योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०७०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

सप्ततितमः सर्गः ७०

श्रीवसिष्ठ उवाच ।
अथ भूधरशृङ्गाभा सा महाकृष्णराक्षसी ।
कज्जलाम्बुदलेखेव तानवं गन्तुमुद्यता ।। १
बभूवाभ्रोपमाकारा ततो विटपरूपिणी ।
पुंस्प्रमाणा ततोऽप्यासीदथाभूद्धस्तमात्रिका।। २
ततः प्रादेशमात्रा सा ततोऽप्यङ्गुलिरूपिणी ।
ततो माषशमीतुल्या ततः सूची बभूव ह ।। ३
ततः कौशेयसूचित्वं पद्मकेसरसुन्दरी ।
प्राप सा शिखराकारा संकल्पाद्रिरिवाणुताम् ।। ४
रराज सूचिका कृष्णा सूक्ष्मायसमनायसी ।
पुर्यष्टकेन चलिता व्योमगा व्योमवासिनी ।। ५
सूची दृश्यत एवासौ नत्वयो नाम विद्यते। ।
संविद्भ्रमकुले चैषा स्वल्पसूचीव लक्ष्यते ।। ६
रत्नसूचीव मसृणा मनोमननसंयुता ।
वैदूर्यरश्मिलेखेव भानुसंतानसुन्दरी। ।। ७
कज्जलाम्भोदसंकल्कलतेव पवनाहृता ।
सूक्ष्मरन्ध्रेक्षणस्वच्छदृष्टज्योतिःकनीनिका ।। ८
सुमुखग्राह्यरूपेण श्लक्ष्णपुच्छशिखाणुना ।
तदा वैपुल्यशान्त्यर्थं परं मौनव्रतं गता ।। ९
सुदूराद्दीपवदृष्टं खतन्मात्रत्वमागता ।
दूरादेव मनोज्ञेन प्रोद्गिरन्ती मुखेन खम् ।। 3.70.१०
कुञ्चितेक्षणसंदृश्या दीर्घदीपांशुकोमला ।
सद्यःस्नातसमुत्सन्नबालवालविलासिनी ।। ११
तन्तुर्बिसादिवोड्डीना बाह्यसंचारकौतुकात् ।
ब्रह्मनाडिरिवोद्युक्ता बहीरन्ध्रं सुसुन्दरी ।। १२
नियतेन्द्रियशक्तिः सा जीवेनैव बहिःस्थिता ।
बौद्धतार्किकविज्ञानसंतानवदलक्षिता ।। १३
शून्यसिद्धार्थसविका रन्ध्रानीलमयाऽरवा ।
अदृश्यया जीवसूच्या संततानुसृता स्थिता ।। १४
कलाकलनधर्मिण्या वासनामात्रसारया ।
क्षीणदीपांशुसूचीवत्तीक्ष्णयानुपलभ्यया ।। १५
ग्रासार्थं सूचितां याता सैवास्था नोपयुज्यते ।
विचारितं तया नैतदहो मौर्ख्यविजृम्भितम् ।। १६
साग्रा संचिन्तयामास न सूचीरूपतुच्छताम्।
चित्तमीहितमेवैकं पश्यन्त्यास्ते निरर्थकम् ।। १७
अविचार्यैव सूचित्वं तया मूढधियाऽऽस्थितम्।
नानर्थबुद्धेः स्फुरति पूर्वापरविचारणा ।। १८
स्वार्थक्रियोग्रसामर्थ्याद्याति भावनयान्यताम् ।
पदार्थोऽभिमतांशाढ्यो निःश्वासेनेव दर्पणः ।। १९
सूचीभावं प्रपन्नायास्त्यजन्त्याः पीवरं वपुः ।
महामरणमप्यस्या राक्षस्याः सुसुखं स्थितम् ।। 3.70.२०
एकवस्त्वतिरागाणामहो नु विषमा गतिः ।
