सामग्री पर जाएँ

मोघदूतम्

विकिस्रोतः तः

Moghadūta

Author: Jagannath

Description: Considered the best parody of Meghadūtam, where a politician uses a Gāndhī-ṭopi (political cap) as a futile messenger to convey a message.

Characteristics: Uses Kālidāsa’s words verbatim for ironic effect, with beautiful language, structure, and sharp parody. Example verse provided in the article highlights a politician’s failed attempt, mocked by barking dogs at the destination.

Theme: Political satire with a humorous take on ineffective communication.

पूर्वमोघः

[सम्पाद्यताम्]

कश्चिन्मार्गे क्वचन तरुणीं दृष्टवान् काञ्चिदात्त

प्रेमभ्रान्तिः परमकुतुकात् प्राह तस्याः पुरस्तात् ।

बाले प्रेष्ठे त्वमसि मम हृत्सन्निविष्टेति रुष्टा

सादादस्मै बत शिव शिव द्राक् कपोले चपेटाम् ॥१॥

स्रष्टुं प्रेम्णि प्रभवतु कथं सा जडा दार्व्यहानिम् ।

किं जानाति प्रकृतिकठिनं प्रेमिणस्तावतैव ।

नैव द्वैधीभवति हृदयं खण्डशो भव्यरूपं

यस्मिन्नस्ति प्रणयकणिकाश्रेणियुग् रागरोगः ॥२॥

चूते फुल्लत्वखिलजनताविस्मयः कोविदारः

प्राचीं त्यक्त्वा दिशमितरदिक्ष्वर्यमाऽऽप्नोतु जन्म ।

पञ्चप्राणान् प्रणयपिटके स्थापयन् आत्तनिद्रः

स्पप्नानेष त्यजतु किममून् प्रीतिकूटाधिरूढान् ॥३॥

वेतण्डास्यप्रणयनरतो वानरस्येव कर्ता

शुण्डास्थानभ्रमबहुलताहेतुतो रक्तिमाणम् ।

क्लृप्तस्वान्तः किल कलयितुं कन्यकायाः कपोले

लब्धोद्योगोऽसृजदहह तं स्वे विधिर्दुष्टवर्मा ॥४॥

प्रेमिस्वान्तं हृदयमधुरोद्गारभावानभिज्ञा

जानात्वेषा कथमतिरुषा दूषिता बन्धुराङ्गी ।

प्रेमज्वालानलकलुषिते कापथे पातिताऽस्याश्

चित्ताकारा द्रवतु हि शिला कार्ययुक्त्या कया वा ॥५॥

एवं चिन्ताजलधिपतितः स्वोद्धृतौ बद्धदीक्षं

कञ्चित् कोलं भृशमत इतोऽन्विष्य मिथ्याख्यरङ्गे ।

नित्यं नृत्यं किल विदधतीं बाह्यशुभ्रां तथाऽन्तर्

गालीहिंसाकुसृतिमलिनां गान्धिटोपीं ददर्श ॥६॥

टोपीं दृष्ट्वा हृदयकमलब्रध्नकल्पामनल्पां

प्रीतिं यातः सपदि युवकभ्रान्तिमार्गस्य पान्थः ।

टोप्यालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतो

मर्त्यः किं स प्रणयजपकृत् कन्यया ताडितो यः ॥७॥

हस्तद्वन्द्वं स्वहृदयसमैरश्मभिः पूरयित्वा

व्यादायास्यं सपदि कुतुकी स्वागतं प्राह टोप्यै ।

अस्तव्यस्तैः कथनमथ चारब्धवानर्थहीनैर्

मूढस्तुत्यैः पदसमुदयैर्वक्ष्यमाणप्रकारम् ॥८॥

खादीवस्त्रैर्जननपदवीं प्रापिता कुत्र टोपी

संदेशाः क्व प्रणयजडधीजन्तुभिः प्रेषणीयाः ।

इत्यौत्सुक्यादपरिगणयन् तां स मूर्खो ययाचे

प्रेमोन्मत्ता मननमलिनाश्चेतनाचेतनेषु ॥९॥

निर्मस्तिष्कव्रजशिरसि सद्रत्नभूषायमाणे

टोपि प्रापि प्रचुरसुकृतैर्दर्शनं ते मदीयैः ।

कुड्यं काष्ठां बधिरपुरुषं वीक्ष्य यद् भाषणाश्म

प्रक्षेपेण व्यथयसि भुवं कण्ठशोषैः कृतेन ॥१०॥

पादैर्हीने नयनरहिते श्रोत्रनासावियुक्ते

टोपि श्रीमान् सकलमहिमा श्वेतिमा केवलस्ते ।

आक्रान्तुं यं कुसृतिविषये धूर्ततायां च शक्तं

स्वप्नेऽप्यन्यत् किमपि सकले भूतले वस्तु नेक्षे ॥११॥

पूर्वं पद्यासदनगृहिणी यस्य कस्याप्यशुद्धे

पादद्वन्द्वेऽनवधि विहितामर्शना त्वं ततश्च ।

कस्याप्यास्ये विरचितघृता सांप्रतं याऽसि साऽसि

क्लेशे सत्यप्यवरयतनैः सिद्धिरासादनीया ॥१२॥

स्वीयप्रज्ञाश्रयणजनितध्येयमार्गप्रकाशाः

केचिद् धन्या अविहितपरप्रार्थनाः सिद्धसाध्याः ।

मन्दप्रज्ञोऽहमिह भवतीं प्रार्थये भव्यबुद्धिं

हृन्मीनं ते वचनबडिशैराकृषन् मन्दमन्दम् ॥१३॥

एष स्तौमि स्फुटमभिनयन् नाटकं प्रीतिसंज्ञं

स्तुत्या तोषं यदि भजसि संदर्शितस्वीयदन्ता ।

निर्विद्या अप्युरुमधिगताः शिक्षणामात्यभावं

भावत्काब्जद्वयजयिपदद्वन्द्वभृङ्गीभवन्तः ॥१४॥

त्वत्पादाब्जभ्रमरितपरोपायवेण्यां श्रुतायां

स्थानप्राप्तौ भवति विशये शीर्षकीटायमाने ।

भक्तस्य स्यात् किमिह शरणं त्वत्कटाक्षाद् ऋतेऽन्यत्

कान्तिश्रेणीजनितजनतानेत्रसौभाग्यपाकात् ॥१५॥

जानामि त्वां विफलकरणे जल्पने च प्रसक्तां

कापेयानामनितरसमां संपदं किञ्च पूर्णाम् ।

तेनार्थित्वं त्वयि कुतरुणीताडितः सन् गतोऽहं

याच्ञा मोघा वरमगुणिषु प्राप्तकामा न सत्सु ॥१६॥

वक्रैः कार्यैरवमतिजुषां टोपि चूडाऽसि तस्मात्

संदेशं मे हर विलपतः क्रुद्धकन्याऽऽहतस्य ।

गन्तव्यं ते गृहमतिकटुस्वान्तवत्याः सदाऽपि

श्वानौ द्वारि श्रवणपरुषं बुक्कतो यत्र बद्धौ ॥१७॥

श्रुत्वा मार्गं तव कथयतो मे चल त्वं विशुद्धं

पन्थास्ते स्यात् युवककपिभिर्वावदूकैरुपेतः ।

प्रायो येषु प्रभवति चलच्चित्रगानां नटानां

भूषावेषैरमितमहिमा नव्यरूपो विकारः ॥१८॥

