योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ५४

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५३ योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)
सर्गः ५४
अज्ञातलेखकः
सर्गः ५५ →


चतुःपञ्चाशः सर्गः ५४

श्रीवसिष्ठ उवाच ।
इति निर्णीय ततया धिया धवलया मुनिः ।
बद्धपद्मासनस्तस्थावर्धोन्मीलितलोचनः ।। १
ओमित्येतत्परं ब्रह्म निर्णीय स मुनिस्तदा ।
ॐकारोच्चारितो येन तेनाप्तं परमं पदम् ।। २
ॐकारमकरोत्तारस्वरमूर्ध्वगतध्वनिम् ।
सम्यगाहतलाङ्गूलं घण्टाकुण्डमिवारवम् ।। ३
ओमुच्चारयतस्तस्य संवित्तत्त्वे तदुन्मुखे ।
यावदोंकारमूर्धस्थे वितते विमलात्मनि ।। ४
सार्धत्र्यंशात्ममात्रस्य प्रथमेंऽशे स्फुटारवे ।
प्रणवस्य समाक्षुब्धप्राणारणितदेहके ।। ५
रेचकाख्योऽखिलं कायं प्राणनिष्क्रमणक्रमः ।
रिक्तीचकार पीताम्बुरगस्त्य इव सागरम् ।। ६
अतिष्ठत्प्राणपवनश्चिद्रसापूरिताम्बरे ।
त्यक्तदेहः परित्यक्तनीडः खग इवाम्बरे ।। ७
हृदयाग्निर्ज्वलज्ज्वालो ददाह निखिलं वपुः ।
उत्पातपवनोद्भूतो दावः शुष्कमिव द्रुमम् ।। ८
यावदित्थमवस्थैषा प्रणवप्रथमक्रमे ।
बभूव न हठादेव हठयोगो हि दुःखदः ।। ९
अथेतरांशावसरे प्रणवस्य समस्थितौ ।
निष्कम्पकुम्भको नाम प्राणानामभवत्क्रमः ।। 5.54.१०
न बहिर्नान्तरे नाधो नोर्ध्वं नाशासु तत्र ते ।
संक्षोभमगमन्प्राणा आपः संस्तम्भिता इव ।। ११
दग्धदेहपुरो वह्निः शशामाशनिवत्क्षणात् ।
अदृश्यत सितं भस्म शारीरं हिमपाण्डुरम् ।। १२
यत्र कर्पूरशय्यायां सुप्तानीव सुखोचितम् ।
शरीरास्थीनि लक्ष्यन्ते निष्पन्दानि सितानि च ।।१३
तद्भस्म पवनानीतं सास्थि वायुरयोजयत् ।
स्वदेहे भृशमुत्सन्ने त्रिनेत्रव्रतवानिव ।। १४
तच्चण्डपवनोद्धूतमावृत्त्य गगनं क्षणात् ।
शरदीवाभ्रमिहिका क्वापि भस्मास्थिमद्ययौ ।। १५
यावदित्थमवस्थैषा प्रणवस्यापरे क्रमे ।
बभूव न हठादेव हठयोगो हि दुःखदः ।। १६
ततस्तृतीयावसरे प्रणवस्योपशान्तिदे ।
पूरणप्रपूरको नाम प्राणानामभवत्क्रमः ।। १७
अस्मिन्नवसरे प्राणाश्चेतनामृतमध्यगाः ।
व्योम्नि शीतलतामीयुर्हिमसंस्पर्शसुन्दरीम् ।। १८
क्रमाद्गगनमध्यस्थाश्चन्द्रमण्डलतां ययुः ।
धूमा गगनकोशस्थाः शीतलाम्बुदतामिव ।। १९
कलाकलापसंपूर्णे ते तस्मिंश्चन्द्रमण्डले ।
पुण्यराशाविवापूर्णे रसायनमहार्णवे ।। 5.54.२०
रसायनमया धाराः संपन्नाः प्राणवायवः ।
मणियष्टिसमाकारा जालेष्विन्दोरिवांशवः ।। २१
सा पपाताम्बराद्धारा शेषे शारीरभस्मनि ।
रसायनी हरशिरःपतितेव सुरापगा ।। २२
