योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०५६

विकिस्रोतः तः


षट्पञ्चाशः सर्गः ५६
श्रीवसिष्ठ उवाच ।
सर्वत्र सर्वथा सर्वं सर्वदा व्योम्नि चिन्मये ।
साधु संभवति स्वच्छं शून्यत्वं ख इवाखिले । १
यत्र चित्तत्र सर्गश्रीरव्योम्नि व्योम्नि वास्ति चित् ।
चिन्मयत्वात्पदार्थानां सर्वेषां नास्त्यचित्क्वचित् ।। २
पदार्थजातं शैलादि यथा स्वप्ने पुरादि च ।
चिदेवैकं परं व्योम तथा जाग्रत्पदार्थभूः ।। ३
पाषाणाख्यानमत्रेदं शृणु राम रसायनम् ।
पूर्व मयैव यद्दृष्टं चित्र प्रकृतमेव च ।। ४
अहं विदितवेद्यत्वात्कदाचित्पूर्णमानसः ।
त्यक्तुमिच्छुरिमं लोकव्यवहारं घनभ्रमम् ओ। ५
ध्यानैकतानतामेत्य शनैर्विश्रान्तये चिरम् ।
त्यक्ताजवं जवीभाव एकान्तार्थी शमं व्रजन् ।। ६
इदं चिन्तितवानस्मि कस्मिंश्चिदमरालये ।
संस्थितो विविधाः पश्यन्भङ्गुरा जागतीर्गतीः ।। ७
विरसा खल्वियं लोकस्थितिरापातसुन्दरी ।
न जातु सुखदा मन्ये कस्यचित्केनचित्क्वचित् ।। ८
उद्वेगं जनयत्यन्तस्तीव्रसंवेगखेदतः ।
इमा दृश्यदृशो द्रष्टुरिष्टानिष्टफलप्रदाः ।।
किमिदं दृश्यते किं वा प्रेक्षते कोऽहमेव वा ।
सर्व शान्तमजं व्योम चिन्मात्रात्मनि रिङ्गकम् ।। 6.2.56.१०
तस्मात्समस्तसिद्धेन्द्रदेवदैत्यादिदुर्गमम् ।
सुप्रदेशमितो गत्वा संगोप्यात्मानमात्मना ०। ११
अदृश्यः सर्वभूतानां निर्विकल्पसमाधिगः ।
समे स्वच्छे पदे शान्ते आसे विगतवेदनम् ।। १२
तस्मात्को नु प्रदेशः स्यादत्यन्तं शून्यतां गतः ।
यत्रैता नानुभूयन्ते पञ्च बाह्यार्थवेदनाः ।। १३
शब्दकाननवार्यब्दभूतौघाभिसमाकुलाः ।
क्षोभयन्त्यथ संक्षुब्धास्तस्मान्मे गिरयोऽरयः ।। १४
नानाविधा नगेन्द्राणामन्तरावलिता जनैः ।
देशा विषमया एव निःशेषा विषयाहिभिः ।। १५
जनैर्जलचरैर्व्याप्ताः सागरा नीरकुक्षयः ।
विविधारम्भसंक्षुब्धैर्नगराणीव नागरैः ।। १६
तटान्यद्र्यम्बुराशीनां लोकपालपुराणि च ।
भूताकुलानि शृङ्गाणि पातालकुहराणि च ।। १७
गायन्त्यनिलभांकारैर्नृत्यन्ति लतिकाः करैः ।
पुष्पैर्हसन्त्यगेन्द्राणां गुहा गहनकोटराः ।। १८
मौनिमीनमुनिस्पर्शकम्पिनालचलाम्बुजाः ।
सरस्यो विरसा एव वार्यावर्तविराविताः ।। १९
पवनस्पर्शसंक्षुब्धतृणपांसुपताकिनी ।
रटत्यनिलभांकारैर्निर्झरोर्व्यप्यसंयता ।। 6.2.56.२०
तस्मादाकाशमाशून्यं कस्मिंश्चिद्दूरकोणके ।
अत्र तिष्ठाम्यवष्टभ्य योगयुक्तिमनिन्दिताम् ।। २१
कस्मिश्चिदेककोणेऽत्र कृत्वा कल्पनया कुटीम् ।
