यतीन्द्रमतदीपिका/अष्टमोवतारः
| यतीन्द्रमतदीपिका अष्टमोवतारः श्रीनिवासाचार्यः |
अथाष्टमोऽवतारः अथ जीवो निरूप्यते।प्रत्यक्त्वचेतनत्वात्मत्वकर्तृत्वादीनि ईश्वरजीव साधारणलक्षणानि। प्रत्यक्त्वं नाम स्वस्मै स्वयमेव भासमानत्वम्। चेतनत्वं नाम ज्ञानाश्रयत्वम्। आत्मत्वं शरीरप्रतिसम्बन्धित्वम्। कर्तृत्वं सङ्कल्पज्ञानाश्रयत्वम्। एवं सामान्यलक्षणलक्षितस्य जीवस्य विशेषलक्षणान्युच्यन्ते।अणुत्वे सति चेतनत्वम्, स्वतः शेषत्वे सति चेतनत्वम्। एवमाधेयत्व- विधेयत्व पराधीनकर्तृत्व परतन्त्रत्वादिकमूह्यम्। जीवस्य देहेन्द्रियादिभ्यो भिन्नत्वसाधनम् स च देहेन्द्रियमनः प्राणधीभ्यो विलक्षणः। यथा मम शरीरमिति प्रतीत्या देहाद्वयावृत्तः। एवं चक्षुषा पश्यामि, श्रोत्रेन्द्रियेण श्रृणोमि, वाचावदामीत्यादिप्रत्ययात् बाह्येन्द्रियेभ्यो व्यावृत्तः। मनसा जानामीति मनसो ज्ञानकरणत्वप्रतीतेः, मम प्राणा इति व्यतिरेकोक्त्या जानाम्यहमिति प्रतीत्या च मनः प्राणज्ञानेभ्यो व्यावृत्तः। आत्मनः अणुपरिमाणकत्वसमर्थनम् स चाणुपरिमाणः। अत्क्रान्त्यादिश्रवणात्प्रमाणानुसाराच्च। अणुत्वे युगपदनेकविषानुभवः कथमिति न शङ्कनीयम्। धर्मभूतज्ञानव्याप्त्योपपत्तेः। एतेनैव सौभरिप्रभृतीनां मुक्तानां च युगपदनेकशरीरपरिग्रहोऽपि सम्भवति। १७४ स च नित्यः। पूर्वानुभूतार्थप्रतिसन्धानात्। नित्यश्चेज्जीव उत्पन्नो जीवो नष्ट इति प्रतीतिः कथमिति चेन्न , जीवस्य देहसम्बन्ध उत्पत्तिः। तद्वियोगोनाश इति प्रतिपादनात्। जीवस्वरूपं नित्यमेव। १७५ स च प्रतिशरीरं भिन्नः। एकपरिमाणेषु सर्वेषु घटेष्वेको घट इति प्रतीतिवद् व्रीहिराशौ चैको व्रीहिरिति प्रतीतिवच्च ज्ञानैकाकारतया एकत्व व्यवहारः, न तु स्वरूपैक्यम्। प्रमाणविरोधात् । स्वतस्सुखी उपाधिवशात्संसारः। अयं च कर्ता भोक्ता शरीरं च भवति। प्रकृत्यपेक्षया शरीरी।ईश्वरापेक्षया शरीरं च। अस्य प्रत्यक्षश्रुतिभ्यां स्वयम्प्रकाशत्वं च सिद्धम्। प्रयोगश्च, आत्मा स्वयम्प्रकाशः ज्ञानत्वात्। धर्मभूतज्ञानवदिति। ज्ञानत्वाणुत्वामलत्वादय एतस्य स्वरूपनिरूपकधर्माः। आत्मविषये मतान्तरनिरासः १७९ एतेन ज्ञानस्य (क्षणिकत्वात्) क्षणिकसन्तानरूप आत्मेति बौद्धपक्षः, भूतचतुष्टयात्मकत्वाद्देहस्य देहावधिक आत्मेति चार्वाकपक्षः, गजदेहे गजपरिमाणः पिपीलिकादेहे पिपीलिकापरिमाणः, अतो देहपरिमाण आत्मेति जैनपक्षः, कर्तृत्व भोक्तृत्वादिकं प्रकृतेरेव, न तु पुरूषस्येति साङ्ख्यपक्षः, ब्रह्मांशो जीव इति यादवपक्षः, सोपाधिकब्रह्मखण्डो जीव इति भास्करपक्षः, अविद्यापरिकल्पितैकजीववादपक्षः, अन्तः करणावच्छिन्नानेकजीववादपक्षः, इत्येवमादयो विरूद्धपक्षा