योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०५७

विकिस्रोतः तः


सप्तपञ्चाशः सर्गः ५७

श्रीराम उवाच ।
त्वामप्युदितनिर्वाणमहंकारपिशाचकः ।
बाधते किमिति ब्रूहि मुने संदेहशान्तये ।। १
श्रीवसिष्ठ उवाच ।
अहंभावं विना देहस्थितिस्तज्ज्ञाज्ञयोरिह ।
आधेयस्य निराधारा न संस्थेहोपपद्यते ।। २
अयं त्वत्र विशेषस्तं शृणु विश्रान्तचेतसः ।
श्रुतेन येनाहंभावपिशाचः शान्तिमेति ते ।। ३
अहंभावपिशाचोऽयमज्ञानशिशुनामुना ।
अविद्यमान एवान्तः कल्पितस्तेन संस्थितः ।। ४
अज्ञानमपि नास्त्येव प्रेक्षितं यन्न लभ्यते ।
विचारिणा दीपवता स्वरूपं तमसो यथा ।। ५
यथा यथा विलोक्यते तथा तथा विलीयते ।
इहाज्ञतापिशाचिका तथा विचारिता सती ।। ६
किल सत्यामविद्यायामज्ञतोदेति शाश्वती ।
बुद्धिमोहात्मिका यक्षी निर्देहैव यथा निशि ।। ७
सति सर्गे त्वविद्यायाः संभवो नान्यतः क्वचित् ।
सति द्वितीये शशिनि द्वितीयो विद्यते शशः ।। ८
सर्गस्त्वयमजातत्वादज्ञज्ञातो न विद्यते ।
न जातः कारणाभावात्पूर्वमेव खवृक्षवत् ।। ९
परमाकाशकोशान्तरादिसर्गे निरामये ।
पृथ्व्यादेरुपलम्भस्य भवेत्किमिव कारणम् ।। 6.2.57.१०
मनःषष्ठेन्द्रियातीतं मनःषष्ठेन्द्रियात्मनः ।
साकारस्य निराकारं कथं भवति कारणम् ।। ११
बीजात्कारणतः कार्यमङ्कुरः किल जायते ।
न बीजमपि यत्रास्ति तत्र स्यादङ्कुरः कुतः ।। १२
कारणेन विना कार्य न च नामोपपद्यते ।
कदा क इव खे केन दृष्टो लब्धः स्फुटो द्रुमः ।1 १३
संकल्पेनाम्बरे यद्वद्दृश्यते विटपादिकम् ।
स संकल्पस्तथाभूतो न तत्रास्ति पदार्थता ।। १४
एवं येयं चिदाकाशे सर्गादावनुभूयते ।
शून्यरूप इवाकाशे सर्गस्थितिरनर्गला ।। १५
सम एव चिदाकाशः कचत्यात्मनि तत्तथा ।
स्वभाव एव सर्गाख्यश्चित्त्वाच्चैतन्यमीश्वरः ।। १६
स्वप्नसर्गोऽत्र दृष्टान्तः प्रत्यहं योऽनुभूयते ।
स्वयं संवेदने स्वप्ने स्फुरत्यद्रिपुराकृतिः ।। १७
चित्स्वभावे यथा स्वप्ने आस्ते सर्ग इवेह यः ।
असर्गे सर्गवद्भाति तथा पूर्व महाम्बरे ।। १८
अवेद्यवेदनं शुद्धमेकं भात्यजमव्ययम् ।
सर्गादौ यदनाद्यन्तं स्थितः सर्गः स एव नः ।। १९
नेह सर्गोऽस्ति नैवायं पृथ्व्यादिगणगोलकः ।
सर्व शान्तमनालम्बं ब्रह्मैव ब्रह्मणि स्थितम् ।। 6.2.57.२०
सर्वशक्त्यात्म तद्ब्रह्म यथा कचति यादृशम् ।
रूपमत्यजदेवाच्छं तथा भवति तादृशम् ।। २१
यथा स्वप्नपुरं जन्तोश्चिन्मात्रप्रविजृम्भितम् ।
तथैव सर्गः सर्गादौ शुद्धचिन्मात्रजृम्भितम् ।। २२
स्वच्छे चित्परमाकाशे चिदाकाशो य आस्थितः ।
स्वभाव एव सर्गोऽसाविति तेनैव भावितः ।। २३
भाव्यभावकभावादिभूमीनां भावनं भृशम् ।
सर्वं चिन्नभ एवाच्छमात्मनात्मनि संस्थितम् ।। २४
एवं स्थिते कुतः सर्गः कुतो विद्या क चाज्ञता ।
ब्रह्म शान्तं घनं सर्वं क्वाहंकारादयः स्थिताः ।। २५
अहंभावस्य संशान्तिरेषाऽसौ कथिता तव ।
अहंभावः परिज्ञातः पिशाच इव शाम्यति ।। २६
मया त्वेवमहंभावः परिज्ञातो यदाखिलः ।
तदा मे विद्यमानोऽपि निष्फलः शरदभ्रवत् ।। २७
चित्राग्निदाहो विज्ञातो यथा दाह्येषु निष्फलः ।
तथाहंभावसर्गादि ज्ञातं निष्फलतामियात् ।। २८
इति मेऽहंकृतेस्त्यागे रागे च समता यदा ।
तदा व्योम्न इवाव्योम्नः सर्गे सर्गे च मे स्थितिः ।। २९
अहंभावस्य नैवाहं नाहंभावो ममेति च ।
तेन विद्धि चिदाकाशमेवेदमिति निर्घनम् ।। 6.2.57.३०
यथा मम तथान्येषामपि बोधवतामिह ।
अग्नित्वमिव चित्राग्नेर्नास्त्ययं बोधविभ्रमः ।। ३१
नाहमस्मि न चान्योऽस्ति सर्वं नास्तीति निश्चये ।
प्रकृतव्यवहारस्त्वं शिलामौनमयो भव ।। ३२
आकाशकोशविशदाकृतिरेव तिष्ठ निर्देशवच्चिरमपह्नुतसर्वभावः ।
अद्यादितश्च किल चिन्मयमेव सर्वे नो दृश्यमस्ति शिवमेवमशेषमित्थम् ।। ३३

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषुनिर्वाणप्रकरणे उ० पा० विदितवेद्याहंकारविचारो नाम सप्तपञ्चाशः सर्गः ५७