उदभूदिन्दुबिम्बाभं चतुर्बाहुवपुस्तया ।
प्रस्फुरन्मन्दरादब्धेः पारिजात इव द्रुमः ।। २३
उद्दालकशरीरं तन्नारायणतयोदितम् ।
प्रफुल्लनेत्रवक्त्राब्जमाबभौ दीप्तिसुन्दरम् ।। २४
रसायनमयाः प्राणास्तच्छरीरमपूरयन् ।
सलिलौघा इव सरो वृक्षं मधुरसा इव ।। २५
अन्तःकुण्डलिनीं प्राणाः पूरयामासुरादृताः ।
चक्रानुवर्तप्रसृतां पयांसीव सरिद्वराम् ।। २६
प्रकृतस्थं बभूवास्य तच्छरीरं द्विजन्मनः ।
प्रावृट्शरीरविगमे धौतं तलमिवावनेः ।। २७
अथ पद्मासनगतः कृत्वा देहे स्थितिं दृढम् ।
आलान इव मातङ्गं निबद्ध्येन्द्रियपञ्चकम् ।। २८
निर्विकल्पसमाध्यर्थं व्यवसायमुपाददे ।
स्वभावं स्वच्छतां नेतुं शरत्काल इवामलम् ।। २९
प्रशान्तवातहरिणमाशादिगणगामिनम् ।
चिन्तया हृदयं निन्ये दूराद्रज्ज्वेव कीलकम् ।। 5.54.३०
धावमानमधो मत्तं चित्तं विमलमाकुलम् ।
बलात्संरोधयामास सेतुर्जलमिव द्रुतम् ।। ३१
निमिमील दृशावर्धं परिपक्ष्मलपक्ष्मके ।
निस्पन्दतारामधुरे संध्याकाल इवाम्बुजे ।। ३२
सौम्यतामनयन्मौनी प्राणापानजवं मुखे ।
श्वसनं श्रेयसे देशे प्रशस्तः समयो यथा ।। ३३
तिलेभ्य इव तैलानि पृथक् चक्रे प्रयत्नतः ।
इन्द्रियाणीन्द्रियार्थेभ्यः कूर्मोऽङ्गानीव गोपयन् ३४
बाह्यस्पर्शानशेषेण जहौ दूरे स धीरधीः ।
सहसा कुण्डकच्छन्नो मणिर्दूरत्विषो यथा ।। ३५
विलीनानान्तरांश्चक्रे स्पर्शानुज्झितदर्शनात् ।
रसान्विटपकोशस्थान्मार्गशीर्ष इव द्रुमः ।। ३६
रुरोध गुदसंकोच्चान्नवद्वारानिलानथ ।

मुखसंस्थगितः कुम्भो रन्ध्रकोशानिवेतरान् ।। ३७
स्वात्मरत्नप्रकाशाढ्यां स्पष्टां कुसुमलाञ्छिताम् ।
दधार कन्धरां धीरो मेरुः शृङ्गशिखामिव ।। ३८
बभार हृदयाकाशे मनः संयममागतम् ।
विन्ध्यखात इवोन्मत्तं गजं युक्तिवशीकृतम् ।। ३९
शरन्नभोवदासाद्य निर्मलामतिसौम्यताम् ।
जहार परिपूर्णाब्धेर्निर्वातस्याचलां श्रियम् ।। 5.54.४०
दुधावातिविकल्पौघान्प्रतिभासमुपेयुषः ।
पुरः परिस्फुरद्रूपान्मशकानिव मारुतः ।। ४१
आगच्छतो यथाकामं प्रतिभासान्पुनः पुनः ।
अच्छिनन्मनसा शूरः खङ्गेनेव रणे रिपून् ।। ४२
विकल्पौघे परालूने सोऽपश्यद्धदयाम्बरे ।
तमच्छन्नविवेकार्कं लोलकज्जलमेचकम् ।। ४३
तमप्युन्मार्जयामास सम्यक्स्वान्तविवस्वता ।
सम्यग्ज्ञानोदितेनाशु पवनेनेव कज्जलम् ।। ४४
तमस्युपरते कान्तं तेजःपुञ्जं ददर्श सः ।
शार्वरे तिमिरे शान्ते प्रातःसंध्यामिवाम्बुजम् ।।४५
तल्लुलाव स्थलाब्जानां वनं बाल इव द्विपः ।
अपिबच्चाप्यसृक्पूरं वेताल इव वेगतः ।। ४६
तेजस्युपरते तस्य घूर्णमानं मनो मुनेः ।
