योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०५८

विकिस्रोतः तः


अष्टपञ्चाशः सर्गः ५८

श्रीराम उवाच ।
अहो नु विततोदारा विमला विपुलाचला ।
भवता भगवन्भूत्यै भूयो दृष्टिरुदाहृता ।। १
सर्वथा सर्वदा सर्वं सर्वं सर्वत्र सर्वदा ।
सदित्येव स्थितं सत्यं समं समनुभूतितः ।। २
अयमस्ति मम ब्रह्मन्संशयस्तं निवारय ।
किमिदं भगवन्नाम पाषाणाख्यानमुच्यते ।। ३
श्रीवसिष्ठ उवाच ।
सर्वत्र सर्वदा सर्वमस्तीति प्रतिपादने ।
पाषाणाख्यानदृष्टान्तो मयायं तव कथ्यते ।। ४
नीरन्ध्रैकघनाङ्गस्य पाषाणस्यापि कोटरे ।
सन्ति सर्गसहस्राणि कथयेति प्रदर्श्यते ।। ५
भूताकाशे महत्यस्मिन्खशून्यत्वमनुज्झति ।
सन्ति सर्गसहस्राणि कथयेति प्रदर्श्यते ।। ६
अन्तर्गुल्माङ्कुरादीनां प्राणिवाय्वम्बुतेजसाम् ।
सन्ति सर्गसहस्राणि कथयेति प्रदर्श्यते ।। ७

श्रीराम उवाच ।
कुड्यादौ सन्ति सगौंघा इति चेत्कथ्यते मुने ।
तत्खे विभान्ति सर्गौघा इति किं न प्रदृश्यते ।। ८
श्रीवसिष्ठ उवाच ।
एतत्ते वर्णितं राम मुख्यमेव मयाखिलम् ।
योऽयमालक्ष्यते सर्गः स ख एव खमास्थितम् ।। ९
आदावेव हि नोत्पन्नमद्यापि न च विद्यते ।
दृश्यं यच्चावभातीदं तद्ब्रह्म ब्रह्मणि स्थितम् ।। 6.2.58.१०
नास्ति भूरणुमात्रापि सर्गैर्निर्विवरा न या ।
न च क्वचन विद्यन्ते सर्गा ब्रह्मखमेव ते ।। ११
न तेजसोऽणुरप्यस्ति सगैर्निर्विवरो न यः ।
न च क्वचन सर्गास्ते सन्ति ब्रह्मखमेव तत् ।। १२
न वायोरणुरप्यस्ति सर्गैर्निर्विवरो न यः ।
न च क्वचन विद्यन्ते सर्गा ब्रह्मखमेव तत् ।। १३
खं नाणुमात्रमप्यस्ति सर्गैर्निर्विवरं न यत् ।
न च क्वचन सर्गास्ते सन्ति ब्रह्मखमेव तत् ।। १४
न सा महाभूततास्ति सर्गैर्निर्विवरा न या ।
न च क्वचन विद्यन्ते सर्गा ब्रह्मखमेव तत् ।। १५
शैलानां नाणुरप्यस्ति स सर्गैर्यो न निर्घनः ।
न च क्वचन विद्यन्ते सर्गा ब्रह्मखमेव तत् ।। १६
ब्रह्मणो नाणुरप्यस्ति सगैर्निर्विवरो न यः ।
न च क्वचन सर्गास्ते सन्ति ब्रह्मखमेव तत् ।। १७
सर्गेषु नाणुरप्यस्ति न ब्रह्मात्मैव यः सदा ।
ब्रह्मसर्गास्तथेत्येष वाचि भेदो न वस्तुनि ।। १८
सर्गा एव परंब्रह्म परं ब्रह्मैव सर्गता ।
मनागप्यस्ति न द्वैतमत्राग्न्यर्कौष्ण्ययोरिव ।। १९
इमे सर्गा इदं ब्रह्म तेऽत्यन्तावाच्यदृष्टयः ।
विदार्यदारुरववद्भान्त्यर्थपरिवर्जिताः ।। 6.2.58.२०
द्वैतमैक्यं च यत्रास्ति न मनागपि तत्र ते ।
सर्गब्रह्मादिशब्दार्थाः कथं कस्येव भान्तु के ।। २१
शान्तमेकमनाद्यन्तमिदमच्छमनामयम् ।
व्यवहारवतोऽप्यङ्ग ज्ञस्य मौनं शिलाघनम् ।। २२
निर्वाणमेवमखिलं नभ एव दृश्यं
त्वं चाहमद्रिनिचयाश्च सुरासुराश्च ।
तादृग्जगत्समवलोकय यादृगङ्ग
स्वप्नेऽथ जन्तुमनसि व्यवहारजालम् ।। २३

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो ० निर्वाणप्रकरणे उ ० पाषाण० सर्गब्रह्मत्वप्रतिपादनं नामाष्टपञ्चाशः सर्गः ।० ५८।।