सख्युः कार्यं कलयितुमितष्टोपि यान्त्यां भवन्त्यां

कञ्चिन्मुग्धं छलयितुमियं गच्छतीति स्वदृष्टीः ।

अग्रे कृत्वा स्तिमितनयना उन्नतभूविकाराः

प्रेक्षिष्यन्ते सपदि भवतीं मानुषा राजकीयाः ॥१९॥

त्वामीक्षित्वा सपदि मुदिता घोषणाक्रोशनाभ्यां

स्वीयोन्मादप्रकटनपरा उज्झितस्वस्वकार्याः ।

आक्रामेयुर्झटिति भवतीमाशु ते भुग्नभावाश्

चोरो दृष्ट्वा न मुदमयते पश्यतोहारकं किम् ॥२०॥

स्वस्तीत्युक्त्वा त्वमपि ककुभां मण्डलं पूरयित्वा

दन्तान् सर्वान् मुखपिटकगान् तत्पुरो दर्शयित्वा ।

तेषां शीर्षे गलबिलततैः सत्यनीत्यादिशब्दैः

सर्वप्राणिश्रवणगरलं भाषणं वर्षयाशु ॥२१॥

मस्तिष्कान्धान् लसदभिनयान् नाटके शोकनाम्नि

प्राज्ये राष्ट्रे करणविरतिप्रार्थनाधन्यजीवान् ।

वीक्षस्वाग्रे यमपुरगते मानुषे राजकीये

यस्मिन् कस्मिंश्चिदपि सहसा सांसदांस्त्यक्तकार्यान् ॥२२॥

आसन्निर्वाचनसमयगाष्टोपि काश्चित् प्रतिज्ञास्

त्रायस्वास्मान् किल तदननुष्ठानरुडूः प्रजाभ्यः ।

एवं भीत्या विलपनपरान् राजकीयान् प्रपन्नान्

दृष्ट्वा धैर्यं जनय तव धीः खल्वसद्रक्षणोत्का ॥२३॥

श्वव्रातीयं कलहमथ धिङ् मल्लजातं नियुद्धं

युद्धं पूर्वं कुरुभुवि कृतं हा महाभारतीयम् ।

पर्यायेणाप्यनुविदधती सांसदी कार्यशैली

रीतिस्फूर्जत्कवनकरणे स्फूर्तिदात्री तव स्यात् ॥२४॥

यद्वा तद्वा नियमरहितं शासनं त्वं करोषि

क्लेशानस्मद्विधजनगतान् प्रच्छकः कोऽपि नास्ति ।

क्रोशन्नेवं विदधति यदि त्वय्यनल्पाश्मवर्षं

लोकः शीघ्रं ककुभमपरां प्राणनार्थं गृहाण ॥२५॥

कश्चिज्ज्ञ्जानन् स्वमतिविभवस्योपयोगप्रकारं

जानन्नित्थं कवयति नुवन् तन्मुदाऽऽकर्णय त्वम् ।

श्वेता सत्यप्यससि बहुधा वर्णवैविध्यपूर्णा

गर्वासूयामिलितकुहनाजातनानाविकारा ॥२६॥

औचित्यं नैत्ययि कमलिनीकल्पना किं भवत्यां

यस्या भानुर्भवति वितरद्रूप्यकः क्षुद्रचेताः ।

आहोस्वित् त्वय्यथ कुमुदिनीधर्मदर्शी विपश्चित्

कोऽपि स्याद्यः प्रकटयति न द्रव्यदे किं शशित्वम् ॥२७॥

सत्यप्यन्धा त्वमथ बधिरा हन्त चक्षुष्मती त्वं

दिव्यश्रोत्राऽप्यसि मम कृते टोपि भक्तस्य नन्तुः ।

श्रीवत्साङ्कोरसि कृतपदे ब्रह्मपत्नीशकान्ते

मत्कायां ते लसतु पतितो दक्षिणायां कटाक्षः ॥२८॥

एतादृग्भिः श्रुतियुगकलस्तोत्रपाठप्रवीणैर्

गाढक्ष्वेडैः स्वहृदि वचनोद्धृतपीयूषसारैः ।

न प्लाव्येस्त्वं विहितनतिभिष्टोपि लब्धावकाशैर्

कर्षिष्यद्भिस्तव पदयुगं पातयिष्यद्भिरग्रे ॥२९॥

यद्याक्षेपाः श्रुतिपथगता मन्त्रिणां कार्यवैखर्य

आसम्बद्ध्ये स्मितवरमुखी यच्छ मिथ्योत्तराणि ।

क्रुद्धा सत्यप्यननृतवचोजाग्रदुद्वेगलोकाद्

आत्मत्राणप्रणिहितमतिर्विस्मृतान्यावनेच्छा ॥३०॥

कर्णद्वन्द्वे सकलमितरच्छृण्वती त्वं पुराणं

मा भूर्विघ्रप्रतिहतमतिर्मत्क्रियासत्क्रियामाम् ।

कार्ये मुख्ये कुतुकविरहो गाढनिष्ठा च गौणे

स्वक्षेमार्थं खलु सखि खलै राजकीयैः क्रियेते ॥३१॥

आहोस्वित् संविदपि भवतादावयोष्टोपि काचित्

कार्यं मे त्वं जनयसि शुभं मत्प्रियागेहगन्त्री ।

कुर्वे यत्नं तव जयकृते भाविनिर्वाचनेऽहं

मित्रे लाभं परमिह मिथो वाञ्छतः क्षुद्रबुद्धी ॥३२॥

मा भैषीर्यत् प्रति जिगमिषुस्त्वं गृहं तन्निकृष्टां

मा मन्यस्व प्रचुरभयदां संसदं मन्त्रिपूर्णाम् ।

युद्धे त्वं चेञ्जयसि न सखि ब्रूहि निर्वाचनाख्ये

कस्याग्रे स्वं विरुचि वदनं दर्शयिष्यस्यविज्ञे ॥३३॥

अग्रे त्यक्ताध्ययनसुरुचि स्वीकृतासभ्यरीति

क्षीणज्ञानार्जनफलगति च्छात्रवृन्दं यदि स्यात् ।

तज्जानीथाः समुचितपथे यान्तमात्मानमेवं

साधुर्मार्गो नृभिरनुसृतः सिद्धिशङ्कां विधत्ते ॥३४॥

यच्छेतर्हि श्रवणयुगलं विश्वविद्यालयीयं

वृत्तं ज्ञातुं कुतुकलहरीपूरितं भूरि यत्र ।

गम्भीरत्वं जहति लघुतां लान्ति वाक्यानि यूनां

प्रीते रीतौ किमपि समयाकुर्वतां व्यर्थमेव ॥३५॥

द्रष्टुं धूर्तान् गुरुतरगुरून् विश्वविद्यालयस्थान्

त्वत्के नेत्रे प्रयतनवशाट्टोपि दीर्घाक्रियेताम् ।

वैधेयानां कपटकृतिनां गालिदाने रतानां

येषां चित्तं प्रसितमनिशं कर्मसु क्षुल्लकेषु ॥३६॥

पश्यन्त्यास्ते किमिदमिति भीसंहितस्वान्तवृत्तेर्

जैजैकारो गमनमयितुं यत्नवाञ्च्छ्रयमाणः ।

श्ब्दो विद्यानिलयचलितच्छात्रनिर्वाचनस्येत्य्

एवं बोधे धरतु पटुतां कर्णबाधिर्यधीरः ॥३७॥

त्वत्सख्यार्हान् भरतकुलजान् वीक्ष्य शिष्यान् गुरूंश्च

स्फोटं यायाद् हृदयकमलं प्राप्य ते भूरिहर्षम् ।

तस्माद् रज्जून् बलवदुरसि स्थापयित्वा बधान

प्रागेवापद्धरणकरणं पद्धतिर्धीनिधीनाम् ॥३८॥

दृष्ट्वेष्र्ष्याल्वोरपतितधियो द्राग् विवाहाख्यगर्ते

तद्दम्पत्योरनितरसमं मौढ्यमुद्वीक्षमाणा ।

घोराक्रोशैर्भषकयुगलं स्मारयित्रोः शृणु त्वं

