योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०४४

विकिस्रोतः तः
Jump to navigation Jump to search


चतुश्चत्वारिंशः सर्गः ४४

श्रीराम उवाच ।
क्रमात्समाधानतरोराजीवफलशालिनीम् ।
सलताकुसुमां ब्रूहि सत्तां विश्रान्तिदां मुने ।। १

श्रीवसिष्ठ उवाच ।
आजीवमुद्यदुत्सेधं विवेकिजनकानने ।
पत्रपुष्पफलोपेतं समाधानतरुं शृणु ।। २

यथाकथंचिदुदितं दुःखेन स्वयमेव च ।
संसारवननिर्वेदं बीजमस्य विदुर्बुधाः ।। ३

शुभजालहलाकृष्टं रसासिक्तमहर्निशम् ।
प्रवहच्छ्वसनाकुल्यं क्षेत्रमस्य विदुर्बुधाः ।। ४

समाधिबीजं संसारनिर्वेदः पतति स्वयम् ।
चित्तभूमौ विविक्तायां विवेकिजनकानने ।। ५

स्वचित्तभूमौ पतितं ध्यानबीजं महाधिया ।
सेकैरमीभिर्यत्नेन संसेक्तव्यमखेदिना ।। ६

शुद्धैः स्निग्धैः पवित्रैश्च मधुरैरात्मनोहितैः ।
सत्संगमनवक्षीरैरैन्दवैरमृतैरिव ।। ७

अन्तःशून्यप्रदैः पूर्णैः स्वच्छैरमृतशीतलैः ।
विसृतैरमृताकुल्याशास्त्रार्थवरवारिभिः ।। ८

स्वचित्तभूमौ पतितं परिज्ञाय महाधिया ।
बीजं संसारनिर्वेदो रक्ष्यं ध्यानस्य यत्नतः ।। ९

तपःप्रकारदानेन पदार्थघटनेशितैः ।
तीर्थायतनविश्रान्तिवृतिविस्तारकल्पनैः ।। 6.2.44.१०

कर्तव्योऽङ्कुरितस्यास्य रक्षिता शिक्षिताशयः ।
संतोषनामा प्रियया नित्यं मुदितयान्वितः ।। ११

पश्चात्स्थिताशाविहगान्परप्रणयपक्षिणः ।
अस्मादापततः कामगर्वगृध्रान्निवारयेत् ।। १२

मृदुभिः सत्क्रियाकुन्तैर्विवेकार्कातपैरपि ।
अचिन्त्यालोकदैरस्मान्मार्जितव्यं रजस्तमः ।। १३

संपदः प्रमदाश्चैव तरङ्गा भोगभङ्गुराः ।
पतन्त्यशनयस्तस्मिन्दुष्कृताभ्रसमीरिताः ।। १४

धैर्यौदार्यदयामन्त्रैर्जपस्नानतपोदमैः ।
विनिवारयितव्यास्ताः प्रणवार्थत्रिशूलिना ।। १५

इति संरक्षितादस्माद्ध्यानबीजात्प्रवर्तते ।
आभिजात्योन्नतः श्रीमान्विवेकाख्यो नवाङ्कुरः ।। १६

तेन सा चित्तभूर्भाति सप्रकाशा विकासिनी ।
भवत्यालोकरम्या च खं यथाभिनवेन्दुना ।। १७

तस्मादङ्कुरतः पत्रे उभौ विकसतः स्वयम् ।
एकं शास्त्राभिगमनं द्वितीयं साधुसंगमः ।। १८

स्तम्भमेष निबध्नाति स्थैर्यं नाम समुन्नतिम् ।
संतोषत्वग्विवलितं वैराग्यरसरञ्जितम् ।। १९

वैराग्यरसपुष्टात्मा शास्त्रार्थप्रावृषान्वितः ।
स्वल्पेनैव स्वकालेन परामेति समुन्नतिम् ।। 6.2.44.२०

शास्त्रार्थसाधुसंपर्कवैराग्यरसपीवरः ।
रागद्वेषकपिक्षोभैर्न मनागपि कम्पते ।। २१

अथ तस्मात्प्रजायन्ते विज्ञानालंकृताकृतेः ।
लता रसविलासिन्य इमा विततदेशगाः ।। २२

स्फुटता सत्यता सत्ता धीरता निर्विकल्पता ।
समता शान्तता मैत्री करुणा कीर्तिरार्यता ।। २३

लताभिर्गुणपत्राभिः स ध्यानतरुरूर्जितः ।
यशःपुष्पाभिरेताभिः पारिजातायते यतेः ।। २४

