योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०२०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


विंशः सर्गः २०

भुशुण्ड उवाच ।
आसीत्किंचित्पुरा कल्पे जगद्यच्चिरमास्थितम् ।
संनिवेशेन चैतद्वदद्यापि च न दूरगम् ।। १
तदेतद्वृत्तमभ्यासाद्वर्तमानेन वर्णितम् ।
मया मुनीन्द्र बोधाय प्राग्जन्मसाम्यदर्शिना ।। २
अद्य मे फलितं पुण्यैश्चिरकालोपसंभृतैः ।
निर्विघ्नमेव पश्यामि यद्भवन्तं मुने ततः ।। ३
इदं नीडमिमां शाखामहं चायमयं द्रुमः ।
अद्य पावनतां प्राप्तान्येतानि तव दर्शनात् ।। ४
इदमर्घ्यमिद पाद्यं गृहीत्वा विहगार्पितम् ।
नूनं पावनतां नीत्वा शेषेणादिश चाशु भोः ।। ५
श्रीवसिष्ठ उवाच ।
इदमर्घ्यं च पाद्यं च भूयो दत्तवति स्वयम् ।
भुशुण्डविहगे तस्मिन्निदं रामाहमुक्तवान् ।। ६
भ्रातरस्ते विहङ्गेश तादृक्सत्त्वा महाधियः ।
इह कस्मान्न दृश्यन्ते त्वमेवैको हि दृश्यसे ।। ७
भुशुण्ड उवाच ।
तिष्ठतामिह नः कालो महानतिगतो मुने ।
युगानां पङ्क्तयः क्षीणा दिवसानामिवानघ ।। ८
एतावताथ कालेन सर्व एव ममानुजाः ।
तनूस्तृणमिव त्यक्त्वा शिवे परिणताः पदे ।। ९
दीर्घायुषो महान्तोऽपि सन्तोऽपि बलिनोऽपि च ।
सर्व एव निगीर्यन्ते कालेनाकलितात्मना ।। 6.1.20.१०
श्रीवसिष्ठ उवाच ।
स्कन्धव्यूढार्कशशिषु वहत्स्वविरतं जवात् ।
वातस्कन्धातिवातेषु कच्चित्तात न खिद्यसे ।। ११
दग्धोदयास्तशैलेन्द्रवनव्यूहै रवेः करैः ।
चिरमत्यन्तमासन्नैः कच्चित्तात न खिद्यसे ।। १२
इन्दोरथ करैः शीतैः पाषाणीकृतवारिभिः ।
आसन्नकरकापातैः कच्चित्तात न खिद्यसे ।। १३
अजस्रमिह विश्रान्तैः कल्पजीमूतमण्डलैः ।
परशुच्छेदनीहारैः कच्चित्तात न खिद्यसे ।। १४
विषमैर्जागतैः क्षोभैरुच्चैस्तरपदस्थितः ।
कथं न क्षोभमायाति कल्पवृक्षोऽयमुन्नतः ।। १५
भुशुण्ड उवाच ।
निरालम्बास्पदा ब्रह्मन्सर्वलोकावहेलिता ।
तुच्छेयं सर्वभूतानां मध्ये विहगजीविका ।। १६
ईदृशेषु च भूतेषु निर्जनेषु वनेषु च ।
कल्पितास्थास्थितिर्धात्रा शून्ये वा व्योमवर्त्मनि ।।१७
कथमस्यां प्रभो जातौ जातस्य चिरजीविनः ।
आशापाशनिबद्धस्य विहगस्य विशोकिता ।। १८
वयं तु भगवन्नित्यमात्मसंतोषमास्थिताः ।
न कदाचन नीरूपे मुह्यामो जातविभ्रमैः ।। १९
स्वभावमात्रसंतुष्टाः कष्टैर्मुक्ता विचेष्टितैः ।
क्षिपामः केवलं कालमस्मिन्ब्रह्मन्निजालये ।। 6.1.20.२०
