योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०११

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


एकादशः सर्गः ११

भुशुण्ड उवाच ।
शस्त्राणि दयिताङ्गानि लग्नान्यङ्गे निरम्बरे ।
यो बुद्ध्यमानः सुसमः स परस्मिन्पदे स्थितः ।। १
तावत्पुरुषयत्नेन धैर्येणाभ्यासमाहरेत् ।
यावत्सुषुप्ततोदेति पदार्थोदयनं प्रति ।। २
यथा भूतार्थतत्त्वज्ञमाधयोऽग्रगता अपि ।
न मनागपि लिम्पन्ति पयांसीव सरोरुहम् ।। ३
शस्त्राङ्गनानभांस्यङ्गलग्नान्यलमसंविदम् ।
अलग्नानीव शान्तात्मा यः पश्यति स पश्यति ।। ४
विषं यथा स्वान्तरेव दुर्घुणी भवति स्वयम् ।
न च दुर्घुणता नाम विषादन्यास्ति काचन ।। ५
स्वरूपमजहत्त्वेवं जीवतामधितिष्ठति ।
तथात्मा तत्परिज्ञानमात्रैकप्रविलापिनीम् ।। ६
जीवो भवति दुर्घूणोऽमृत्यात्मैव यथा तथा ।
अत्यजन्ती निज रूपं चिज्जडं रूपमृच्छति ।। ७
ब्रह्मण्यनन्योऽप्यन्याभो दुर्घुणः क्वचिदुत्थितः ।
तत्स्थः स एवास इवाप्यतत्स्थ इव सर्गकः ।। ८
विषं विषत्वमजहद्यथा स्वान्तः कृमिः क्रमात् ।
न जायते न म्रियते म्रियतेऽपि च जायते ।। ९
स्वेनैव संविदर्थेन पदार्थामग्नरूपिणा ।
तीर्यते गोष्पदमिव न तु दैवाद्भवार्णवः ।। 6.2.11.१०
सर्वभावान्तरावस्था सर्वभावातिशायिनी ।
अन्तःशीतलता यस्मिंस्तस्मिन्किमिव हेलनम् ।। ११
जगत्पदार्थसत्तान्तः सामान्येनाशु भाविते ।
मनोहंकारबुद्ध्यादि कः कलङ्कोऽमलात्मनि ।। १२
यथा घटपटाद्यर्थान्पश्यस्येवं शरीरकम् ।
तथाहन्त्वमनोबुद्धिवेदनाद्यपि पश्य हे ।। १३
जगत्पदार्थसार्थौघमनोबुद्ध्यादि संस्थितम् ।
ज्ञ एवासंविदंस्तिष्ठ परिनिष्ठितनिष्ठया ।। १४
न केनचित्कस्यचिदेव कश्चिद्दोषो न चैवेह गुणः कदाचित् ।
सुखेन दुःखेन भवाभवेन न चास्ति भोक्ता न च कर्तृता च ।। १५

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे उत्तरार्धे विद्याधरो० यथाभूतार्थवेदनं नामैकादशः सर्गः ।। ११ ।।