वज्रोदरदृढं तस्यामन्तस्तिष्ठाम्यवासनम् ।। २२
इति संचिन्त्य यातोऽहमाकाशमसि निर्मलम् ।
यावत्तदपि पश्यामि सकलं विततान्तरम् ।। २३
क्वचिद्भ्रमत्सिद्धगणं क्वचिदुद्गर्जदम्बुदम् ।
क्वचिद्विद्याधराधारं यक्षोत्क्षिप्तक्षयं क्वचित् ।। २४
क्वचिद्भ्रमत्पुरवरं प्रारब्धसमरं क्वचित् ।
क्वचिद्द्र्वज्जलधरं क्वचिदुद्वृत्तयोगिनि ।। २५
क्वचिद्दैत्यपुरोड्डीनसगन्धर्वपुरं क्वचित् ।
क्वचिद्भ्रमद्ग्रहगणं तारकाकुलितं क्वचित् ।। २६
क्वचित्खे खगसंघृष्टं क्वचित्क्रुद्धमहानिलम् ।
क्वचिदुत्पातवलितं क्वचिन्मण्डलमण्डितम् ।। २७
क्वचिदपूर्वभूतौघं नागरावलितं क्वचित् ।
क्वचिदर्करथाक्रान्तं क्वचिदन्यरथोद्धुरम् ।1 २८
क्वचिदादित्यदाहान्तं शशिशैत्यान्वितं क्वचित् ।
क्वचित्क्षुद्रजनासह्यं क्वचिदग्न्यौष्ण्यदुर्गमम् ।। २९
क्वचिदुत्तालवेतालं गरुडोड्डामरं क्वचित् ।
क्वचित्सप्रलयाम्भोदं क्वचित्सप्रलयानिलम् ।। 6.2.56.३०
ततो भूतगणांस्त्यक्त्वा दूराद्दूरतरं गतः ।
प्राप्तवानहमेकान्तं शून्यमत्यन्तविस्तृतम् ।। ३१
अत्यन्तमन्दपवनं स्वप्नेऽप्यप्राप्यभूतकम् ।
मङ्गलोत्पातरहितमगम्यं विद्धि संसृतेः ।। ३२
कल्पिताथ मया तत्र कुटी प्रकटकोटरा ।
नीरन्ध्रकुड्यनिबिडा पद्मकुङ्मलसुन्दरी ।। ३३
घुणक्षुण्णाङ्गपूर्णेन्दुबिम्बोदरमनोहरा ।
कह्लारकुन्दमन्दारपुष्पश्रीकोशशोभिता ।। ३४
समस्तभूतागम्यत्वं तत्र संकल्प्य चेतसा ।
अगम्ये सर्वभूतानामहमासं तदा ततः ।। ३५
बद्धपद्मासनः शान्तमनाः परममौनवान् ।
संवत्सरशतान्तेन निर्णीयोत्थानमात्मनः ।। ३६
निर्विकल्पसमाधिस्थो निद्रामुद्रामिवागतः ।
समः सौम्यनभःस्वस्थः समुत्कीर्ण इवाम्बरात् ।। ३७
चिरं यदनुसंधत्ते चेतः पश्यति तत्क्षणात् ।
चिरेण चाशापवनव्यक्तिवद्विततं यदा ।। ३८
तदा वर्षशतेनात्र बोधबीजं वृतान्तरम् ।
आसीन्मे हृदयक्षेत्रे कालमेकं विकासतः ।। ३९
संप्रबुद्धोऽभवन्मेऽथ जीवः संबुद्धवेदनः ।
शिशिरक्षीणगात्रस्य मधाविव रसस्तरोः ।। 6.2.56.४०
तच्छतं तत्र वर्षाणां निमेषमिव मे गतम् ।
बह्व्योऽपि कालगतयो भवन्त्येकधियो मनाक् ।। ४१
विकासमागतो बाह्यं गतो बुद्धीन्द्रियक्रमः ।
वासन्तः पुष्परूपेण मदस्येव रसो मम ।। ०२
मां प्राणपूरितमुपागतसंविदंश-
मभ्यागतं त्वहमिति प्रसूतः पिशाचः ।
इच्छाङ्गनाविवलितोऽथ कुतोऽपि सद्यः
प्रोन्नामसन्नमनवायुरिवोग्रवृक्षम् ।। ४३
इत्यार्षे श्रीवा० वाल्मी० दे० मो० निर्वाण० उ० पाषाणो० आकाशमन्दिरे वसिष्ठसमाधानवर्णनं नाम षट्पञ्चाशः सर्गः ।। ५६ ।।