नित्यं वादान् कठिनवचनव्रातजाताननल्पान् ॥३९॥

धर्मोऽस्माकं जनयति मिथः प्रेमभव्यं प्रपञ्चं

दिव्यो धर्मः परिणयकृतोर्हन्त यूनोर्विवाहः ।

एवंभूतप्रवचनचणैश्छिन्नलाङ्गुलफेरु

स्निग्धस्वान्तैस्त्वरितमतिसंधीयसे धूर्तवृद्धैः ॥४०॥

अद्य श्वो वा भवति कनकस्फूर्जदुद्योगलाभस्

तस्मात् पुत्रा उपयमयते त्यज्ञगीःश्रद्धयाऽज्ञाः ।

हीनोद्योगाः कृतपरिणया अर्थलेशेन हीना

नूत्नाः पत्न्योऽभिनवपतयश्चानुकम्प्या भृशं ते ॥४१॥

त्वत्कां कान्तिं विकसितमुखो मेलयन् दन्तपङ्क्तौ

द्रष्टव्योऽग्रे निजवदनतो धूनयन् वेदमन्त्रान् ।

काले यूनोः परिणयविधेश्चित्तचातुर्यभास्वत्

पौरोहित्यद्रविणविसरो धन्यजन्मा पुरोधाः ॥४२॥

तत्तत् क्रेयं धनवदभिधास्तोत्रपात्रत्वसिद्ध्यै

यद्यद् वस्तु स्फुरति बहुधा टीविविज्ञापिकासु ।

एवं लोभातिशयविलयीभूतवित्तैः प्रमत्तैर्

जायेयातां हसितरुदिते द्रागुभे मानसे ते ॥४३॥

हीनज्ञानां प्रगतिपदवीपान्थतामादधानान्

आस्ये केशेष्वधरनखयोर्हस्तयोः पादयोश्च ।

पश्यन्नग्रे किमपि किमपि स्त्रीजनान् लिम्पतस्त्वं

गच्छेः शोकं द्युतिविरहितानुज्झितारोग्यभाग्यान् ॥४४॥

अग्रे पश्येः कवनकलया जीविकाऽवाप्तिमिच्छोर्

लोकज्ञानाभ्यसनविरहातङ्कशङ्काकुलस्य ।

कोशैः प्राच्यैरपि च कवनैराददानस्य शब्दान्

संयोज्याहो किमपि वयतो दुष्कवेः साहसानि ॥४५॥

पक्षिप्रेक्षाकुतुकहृदयाः केऽपि विद्यावरिष्ठाः

पश्यन्तस्त्वां नभसि डयते शोभना श्वेतकाकी ।

एवं ब्रूयुः प्रमुदितमनोवृत्तयः संलपन्तो

द्योतग्राहैद्युतियुतकृतीः किञ्च गृह्णीयुराशु ॥४६॥

अन्तःशून्यां बहिरतितमां श्वेतिमानं दधानां

षष्ठीचन्द्राकृतिसमतनुं त्वां विधायाम्बकेषु ।

नृत्यान्यङ्गैर्विदधति समैरेजमाना द्रुतं ते

क्षिप्तस्वान्तप्रकटनपटुब्रह्मसृष्टिप्रधानम् ॥४७॥

आमोदस्तेऽध्वनि बहुविधोऽन्यायतः पान्थमार्गेष्

उद्यानेष्वप्यविधि नगरे निर्मितैरापणैर्द्राक् ।

एतद्वीक्ष्याप्यजगणसमैः सज्जनैः क्षोभहीनैः

कुर्यां चिन्तां जहिहि मुदिता वञ्चनाभिः स्थिरायाम् ॥४८॥

पद्येन त्वद्विषयकनुतिश्रेणिगण्येन पुण्यं

वाञ्छन्त्येके विदधति च धीलड्डुकप्राशनाशाम् ।

कैश्चिद् दत्त्वा किमपि किमपि प्रार्थ्यसे वीतशङ्कं

गूढस्वार्थेर्विहितविनयैः कामनां व्यञ्जयद्भिः ॥४९॥

मध्येपद्यं प्रकृतिगमनक्लेशकारैः फलाद्यं

विक्रीणद्भिः प्रतनफलके हस्तनुन्ने सचक्रे ।

तद्रोधाय प्रयतनपरे रक्षिणि प्रात्तलञ्चैः

स्नेहं गच्छेर्मतिगतजया भाविनिर्वाचनेषु ॥५०॥

सृत्याः पार्यौ हरितदलयुग्नेत्ररम्यद्रुमाली

छायाशीतौ निशितपरशुक्रीडनार्था स्थलीति ।

भावं भूयो मनसि दधतीं पालिकां नागरीमप्य्

अग्रे पश्य द्रुमसमुदयत्राणने भाषणोत्काम् ॥५१॥

व्याजान्वेषी सुनिपुणमदन् सर्वकारीयवित्तं

मेयर्नामा बहुलमयते यो विमाने विदेशान् ।

ऊर्ध्वग्रीवा नयनपदवीं तं प्रहृष्टा नय त्वं

मृत्वा स्वर्गं तव जिगमिषा पुण्यसंपत्तितश्चेत् ॥५२॥

अन्धान् एडानपि रचयतां वाहनैर्धूमभूम्ना

पौरानुच्चध्वनिभिरभितोऽनल्पसंमर्दितानाम् ।

भीतिक्षोभे सपदि सृजतां कच्चरैर्दूषितानां

मोदस्व त्वं पुरि सखि पथां वीक्षमाणा विकारान् ॥५३॥

रज्यन्मौढ्ये न किमति चलस्यादराज्जन्मनाऽन्धा

कायस्थानां नयसि न हला याऽक्षिमार्गे कुकृत्यम् ।

टोपि स्वासम्मतजनकृतं प्रार्थनापत्रराशिं

कुर्वाणानामधिकृतनृदृक्पातविन्यासदूरम् ॥५४॥

आधिक्येन स्फुटति जनता भूरिसंख्यानि यानान्य्

अध्वानः संकुचितरचनाः सर्वमेतद् विलोक्य ।

नेत्रद्वन्द्वे सखि दृढतरं टोपि वस्त्रं बधान

व्यङ्गान् पङ्गुनपि बत कुणीन् द्रष्टुमिच्छा न चेत्ते ॥५५॥

हंहो लब्धाकृतिरतितमां वञ्चनाञ्शृङ्खलेयं

मूर्तीभूता किमुत कुहना मस्तकं शाकुनं वा ।

एवम्भूता सपदि विशयाः सञ्जनिष्यन्त एव

त्वद्र्ष्टृणां मनसि गहना ये समाधानहीनाः ॥५६॥

एतावन्तं समयमुपलप्रायमार्गे चरित्वा

घोरक्ष्वेडानिलमयपुरप्रान्तभागे डयित्वा ।

श्रान्तं ते विश्रमय करणं टोपि शाखोटकोर्ध्वं

वृक्षोन्मीलद्विशदकमलश्रीभ्रमोत्पादयित्री ॥५७॥

आस्माकीना सितपटसुता स्पन्दते जीवनाडी

संचिन्त्यैवं विहितविरतौ त्वय्यगाग्रे मिलत्सु ।

पीयूषार्द्रा तव सचिवताकाङ्किषु ध्वेडधारा

मित्रा दृक् ते पततु पदवीत्यागपत्रेच्छुकेषु ॥५८॥

कार्यानेन द्रुततरगतिर्दर्शनीयोऽथ रागी

संपत्पुञ्जप्रचितविभवो राजकीयेऽपि विज्ञः ।

संन्यासी यद्वसनविगलत्कान्तितस्तेऽपि किञ्चित्

काषायत्वं भवति वपुषि स्वान्तवैचित्र्यकारि ॥५९॥

एतावत्या वचनभवया प्रेरणानां सरण्या

धाविष्यन्ती झटिति कशया शालिहोत्रीव विद्धा ।

उत्कर्णा त्वं शृणु वरगते टोपि कौतूहलाढ्या

प्रेयस्या मे सदनमधुना वर्णयन्तीर्ममोक्तीः ॥६०॥

उत्तरमोघः

[सम्पाद्यताम्]