न जीवितान्न मरणात्कर्मदेहस्य रोधनम् ।
यथा स्थितेन तिष्ठामस्तथैवास्तंगतेहिताः ।। २१
आलोकिता लोकदशा दृष्टा दृष्टान्तदृष्टयः ।
नूनं संत्यक्तमस्माकं मनसा चञ्चलं वपुः ।। २२
अनारतनिजालोके नित्यं चापरितापिनि ।
कल्पागस्योपरि सदा वेद्मि कालकलागतिम् ।। २३
रत्नगुच्छप्रकाशाख्ये ब्रह्मन्कल्पलतागृहे ।
प्राणापानप्रवाहेण वेद्मि कल्पमखण्डितम् ।। २४
अविज्ञातदिवारात्रौ ह्यस्मिन्नुच्चैः शिलोच्चये ।
जानामि निजया बुद्ध्या लोककालक्रमस्थितिम् ।।२५
सारासारपरिच्छेदि बोधाद्विश्रान्तिमागतम् ।
निरस्तचापलं शान्तं सुस्थिरं मे मुने मनः ।। २६
संसारव्यवहारोत्थैराशापाशैरसन्मयैः ।
उद्गारैरिव भूकाको न वैवश्यं व्रजाम्यहम् ।। २७
परोपशमधर्मिण्या वयमालोकशीतया ।
पश्यन्तो जागतीं मायां धिया धैर्यमुपागताः ।। २८
भीमास्वपि महाबुद्धे दशास्वचलबुद्धयः ।
विनिर्मलोपलाकाराः संप्राप्तासु यथाक्रमम् ।। २९
इयमारम्भसुभगा तरला जागती स्थितिः ।
भूयो भूयः परामृष्टा न च किंच न बाधते ।। 6.1.20.३०
सर्वाण्येव प्रयान्त्येव समायान्ति च वा न वा ।
भगवन्भूतजालानि भयमस्माकमत्र किम् ।। ३१
भूतजालतरङ्गिण्या विशन्त्याः कालसागरे ।
वयं संसारसरितस्तटस्था अप्यनादृताः ।। ३२
नोज्झामो न च गृह्णीमस्तिष्ठामो नेह च स्थिताः ।
मृदुपादा दृशा कूरा वयमस्मिन्द्रुमे स्थिताः ।। ३३
वीतशोकभयायासैस्त्वादृशैः पुरुषोत्तमैः ।
तुष्टैरनुगृहीताः स्मः संस्थिता विगतामयाः ।। ३४
ततस्ततश्च पर्यस्तं लुठितं न च वृत्तिषु ।
नापरामृष्टतत्त्वार्थमस्माकं भगवन्मनः ।। ३५
निर्विकारे गतक्षोभे चात्मन्युपशमं गते ।
चित्तरङ्गाः प्रबुद्धाः स्मः पर्वणीव महाब्धयः ।। ३६
भवदागमनाद्ब्रह्मन्निदानीं मुदिताशयाः ।
मन्दरोद्धूतसर्वाङ्गः क्षीरोदो येन तन्यते ।। ३७
नातः परतरं किंचिन्मन्ये कुशलमात्मनः ।
सन्तो यदनुगम्यन्ते संत्यक्तसकलैषणाः ।। ३८
आपातमात्ररम्येभ्यो भोगेभ्यः किमवाप्यते ।
सत्सङ्गचिन्तामणितः सर्वसारमवाप्यते ।। ३९
स्निग्धगम्भीरमसृणमधुरोदारधीरवाक् ।
त्रैलोक्यपद्मकोशेऽस्मिंस्त्वमेकः षट्पदायसे ।। 6.1.20.४०
अधिगतपरमात्मनोऽपि मन्ये भवदवलोकनशान्तदुष्कृतस्य ।
मम सफलमिहाद्य जन्म साधो सकलभयापहरो हि साधुसङ्गः ।। ४१
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० भुशुण्डोपाख्याने भुशुण्डस्वरूपनिरूपणं नाम विंशः सर्गः ।। २० ।।