देहोऽपि तृणवत्त्यक्तो राक्षस्या निजयेच्छया ।। २१
एकवस्त्वतिगन्धेन भ्रश्यन्त्यन्या हि संविदः ।
राक्षस्या ग्रासगन्धेन देहनाशोऽपि नेक्षितः ।। २२
नाशोऽपि सुखयत्यज्ञमेकवस्त्वतिरागिणम् ।
सूचीभूता विदेहापि परितुष्टैव राक्षसी ।। २३
अन्या वभूव लग्ना सा तथा जीवविषूचिका ।
व्योमात्मिका निराकारा व्योमवृत्तिशरीरका ।। २४
तेजस्तनुप्रवाहाभा प्राणतन्तुमयात्मिका ।
मूलसंवेदनाकारा चन्द्रार्कांशुकसुन्दरी ।। २५
पृथगेवासिधाराभा परमाण्ववलीय सा ।
कौसुमी गन्धलेखेव कला कलनरूपिणी ।। २६
पापात्मिका मनोवृत्तिः सो हि तस्यास्तथा स्थिता ।
परप्राणवशादेव परमार्थपरायणा ।। २७
एवमस्यास्तनुर्जाता सूचीद्वयमयी हि सा ।
नीहारांशुकवत्तन्वी कार्पासांशुसुपेलवा ।। २८
तनुद्वयेन तेनासौ प्रविश्य हृदयं नृणाम् ।
वेधयन्ती ततः क्रूरा प्रबभ्राम दिशो दश ।। २९
सर्वः स्वसंकल्पवशाल्लघुर्भवति वा गुरुः ।
कर्कट्योग्रं वपुस्त्यक्त्वा सूचीत्वमुररीकृतम् ।। 3.70.३०
तुच्छोऽप्यर्थोऽल्पसत्त्वानां गच्छति प्रार्थनीयताम् ।
सूचीवृत्तपिशाचीत्वं राक्षस्या तपसा स्थितम् ।। ३१
अपि पुण्यशरीराणां जातिबन्धो न शाम्यति ।।
तनुसूचीपिशाचीत्वं राक्षस्या तपसार्जितम् ।। ३२
तस्यां दिगन्तभ्रमणे प्रवृत्तायां महानिलैः ।
तत्रैव सा तनुः स्थूला गलिता शरदभ्रवत् ।। ३३
कस्यचिद्विवशाङ्गस्य क्षीणस्य विपुलस्य च ।
प्रविश्यान्तर्वातसूचिर्भवत्यतिविषूचिका ।। ३४
कस्यचित्तनुदेहस्य स्वस्थस्य सुधियोऽपि वा ।
प्रविश्य जीवसूचित्वे भवत्यन्तर्विषूचिका ।। ३५
एवं क्वचित्तृप्यति सा दुर्बुद्धिहृदयास्थिता ।
क्वचिदुच्छेद्यते पुण्यैर्मन्त्रौषधितपःक्रमैः ।। ३६
आसीद्बहूनि वर्षाणि भ्रमणैकपरायणा ।
देहद्वयेन गच्छन्ती व्योम्नि भूमितले तथा ।। ३७
रजस्तिरोहिता भूमौ हस्तेऽङ्गुलितिरोहिता ।
प्रभातिरोहिता व्योम्नि वस्त्रे सूत्रतिरोहिता ।। ३८
अन्तःस्थस्नायुसरिति दुर्भगे पांशुपाण्डुरे ।
शुष्करेखासरित्खाते सूक्ष्मरेखाजरत्तृणे ।। ३९
अर्थहीने गतच्छाये शून्या उच्छ्वासकारिणी ।
मक्षिकावातहरिते श्रीवृक्षपरिवर्जिते ।। 3.70.४०
स्थूलास्थिग्रन्थिवलिते नित्यकम्पस्फुरत्तमे ।
अनात्मीयाच्छनीहारेऽशुद्धांशुककृतभ्रमे ।। ४१
किणस्थाण्वङ्गविश्रान्तमक्षिकापिकवायसे ।
रौक्षरूढरसद्वाते विलोलाङ्गुलिशाखिनि ।। ४२