पश्चात्तापं न वहति कृतेऽप्यागसि श्रीमदाद् या

यस्याः कर्णाध्वनि मम गिरामध्वनीनत्वमिष्टम् ।

तस्या गेहान्नयनपथगाट्टोपि रोमाञ्चिता स्या

व्योमव्यापिश्वयुगभषणश्रोत्रभङ्गातिघोरात् ॥१॥

तूर्णं त्वं मा प्रविश सदनं हर्षतो ज्ञानहीना

पश्येतां चेज्झटिति भलुहौ त्वद्भविष्यं न वेद्मि ।

प्रागेवैतद् विशदितमतो दुष्ठु जाते ततोऽग्रे

क्षेपेषूणां तव न भविता लक्ष्यता मय्यमन्दम् ॥२॥

श्वानौ तौ स्तां तरणिजपुरीगृह्यकौ क्रूरदंष्ट्रौ

त्वं चाप्येधि प्रियसखि महावञ्चनाम्भोधिनक्रा ।

कम्पं ते हृद्यनुचितमहं भावये वस्तुतस्तु

त्वत्प्रेष्ठौ तौ खलसुजनयोर्भेदनिर्धननेन ॥३॥

विश्वासाय प्रभवति महाकूटकार्ये तदेव

प्रायः श्वाग्रे नतिविरचनास्वान्तलीलाविनोदे ।

मिथ्यानीतिं यदिह भवती नाटकार्थं बिभर्ति

प्रत्यादिष्टाखिलवरगुणा गाढमाक्रान्तपीठा ॥४॥

सेत्स्यत्कार्या विहितविनया प्रारभस्व स्तुतीनां

श्रेणीं यावद्भषणविरतिं न श्रयेते किलामू ।

त्वद्बोधाय त्रिचतुरनुतीः श्रावये दर्शितायाम्

अङ्गुल्यां त्वं गिलसि हि करं लोकसम्मोहनीतौ ॥५॥

पूर्वं वाणी त्रिदशसमितौ वल्लकीमस्पृशन्ती

हेतुं पृष्टा हृदयवरमुत्कारिणि श्वप्रलापे ।

कस्य श्रोत्रे सृजतु निनदैः शर्म वीणेत्यवादीद्

वन्दे तादृङ्गहिमनिबिडध्वानकृद्धयां युवाभ्याम् ॥६॥

बद्धस्पर्धा मृदुतररवे कोकिलोऽयं युवाभ्यां

हन्त प्राप्तुं जयमसफलः संकुचन् मानसेन ।

जातोद्वेगः कृतबहुविधह्रीक उत्पन्नशोकः

शाखापत्रस्थपुटितखले क्लृप्तवान् स्वीयवासम् ॥७॥

रूक्षं ध्वानं जलधिसरणिर्वां समाकर्ण्य हर्षाच्

छिष्या भूत्वा सपदि सफला या यशो लाति गुर्वोः ।

प्राप्येदानीमतिभयभरस्फूर्जथुत्वं हि सैव

श्रुत्योरध्वन्यविरलमलं पूरयत्यश्मवर्षम् ॥८॥

शुण्डाया अप्यमरकरिणः पुच्छ्योर्वां वरत्वे

सुज्ञाते सत्यपि जलपशुं वाहनीकृत्य कञ्चित् ।

प्रायः पश्चात्तपनजशुचा स्वर्गगेहाधिपेन

क्लिन्नाक्षेण क्षितितलपतद्दृष्टिमूर्त्याऽश्रु सृष्टम् ॥९॥

सत्यब्जह्रीपटुनि युवयोरक्षिणीड्यौ स्फुरन्त्यां

दन्तश्रेण्यामपि बहुमिलद्दाडिमीबीजपङ्कयौ ।

नासायां चम्पकविलयनप्रेमवत्यां च सत्यां

बर्दी कश्चिज्जडमतिभिरन्विष्यतेऽन्वेष्यशोभैः ॥१०॥

शैलीं वामाक्रमणसमयभ्राजितामेकवारं

वीक्ष्यात्यन्तं शिशिरबहुले हीनपानीयलेशे ।

अप्राप्यान्ने हिमनिबिडताजीविकाभूरिकष्टे

कैलासे द्रागभजत हरिः पार्वतीवाहनत्वम् ॥११॥

मेघानां खे जयति चलनं यौवयो विक्रमोऽयं

कामासूयाजनिपटुतरा यौवयी रूपसंपत् ।

हृद्ये गाने पिकजयवरं यौवयं भुक्कणं च

क्षीणा गीर्मे मितपदजुषो भूतयोर्वर्णने वाम् ॥१२॥

बन्धू श्वानौ पशुसमजसद्रत्नभूतौ नरेड्यौ

साष्टाङ्गेयं प्रणतिरधुना नम्रभावा पुरो वाम् ।

पादौ मूर्ध्ना स्वकृतिसमये गार्दभौ मत्कराभ्यां

नम्रं नत्यां किमुत धनिकप्रीतिकृद्धयां पशुभ्याम् ॥१३॥

धूर्तस्वामी कृपणगणराट् कोऽप्यदत्त्वा धनं मे

स्वान्ते नूनं प्रहसति मया कारयन् दूत्यकार्यम् ।

तस्माद् द्रष्टुं लषति तनुजां स्वामिनो यौवयस्य

स्वान्तं मे किञ्चिदपि लभतामित्थमाशां दधानम् ॥१४॥

दन्तैर्मा मा सपदि दशतं पण्डितौ मांसलोभाद्

वस्त्रैर्जातां चतुरहृदयौ यच्छतं मार्गमन्तः ।

श्वेतां शोभां धरतु सदनं श्वेतया शोभया मे

पीठार्थित्वं भवतु युवयोर्भाविनिर्वाचनेषु ॥१५॥

एवंरूपं नटनपटुतां दर्शयित्वा वशं ताव्

आनीयाशु प्रकटय निजां बुद्धिमत्ताममोघाम् ।

नीतिं कोऽपि श्रवसि न हरिश्चन्द्रदत्तां विधत्ते

लोकः सर्वोऽप्यभिनयवतां मुह्यते पाटवेन ॥१६॥

वाक्यैरेतैरुदितहृदयामोदभूम्ना सखायौ

त्वत्कौ पद्यां झटिति जहितस्त्वत्कृते तौ दयालू ।

सद्मान्तर्द्राक् प्रविशसुदृढं मानुषीयं न चित्तं

स्वान्तं काले किमु कलिगते हन्त कौलेयकीयम् ॥१७॥

गेहस्यान्तर्लघुशशनिभे पादविन्यासतः प्राक्

सम्यग् गच्छेः पथि विलसितैर्वृक्षकैश्च क्षुपैश्च ।

प्रत्यग्राणां भरतजनृणां दम्भभूमा स्थितो यैर्

अस्मद्देशप्रथितलपितश्रेण्यलब्धाभिधानैः ॥१८॥

अग्रे भव्यं नयनयुगलीपर्वकृद् राजसौधं

वीक्ष्याश्चर्यं तव भवतु मा शस्तवस्तुव्रजाढ्यम् ।

उद्योगेऽनुन्नतपदवता तादृशी सिद्धिरात्ता

गूढं ज्ञात्री त्वमिह न किमत्यूर्ध्वधी राजकीये ॥१९॥

यस्याः कस्या अपि किल पुरा धिक् पिशाच्याः पुरस्तान्

नत्यैवाद्य प्रचुरधनकृत् पीठमारूढवत्याः ।

प्रत्यूहोऽन्यः स्थित इति न किं द्वारपालेऽथ दृष्टे

चिन्तोत्थास्यत्युरुतरपथस्तत्र किं ते न भाति ॥२०॥

आहोस्विच्चेत् तमभिलषसि प्रीतिमन्तं त्वयि द्राक्

तस्योष्णीषं वद वरतरं दैवराज्यात् किरीटात् ।

नीरूपं तं सखि कथय वा मन्मथप्राणनाशं

टोप्येतादृग्विषयविसरेष्वस्ति ते देशिकात्वम् ॥२१॥

पर्याप्तिर्न स्फुरति यदि ते तस्य चाप्येतयोक्त्या

मित्र ब्राह्मीमभिनयझरीं तच्छ्रुतौ पूरयैवम् ।

आर्य त्वदृष्ट्यनुपदमियं स्नेहधारा हृदुत्था

शुद्धं साक्ष्यं प्रकटयति नौ पूर्वजन्मानुबन्धे ॥२२॥

पूर्वस्यां दिश्युदयमयते द्वादशात्माधुना यद्

वर्षत्यब्दो यदपि पृथिवीं सस्यवस्त्रां चिकीर्षन् ।

एतल्लोकप्रियघटनयोः कारणत्वं भजन्ते

सौम्य त्वत्का हृदयसुभगा वृत्तयो लोकभव्याः ॥२३॥

कश्चिद् बुद्धिप्रसरसहितम्मन्यमानो विशुद्धे

त्वत्के कर्मण्यमलचरिते प्रेक्षतां दोषलेशम् ।

एतत् कृत्वा प्रचुरमतिमान् कृष्णरन्ध्रेषु दृष्टिं

स्वीयां बध्वात्वथ स दिनकृन्मण्डलश्रीस्थितेषु ॥२४॥

मा सूर्यः स्वं रजनिजनितं यात्ववीक्ष्यत्वमभ्रे

मापीन्दुः स्वं दिनसमयजं दृश्यताऽभावमेतु ।

द्वावप्येतावथ सदृशतामार्य यातां त्वयाङ्ग

श्राम्यत्येकः स्वगृहमवितुं भूरि नक्तन्दिवं यः ॥२५॥

ऐन्द्रं वज्रं पतितमिह किं स्वर्गतो हेतवोऽमीः

शापाद् भ्रंशश्चिरसमयतः शक्रसेवोत्थजाड्यम् ।

भूम्यालोके परमकुतुकं हेतुषु त्रिष्वमीषु

प्राग्र्यं कस्येत्यतिविशययुग् वीक्ष्य दण्डं जनस्ते ॥२६॥

राष्ट्राध्यक्षीभवितुमवितुं भारतं क्षेमहीनं

योग्यत्वे सत्यपि बत भवान् द्वारपालो यदस्ति ।

तन्नः स्पष्टीगमयति कलेर्दुष्टजुष्टं प्रभावं

काकश्चूते रटतु विरवे कोकिले दीनदीने ॥२७॥

अन्याय्येऽध्वन्यनुदिनगतिर्भाति सिंहासनस्थः

पान्थो न्याय्ये पथि तु वरधीर्द्वारपालत्वमेति ।

एतद् दृष्ट्वा मम हृदि तथा जायते तीव्र ऊष्मा

सर्वोऽम्भोधिः प्रियसख यथा शुष्यति क्ष्मातलीयः ॥२८॥

विद्याशून्यैर्बहुकलुषिते शिक्षणक्षेत्रपीठे

कोषे देशद्रविणनिबिडे केनचिद् भक्ष्यमाणे ।

विद्वन्स्त्वादृग्वरजनकृते स्थानमेकं दुरापं

मित्र स्यात्किं मयि तव हितप्रापयित्र्यां भवन्त्याम् ॥२९॥

पुत्रीं द्रष्टुं कथयति गृहस्वामिनः कोऽपि विद्या

क्षेत्रे जातो य उपमिनुते क्षेत्रियं सस्यमेव ।

तस्माद्दूरात् पदविरहिताभ्यागताऽहं कदाचिन्

मूर्खेण ज्ञो भवति हतधीर्नाशयन् स्वीयकार्यम् ॥३०॥