निशाब्जवदगान्निद्रा लोलं क्षीबवदेव वा ।। ४७
मेघमालामिव मरुद्व्यालो नीलाब्जिनीमिव ।
यामिनीमिव तीक्ष्णांशुस्तामप्याशु लुलाव सः ।। ४८
निद्राव्यपगमे तस्य भावयामास तन्मनः ।
व्योमश्यामलदृग्जन्तुर्नभसीव शिखण्डकान् ।। ४९
पयोद इव तापिच्छं नीहारमिव मारुतः ।
दीपस्तम इवाच्छात्म तदप्याशु ममार्ज सः ।। 5.54.५०
व्योमसंविदि नष्टायां मूढं तस्याभवन्मनः ।
निद्रायां तु विलीनायां मैरेयमदवानिव ।। ५१
मोहमप्येष मनसस्तं ममार्ज महाशयः ।
यामिनीजनितं जाड्यं भुवनादिव भास्करः ।। ५२
ततस्तेजस्तमोनिद्रामोहादिपरिवर्जितम् ।
कामप्यवस्थामासाद्य विशश्राम मनः क्षणम् ।। ५३
विश्रम्याशु पपाताङ्ग संविदं विश्वरूपिणीम् ।
सेतुरुद्धं सरोवारि प्रतीपं स्वमिवास्पदम् ।। ५४
चिरानुसंधानवशात्स्वदनाच्च स्वसंविदः ।
ततश्चिन्मयतामागाद्धेम नूपुरतामिव ।। ५५
चित्तत्वमथ संत्यज्य चित्तं चित्तत्त्वतां गतम् ।
अन्यदेव बभूवाशु पङ्कः कुम्भस्थितो यथा ।। ५६
चेत्यं संत्यज्य चिच्छुद्धा चित्सामान्यमथाययौ ।
त्यक्तवीच्यादिभेदोऽब्धिर्वाःसामान्यमिवैकधीः ५७
त्यक्तभूतौघमननं ततो विश्वंभरं महत् ।
चिदाकाशं ततः शुद्धं सोऽभवद्बोधमागतः ।। ५८
तत्र प्रापदथानन्दं दृश्यदर्शनवर्जितम् ।
अनन्तमुत्तमास्वादं रसायनमिवार्णवम् ।। ५९
शरीरात्समवेतोऽसौ कामप्यवनिमागतः ।
सत्तासामान्यरूपात्मा बभूवानन्दसागरः ।। 5.54.६०
द्विजचेतनहंसोऽसावानन्दसरसि स्थितः ।
अतिष्ठच्छरदच्छे खे कलापूर्ण इवोडुपः ।। ६१
बभूवावातदीपाभो लिपिकर्मार्पितोपमः ।
वीतवीच्यम्बुधिप्रख्यो वृष्टमूकाम्बुदस्थितिः ।। ६२
अथैतस्मिन्महालोके तिष्ठन्नुद्दालकश्चिरम् ।
अपश्यद्व्योमगान्सिद्धानमरानपि भूरिशः ।। ६३
आगतानि विचित्राणि सिद्धिजालानि चाभितः ।
शक्रार्कपददातॄणि नीरन्ध्राण्यप्सरोगणैः ।। ६४
तानि नादरयांचक्रे सिद्धिवृन्दानि स द्विजः ।
गम्भीरमतिरक्षुब्धो विलासानिव शैशवान् ।। ६५
सिद्धिसार्थमनादृत्य तस्मिन्नानन्दमन्दिरे ।
अतिष्ठदथ षण्मासान्दिक्तटेऽर्क इवोत्तरे ।। ६६
जीवन्मुक्तपदं तत्तद्यावत्संप्राप्तवान्द्विजः ।
तत्र सिद्धाः सुराः साध्याः स्थिता ब्रह्महरादयः ।।६७
आनन्दे परिणामित्वादनानन्दपदं गतः ।
नानन्दे न निरानन्दे ततस्तत्संविदाबभौ ।। ६८
क्षणं वर्षसहस्रं वा तत्र लब्ध्वा स्थितिं मनः ।
रतिमेति न भोगौघे दृष्टस्वर्ग इवावनौ ।। ६९
तत्पदं सा गतिः शान्ता तच्छ्रेयः शाश्वतं शिवम् ।
तत्र विश्रान्तिमाप्तस्य भूयो नो बाधते भ्रमः ।। 5.54.७०
तत्पदं साधवः प्राप्य दृश्यदृष्टिमिमां पुनः ।
