योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०१६

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


षोडशः सर्गः १६

श्रीवसिष्ठ उवाच ।
अथ तत्याहमपतं दीप्यमानवपुः पुरः ।
किंचिद्विक्षोभितसभः खान्नक्षत्रमिवाचले ।। १
चुक्षोभ वायसास्थानं नीलोत्पलसरःसमम् ।
मत्पातमन्दवातेन भूकम्पेनेव सागरः ।। २
अशङ्कितमपि प्राप्तं दर्शनान्मामनन्तरम् ।
भुशुण्डस्तु वसिष्ठोऽयं प्राप्त इत्यवबुद्धवान् ।। ३
पत्रपुञ्जात्समुत्तस्थौ मेघशाव इवाचलात् ।
हे मुने स्वागतमिति प्रोवाच मधुराक्षरम् ।। ४
संकल्पमात्रजाताभ्यां कराभ्यां कुसुमाञ्जलिम् ।
मह्यमाशु तदैवादान्मेघो हैममिवोत्करम् ।। ५५
इदमासनमिप्युक्त्वा नवं कल्पतरुच्छदम् ।
उपानीतवति त्यक्तभृत्ये वायसनायके ।। ६
भुशुण्ड उत्थिते स्वीयकलापक्षेषु पक्षिषु ।
उपविष्टं मुनिं दृष्ट्वा स्वासनोन्मुखदृष्टिषु ।। ७
समन्तात्खगवृन्देन भुशुण्डेन समं ततः ।
तस्मिन्कल्पलतापुञ्जे ह्युपविष्टोऽहमासने ।। ८
अर्घ्यपाद्यादि संपाद्य भुशुण्डस्तुष्टमानसः ।
मामुवाच महातेजाः सौहृदान्मधुराक्षरम् ।। ९
भुशुण्ड उवाच ।
अहो भगवताऽस्माकं प्रसादो दर्शितश्चिरात् ।
दर्शनामृतसेकेन यत्सिक्ताः सद्द्रुमा वयम् ।। 6.1.16.१०
मत्पुण्यचिरसंभारप्रेरितेन त्वयाधुना ।
मुने मान्यैकमान्येन कुतश्चागमनं कृतम् ।। ११
कच्चिदस्मिन्महामोहे चिरं विहरतस्तव ।
अखण्डितैव समता स्थिता चेतसि पावने ।। १२
किमर्थमद्यागमनक्लेशेनात्मा कदर्थितः ।
वचनश्रवणोत्कानामाज्ञां नो वक्तुमर्हसि ।। १३
त्वत्पाददर्शनादेव सर्वं ज्ञातं मया मुने ।
त्वदागमनपुण्येन वयमायोजितास्त्वया ।। १४
चिरंजीवितचर्चाभिर्वयं वः स्मृतिमागताः ।
तेनेदमास्पदं पादैस्त्वं पवित्रितवानयम् ।। १५
ज्ञातत्वदागमोऽप्येवं त्वां पृच्छामीह यन्मुने ।
भवद्वाक्यामृतास्वादवाञ्छितं प्रविजृम्भते ।। १६
इत्युक्तवानसौ पक्षी भुशुण्डश्चिरजीवितः ।
त्रिकालामलसंवेदी तत्र प्रोक्तमिदं मया ।। १७
श्रीवसिष्ठ उवाच ।
विहंगम महाराज सत्यमेतत्त्वयोच्यते ।
द्रष्टुमभ्यागतोऽस्म्यद्य त्वामेव चिरजीवितम् ।। १८
आशीतलान्तःकरणो दिष्ट्या कुशलवानसि ।
पतितोऽसि न बुद्धात्मा भीषणां भववागुराम् ।। १९
तदेतं संशयं छिन्धि भगवन्मम सत्यतः ।
कस्मिन्कुले भवाञ्जातो ज्ञातज्ञेयः कथं भवान् 6.1.16.२०
कियदायुश्च ते साधो वृत्तं स्मरसि किंच वा ।
केनायं वा निवासस्ते निर्दिष्टो दीर्घदर्शिनः ।। २१
भुशुण्ड उवाच ।
यत्पृच्छसि मुने सर्वं तदिदं वर्णयाम्यहम् ।
अनुद्वेगितया यत्नात्कथा श्राव्या महात्मना ।। २२
युष्मद्विधास्त्रिभुवनप्रभुपूज्यरूपा
आकर्णयन्ति यमुदारधियो महान्तः ।
तेनाशुभं प्रकथितेन विनाशमेति
मेघास्पदेन विभवेन यथार्कतापः ।। २३

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० वसिष्ठभुशुण्डसमायोगो नाम षोडशः सर्गः ।।१ ६ ।।