योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ००८

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


अष्टमः सर्गः ८

भुशुण्ड उवाच ।
विद्याधर धराधारो गिरिकन्दरमन्दिरः ।
दिगन्तराम्बराचारचारसंचारचञ्चरः ।। १
ईदृशोऽयं जगद्वृक्षो जायतेऽहंत्वबीजतः ।
बीजे ज्ञानाग्निनिर्दग्धे नैव किंचन जायते ।। २
प्रेक्ष्यमाणं च तन्नास्ति किलाहंत्वं कदाचन ।
एतावदेव तज्ज्ञानमनेनैव प्रदह्यते ।। ३
अहंत्वभावाच्चाहंत्वमस्ति संसारबीजकम् ।
नाहंत्वभावान्नाहंत्वमस्तीति ज्ञानमुत्तमम् ।। ४
सर्गादावेव सर्गस्य किलास्याभावयोगतः ।
कुतोऽहंत्वं कुतस्त्वंत्वं कुतो द्वित्वैक्यविभ्रमः ।। ५
समाकर्ण्य गुरोर्वाक्यं यतन्ते ये स्वयत्नतः ।
संकल्पत्यागमामूलं पदप्राप्तौ जयन्ति ते ।। ६
रन्धनाज्जयमाप्नोति स्वशास्त्रे सूपकृत्कृते ।
विवेकी स्वविवेकित्वं यतनादेव नान्यथा ।। ७
चिच्चमत्कारमात्रं त्वं जगद्विद्धीह नेतरत् ।
नाशासु न बहिर्नान्तरेतत्क्वचन विद्यते। ।। ८
संकल्पोन्मेषमात्रेण जगच्चित्रं विलोक्यते ।
तदनुन्मेषविलयि चित्रकृच्चित्तचित्रवत् ।। ९
मण्डपोऽस्ति महास्तम्भो मुक्तामणिविनिर्मितः ।
बहुयोजनलक्षाणि कान्तकाञ्चनचित्रितः ।। 6.2.8.१०
मणिस्तम्भसहस्रेण वृतोऽग्रे प्रोतमेरुणा ।
इन्द्रायुधसहस्राढ्यकल्पसंध्याभ्रसुन्दरः ।। ११
स्त्रीबालपुरुषादीनां वास्तव्यानामितस्ततः ।
क्रीडार्थं स्थापिता यत्र नानारचनयान्तरे ।। १२
भूतबीजपरापूर्णास्तमोरिपुसघुंघुमाः ।
तमःप्रकाशचित्राख्या लोकान्तरसमुद्गकाः ।। १३
आमोदसुभगा लोलजलदावलिपल्लवाः ।
लीलापद्माकरे स्त्रीणां विलूनाकल्पपादपाः ।। १४
बालनिःश्वासचलिताः कन्दुकानि कुलाचलाः ।
संध्याम्बुदाः कर्णपूराश्चामराः शरदम्बुदाः ।। १५
कल्पान्तकालजलदास्तालवृन्तपदं गताः ।
भूतलं द्यूतफलकं वितानं तारकाम्बरम् ।। १६
भूतशारपरावर्ते द्यूतेऽक्षाः शशिभानवः ।
व्योमाजिरे जगद्भासपणे गृहनिवासिनाम् ।। १७
इति संकल्प एवान्तश्चिरभावनया यथा ।
अग्रस्थदृश्योपमया सत्यतामिव गच्छति ।। १८
तथैवायं जगद्रूपः संकल्पैः सुसमुत्थितः ।
चिच्चमत्कारमात्रात्मा चित्रकृच्चित्तचित्रवत् ।। १९
असत्यमेव स्फुरति सर्वमस्ति च नास्ति च ।
असदुत्थित एवायं कुतोपीव समुत्थितः ।। 6.2.8.२०
हेम्नीव कटकादित्वं संसारोदरकोटरः ।
चिच्चमत्कार एवायमविकल्पनसंक्षयः ।। २१
अत्यन्तमेव स्वायत्तो यथेच्छसि तथा कुरु ।
यश्चान्नपानदानादावनादरमुपेयिवान् ।
तस्येदं पश्चिमं जन्म न स कर्म समुज्झति ।। २२
प्राप्तो विवेकपदवीमसि पावनात्मन्पुण्यां पवित्रितजगत्त्रितया द्वितीयाम् ।
नाधः पतिष्यसि पुनर्मनसाऽमुनेति जानामि मौनममलं पदमुत्सृज त्वम् ।। २३

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाण० उत्तरार्धे विद्याधरो० मायामण्डपवर्णनं नामाष्टमः सर्गः ।।८।।