सद्मान्तस्त्वं त्वरय वद मा तां गतां क्वापि कार्यान्

नेदं राजव्यवहृतिगृहे राजकीयं कुकर्म ।

उत्कृष्टे सा जयति न पदे वेतनस्य ग्रहीता

त्वं नाप्यन्तर्न हि भवति सा वक्तुमेवं नियुक्तः ॥३१॥

एवंरूपां वचनलहरीं निःसृतां त्वन्मुखाब्जाद्

आकर्ष्याम्भोनिधिगतसुधाधारया बद्धमैत्रीम् ।

हृष्टो गेहं विशति स मनाक्स्पृष्टवैधेयभावो

तामाह्वातुं युवतिमधुना प्रस्तुतं वस्तु यस्याः ॥३२॥

शीघ्रं नेत्रद्वयपथगता काचिदालोकमेष्यत्य्

अज्ञव्रातप्रथितकथनप्राप्तरूपा पिशाची ।

कम्प्रस्यासावथ विटपिनो स्थूलतावान् प्रकाण्डः

कोटी एते जहिहि सखि तां निश्चिनुह्यूर्वशीं मे ॥३३॥

टोपि श्वेता त्वमिति भुवने सुप्रसिद्धैव वार्ता

कान्तिस्त्वत्का किमिति सहसा रक्तरक्ता बभूव ।

जानीह्यस्या अधरयुगलीलिप्तलिप्स्टिक्प्रभायाः

पातान्नष्टस्तव सुरगजस्मारको हन्त वर्णः ॥३४॥

पूर्वं स्तोत्रैर्जगदिथ शुनीं सूकरीं वानरीं वा

कार्यस्यार्थे रतिहृदि महाक्षोभसंपादयित्रीम् ।

तादृश्यास्ते न हि गुरुतरं स्तोत्रमस्या जडाया

मृद्भक्षित्वं कियदिव शिलाकण्टकाद्यद्मरस्य ॥३५॥

आदौ हस्तावभिनययुजा मुद्रया दर्शयित्वा

त्वद्दन्तश्रीपतनजनितं श्वेतिमानं दधानैः ।

केशैर्वृद्धाभ्रमपटुतरां दाम्भिकश्रेष्ठनामं

नत्वा कार्यं मम सखि चिराद् वाञ्छितं प्रारभस्व ॥३६॥

टोपि द्रष्टुं बहुबलयुतान् प्रस्तरे नावनीत्यं

चामुण्डीमप्यतिशयतया सुप्रसन्नीविधातृन् ।

वर्णान् सम्यग् वद जडमतिश्रोत्रकुल्यामृतोत्सान्

कालेविद्यानिबिडहृदयामोदजन्मानुकूलान् ॥३७॥

हे स्वर्गोकःकुसुमरुचिरोद्यानखेलानिमग्न

स्त्रीसंघातप्रसृमरमहातीक्ष्णमात्सर्यभूमे ।

सौन्दर्याभ्रस्थितलसद्दिव्यतारे मनोज्ञे

लावण्याभोनिधिगतमणिश्रीप्रशस्ते नमस्ते ॥३८॥

आयाता त्वामसति च वरे पादनेत्रे चलन्ती

नेत्रद्वन्द्वप्रतिहतसुमद्वन्द्वशोभां दिदृक्षुः ।

सौन्दर्यं ते गुणसमुदयं प्रोन्नतां किञ्च विद्यां

सम्यक् स्तोतुं लषितमिह मां प्रापयद् दूरदेशात् ॥३९॥

प्रातःकाले विकसितवतः पुण्डरीकस्य बन्धुं

नेत्रद्वन्द्वं तरुणि वहसीत्येवमुत्स्तोतुकामा ।

जोषं तिष्ठाम्यहह कमलज्ञानहीना यतस्त्वं

डेराट्यूलिप्प्रभृतिसुमनोदर्शनाद् धन्यजन्मा ॥४०॥

हासात् त्वत्काद् वदनरचिताज्जल्पकाले सखीभिर्

जृम्भे स्वीये कृतनरभये द्राक्षणे च स्वकीये ।

लज्जालुः सत्यनिशमधुना सूकरी गर्वहीना

घोरारण्यद्द्रुमगणघनच्छायसंचारतृप्ता ॥४१॥

कार्तज्ञ्येन प्रणमति मनो नाभिजातं मदीयं

काले विश्वप्रकटनपरे यः करेणुं ससर्ज ।

येन क्लेशः कविसमुदये दैवतो नैव जातस्

त्वत्साम्याढ्यं किमपि कुतुकात् वस्त्ववाप्तुं प्रवृत्ते ॥४२॥

न्यूनीभूतं कथमिदमये भस्म मत्प्रेतभूमेर्

एवं चिन्ताज्वलनशिखया दह्यमानान्तरात्मा ।

नेत्राणि त्रीण्यपि पशुपतिर्यस्य बाले मुखे ते

टाल्कम्पौडर् मुखगतमभिप्रेक्ष्य चिन्तां जहाति ॥४३॥

गन्धर्वीयां श्रवणसुखदां गानपीयूषधारां

वाणीयामप्यनितरसमां वल्लकीमैच्छमच्छाम् ।

स्वीयारावद्द्रुततरजितध्वाङ्क्संघे वरे यत्

तत्रागस्वाञ्छ्रवणविरहस्त्वत्कगीतस्य बाले ॥४४॥

स्वीये श्वैत्येऽप्यतिगमयितुं कान्तिमुग्रां तनोस्ते

कृष्णायां यो निशि गगनगः श्वेतभानुः स दर्शे ।

वैफल्येन क्षपितविभवः पूर्णिमायां पुनश्च

श्वेतीभूतो रचितविनयो वाञ्छति त्वत्प्रसादम् ॥४५॥

एतावन्तं समयमितरे काव्यकर्मण्यभिज्ञास्

त्वत्सौन्दर्यं न निजकवने लान्ति यत् तद् व्यनक्ति ।

तेषामस्मिञ्जगति जननं पुण्यलेशेन हीनं

धन्यं जन्म स्फुरति किल मे त्वामहो वर्णयन्त्याः ॥४६॥

द्वित्रान् वर्णान् विलिखितुमपि ज्ञानहीना सती त्वं

क्लिश्नासीति त्वयि दृढमधिक्षेपणं कुर्वते ये ।

दौर्भाग्यात्ते दधति न मतिं त्वत्कवीक्षालहर्यां

हस्तक्षेत्रप्रचुरधनवार्षणेऽब्दोपमायाम् ॥४७॥

नैरक्षर्यं न भवति पदानर्हताया निदानं

राष्ट्रेऽस्माकं तदधिकृतिकृद् योग्यताधिक्यहेतुः ।

एवं सत्यां वद तव कियान् ज्ञानगेहप्रवेशश्

चोरो निन्द्यः सति सुविभवे पश्यतोमारके किम् ॥४८॥

यस्याद्य त्वं जनगणपुरः कर्तुकामापमानं

खिन्ना हस्ते स न कुपितवान् योगशास्त्राद्यधीती ।

दुष्टो भावो हृदि सति न किं जन्म धत्ते कदाचित्

साधौ मार्गे रचितगतयः पाददोषात् स्खलन्ति ॥४९॥

यद्यप्यागः क्वथयति मनस्ते सदा हन्त साधिं

तं जानीहि स्थिरतरमतिं क्षान्तिभव्यं तथापि ।

तस्मात् स त्वामतिकरुणया तत्प्रसादार्थनोत्कां

त्वादृग्लोकप्रसदनपटुर्मन्मुखेनेदमाह ॥५०॥

अग्नेर्दाहो वपुषि जनितः शोणितस्य प्रवाहः

भेदो घोरः शिरसि लगुडैस्ताडनाद्वा कथञ्चित् ।

कोऽप्येतेषां जयति न महाचण्डिके ताडनं ते

ब्रह्मास्त्राग्रे स्फुरति किमिषुप्रासकुन्तादि युद्धे ॥५१॥

शश्वद् योगोत्कटदृढमना ध्यानमग्नोऽपि भक्त

प्रीत्या लोकप्रणतिजतपोभङ्गमङ्गीकरोमि ।

तस्मादद्य त्वयि विरचितोऽनुग्रहोऽयं मदीयः

स्युर्मत्पादद्वयनखरुचेः पाण्डराः शीर्षजास्ते ॥५२॥

प्रेमव्यक्त्यै मृदुलवचनं श्रीयते कैश्चिदज्ञैर्

अन्यैर्वाचा बहुलकलहो वाञ्छ्यते भावबन्धे ।

धन्यैर्घोरप्रकृतिभिरिलाकम्पमुत्पादयद्भिः

प्रीत्युन्मादक्षुभितमतिभिः श्रीयते बाहुयुद्धम् ॥५३॥

श्वो वीक्ष्य त्वां हृदि मम कृपा जायते प्रायशो यत्

कष्टं ते स्यान्मम पदबिसालित्वसंप्राप्तियत्ने ।

अश्रान्तास्मन्नयनयुगलीदीप्तिरेखावपात

स्पर्धालुस्त्रीसमुदयकृतादभ्रसंदर्भभूम्ना ॥५४॥

भक्ते मा त्वं बिभिहि कुपितात् क्षिप्यते शापबाणो

देवाच्चेत् किं करणमुचितं स्यान्ममेत्युग्रचिन्ता ।

अस्मत्कीर्तिर्निखिलभुवनव्यापिका नीचकृत्य

प्रीतस्वान्तेष्वभयवरदा किं न याता श्रुतिं ते ॥५५॥

हे वन्दारो रमणि युवते लञ्चदानैः परीक्षा

सूत्तीर्णत्वं तव न हि वयं रक्षिणोऽग्रे भणामः ।

प्रातः प्राप्स्यस्यभयवचनं बाढमस्मन्मुखाब्जाद्

भीरो बाले करजसुषमारञ्जितास्मत्पदाब्जा ॥५६॥

अन्यत् कन्ये शृणु तव पितुर्वेतनेऽल्पेऽप्यकष्टं

नैकान् गेहान् स किल कुरुते राजराजाभिलष्यान् ।

एतन्मर्माप्रकटनवरे प्रार्थिते पूरयिष्ये

को वा देवो वरनरि वरं सुप्रसन्नो न दद्यात् ॥५७॥

प्राप्ते रम्ये वयसि कतिचिच्छैशवं रोचयन्ते

लोकज्ञानां सुवचनमिदं चारितार्थ्यं दधाति ।

आराद् रत्नं स्वयमुपनतं यत्तिरस्कृत्य चित्तं

मौढ्योपेतं निखिलदिशमुद्घोषयस्यात्तभेरी ॥५८॥

प्रायोऽन्यस्मिन् निहितहृदया त्वं जने प्रीत्यनर्हे

प्राक्पापीयं फलमनुभवस्यादरार्हं त्यजन्ती ।

मोदं याती सकृमिणि जले पूतिगन्धिन्यशुद्धे

पीयूषाढ्ये सरसि भवतात् सूकरी सादरा किम् ॥५९॥

एवं प्रोच्य द्रुतमपसर क्रोधनायाः करस्थाद्

दण्डाच्छीर्षं यदि सखि निजं मन्यसे रक्षणीयम् ।

आशीर्मेऽयं श्रवणसुभगः श्रूयतां शासकीयान्

मा भुष्टोपि क्षणमपि न ते मस्तकाद् विप्रयोगः ॥६०॥


पूर्वमोघः

[सम्पाद्यताम्]