इत्यसौ ज्ञानविटपी लतापल्लवपुष्पवान् ।
भविष्यज्ज्ञानफलदो दिनानुदिनमुत्तमः ।। २५

यशःकुसुमगुच्छाढ्यो गुणपल्लवलासवान् ।
वैराग्यरसविस्तारी प्रज्ञामञ्जरिताकृतिः ।। २६

सर्वाः शीतलयत्याशाः प्रावृषीव पयोधरः ।
सर्गातपं शमयति सूर्यतापमिवोडुपः ।। २७

प्रतनोति शमच्छायां छायामिव घनागमः ।
निरोधमास्फारयति शमोऽनिल इवाम्बुदम् ।। २८

निबध्नात्यात्मना पीठं कुलाचल इव स्थितम् ।
फलस्य रचयत्यूर्ध्वं घटिकां मङ्गलादिताम् ।। २९

विवेककल्पवृक्षे तु वर्धमाने दिने दिने ।
छायावितानवलिते पुंसो हृदयकानने ।। 6.2.44.३०

प्रवर्तते शीतलता तलतापापहारिणी ।
अभ्युल्लसन्मतिलता तुषारोदरसुन्दरी ।। ३१

यस्यामवान्तरश्रान्तो विश्राम्यति मनोमृगः ।
आजन्मजीर्णपथिकः पथि कोलाहलाकुलः ।। ३२ ।

सत्तामात्रात्मशारीरचर्मार्थं प्रेक्षितोऽरिभिः । ।
नानातासारसाकारगोपयज्जर्जरोन्मुखः ।। ३३

संसारारण्यविसरद्वासनापवनेरितः ।
अहंतातापसरिता सर्वदा विप्रदारदी ।। ३४ ।

दीर्घादरी दूरचितसारसंचारजर्जरः ।
पुत्रपौत्रपरामर्शप्रतापात्पतितोऽवटे ।। ३५ ।

लक्ष्मीलताविलुठनात्संकटैः कुण्ठिताङ्गकः ।
तृष्णाश्रीसरितं गृह्णन्कल्लोलैर्दूरमाहतः ।। ३६

तं व्याधिदुर्व्याधवैधुर्यपलायनपरायणः । ।
अशङ्कितविधिर्व्याधपातादिव कृताकृतिः ।। ३७।

ज्ञेयास्पदसमायातदुःखसायकशङ्कितः ।
वैरिविद्रवणव्यग्रो दृषदाहरणाङ्कितः ।। ३८ ।

उन्नतानतसंपातनिपातेनातिघूर्णितः ।
विकारोपलनिर्घातैः पारम्पर्येण चूर्णितः ।। ३९

तृष्णाचारुलताजालप्रवेशवशविक्षतः ।
स्वप्रज्ञारचिताचारः परमायास्वशिक्षितः ।। 6.2.44.४०

इन्द्रियग्राममागत्य प्रपलायनतत्परः ।
सुदुर्ग्रहगजेन्द्रोग्रविस्फूर्जनविमर्दितः ।। ४१

विषयाजगरोदारविषफूत्कारमूर्च्छितः ।
कामुकः कामिनीभूमौ रसात्प्रायो विपोथितः ।। ४२

कोपदावानलप्लुष्टपृष्ठविस्फोटदाहवान् ।
सदा गतागतानेकदीर्घदुःखप्रदाहवान् ।। ४३

स्वात्मलग्नाभिलाषांशदंशदोषैरुपद्रुतः ।
भोगलोभलसन्मोदशृगालचिरविद्रुतः ।। ४४

स्वकर्मकर्तृतोद्भान्तदारिद्र्यद्वीप्यनुद्रुतः ।
व्यामोहमिहिकान्धत्वकूटावटलुठत्तनुः ।। ४५

मानसिंहसमुल्लासहृदयोत्कम्पनातुरः ।
मरणेन रणे येन वृकपुष्पमिवेक्षितः ।। ४६

गर्वेण गिरणायाशु दूरतोजनसेवितः ।
कामैः समन्ततो दन्तवितानितयवाङ्कुरः ।। ४७

तारुण्यनारीसुहृदा क्षणमालिङ्ग्य वर्जितः ।
दुःसंचारेषु पवनैः कुपितैरिव वर्जितः ।। ४८

कदाचिन्निर्वृतिं याति सशमं च तरौ क्वचित् ।
मनोहरिणको राजन्नाजीवमिव भास्वति ।। ४९

तालीतमालबकुलादिकवृक्षगुल्म-
विश्रान्तिषु प्रचुरपुष्पविलासहासैः ।
नामापि यस्य न विदन्ति सुखस्य मूढाः
प्राप्नोति तच्छमतरोः स्वमनोमृगो वः ।। 6.2.44.५०

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे उ० मनोमृगविपद्वर्णनं नाम चतुश्चत्वारिंशः सर्गः ।। ४४ ।।