मार्कण्डेयपुराणम्/अध्यायः ९१-९३

विकिस्रोतः तः
← अध्यायः ८६-९० मार्कण्डेयपुराणम्
श्रीमन्महर्षिवेदव्यासप्रणीतं
वेदव्यासः
अध्यायः ९१-९५ →

एकनवतितमोऽध्यायः- ९१

81(78)

ऋषिरुवाच


देव्या हते तत्र महासुरेन्द्रे
सेन्द्राः सुरा वह्निपुरोगमास्ताम् ।
कात्यायनीं तुष्टुवुरिष्टलाभाद्
विकाशिवक्त्राब्जविकाशिताशाः॥९१.१॥


देवा ऊचुः


देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य॥९१.२॥

आधारभूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि ।
अपां स्वरूपस्थितया त्वयैतद्
आप्याय्यते कृत्स्त्रमलङ्घ्यवीर्ये॥९१.३॥

त्वं वैष्णवी शक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया ।
संमोहितं देवि समस्तमेतत्
तेवं वै प्रसन्ना भुवि मुक्तिहेतुः॥९१.४॥

विद्याः समस्तास्तव देवि भेदाः
स्त्रियः समस्ताः सकला जगत्सु ।
त्वयैकया पूरितमम्बयैतत्
का ते स्तुतिः स्तव्यपरा परोक्तिः॥९१.५॥

सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी ।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः॥९१.६॥

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते॥९१.७॥

कलाकाष्ठादिरूपेण परिणामप्रदायिनी ।
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते॥९१.८॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥९१.९॥

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते॥९१.१०॥

शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥९१.११॥

हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।
कौशाम्भः क्षरिके देवि नारायणि नमोऽस्तु ते॥९१.१२॥

त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।
माहेश्वरीस्वरूपेण नारायणि नमोऽस्तु ते॥९१.१३॥

मयूरकुक्कुटवृते महाशक्तिधरेऽमघे ।
कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते॥९१.१४॥

शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते॥९१.१५॥

गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे ।
वराहरूपिणि शिवे नारायणि नमोऽस्तु ते॥९१.१६॥

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते॥९१.१७॥

किरीटिनि महावज्रे सहस्रनयनोज्ज्वले ।
वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते॥९१.१८॥

शिवदूतीस्वरूपेण हतदैत्यमहाबले ।
घोररूपे महारावे नारायणि नमोऽस्तु ते॥९१.१९॥

दंष्ट्राकरालवदने शिरोमालाविभूषणे ।
चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते॥९१.२०॥

लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टे स्वधे ध्रुवे ।
महारात्रे महामाये नारायणि नमोऽस्तु ते॥९१.२१॥

मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते॥९१.२२॥

सर्वतः पाणिपादान्ते सर्वतोऽक्षिशिरोमुखे ।
सर्वतः श्रवणघ्राणे नारायणि नमोऽस्तु ते॥९१.२३॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥९१.२४॥

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।
पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते॥९१.२५॥

ज्वालाकरालमत्युग्रमशेषासुरशूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तुते॥९१.२६॥

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव॥९१.२७॥

असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम्॥९१.२८॥

रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति॥९१.२९॥

एतत्कृतं यत्कदनं त्वयाद्य
धर्मद्विषां देवि महासुराणाम् ।
रूपैरनेकैर्बहुधाऽत्ममूर्ति
कृत्वाम्बिके तत्प्रकरोति कान्या॥९१.३०॥

विद्यासु शास्त्रेषु विवेकदीपेष्व्
आद्येषु वाक्येषु च का त्वदन्या ।
ममत्वगर्तेऽतिमहान्धकारे
विभ्रामयत्येतदतीव विश्वम्॥९१.३१॥

रक्षांसि यत्रोग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र ।
दावानलो यत्र तथाब्धिमध्ये
तत्र स्थिता त्वं परिपासि विश्वम्॥९१.३२॥

विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीति विश्वम् ।
विश्वेशवन्द्या भवती भवन्ति
विश्वाश्रया ये त्वयि भक्तिनम्राः॥९१.३३॥

देवि प्रसीद परिपालय नोऽपरिभीतेर्
नित्यं यथासुरवधादधुनैव सद्यः ।
पापानि सर्वजगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान्॥९१.३४॥

प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणी ।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव॥९१.३५॥