१। मोघदूतम् मोघो व्यर्थो दूतः आरोपितदूतत्वरूपधर्मः पदार्थष्टोपीरूपो यस्मिन् काव्ये तन्मोघदूतम् ।

३। चूते कोविदारस्य जन्म पश्चिमस्यां दिशि सूर्यस्योदयो वा संभवेन्न तु प्रेमातिरेकवति युवके प्रेमभङ्ग इत्यर्थः । अर्यमा सूर्यः ।

४। वेतण्डास्यः गजाननो गणेशः ।

६। कोलम् उडुपम् । कोलस्तु समुद्रे प्लवते परन्तु नौकेव समुद्रे नात्यन्तमपेक्ष्यते तस्य लघुत्वात् । गाली निन्दा । कुसृतिः वञ्चना । बाह्यशुभ्राम् बाह्यभागे शुभ्राम् ।

७। ब्रध्नः सूर्यः ।

८। व्यादाय तिर्यगत्यन्तं विस्तृतं यथा स्यात्तथोद्घाट्य ।

१०। निर्मस्तिष्का इति राजकीयानां जनानां संज्ञा । धूर्तत्वादिदुर्गुणयुक्तानामपि तेषां विद्याबुद्धिहीनत्वान्मस्तिष्कशून्यत्वमत एव संगच्छते ।

१२। पद्या मार्ग एव सदनं तत्र गृहिणी । भिक्षुकीति यावत् । विहितामर्शना विहितस्पर्शी । अयं भावः भूतपूर्वभिक्षुकी सत्यपि अवैधैः कर्मभिरधुना धनिका संजातासि । सति क्लेशेऽवरैर्यतनैः प्रयत्नैरनुत्कृष्टैः कर्मभिः कथंचिदस्माकं सिद्धिः साधनीया ।

१३। पूर्वार्धस्यायं भावः प्राज्ञाः स्वकीयां प्रज्ञामाश्रयन्ति । अहं त्वामाश्रयामि मन्दप्रज्ञत्वान्मम । बडिशैः मत्स्यग्रहणार्थैस्तदाकर्षणोपयुज्यमानैर्भक्ष्यवस्तुविशेषैः ।

१४। एष स्तौमि अधुना स्तोत्रं प्रारभ इत्यर्थे प्राचीनः प्रयोगः । अयमागच्छामि इत्यादिवत् । निर्विद्याः विद्याशून्याः । उरुम् श्रेष्ठम् । भृङ्गीभवन्तः शिक्षणामात्यभावम् अधिगताः ।

१५। भवति विशये सति संशये ।

१८। युवककपिभिः युवकाः कपय इव तैः । वावदूकैः वादशीलैः ।

२०। भुग्नभावाः वक्रबुद्धयः । भुग्नं वक्रम् । पश्यतोहारकः ।

२१। ककुभां दिशाम् ।

२२। करणविरतिः शरीरविश्रान्तिः कार्यकरणाभावः ।

२३। रुड्भ्यः रोषाभ्यः रुट्क्रुधौ स्त्रियामित्यमरः ।

२४। श्वव्रातीयम् शुनां समूहस्य सम्बन्धि । अनुविदधती अनुकुर्वती ।

२५। लोकः जनता । प्राणनार्थम् जीवनार्थम् ।

२६। कश्चित् स्वार्थी स्वबुद्ध्या कार्यसाधनोपायं जानन् । नुवन् स्तुवन् । णु स्तुतौ । अससि शोभसे । अस शोभायाम् । श्वेतापि टोपी विविधमानसिकविकारहेतोर्वर्णानेकत्वं बिभर्तीति भावः ।

२७। अयि टोपि औचित्यं न एति किम् । त्वं कमलिन्यथवा कुमुदिनी । तव कृते धनदाता सूर्योऽथवा चन्द्रः ।

२८। श्रीवत्साङ्कस्य विष्णुरुरसि संपादितस्थाने लक्ष्मि ब्रह्मपत्नि सरस्वति ईशकान्ते पार्वति ।

२९। क्ष्वेडो विषम् । कलो मधुरः । पदयुगं कर्षिष्यद्भिः पातयिष्यद्भिश्च ।

३०। आसंबद्धये असंबद्धत्वे ।

३१। मुख्यगौणयोर्गौण कार्यसंप्रत्यय इति नवीनो राजकीयो न्यायः ।

३२। संवित् परस्परेण व्यावहारिकोऽङ्गीकारः । संविदागूः प्रतिज्ञानमित्यमरः । द्वे शुद्धबुद्धी मित्रे मिथः परस्परेण । अर्थान्तरन्यासालङ्कारः ।

३३। निर्वाचनाख्ये युद्ध इत्यन्वयः । विरुचि कान्तिरहितम् ।

३५। एतर्हि अधुना ।

३६। वैधेयानां मूर्खाणाम् । संशोधनविधौ संशोधनरूपे प्रौढशिक्षणक्षेत्रप्राध्यापकानां वास्तविके कर्तव्ये । केवलं पाठप्रवचनादिषु संलग्ना विश्वविद्यानिलयेषु प्राध्याकत्वपदवीं नार्हन्ति ।

३७। जैजै जय जय इत्यस्य हिन्द्यादिप्रान्तभाषास्वपभ्रंशः ।

३९। विवाहाख्यगर्ते ये जना न पतितास्तान् दृष्ट्वा असूयायुक्तयोर्दम्पत्योः । भषकयुगलं शुनोर्युगलम् ।

४०। छिन्नं लाङ्गुलं यस्य स फेरुः शृगालः । अत्रार्याः पुरातनमुदाहरन्तीममितिहासम् शृगालस्य कस्यचिल्लाङ्गुलं कथञ्चिच्छिन्नमासीत् । स चिन्तितवान् मम लाङ्गलाभावं निमित्तीकृत्य सर्वैरितरैः शृगालैरहं विडम्ब्ये । तन्निवारणाय किमपि कर्तव्यम् । स इतरानुवाच शृगालान् हे शृगालाः लाङ्गुलं शृगालानां भारायते । पश्यत मां यस्य लाङ्गूलभारो नास्ति तस्मादहं शीघ्रं चलितुं शक्नोमि । यूयमपि मद्वद्युष्मदीयानि पुच्छानि कर्तयत । ततोऽन्यैः शृगालैर्बुद्धिलेशमपि अबिभ्राणैस्तदङ्गीकृतम् । तेषु स्वपुच्छानि कर्तयितुमुद्यतेषु युवा बुद्धिमान् कश्चिच्छृगालः पृष्टवान् यदि पुच्छानि न सन्ति देहेऽस्माकं मक्षिकाजातायां कण्ड्डां ता मक्षिका धावयितुं क इवाभ्युपायः । तद्वद्धर्ता वृद्धाश्छिन्नलाङ्गूलेन शृगालेन सादृश्यं वहमाना विनष्टविवेकाः सन्तो युवजनान् युवकान् युवतीश्च एवं दुर्बोधयन्तिः विवेकः शिरोभाराय । तदपवारणेन विवाहं कुरुध्वं शिरःशूलादपि मुक्ता भवत । अतिसंधीयासे वञ्च्यसे ।

४२। पुरोधाः पुरोहितः । विवाहेन लाभः केवलं पुरोहितस्येति वास्तविकं सत्यमत्र स्फोरितम् । सत्योक्तिः किल धर्माय कल्पते । एतेन संदेशकर्तुः पुण्यलाभः सूचितः ।

४३। हसितरुदिते कर्तृ । मानसे अधिकरणम् ।

४४। द्युतिविरहितान् कान्त्या रहितान् ।

४६। द्योतग्राहैः । द्युतियुतकृतीः ।

४७। अम्बकेषु नेत्रेषु । समैः सर्वैः । एजमानाः कम्पमानाः । ते जनाः । क्षिप्तस्य स्वान्तस्य प्रकटने पटुर्यो ब्रह्मा तस्य सृष्टौ प्रधानम् । नृत्यस्य विशेषणमेतत् ।

४८। अक्रमिकानपि दृष्ट्वापणान् क्षोभहीनैः । सज्जनंमन्यमानानाम् एतादृशामेव जाड्याद् भ्रष्टा निर्वाचनेषु जयशीला भवन्ति ।

४९। धीलड्डुकं मनोमोदकम् । त्वयि किमपि धनादिकं दीयते । धनादिकं दत्तवद्भिः प्रार्थ्यसे च त्वं विधिविरुद्धान् वरान् ।

५०। मध्येपद्यं पद्यायाः मार्गस्य मध्ये । प्रकृतिगमनक्लेशम् जनताया गतागतयोः क्लेशमुत्पादयद्भिः । फलाद्यं फलादिकम् । हस्ताभ्यां नुन्ने प्रेरिते । नुद प्रेरणे । प्रात्तलञ्चैः प्रदत्तोत्कोचैः ।

