
कृतघ्न इव सन्मित्रं तदा नीडं त्यजाम्यहम् ।। १५
आकाश एव तिष्ठामि विगताखिलकल्पनः ।
स्तब्धप्रकृतिसर्वाङ्गो मनो निर्वासनं यथा ।। १६
प्रतपन्ति यदादित्याः शकलीकृतभूधराः ।
वारुणीं धारणां बद्ध्वा तदा तिष्ठामि धीरधीः ।। १७
यदा शकलिताद्रीन्द्रा वान्ति प्रलयवायवः ।
पार्वतीं धारणां बद्ध्वा खे तिष्ठाम्यचलं तदा ।। १८
जगद्गलितमेर्वादि यात्येकार्णवतां यदा ।
वायवीं धारणां बद्ध्वा संप्लवेऽचलधीस्तदा ४ १९
ब्रह्माण्डपारमासाद्य तत्त्वान्ते विमले पदे ।
सुषुप्तावस्थया तावत्तिष्ठाम्यचलरूपया ।। 6.1.21.२०
यावत्पुनः कमलजः सृष्टिकर्मणि तिष्ठति ।
तत्र प्रविश्य ब्रह्माण्डं तिष्ठामि विहगालये ।। २१
श्रीवसिष्ठ उवाच ।
यथा तिष्ठसि पक्षीन्द्र धारणाभिरखण्डितः ।
कल्पान्तेषु तथा कस्मान्नान्ये तिष्ठन्ति योगिनः ।। २२
भुशुण्ड उवाच ।
ब्रह्मन्नियतिरेषा हि दुर्लङ्घ्या पारमेश्वरी ।
मयेदृशेन वै भाव्यं भाव्यमन्यैस्तु तादृशैः ।। २३
न शक्यते तोलयितुमवश्यं भवितव्यता ।
यद्यथा तत्तथैतद्धि स्वभावस्यैव निश्चयः ।। २४
मत्संकल्पवशेनैव कल्पे कल्पे पुनः पुनः ।
अस्मिन्नेव गिरेः शृङ्गे तरुरित्थं भवत्ययम् ।। २५
श्रीवसिष्ठ उवाच ।
अत्यन्तमोक्षदीर्घायुर्भवान्निर्देशनायकः ।
ज्ञानविज्ञानवान्धीरो योगयोग्यमनोगतिः ।। २६
दृष्टानेकविधानल्पसर्गसङ्गगमागमः ।
किं किं स्मरसि कल्याण चित्रमस्मिञ्जगत्क्रमे ।। २७
भुशुण्ड उवाच ।
महत्तर शिलावृक्षामजाततृणवीरुधम् ।
अशैलवनवृक्षौघां स्मरामीमां धरामधः ।। २८
दशवर्षसहस्राणि दशवर्षशतानि च ।
भस्मसारभरापूर्णां संस्मरामि धरामधः ।। २९
अनुत्पन्नदिवाधीशामशक्तशशिमण्डलाम् ।
अविभक्तदिवालोकां संस्मरामि धरामधः ।। 6.1.21.३०
मेरुरत्नतलोद्योतैरर्धप्रकटकोटरम् ।
लोकालोकमिवाक्याढ्याद्रिभुवनं संस्मराम्यहम् ।। ३१
प्रवृद्धासुरसंग्रामे क्षीयमाणन्तरामिह ।
पलायमानामभितः संस्मरामि धरामिमाम् ।। ३२
चतुर्युगानि चाक्रान्तामसुरैर्मत्तकाशिभिः ।
दैत्यान्तःपुरतां प्राप्तां संस्मरामि धरामिमाम् ।।३३
अत्यन्तान्तरितान्तान्तसमस्तापरमण्डलाम् ।
अजदेवत्रयीशेषां संस्मरामि जगत्कुटीम् ।। ३४
चतुर्युगार्धमपरं नीरन्ध्रां वनपादपैः ।
अदृष्टेतरनिर्माणां संस्मरामि धरामिमाम् ।। ३५
एवं चतुर्युगं साग्रं नीरन्ध्रैरचलैर्वृताम् ।
अप्रवृत्तजनाचारां संस्मरामि धरामिमाम् ।। ३६
दशवर्षसहस्राणि मृतदैत्यास्थिपर्वतैः ।
आकीर्णां परितः पूर्णां संस्मरामि धरामिमाम् ।।३७
भयादन्तर्हिताशेषवैमानिकनभश्चराम् ।
द्यां च निर्वृक्षनिःशेषां संस्मरामि तमोमयीम् ।। ३८
अनगस्त्यामगस्त्याशामेकपर्वततां गताम् ।
मत्ते विन्ध्यमहाशैले संस्मरामि जगत्कुटीम् ।। ३९
एतांश्चान्यांश्च वृत्तान्तान्संस्मरामि बहूनपि ।
किं तेन बहुनोक्तेन सारं संक्षेपतः शृणु ।। 6.1.21.४०
असंख्यातान्मनून्ब्रह्मन्स्मरामि शतशो गतान् ।
सर्वान्संरम्भबहुलांश्चतुर्युगशतानि च ।। ४१
एकमेव स्वयं शुद्धं पुरुषासुरवर्जितम् ।
आलोकनिचयं चैकं कंचित्सर्गं स्मराम्यहम् ।। ४२
सुरापं ब्राह्मणं मत्तं निषिद्धसुरशूद्रकम् ।
बहुनाथसतीकं च कंचित्सर्गं स्मराम्यहम् ।। ४३
वृक्षनीरन्ध्रभूपीठमकल्पितमहार्णवम् ।
स्वयसंजातपुरुषं कंचित्सर्गं स्मराम्यहम् ।। ४४
अपर्वतमभूमिं च व्योमस्थामरमानवम् ।
अचन्द्रार्कप्रकाशाख्यं कंचित्सर्गं स्मराम्यहम् ।। ४५
अनिन्द्रममहीपालममध्यस्थाधमोत्तमम् ।
स्वममन्धककुप्चक्रं कंचित्सर्गं स्मराम्यहम् ।। ४६
सर्गप्रारम्भकलना विभागो भुवनत्रये ।
कुलपर्वतसंस्थानं जम्बूद्वीपं पृथक्स्थितम् ।। ४७
वर्णधर्मधियां सृष्टिविभागो मण्डलावनेः ।
ऋक्षचक्रकसंस्थानं ध्रुवनिर्माणमेव च ।। ४८
जन्मेन्दुभास्करादीनामिन्द्रोपेन्द्रव्यवस्थितिम् ।
हिरण्याक्षापहरणं वराहोद्धरणं क्षितेः ।। ४९
कल्पनं पार्थिवानां च वेदानयनमेव च ।
मन्दरोन्मूलनं चाब्धेरमृतार्थं च मन्थनम् ।। 6.1.21.५०
अजातपक्षो गरुडः सागराणां च संभवः ।
इत्यादिका याः स्मृतयः स्वल्पातीतजगत्क्रमाः ।
बालैरपि हि तास्तात स्मर्यन्ते तासु को ग्रहः ।। ५१
गरुडवाहनं विहगवाहनं विहगवाहनं वृषभवाहनम् ।
वृषभवाहनं गरुडवाहनं कलितवानहं कलितजीवितः ।। ५२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० भुशुण्डो० चिरजीवितवृत्तान्तकथनं नामैकविंशः सर्गः ।।२ १ ।।