श्रीदेव्युवाच


वरदाहं सुरगण वरं यन्मनसेच्छथ ।
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम्॥९१.३६॥


देवा ऊचुः


सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्॥९१.३७॥


श्रीदेव्युवाच


वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ॥९१.३८॥

नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी॥९१.३९॥

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।
अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान्॥९१.४०॥

भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् सुदानवान् ।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः॥९१.४१॥

ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्॥९१.४२॥

भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि ।
मुनिभिः संस्तुता भूमौ संभविष्याम्ययोनिजा॥९१.४३॥

ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् ।
कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः॥९१.४४॥

ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ।
भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः॥९१.४५॥

शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ।
दुर्गा देवीति विख्यातं तन्मे नाम भविष्यति॥९१.४६॥

पुनश्चाहं यदा भीमं रूप कृत्वा हिमाचले ।
रक्षांसि भक्षयिष्यामि पुनीनां त्राणकारणात्॥९१.४७॥

तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ।
भीमा देवीति विख्यातं तन्मे नाम भविष्यति॥९१.४८॥

यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ।
तदाहं भ्रामरं रूपं कृत्वासंख्येयषट्पदम्॥९१.४९॥

त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ।
भ्रामरीति च मां चोकास्तदा स्तोष्यन्ति सर्वतः॥९१.५०॥

इत्थं यदा यदा बाधा दानवोत्था भविष्यति ।
तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम्॥९१.५१॥


इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहत्म्ये देवैः कृता नारायणो स्तुतिर्नामैकनवतितमोऽध्यायः



द्विनवतितमोऽध्यायः- ९२

देव्युवाच

एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः ।
तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम्॥९२.१॥

मधुकैटभानाशं च महिषासुरघातनम् ।
कीर्तयिष्यिन्ति ये तद्वद् वधं शुम्भनिशुम्भयोः॥९२.२॥

अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ।
स्तोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम्॥९२.३॥

न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः ।
भविष्यति न दारिद्रयं न चैवेष्टवियोजनम्॥९२.४॥

शत्रुतो न भयं तस्य दस्युतो वा न राजतः ।
न शस्त्रानलतोयौघात् कदाचित् सम्भविष्यति॥९२.५॥

तस्मान्ममैतन्माहात्म्यं पठितव्यं सहाहितैः ।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत्॥९२.६॥

उपसर्गानशेषांस्तु महामारीसमुद्भवान् ।
तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम॥९२.७॥

यत्रैतत् पठ्यते सम्यङ्नित्यमायतने मम ।
सदा न तद्विमोक्ष्यामि सांनिध्यं तत्र मे स्थितम्॥९२.८॥

बलिप्रदाने पूजायामग्निकार्ये महोत्सवे ।
सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च॥९२.९॥

जानताजानता वापि बलिपूजां तथा कृताम् ।
प्रतीच्छिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतम्॥९२.१०॥

शरत्काले महापूजा क्रियते या च वार्षिकी ।
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः॥९२.११॥

सर्वबाधाविनिर्मृक्तो धनधान्यसमन्वितः ।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः॥९२.१२॥

श्रुत्वा ममैतन्माहात्म्यं तथोत्पत्तीः पृथक् शुभाः ।
पराक्रमं च युद्धेषु जायते निर्भयः पुमान्॥९२.१३॥

रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते ।
नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम्॥९२.१४॥

शान्तिकर्मणि सर्वत्र तथा दुः स्वप्नदर्शने ।
ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम॥९२.१५॥

उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः ।
दुः स्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते॥९२.१६॥

बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।
संघातभेदे च नृणां मैत्रीकरणमुत्तमम्॥९२.१७॥

दुर्वृत्तानामशेषाणां बलहानिकरं परम् ।
रक्षोभूतपिशाचानां पठनादेव नाशनम्॥९२.१८॥

सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्॥९२.१९॥

पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः ।
विप्राणां भोजनैर्हेमैः प्रोक्षणीयैरहर्निशम्॥९२.२०॥

अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या ।
प्रीतिर्मे क्रियते सास्मिन् सकृत्सुचरिते श्रुते॥९२.२१॥

श्रुतं हरति पापानि तथाऽरोग्यं प्रयच्छति ।
रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम॥९२.२२॥

युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ।
तस्मिन् श्रुते वैरिकृतं भयं पुंसां न जायते॥९२.२३॥

युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः ।
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां गतिम्॥९२.२४॥

अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः ।
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः॥९२.२५॥

सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ।
राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा॥९२.२६॥

आघूर्णितो वा वातेन स्थितः पोते महार्णवे ।
पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे॥९२.२७॥

सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ।
स्मरन्ममैतच्छरितं नरो मुच्येत सङ्कटात्॥९२.२८॥

मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ।
दूरादेव पलायन्ते स्मरतश्चरितं मम॥९२.२९॥


ऋषिरुवाच


इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ।
पश्यतामेव देवानां तत्रैवान्तरधीयत॥९२.३०॥

तेऽपि देव्या निरातङ्का स्वाधिकारान् यथा पुरा ।
यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः॥९२.३१॥

दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि ।
जगद्विध्वंसके तस्मिन् महोग्रेऽतुलविक्रमे ।
निशुम्भे च महावीर्ये शेषाः पातालमाययुः॥९२.३२॥

एवं भगवती देवी सा नित्यापि पुनः पुनः ।
सम्भूय कुरुते भूप जगतः परिपालनम्॥९२.३३॥

तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते ।
सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति॥९२.३४॥

व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर ।
महाकाल्या महाकाले महाकारीस्वरूपया॥९२.३५॥

सैव काले महामारी सैव सृष्टिर्भवत्यजा ।
स्थितिं करोति भूतानां सैव काले सनातनी॥९२.३६॥

भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे ।
सैवाभावे तथालक्ष्मीर्विनाशायोपजायते॥९२.३७॥

स्तुता सम्पूजिता पुष्पैर्धूपगन्धादिबिस्तथा ।
ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम्॥९२.३८॥


इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देवीवाक्यं नाम द्विनवतितमोऽध्यायः



त्रिनवतितमोऽध्यायः- ९३

ऋषिरुवाच


एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवंप्रभावा सा देवी ययेदं धार्यते जगत्॥९३.१॥

विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तथा त्वमेष वैश्यश्च तथैवान्ये विवेकिनः ।
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे॥९३.२॥

तामुपैहि महाराज शरणं परमेश्वरीम् ।
आराधिता सैव नृणां भोगस्वर्गापवर्गदा॥९३.३॥


मार्कण्डेय उवाच


इति तस्य वचः श्रुत्वा सुरथः स नराधिपः ।
प्रणिपत्य महाभागं तमृषिं शंसितव्रतम्॥९३.४॥

निर्विण्णोऽतिममत्वेन राज्यापहरणेन च ।
जगम सद्यस्तपसे स च वैश्यो महामुने॥९३.५॥

संदर्शनार्थमम्बाया नदीपुलिनसंस्थितः ।
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन्॥९३.६॥

तौ तस्मिन् पिलिने देव्याः कृत्वा मूर्ति महीमयीम् ।
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः॥९३.७॥

निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ ।
ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम्॥९३.८॥

एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः ।
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका॥९३.९॥


श्रीदेव्युवाच


यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन ।
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत्॥९३.१०॥


मार्कण्डेय उवाच


ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि ।
अत्रैव च निजं राज्यं हतशत्रुबलं बलात्॥९३.११॥

सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः ।
ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम्॥९३.१२॥


श्रीदेव्युवाच


स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् ।
हत्वा रिपूनस्खलितं तव तत्र भविष्यति॥९३.१३॥

मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः ।
[१]सावर्णिको नाम मनुर्भवान् भुवि भविष्यति॥९३.१४॥

वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छतः ।
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति॥९३.१५॥


मार्कण्डेय उवाच


इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ।
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता॥९३.१६॥

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥९३.१७॥


इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये वरप्रदानं नाम त्रिनवतितमोऽध्यायः

  1. सावर्णि उपरि पौराणिक संदर्भाः । सुरथ-समाधि आख्यानस्य किं फलश्रुतिः सम्भवमस्ति। सुरथरूपेण यः क्षत्रबलः एवं समाधिरूपेण यः वैश्यशक्तिः क्षरति, तस्याः सम्यक् उपयोगं केन प्रकारेण भवेत्। यदा सुरा उपरि आधृतस्य महिषस्य समाप्तिः भविष्यति एवं सोमआधृतस्य महिषासुरमर्दिन्याः आविर्भावं भविष्यति, तदैव क्षत्रबलस्य एवं वैश्यबलस्य रूपान्तरणं सावर्णिमनु रूपे भवितुं शक्यते।