योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०६८

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्



अष्टषष्टितमः सर्गः ६८
श्रीवसिष्ठ उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
राक्षस्योक्तं महाप्रश्नजालमावलिताखिलम् ।। १
अस्ति कज्जलपङ्काद्रेरिवोग्रा शालभञ्जिका ।
हिमाद्रेरुत्तरे पार्श्वे कर्कटी नाम राक्षसी ।। २
विषूचिकाभिधाना च नाम्नाप्यन्यायवाधिका ।
विन्ध्याटवीव देहेन शुष्का कार्श्यमुपागता ।। ३
महाबलाग्निनयना रोदोरन्ध्रार्धपूरणी ।
नीलाम्बरधरा कृष्णा देहबद्धेव यामिनी ।। ४
नीहारवसनच्छन्ना मेदुराभ्रशिरःपटा ।
लम्बाभ्रबिम्बोल्लसिता नित्योत्थतिमिरोर्ध्वजा ।। ५
स्थिरविद्युल्लतानेत्रा तमालतरुजानुका ।
वैदूर्यशूर्पाग्रनखी भस्मनीहारहासिनी ।। ६
निर्मांसनरदेहौघपुष्पस्रग्दामभूषिता ।
सर्वाङ्गोदात्तसंप्रोतशवमालाविराजिता ।। ७
वेतालावेशविचलत्कालकङ्कालकुण्डला ।
अर्कादानोत्कदीर्घाग्रभीमोग्रभुजमण्डला ।। ८
तस्या विपुलकायत्वाद्दुर्लभत्वान्निजान्धसः ।
अतृप्तोऽर्णवलेखाया इवाभूज्जाठरोऽनलः ।। ९
न कदाचन सा तृप्तिमुपयाता महोदरी ।
वडवानलजिह्वेव चिन्तयामास चैकदा ।। 3.68.१०
जम्बूद्वीपगतान्सर्वान्निगिरामि जनान्यदि ।
अनारतमनुश्वासं जलराशिमिवार्णवः ।। ११
मेघेन मृगतृष्णेव तन्मे क्षुदुपशाम्यति ।
अविरुद्धैव सा युक्तिर्ययापदि हि जीव्यते ।। १२
मन्त्रौषधतपोदानदेवपूजादिरक्षितम् ।
सममेव जनं सर्वं निर्बाधं कः प्रबाधते ।। १३
तपः करोमि परममखिन्नेनैव चेतसा ।
तपसैव महोग्रेण यद्दुरापं तदाप्यते ।। १४
इति संचिन्त्य सा सर्वजन्तुजातजिघांसया ।
तपोर्थमथ सस्मार पर्वतं भूतदुर्गमम् ।। १५
आरुरोह च तच्छृङ्गं स्थिरविद्युद्विलोचना ।
हस्तपादादिमद्देहा श्यामलेवाभ्रमण्डली ।। १६
तत्र गत्वाथ सा स्नात्वा तपः कर्तुं कृतस्थितिः ।
अतिष्ठदेकपादेन चन्द्रार्कास्पन्दलोचना ।। १७
क्रमेण दिवसाः पक्षास्तस्या मासर्तवो ययुः ।
शीतातपेषु लीनायाः कृताया इव शैलतः ।। १८
सा बभूवाभ्रमालायाः समासं स्तम्भिताकृतिः ।
कृष्णोर्ध्वगोर्ध्वकेशी च खमाहर्तुमिवोद्गता ।। १९
आलोक्य तां पवनजर्जरिताङ्गकत्वक्
चीराङ्गणाकृतिरणत्पवनावधूतैः ।
ऊर्ध्वस्थमूर्धजतमःपटलैर्दधानां
तारोघमौक्तिकमजः समुपाजगाम ।। 3.68.२०

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने राक्षसीवर्णनं नामाष्टषष्टितमः सर्गः ।। ६८ ।।