निरस्ताः। विभुत्ववादपक्षोऽपि। १८५ ननु जीवस्य विभुत्वानङ्गीकारेऽदृष्टजनितदेशान्तरफलोपलब्धिः कथमिति चेन्न, जीवस्य सम्बन्धाभावेऽपि अदृष्टवशा (दुपपत्तेः) दुपपद्यते। अदृष्टं नाम, भगवत्प्रीतिजनकजीवकर्तृककर्म विशेषजन्यो ज्ञानविशेषः। स विशेषो भगवत्सङ्कल्प एव विभुस्वरूपं भगवन्तमाश्रितः। अतः फलोपलब्धिरिति न विरोधः। १८६ जीव विभागः स जीवस्त्रिविधः- बद्धमुक्तनित्यभेदात्। तत्र बद्धा नाम, अनुवृत्तसंसाराश्चतुर्दशभुवनाण्डकटाहर्तिनो ब्रह्मादि कीटपर्यन्ताश्चेतनविशेषाः। श्रीमतो नारायणस्य नाभिकमलादुत्पन्नो ब्रह्मा। ब्रह्मणो रूद्रः, पुनर्ब्रह्मणो सनकादियोगिनो नारदादिदेवर्षयो वसिष्ठादि ब्रह्मर्षयः पुलस्त्यमरीचिदक्षकश्यपादिनवप्रजापतयश्च बभूवुः। तेभ्यो देवा दिक्पालकाश्चतुर्धशेन्द्राश्चतुर्दशमनवोऽसुराः पितरस्सिद्धगन्धर्वकिन्नर किम्पुरूषविद्याधरादयो वसवो रूद्रा आदित्या आश्विनौ दानवयक्षराक्षस पिशाचगुह्यकादयश्च। एवं देवयोनयो बहुविधाः। मनुष्या अपि ब्राह्मण क्षत्रियवैश्यशूद्रादिजाति भेदाद् बहुविधाः। तिर्यञ्चोऽपि पशुमृगपक्षिसरीसृप पतङ्गकीटादिभेदाद् बहुविधाः। स्थावरा अपि वृक्षगुल्मलतावीरूत्तृणादि भेदाद् बहुविधाः। वृक्षादीनां जलाहरणाद्युयुक्तकिञ्चिज्ज्ञानसम्बन्धोऽस्त्येव। अप्राणवत्सु स्वल्पा सेत्युक्तत्वात्। अतो देवमनुष्यतिर्यवस्थावरभेदभिन्ना बद्धाः। एते पुनर्जरायुजाण्डजोद्भिज्जस्वेदजाश्च भवन्ति। देवमनुष्या जरा युजाः। तेषु ब्रह्मरूद्रादयस्सनकादयश्च सीताद्रौपदीधृष्टद्युम्नप्रभृतयो भूत वेतालादयश्चायोनिजाः। तिर्यगादयश्च जरायुजा अण्डजास्स्वेदजाश्च भवन्ति। स्थावरादय उद्भिज्जाः। एवम्भूता बद्धा बीजाङ्कुरन्यायेन विषमप्रवाहतयाऽनादिकाल प्रवृत्ताविद्याकर्मवासनारूचिप्रकृतिसम्बन्धैश्चक्रवत्परिवर्तमानैर्गर्भ जन्मबाल्ययौवनजागरस्वप्नसुषुप्तिमूर्च्छाजरामरणस्वर्गनरकगमनादिविविध विचित्रावल्खावन्तोऽनाद्यनन्तप्रकारातिदुस्सहतापत्रयाभितप्ताः। स्वतः प्राप्त भगवदनुभविच्छेदवन्तश्च। १९१ शास्त्रवश्यजीवानां विभागः ते द्विविधाः-शास्त्रवश्यास्तदवश्याश्च। तयोर्मध्ये करणायत्तज्ञानानां बद्धानां शास्त्रवश्यतास्ति। तिर्यक्वस्थावरादीनां तन्नास्ति। शास्त्रवश्या द्विविधाः- बुभुक्षवो मुमुक्षवश्चेति। तत्र, बुभुक्षवस्त्रैवर्गिकपुरूषार्थनिष्ठाः। ते च द्विविधाः - अर्थ कामपरा धर्मपराश्चेति। केवलार्थकामपरा देहात्माभिमानिनः। धर्मपराश्च अलौकिकश्रेयस्साधनं धर्मः, चोदनालक्षणोऽर्थो धर्म इति धर्मलक्षणलक्षितयज्ञदानतपस्तीर्थयात्रादिनिष्ठाः। ते च देहातिरिक्तात्माभिमानिनः परलोकोऽस्तीति ज्ञानवन्तः। धर्मपरा द्विविधाः -देवतान्तरपरा भगवत्पराश्चेति। देवतान्तरपरा ब्रह्मरूद्राग्नीन्द्राद्याराधनपराः।