यतीन्द्रमतदीपिका/पञ्चमोवतारः
| यतीन्द्रमतदीपिका पञ्चमोवतारः श्रीनिवासाचार्यः |
अथ पञ्चमोऽवतारः कालनिरूपणम् अथाचिद्विशेषः कालो निरूप्यते। कालो नाम गुणत्रयरहितो जडद्रव्य विशेषः। स च नित्यो विभुश्च। भूतभविष्यद्वर्तमानभेदेन त्रिविधः। युगपत्क्षिप्रचिरादिव्यपदेशहेतुः। निमेषकाष्ठा (तत्परा विनाडी) कला-घटिका मुहूर्त- दिवस -पक्ष -मास ऋत्वयन- संवत्सरादिव्यवहारहेतुश्च। मनुष्यमानेन मासः। पितृणां दिनम्। तेषाममावास्या मध्याह्नः। मनुष्यमानेन संवत्सरो देवानां दिनम्। तेषाममावास्या मध्याह्नः। रात्रिः ।एवं देवमानेन द्वादशवर्षसहस्रसङ्ख्याकं चतुर्युगमित्युच्यते। तत्र चतुस्सहस्रवर्षसङ्ख्याकं कृतयुगम्। तत्र पूर्णो धर्मः। त्रिसहस्रवर्षसङ्ख्याकं त्रिपाद्धर्मत्त्रेतायुगम्। द्विसहस्रवर्षपरिमितं (सार्धपादधर्मं) द्विपाद्धर्मवद् द्वापरम्। सहस्रवर्षसङ्ख्याकमेकपाद्धर्मयुतं कलियुगम्। एतेषां सन्धिर्द्विसहस्रसङ्ख्याकः। एवम्भूत चतुर्यगसहस्राणि बह्मणो दिवसप्रमाणम्। एवं रात्रिः। १०२ ब्रह्मणोऽह्नो वर्णनम् ब्रह्मणोऽह्नि चतुर्दश मनवःष तथेन्द्रास्सप्तर्षयश्च। एकैकमनोरेकस्पतति- चतुर्युगपरिमाणकालः। एवं ब्रह्ममानेन ब्रह्मणश्शतवर्षजीवित्वम्। एतत्सर्वं कालाधीनम्। एवं नित्यनैमित्तिकप्राकृतादिप्रलया अपि कालाधीनाः। कालस्य स्वकार्यं प्रति स्वस्योपादानत्वम। अखण्डकालो नित्यः। खण्डकालाः पुनरित्याः। एवम्भूतः काल ईश्वरस्य क्रीडापरिकरो भवति। लीलाविभूतावीश्वरः कालाधीन एव कार्यं करोति। नित्यविभूतौ तु कालस्य विद्यमानत्वेऽपि तस्य न स्वातन्त्र्यम्। केचित्काल एव नास्तीति वदन्ति। अन्ये तु तामसो महान् काल इति। उभयेषामागमबाधः प्रत्यक्षबाधश्च। षडिन्द्रियवेद्यः काल इत्याचार्याः। तेनानुमेयवादिनिरासः। इति कालो निरूपितः। इति श्रीवाधूलकुलतिलक- श्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायां शारीरकपरिभाषायां कालनिरूपणं नाम पञ्चमोऽवतारः।।