नायान्ति खदिरोद्यानं लब्धचैत्ररथा इव ।। ७१
तां महानन्दपदवीं चित्तादासाद्य देहिनः ।
दृश्यं न बहु मन्यन्ते राजानो दीनतामिव ।। ७२
चेतस्तत्पदविश्रान्तं बुद्धं दृश्यदशां प्रति ।
कदर्थाद्बोधमायाति नायात्येवाथवानघ ।। ७३
उद्दालकोऽत्र षण्मासान्दूरोत्सारितसिद्धिभूः ।
उषित्वोन्मिषितोम्भोदकोशादर्को मधाविव ।। ७४
ददर्श संप्रबुद्धात्मा पुनः परमतेजसः ।
प्रणामलालसाः स्निग्धाश्चन्द्रविम्बवपुर्धराः ।। ७५
रमणीर्गौरमन्दाररेणुभ्रमरचामराः ।
स्फुरत्पताकापटला द्युविमानपरम्पराः ।। ७६
अस्मदादीन्मुनीन्दर्भपवित्राङ्ककराम्बुजान् ।
विद्याधरीभिर्वलितान्विद्याधरपतीनपि ।। ७७
ते तमूचुर्महात्मानमुद्दालकमुनिं तथा ।
प्रसादेन प्रणामान्नो भगवन्नवलोकय ।। ७८
आरुह्येदं विमानं त्वमेहि त्रैविष्टपं पुरम् ।
स्वर्ग एव हि सीमान्तो जगत्संभोगसंपदाम् ।। ७९
आकल्पमुचितान्भुङ्क्ष्व भोगानभिमतान्विभो ।
स्वर्गादिफलभोगार्थमेवाशेषतपःक्रियाः ।। 5.54.८०
हारचामरधारिण्यो विद्याधरवराङ्गनाः ।
पश्येमास्त्वमुपासीनाः करिण्यः करिणं यथा ।। ८१
कामो धर्मार्थयोः सारः कामसाराः सुयोषितः ।
वसन्त इव मञ्जर्यः स्वर्ग एव भवन्ति ताः ।। ८२
एवं कथयतः सर्वानतिथीनित्यसौ मुनिः ।
परिपूज्य यथान्यायमतिष्ठद्गतसंभ्रमम् ।। ८३
नाभ्यनन्दन्न तत्याज तां विभूतिं स धीरधीः ।
भो सिद्धा व्रजतेत्युक्त्वा स्वव्यापारपरोऽभवत् ।।८४
अथ स्वधर्मनिरतं भोगेष्वरतिमागतम् ।
तमुपास्य ययुः सिद्धा दिनैः कतिपयैः स्वयम् ।। ८५
जीवन्मुक्तः स च मुनिर्विजहार यथासुखम् ।
यावदिच्छं वनान्तेषु मुनीनामाश्रमेषु च ।। ८६
मेरुमन्दरकैलासहिमवद्विन्ध्यसानुषु ।
द्वीपोपवनदिक्कुञ्जजङ्गलारण्यभूमिषु ।। ८७
ततःप्रभृति संप्राप्तपदमुद्दालको द्विजः ।
गुहासु गिरिकुक्षीणामवसद्ध्यानलीलया ।। ८८
कदाचिदह्ना मासेन कदाचिद्वत्सरेण च ।
कदाचिद्वत्सरौघेण ध्यानासक्तो व्यबुध्यत ।। ८९
उद्दालकस्तदारभ्य व्यवहारपरोऽपि सन् ।
सुसमाहित एवासौ चित्तत्त्वैकत्वमागतः ।। 5.54.९०
चित्तत्त्वैकघनाभ्यासान्महाचित्त्वमुपेत्य सः ।
बभूव सर्वत्र समस्तेजः सौरमिवावनौ ।। ९१
चित्सामान्यचिराभ्यासात्सत्तासामान्यमेत्य सः ।
दृश्येऽस्मिंश्चित्ररविवन्नास्तमायान्न चोदयम् ।। ९२
शमपरपदलाभप्राप्तिसंशान्तचेता
गलितजननपाशः क्षीणसंदेहदोलः ।
शरदि खमिव शान्तं व्याततं चोर्जितं च
स्फुटममलमचेतस्तद्वपुः संबभार ।। ९३

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे उद्दालकविश्रान्तिर्नाम चतुःपञ्चाशः सर्गः ।। ५४ ।।