योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०१३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


त्रयोदशः सर्गः १३

भुशुण्ड उवाच ।
जगत्प्रसररूपस्य न देश उपयुज्यते ।
न कालो धारणे स्तम्भ आलोकस्याम्बरे यथा ।। १
मनोमनननिर्माणमात्रमेतज्जगत्त्रयम् ।
शान्तं तनु लघु स्वच्छं वातान्तः सौरभादपि ।। २
चिच्चमत्कृतिमात्रस्य साधो जगदणोः किल ।
वातान्तः सौरभं मेरुरन्यानुभवयोगतः ।। ३
यं प्रत्युदेति सर्गोयं स एवैनं हि चेतति ।
पदार्थः संनिवेशं स्वमिव स्वप्नं पुमानिव ।। ४
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
यद्वृत्तं देवराजस्य त्रसरेणूदरे पुरा ।। ५
क्वचित्कदाचित्कस्मिंश्चित्किंचित्कल्पद्रुमेऽभवत् ।
कस्यांचिद्युगशाखायां फलं जगदुदुम्बरम् ।। ६
ससुरासुरभूतौघमशकाहितघुंघुमम् ।
शैलमांसलपातालद्युभूम्युग्रकपाटकम् ।। ७
चिच्चमत्कृतिचारूच्चैर्वासनारसपीवरम् ।
विविधानुभवामोदं चित्तास्वादमनोहरम् ।। ८
बृहद्ब्रह्मतरुप्रौढसत्ताव्रततिकोटिगम् ।
अहंकारमहावृन्तं समालोकसमुज्ज्वलम् ।। ९
मोक्षद्धारविकास्यास्यं सरिदब्धिशिरावृतम्।
मात्रापञ्चककोशस्थं तरत्तारकसीकरम् ।। 6.2.13.१०
कल्पावसानजरठं काककोकिलगाम्यथ ।
पतितं शान्तिमायातं क्वाप्यन्तावासनं गतम् ।। ११
तत्राभूदमराधीशः शक्रस्त्रिभुवनेश्वरः ।
क्षौद्रकुम्भनिषण्णानां क्षुद्राणामिव नायकः ।। १२
गुरूपदेशस्वाभ्यासात्स क्षीणावरणोऽभवत् ।
महात्मा भावितान्तात्मा पूर्वापरविदां वरः ।। १३
नारायणादिषु ततः कदाचिद्वीर्यशालिषु ।
क्वचिदेव निलीनेषु सत्स्वेकः ससुराधिपः ।। १४
शस्त्रज्वालानलोद्भारैरयुध्यत महासुरैः ।
विजितस्तैर्महावीर्यैरतो व्यद्रवदाद्रुतम् ।। १५
दिशो दश सुवेगेन दुद्रावाभिद्रुतोऽरिभिः ।
न विश्रामास्पदं प्राप परलोक इवाधमः ।। १६
तद्भान्तदृष्टिष्वरिषु मनाक् छिद्रमवाप्य सः ।
प्रशमं कायसंकल्पं नीत्वा स्वं स्वान्तरे बहिः ।। १७
कमप्यर्कांशुकोशस्थं त्रसरेणुं विवेश सः ।
संविद्रूपतया पद्मकोशं मधुकरो यथा ।। १८
स तत्राशु विशश्राम चिरादाश्वासमाययौ ।
अथ विस्मृतसंग्रामो निवृत्तिं समुपागमत् ।। १९
कल्पितं सद्म तत्राथ स क्षणादनुभूतवान् ।
तस्मिन्सद्मनि पद्मान्ते रेमे स्व इव विष्टरे ।। 6.2.13.२०
गृहस्थः स ददर्शाथ कल्पितं नगरं हरिः ।
मणिमुक्ताप्रवालादिकृतप्राकारमन्दिरम् ।। २१
नगरान्तर्गतोऽपश्यत्ततो जनपदं हरिः ।
नानाद्रिग्रामगोवाटपत्तनारण्यराजितम् ।। २२
तादृग्रतिश्चेतितवान्सशक्रो भुवनं ततः ।
साद्र्यब्ध्युर्वीनदीशान्तं सक्रियाकालकल्पनम् ।। २३
तादृग्रतिश्चेतितवान्स शक्रस्त्रिजगत्ततः ।
सपातालमहीव्योमविष्टपार्कादिपर्वतम् ।। २४
तत्रातिष्ठत्सुरेशत्वे स भोगभरभूषितः ।
पुत्रो बभूव तस्याथ कुन्दो नामाथ वीर्यवान् ।। २५
ततो जीवितपर्यन्ते त्यक्त्वा देहमनिन्दितः ।
निर्वाणमाययौ शक्रो निःस्नेह इव दीपकः ।। २६
कुन्दस्त्रैलोक्यराजोऽभूज्जनयित्वा सुतं निजम् ।
कालेन जीवितस्यान्ते जगाम परमं पदम् ।। २७
तत्पुत्रोऽपि तथैवाथ कृत्वा राज्ये सुतं निजम् ।
जगाम जीवितस्यान्ते पावनं परमं पदम् ।। २८
एवं पौत्रसहस्राणि समतीतानि सुन्दर ।
तत्राद्यापि सुरेशस्य येषां राज्ये स्थितोंऽशकः ।।२९
इत्यद्ययावदमरेश्वरवंश एव
संकल्पिते जगति शक्रपदं विधत्ते ।
तस्मिन्क्षतेऽपि गलितेऽपि हतेऽपि नष्टे
क्वाप्यम्बरे दिनकरातपपावनाणौ ।। 6.2.13.३०
इत्यार्षे श्रीवा० वा ० दे० मो ० नि ० उ ० विद्याधरोपाख्यानान्तर्गतेन्द्रोपाख्याने त्रसरेण्वन्तरसर्गसंघवर्णनं नाम त्रयोदशः सर्गः ।। १३ ।।