भगवत्परास्तु आर्तो जिज्ञासुरर्थार्थीत्युक्ताधिकारिणः। आर्तो भ्रष्टैश्वर्यकामः। अर्थार्थी अपूर्वैश्वर्यकामः। मुमुक्षवो द्विविधाः- कैवल्यपरा मोक्षपराश्चेति। कैवल्यं नाम ज्ञानयोगात्प्रकृतिवियुक्तस्वात्मानुभवरूपम्। सोऽनुभवोऽर्चिरादिमार्गे परमपद गतवत एव क्वचित्कोणे पति (वियु) त्यक्तपत्नीन्यायेन भगवदनुभवव्यतिरिक्तस्वात्मानुभव इत्याङुः। केचित् अर्चिरादि मार्गेण गतस्यापुनरावृत्तिश्रवणात् प्रकृतिमण्डल एव क्वचिद्देशे स्वात्मानुभव इत्याहुः। १९६. मोक्षपराणां मुमुक्षूणां भेदाः
मोक्षपराश्च द्विविधाः- भक्ताः प्रपन्नाश्चेत।भक्ताः पुनरधीतसाङ्गसशिरस्कवेदाः पूर्वोतरमीमासापरिचयाच्चिदचिद्वि लक्षणानवघिकातिशया नन्दरूपं निखिलहेयप्रत्यनीकं समस्तकल्याणगुणात्मकं ब्रह्मावधार्य तत्प्राप्त्युपायभूतां साङ्गां भक्ति स्वीकृत्य तया मोक्षं प्राप्तुकामाः। भक्तावधिकारः त्रैवर्णिकानामेव। देवादीनामप्यस्ति। अर्थित्वसामर्थ्ययोस्सम्भवात्। न शूद्राणामधिकारः। अपशूद्राधिकरणविरोधात् । भक्तिस्वरूं तु बुद्धिपरिच्छेदे प्रतिपादितम्। भक्ता द्विविधाः- साधनभक्तिनिष्ठा व्यासादयः। साध्यभक्तिनिष्ठास्साध्यभक्तिनिष्ठाश्चेति। साधनभक्तिनिष्ठा व्यासादयः । साध्यभक्तिनिष्ठा नाथादयः।
१९९. आकिञ्चन्यानन्यगतित्वधर्मविशिष्टो भगवन्तमाश्रितः प्रपन्नः। सद्विविधः-त्रैवर्गिकपरो मोक्षपरश्चेति। त्रैवर्गिकपरो नाम, भगवत एव धर्मार्थिकामाभिलाषी। मोक्षपरस्तु सत्सङ्गत्या नित्यानित्यपरवस्तुविवेके सति संसारे निर्वेदाद्वैराग्ये उत्रन्ने मोक्षेच्छायां जातायां तत्सिद्धयर्थम् आचार्यो वेदसम्पन्न इत्याद्याचार्यलक्षणलक्षितं गुरूं संश्रित्य तद्द्वारा पुरूषकारभूतां श्रियं प्रपद्य भक्त्याद्युपायान्तरेषु अशक्तोऽत एवाकिञ्चोऽनन्यगतिः श्रीमन्नारायणचरणावेवोपायत्वेन स्वीकरोति। (यः) स प्रपन्नः। प्रपत्तिस्सर्वाधिकारा। प्रपन्नो द्विविधः- एकान्ती परमैकान्ती चेति। यो मोक्षफलेन साकं फलान्तराण्यपि भगवत एवेच्छति स एकान्ती।देवतान्तर शून्य इत्यर्थः। भक्तिज्ञानाभ्यामन्यत्फलं भगवतोऽपि नेच्छति यः स परमैकान्ती। स द्विविधः- दृप्तार्तभेदात्। अवश्यमनुभोक्तव्यमिति प्रारब्धकर्मानुभवन्नेतद्देहावसानसमयमी (ये मोक्षमपे) क्षमाणो दृप्तः दृप्तः। जाज्वल्यमानाग्निमध्यस्थतेरिव संसारस्थितेरतिदुस्सहत्वात्प्रपत्त्युत्तरक्षण एव मोक्ष काम आर्तः। २०४ मुक्तो नाम, उपायपरिग्रहानन्तरं नित्यनैमित्तकभगवदाज्ञानुज्ञाकैङ्कर्यरूपाणि कर्माणि स्वयम्प्रयोजनतया कुर्वन, भगवद्भागवताचार्यापरांश्च वर्जयन्, देदावसानकाले सुकृतदुष्टकृते