५१। सृत्याः मार्गस्य । दलम् पर्णम् । स्थली स्थलम् । भावं अभिप्रायम् । पालिकां नागरीं नगरपालिकाम् । त्राणने रक्षणविषये । विषयसप्तमी । भाषणोत्काम् भाषणोत्कटाम् ।

५२। मेयर्पदवीधारिणः पौनःपुन्येन सर्वकारीयं धनं भक्षयन्तो व्याजविशेषान् निमित्तीकृत्य विदेशान् प्रयान्तीति प्रसिद्धम् ।

५३। कीदृशां पथाम् । पौरेषु अन्धत्वमेडत्वं चोत्पादयितॄणां सम्मर्दयुक्तानाम् । भीतिक्षोभयुक्तानां कल्मषयुक्तानां च । पुरि नगरे । पथां मार्गाणां विकारान् वीक्षमाणा ।

५४। हला सख्याः संबोधनमिदम् । हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति इत्यमरः ।

५७। शाखोटकः भूतावासो वृक्षः ।

५८। सितपटस्य श्वेतवस्त्रस्य सुता तन्निर्मितेति यावत् । विहितविरतौ कृत्तविश्रान्तौ । त्वयि अगाग्रे । अगाग्रे वृक्षस्याग्रे । विहितविरतौ त्वयि सत्याम् । सत्सप्तमी । क्ष्वेडः विषम् । तव मन्त्रित्वकाङ्क्षिषु अमृता स्यात्ते दृष्टिः । तव त्यागपत्रप्रदानाकाङ्ङ्क्षिषु च विषमुक् स्यात् ।

५९। संपत्पुञ्जेन धनराशिना प्रचितो वृद्धिं गतो विभवो यस्य । तस्य काषायत्वकारणात् तवापि काषायत्वम् । तद्गुणः ।

६०। उत्कर्णा ऊर्ध्वकर्णा सती । शालिहोत्री अश्वा ।

उत्तरमोघः

[सम्पाद्यताम्]

१। आगसि अपराधे । आगोऽपराधो मन्तुश्चेत्यमरः । श्रीमदात् संपत्तिजाताद् गर्वात् ।

२। भलुहौ श्वानौ । क्षेपेषूणां निन्दारूपबाणानाम् । मयि अमन्दम् द्रुतम् ।

३। स्ताम् अस्तेर्लोटि प्रथमद्विवचनम् । तरणिः सूर्यस्तज्जस्तत्सुतो यमः । एधि अस्तेर्लोटि मध्यमैकवचनम् । गृह्यकौ गृहपालितौ । अनुरूपो यौष्माकीणः संसर्गः क्रौर्यवञ्चनापूर्ण इति भावः । निर्धननम् नाशः । प्रेष्ठौ प्रीत्याः पात्रम् ।

४। तदेव खलसुजनयोर्भेदस्य नाशनं यदुक्ते पूर्वतने पद्ये तदेव । श्वअग्रे विनतिः । प्रत्यादिष्टाः तिरस्कृताः अखिला वरगुणा यया । पीठमत्र राजकीयम् ।

६। त्रिदशानां देवानां समितौ सभायाम् । वरमुत् श्रेष्ठा प्रीतिः । ध्वानः शब्दः ।

७। स्थपुटित निम्नोन्नत । खले स्थले ।

८। रूक्षं परुषम् । कोमलत्वधर्मप्रतियोगि । लाति आदत्ते । ला आ दाने । गुर्वोः आचार्ययोर्युवयोः शुनोः । प्रियशिष्या ललिते कलाविधौ इत्यादिप्रयोगदर्शनेन शिष्येत्येव साधुः प्रयोग इति प्रतिभाति । अस्मिन्नर्थे छात्रा इति प्रयोगस्तु नवीनः । अश्मवर्ष लक्षणया कर्णभेदकं ध्वनिम् ।

९। अमरकरिणः ऐरावतस्य । शुण्डाया अपेक्षयापि युवयोरेव पुच्छं श्रेष्ठम् । एतत् सुविज्ञातम् । तथापि जले जातं पशुविशेषमेव वाहनत्वेन इन्द्रो यत्स्वीकृतवान् तदनु पश्चात्तापवता तेन रुदताश्रु वृष्ट्याकारेण सृष्टम् ।

१०। अब्जस्य कमलस्यापि ह्रियः लज्जाया उत्पादने पटुनि अक्षिणि चक्षुषि नेत्रे । जात्येकवचनम् । कमलस्य लज्जामुत्पादयत्सु सत्सु । बर्दी मयूरः । यद्यपि पक्षिणां दन्ता न सन्त्येव । परन्तु सौन्दर्यसूचकानि यान्यवयवानि प्रसिद्धानि तैः समुपेतयोः सतोरपि युवयोरन्यः कोऽपि मयूराख्यः पक्षिविशेषो जडैरन्विष्यत इति भावः ।

११। वाम् युवयोः । आक्रमण । हरिः सिंहः ।

१२। भूतयोः जीविनोः । युवयोर्भावः यौवयम् । तस्य लिङ्गत्रये प्रयोगोऽत्र ।

१३। नराणाम् ईड्यौ स्तुत्यौ । नम्र यथा स्यात्तथा । सांप्रतिकानां धनिकानां प्रीतिकारिणः प्रायः श्वानः । पशुभ्याम् अत्र चतुर्थी ।

१४। दूत्यं दूतत्वं । दूतशब्दाद् दूतस्य भागकर्मणी इति यत्प्रत्ययः । दूत्याय दैत्यारिपतेः प्रवृत्त नैषधीयचरिते इत्यादयः कविप्रयोगाः । दौत्यमित्यत्र तु ब्राह्मणादेराकृतिगणत्वाद् दूतस्य ब्राह्मणादित्वं ततः गुणवचनब्राह्मणादिभ्यः कर्मणि च इति ष्यञिति रसास्वादिन्याख्यायां वेदान्तदेशिकप्रणीतहंससन्देशस्य व्याख्यायां श्रीकृष्णब्रह्मतन्त्रस्वामी । तस्मात् कुन्तलेश्वरदौत्यमिति साधु । कृते च दूत्यकार्ये ममापि किञ्चिद्धनादिकं लभ्यते ।

१५। पीठार्थित्वम् अन्तः प्रवेष्टुं मार्ग मे यच्छथश्चेद्भाविनिर्वाचनेषु युवयोः पीठार्थित्वं यथा भवेत्तथाहं करोमि ।

१७। पद्यां मार्गम् । जहितः त्यजतः । भविष्यद्वृत्त्या वर्तमाने प्रयोग ओदनं पचतीतिवत् । मनुष्याणामेव चित्तं न दृढं किमुत कलिकाले कौलेयकीयं शुनां संबन्धि ।

१८। लघुशशनिभे इति टोपीसंबोधनम् । शशास्तु यद्वा तद्वा झम्पादि रचयेयुः उद्यानस्य नाशमपि कदाचित् कुर्युः । तन्मा भूदिति । अत्र गूढाकूतगर्भस्य विशेषणस्य सत्त्वात् परिकरालङ्कारः । क्षुपैः ह्रस्वैः वृक्षकैः । प्रत्याग्राणाम् आधुनिकानां भारतीयानां दम्भभूमा गर्वाधिक्यम् । अस्मद्राष्ट्रे प्रथिता या भाषास्तासां श्रेणिषु अलब्धनामभिः अप्राप्तसंज्ञाकैः ।

१९। राजकीये अति ऊर्ध्वधीः सती त्वं गूढमिह किं न ज्ञात्री ज्ञातवती । तादृशी सिद्धिः राजसौधनिर्माणशक्तिरूपार्हता ।

२०। प्रत्यूहः विघ्नः । द्वारपाले दृष्टे विघ्नोऽन्य उपस्थित इति चिन्ता नोत्थास्यति किम् । तत्र श्रेष्ठ उपायः किं न भाति ते ।

२१। विसरेषु समूहेषु ।

२३। द्वादशात्मा सूर्यः । अब्दः मेघः ।

२४। बुद्धिप्रसरसहितम्मन्यमानः पण्डितंमन्य इति यावत् । यदि त्वयि दोषलेशोऽस्ति सूर्येऽपि कृष्णरन्ध्राणि सन्ति । यथा सूर्ये कृष्णरन्ध्राणि न सन्ति तथा त्वय्यपि दोषलेशो नास्तीति भावः । निदर्शनासखो मिथ्याध्यवसित्यलङ्कारोऽयम् । अयमलङ्कारो न सिद्ध्यतीति यदुक्तं पण्डितराजेन रसगङ्गाधरे तन्नातीव श्रद्धेयम् ।

२५। अवीक्ष्यत्वम् अदृश्यत्वं मा यातु । यातां लोट् प्र द्वि व । एकः एकाकी । भूरि अधिकम् । सूर्यो नक्तमपि चन्द्रश्च दिवापि गगने स्वकर्तव्यं भूमिप्रकाशनरूपं कुरुतां तदनन्तरमेव गृहरक्षणरूपं कर्तव्यभारं नक्तमपि दिवापि निर्वहता त्वया सदृशौ भवताम् ।