मालाभ्रलेखासंसारे स्वाङ्गुलिव्रणगर्तके ।
स्पन्दावश्यायपृषति पदवल्मीकपर्वते ।। ४३
कचत्याशु जलभ्रान्तौ नखाजगरकर्कशे ।
क्वाचित्कविसरद्भीतभीतयूककुपान्थके ।। ४४
विरूपाशुष्कसंदष्टवीटिकापूतिपल्वले ।
मध्यस्थलेखमार्गौघशीतश्वसनगोचरे ।। ४५
ग्रस्तयूकानरौघासृक्पूर्णसृक्किनखास्यताम् ।
दधताङ्गुष्ठपक्षेण क्रान्ते सर्वत्र यायिनी ।। ४६
नानाविरचनाचित्रपटपत्तनगामिनी ।
गमागमपरिश्रान्ता तत्रात्यन्तचिराध्वगा ।। ४७
नगरानगरे व्यस्तसूत्रभाण्डैकभारिणी ।
तप्ते कलेवरारण्ये बलीवर्दापवर्तिनी ।। ४८
गुप्ता विश्रमणायैव मनाक्करपरिच्युता ।
तन्तुप्रोता मुखाकृष्टिः खिन्ना क्वापि विलीयते। ।। ४९
वेधनं कर्मसंश्लिष्टा कठिनापि न साकरोत् ।
न हि तीक्ष्णो बहिः कार्यो निजत्वं विजहाति चेत्3.70.५०
सायःसूची मनःसूच्या वलिता विजहार ह ।
दिक्ष्वाशेव शिलागुर्वी नावाङ्गपलिता सती ।। ५१
विससार दिगन्तेषु सान्तःकरणसत्तया ।
तुषलेखेव पवनशक्त्या संसृतिरूपया ।। ५२
मुखेन सूक्ष्मसूत्रान्तं चरन्तीव परोम्भितम् ।
परपूरोद्यमेनाशु जातेव हृदयान्विता ।। ५३
परपूररसेनैव सूच्या हृत्सुविकासितम् ।
अनारतपतत्सूक्ष्मसूत्रान्त इव स्तम्भिता ।। ५४
तीक्ष्णैरपि चिरक्षीणं पूर्यते निर्विचारणा ।
दृष्टान्तोऽत्र क्षणात्सूच्या पूरितो जर्जरः पटः ।। ५५
सूत्रांशुनिर्गमे योग्यं सूच्या हृदयमर्जितम् ।
परपूरणयैवाशु तेजश्च कवितार्करुक् ।। ५६
अकस्मात्तेन रूढेन क्षीणपूरेण रूपिणी ।
हृदये राक्षसी सूचिः कर्मणा तप्यते च सा ।। ५७
वेधं पूररयेणेव करोति स्वं प्रचारिता ।
प्रकृतेन निजेनापि वेधाय व्यवहारिता ।। ५८
संचारयति वस्त्रेषु सूत्रं चतुरवेधनात् ।
आदीर्घवासनातन्तुः शरीरेष्विव चेतनाम् ।। ५९
संचार्यमाणवेधेन धावन्तीवाक्षिपातने ।
अदर्शितमुखा एव दुर्जना मर्मवेधिनः ।। 3.70.६०
कण्ठवस्त्रदलप्रोता वेधाक्ष्णा मुखमीक्षते ।
कथमेता भिनद्मीति तीक्ष्णानामेतदीप्सितम् ।। ६१
सममेव च कौशेये क्षौमे च वसने सृता ।
जडः क इव वा नाम गुणागुणमपेक्षते ।। ६२
सा दधाना ततं सूत्रमङ्गुष्ठाङ्गुलिपीडिता ।
आन्त्रतन्तुमिवामान्तमुद्गिरन्ती निरीक्षते ।। ६३
तीक्ष्णाप्यहृदयत्वेन सरसेष्वरसेष्ववित् ।
सूत्रितापि पदार्थेषु विशत्यरसगामिनी ।। ६४
अगर्दती मुखप्रोता सुतीक्ष्णापि च तापिधीः ।