मित्रामित्रयोर्निक्षिपन् वाङ्मनसीत्यादि प्रकारेण हार्दे परमात्मनि विश्रम्य मुक्तिद्वारभूतसुषुम्नानाडीं प्रविश्य तया ब्रह्मारन्ध्रान्निष्क्रम्य हार्देन साकं सूर्यकिरणद्वाराऽग्निलोकं गत्वा दिनपूर्वपक्षोत्तरायणसंवत्सराद्यभिमानिदेवताभिर्वायुना च पथि सत्कृतः, सूर्यमण्डलं भित्त्वा (नभोरन्ध्र) रथचक्ररन्ध्रद्वारा सूर्यलोकं गत्वाऽनन्तरं चन्द्रविद्युद्वरूणेन्द्रप्रजापतिभिर्मार्गिप्रदर्शिभिरातिवाहिकैर्गणैस्सह सोपचारं तत्तल्लोकानतीत्य प्रकृतिवैकुण्ठसीमापरिच्छेदिकां विरजां तीर्त्वा सूक्ष्मशरीरं विहाय अमानवकरस्पर्शादप्राकृतदिव्य (मङ्गल-) विग्रहयुक्तश्चतुर्भुजो ब्रह्मालङ्कारेणालङ्कृतः, इन्द्रप्रजापतिसंज्ञकनगरद्वारपालाभ्यनुज्ञया श्रीवैकुण्ठाख्यं दिव्य नगरं प्रविश्य पताकालङ्कृतदीर्घप्राकारसहितगोपुरमतीत्य ऐरम्यदाख्यामृत सरस्सोमसवनाख्याश्वत्थं च दृष्ट्वा; शतं मालाहस्ता इत्याद्युक्तपञ्चशत दिव्याप्सरोगणैरूपचरितो ब्रह्मगन्धादिभिरलङ्कृतस्तत्रत्यानन्दगरूड विष्वक्से नादीन् प्रणम्य तैर्बहुमतो महामणिमण्डपमासाद्य पर्यङ्कसमीपे स्वाचार्यान् प्रणम्य पर्यङ्कसमीपं गत्वा तत्र धर्माधिपीठोपरि कमले अनन्ते विमलादि भिश्चामरहस्ताभिस्सेव्यमानं श्रीभूमिनीलासमेतं शङ्खचक्रादिदिव्यायुधोपेतं जाज्वल्यमानकिरीटमुकुटचूडावतंसमकरकुण्डलग्रैवेयकहारकेयूरकटक श्रीवत्सकौस्तुभमुक्तादामोदरबन्धन पीताम्बरकाञ्चीगुणनुपुराद्यपरिमितदिव्यभूषणैर्भूषितमपरिमितोदारकल्याणगुणसागरं भगवन्तं दृष्ट्वा तत्पादारविन्दयुगलं शिरसा प्रणम्य पादेन पर्यङ्कमारूह्य तेन स्वाङ्के स्थापितः कोऽस्तीति पृष्टो ब्रह्मप्रकारो (ब्रह्मपरिकरो) (ब्रह्मप्रकाशो) ऽस्मीति उक्त्वा तेन कटाक्षितः तदनुभवजनितप्रहर्षप्रकर्षात्सर्वदेशसर्वकालसर्वावस्थोचितसर्वकैङ्क्यैकरतिराविर्भूतगुणाष्टकः उत्तरावधिरहितब्रह्मानुभववान् यः स मुक्त इत्युच्यते। मुक्तस्य ब्रह्मसाम्यापत्तिश्रुतिस्तु भोगसाम्यमाह, जगद्व्यापारवर्जनस्य प्रतिपादनात्। तस्य नानात्वं सर्वलोकसञ्चरणं च सम्भवति। २१५ ननु मुक्तस्यानावृत्तिप्रतिपादनात् अस्मिन् लोके सञ्चारः कथमिति न शङ्कनीयम्। कर्मकृतस्यैव निषेधात्। स्वेच्छया सञ्चरणस्योपपत्तेः। अतो मुक्तो भगवत्सङ्कल्पायत्तः स्वेच्छया च सर्वत्र सञ्चरति। नित्या नाम कदाचिदपि भगवदभिमतविरूद्धाचरणाभावेन ज्ञानसङ्कोच प्रसङ्गरहिता अनन्तगरूडविष्वक्सेनादयः। एतेषामवतारास्तु भगवदवतारवत् स्वेच्छयैव। एवं बद्धमुक्तनित्यभेदभिन्नो जीवो निरूपितः।
इति श्रीवाधूलकुलतिलक- श्रीमन्महाचार्यप्रथमदासेन श्रीनिवासदासेन विरचितायां
यतीन्द्रमतदीपिकायां शारीरकपरिभाषायां जीवनिरूपणं नामाष्टमोऽवतारः।