२६। प्राग्र्यं प्राशस्त्यम् । तव करे दण्डं वीक्ष्य त्रयः संशया उत्पद्यन्ते जनानां मनसि । अतिविशययुक् अत्यन्तं संशयालुः ।

२७। दुष्टैः जुष्टं सेवितम् । अनार्यजुष्टमित्यादि भगवद्गीतावाक्यं स्मर्यताम् । विरवे रवरहिते मौनवतीति यावत् ।

२८। सिंहासनमत्र लक्षणयाधिकारः । अन्याय्ये मार्गे गन्ता उन्नताधिकारी भवति न्याय्ये तु मार्गे गन्ता द्वारपालकः ।

२९। येन केनापि किमपि किमपि भाग्यं संपाद्यते । एवं सति किं तव कृतेऽधिकारस्थानं प्रापयितुं न शक्यते त्वद्धितकारिण्या मया ।

३०। क्षेत्रियच्यरक्षेत्रे चिकित्स्य इति शास्त्रम् । असत्यपि पोषणे क्षेत्रे समुत्पद्यमानं सस्याहारस्य स्वयं भक्षणेन व्रीह्यादिवर्धने क्लेशप्रदं सस्यं यत्तदेव क्षेत्रियंसस्यमिति सर्वगन्धासंपादको दि डा वीरभद्रमिश्र आह स्म । इदं शस्तं प्रतिभाति ।

३१। उत्कृष्टे पदे अधिकृते पीठ इति यावत् । जयति विराजते । कार्यान् कार्यात् । अनुनासिकसन्धिः । चतुर्थे कारण इदं वक्तव्यम् सदापि कार्यालये नास्ति मुख्योऽधिकारी इति आगन्तून् जनान् वक्तुमेव केचिद् द्वारपालाः वेतनं गृह्णन्तीति प्रसिद्धम् ।

३२। अम्भोनिधौ लवणिमा वर्तते न पुनः सुधेति स्मर्यतामत्र ।

३३। अज्ञानामेव व्रातेषु समूहेषु प्राप्तरूपा न वस्तुसती । कम्प्रस्य कम्पनशीलस्य । जङ्गमस्येति यावत् । असौ । विटपिनो वृक्षस्य प्रकाण्डः मूलाच्छाखापर्यन्तो भागः । कोटी विकल्पद्वयम् । कोटी एते प्रकृतिभावः ।

३४। लिप्स्टिक् ।

३५। तादृश्याः इत्थंभूतलक्षणायाः । अद्मरस्य अतिभक्षणशीलस्य ।

३६। वृद्धेति दृष्टृणां भ्रमजनने पटुतरां नत्वेत्यन्वयः । दाम्भिकानां श्रेष्ठो यथा नमति तथा उपमाने कर्मणि च इति णमुल् ।

३७। प्रस्तरे लक्षणया कठिने हृदये । नावनीत्यं नवनीतत्वम् । लक्षणया मृदुत्वम् । बलिष्ठान् वशयितुं मृदुला वर्णा उच्चार्यन्ते । तथा कालेज्विद्यार्थिनीमिमां प्रसादयितुं मृदु यथा स्यात्तथा संभाषस्वेत्यर्थः ।

३८। स्वर्गोकसो ये देवास्तेषां कुसुमसुन्दरोद्याने खेलन्तीनां स्त्रीणां वृन्देऽसूयां जनयित्रि ।

४०। जोषं स्पन्दनं यथा न स्यात्तथा । विदेशादागतानां डेराट्यूलिप्प्रभृतीनां सुमनसां कुसुमानां दर्शनेन धन्यजन्मा ।

४२। नाभिजातं ब्रह्माणम् । विश्वप्रकटनपरे विश्वज्ञानस्य सर्वत्र प्रसरणपरे काले सृष्टिसमय इति यावत् । करेणुम् गजस्त्रियम् ।

४३। टाल्कम्पौडर् ।

४४। हे बाले इति चतुर्थपादे संबुद्धिः । वाणीयाम् वाणीसंबद्धाम् । वल्लकीम् लक्षणया वल्लकीसमुद्भवं नादम् । ध्वाङ्क्षः काकः । आगस्वान् अपराधी । श्रवणविरहः श्रवणाभावः । यदि तव निर्जितकाकरवं गानमश्रोष्यं नाहं गन्दर्वगानवल्लकीनादौ अपैक्षिष्ये । वल्लकीनादश्रवणेच्छायां हेतुस्तव रवश्रवणाभावः ।

४५। श्वेतभानुः चन्द्रः । दर्शे अमावस्यायाम् । यद्यपि अमावस्यायां कृष्णां त्वत्कान्तिमतिक्रमितुं चन्द्रः प्रयत्नं करोति परन्तु विफलः सन् पुनः पूर्णिमायां श्वेत एव भवति ।

४६। एतावत्कालपर्यन्तमन्यैः कविभिस्त्वस्सौन्दर्यस्य कवितादिरचनास्ववर्णितत्वे हेतुमाह एतावन्तमित्यादिना । न लान्ति न स्वीकुर्वन्ति । ला आदाने ।

४७। त्वयि तव विषये । विषयसप्तमी । अधिक्षेपणं निन्दाम् । निरक्षरकुक्षिस्त्वम् । हस्त एव क्षेत्रं तत्र प्रचुरस्य धनरूपस्य वारः वार्शब्दस्य षष्ठ्येकवचने पदरूपम् वारिणः वर्षणे अब्दोपमायां मेघोपमायाम् । तव कटाक्षे निपतिते त्वं यथेच्छम् उत्कोचं दातुं समर्थासीत्यजानानास्ते त्वं निरक्षरकुक्षिरिति निन्दां कुर्वन्ति । उत्कोचं प्राप्य ते निन्दामेतां त्यजन्तु त्वां विद्यावतीं सर्वत्र घोषयन्त्वित्याकूतम् ।

४८। निदानं कारणम् । ज्ञानगेहे विद्यालये । पश्यतोमारके विश्वविद्यानिलयेषु यः शैक्षिकः स्तरभङ्गस्तं विरुध्य बुद्धिजीविनः भाग्यवशादद्यत्वे पत्रिकासु भाषणादिषु च क्रोधं प्रदर्शयन्ति । परन्तु क्रोधस्य प्रकाशनं नालम् । अनर्हाणां विश्वविद्यानिलयेषु प्रवेशावकाश एव निषेध्य इति ममाभिप्रायः ।

४९। सति वरे । वरेऽपि हृदि कदाचिद् दुष्टभावजननरूपो दोषो भवति । कदाचिदिति मध्यमणिन्यायेन वाक्यद्वयेऽप्यन्वेति । मार्गे शुद्धेऽपि उच्चावचत्वहीने स्खलनहेतुः पाददोषः ।

५०। आगः अपराधः । आगोऽपराधो मन्तुश्चेत्यमरः । क्षान्त्या क्षमागुणेन भव्याम् । प्रसादार्थनोत्काम् प्रसन्नताविषयिकायां प्रार्थनायाम् उत्कटमतिं त्वाम् । प्रसदने प्रसादे पटुः सन् ।

५१। अग्नेः अग्निङस् । अग्नेर्दाहो वा रुधिरप्रवाहो वा शिरस्ताडनं वा यां वेदनां जनयन्ति सा तव ताडनजाताया वेदनाया अग्रे क्षुल्लकाः अपरिगणनीयाः । प्रासकुन्तौ आयुधविशेषौ ।

५२। त्वयि मह्यं प्रणमन्त्यां मम नखकान्तिकारणात् तव कृष्णाः केशाः श्वेता भवन्तु । पाण्डराः श्वेताः । रुचेः रुचिङस् । शीर्षजाः केशाः । तद्गुणानुप्राणिता पर्यायोक्तिः ।

५३। प्रेम्णोऽभिव्यक्त्यै त्रयः सन्त्युपायाः मृदुवचनं परुषवचनं बाहुयुद्धं चेति । तत्र बाहुयुद्धं प्रशस्ततमम् एकान्तेन फलदातृत्वात् । शस्ता प्रशस्ता प्रकृतिः । इला भूमिः ।

५४। पदमेव बिसम् कमलं तत्रालित्वं भ्रमरत्वम् । अदभ्रम् बहुलम् ।

५५। वृत्तिः मनोवृत्तिः ।

५६। वन्दारो वन्दनशीले श्वः करिष्यमाणवन्दने इति यावत् । भयदे भयं कुर्वाणे इदं च रक्षिगेहे इत्यस्य विशेषमम् । रक्षिणोऽग्रे । करजाः नखाः । पर्यायोक्त्यङ्कारः ।

५७। राजराजः कुबेरः । मर्मणो रहस्यस्य अप्रकटनरूपे वरे । वरनरि वरे नरि नृङि मनुष्ये । लिङ्गमतन्त्रम् । वरं कामनाम् ।

५८। आरात् समीपे । आराहूरसमीपयोरित्यमरः ।

५९। सकृमिणि कृमिसहिते । नान्तः कृमिन्शब्दः ।

६०। क्रोधनायाः अतिक्रोधशीलायाः । शासकीयान् शासकीयात् ।

Scanned Book — The Internet Archive

"https://sa.wikisource.org/w/index.php?title=मोघदूतम्&oldid=409931" इत्यस्माद् प्रतिप्राप्तम्