सुवेधिताप्यहृदया राजपुत्र्यापि दुर्भगा ।। ६५
विना परापकारेण तीक्ष्णा मरणमीहते ।
वेदनाद्रोधिता सूची कर्मपाशे प्रलम्बते। ।। ६६
शेते किंश्याममैत्र्येव दूरे करपरिच्युता ।
स्वरूपसदृशं मित्रं कस्मै नाम न रोचते ।। ६७
मिश्रिता मूढचित्तानां वृत्तिभिः प्राकृते जने ।
तिष्ठत्यात्मसमां को हि संगतिं त्यक्तुमिच्छति ।। ६८,
भवत्ययस्कारवित्तौ संत्यज्यान्तर्धिगामिनी ।
भस्त्रावातैर्विचलिता गगनादुत्पतोन्मुखी ।। ६९
प्राणापानप्रवाहस्थहृत्पद्मान्तरचारिणी ।
दुःखशक्तिर्महाघोरा जीवशक्तिरिवोदिता ।। 3.70.७०
समानवैपरीत्येन समानसमगामिनी ।
उदानविपरीतत्वादुदानसमगामिनी ।। ७१
व्यानस्था व्याधिजननी सर्वाङ्गरसचारिणी ।
हृत्कण्ठे शूलपवने वैवर्ण्योन्मादकारिणी ।। ७२
प्रायशोऽविकहस्तस्था सुप्तोर्णा गन्धकोटरे।
बालहस्ताङ्गुलीतल्पवेधनैकविलासिनी ।। ७३
पादप्रविष्टा रुधिरपानोपार्जनविस्मिता ।
तुष्यत्यतितरां गुच्छभोजना तुच्छभोजनैः ।। ७४
शेते कर्दमकोशस्था चिरकालमधोमुखी ।
इच्छानुरूपमासाद्य क इवास्पदमुज्झति ।। ७५
क्रौर्येणापहतात्मानं दर्शयत्युपवेधनैः ।
उत्सवादपि नीचानां कलहोऽपि सुखायते ।। ७६
कपर्दकार्धलाभेन कृपणो बहु मन्यते ।
दुरुच्छेदा हि भूतानामहंकारचमत्कृतिः ।। ७७
सूचिकायुग्मलभ्येन मोहितेनात्मना नृणाम् ।
मृतिमाशङ्कते चित्रा स्वार्थे नोदेति मूढता ।। ७८
वस्त्रतन्तुविभेदेन परमारणमाशु मे ।
इदं संपद्यत इति भवत्यन्तर्हि निर्मला ।। ७९
स्थापिता मलमादत्ते यथा मृद्धर्षणं विना ।
परापराधविरहाद्व्याधिस्तस्याः प्रवर्तते ।। 3.70.८०
सूक्ष्माऽदृश्या चैव दात्री क्षणाद्विस्मृतिमेति सा ।
तीक्ष्णभेदकरी क्रूरा सूची चेष्टेव दैविकी ।। ८१
तन्तुवेधनमात्रेण हतोऽन्य इति तोषिता ।
दुर्जनो येन तेनैव नाशितेनैति हृष्टताम् ।। ८२
पङ्के मज्जति याति खं विहरति व्योमानिलैर्दिक्तटे
शेते पांसुषु भूतलेष्विव वने पट्टे गृहेऽन्तःपुरे ।
हस्ते श्रोत्रसरोरुहेऽथ मृदुनि स्वेच्छोर्णिकाखण्डके
रन्ध्रे काष्ठमृदां च माति हृदये द्रव्यात्मशक्त्यैव सा ।।
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामक्षये रविकरैश्च सहाजगाम ।। ८४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सूचिव्यवहारवर्णनं नाम सप्ततितमः सर्ग. ।। ७० ।।
षष्ठो दिवसः ।