मार्कण्डेयपुराणम्/अध्यायः ६६-७०

विकिस्रोतः तः
Jump to navigation Jump to search

66(63)
अथ त्रिषष्टितमोऽध्यायः
ब्राह्मणवाक्यवर्णनम्
मार्कण्डेय उवाच
एवं निरस्यमानास्ता हरिणेन मृगाङ्गनाः ।
श्रुत्वा स्वरोचिरात्मानं मेने स पतितं यथा । । १
त्यागे चकार च मनः स तासां मुनिसत्तम ।
चक्रवाकीमृगप्रोक्तो मृगचर्याजुगुप्सितः । । २
समेत्य ताभिर्भूयश्च वर्द्धमानमनोभवः ।
आक्षिप्तनिर्वेदकथो रेमे वर्षशतानि षट् । । ३
किन्तु धर्माविरोधेन कुर्वन्धर्माश्रिताः क्रियाः ।
भुङ्क्ते स्वरोचिर्विषयान्सह ताभिरुदारधीः । । ४
ततश्च जज्ञिरे तस्य त्रयः पुत्राः स्वरोचिषः ।
विजयो मेरुनन्दश्च प्रभावश्च महाबलः । । ५
मनोरमा च विजयं प्रासूतेन्दीवरात्मजा ।
विभावरी मेरुनन्दं प्रभावं च कलावती । । ६
पद्मिनी नाम या विद्या सर्वभोगोपपादिका ।
स तेषां तत्प्रभावेण पिता चक्रे पुरत्रयम् । । ७
प्राच्यां तु विजयं नाम कामरूपे नगोत्तमे ।
विजयाय सुतायादौ स ददौ पुरमुत्तमम् । । ८
उदीच्यां मेरुनन्दस्य पुरीं नन्दवतीमिति ।
ख्यातां चकार प्रोत्तुङ्गवप्रप्राकारमालिनीम् । । ९
कलावतीसुतस्यापि प्रभावस्य निवेशितम् ।
पुरं तालमिति ख्यातं दक्षिणापथमाश्रितम् । । 66.१०
एवं निवेश्य पुत्रान्स पुरेषु पुरुषर्षभ ।
रेमे ताभिः समं विप्र मनोज्ञास्वद्रिभूमिषु । । ११
एकदा तु गतोऽरण्ये विहरन्स धनुर्द्धरः ।
चकर्ष धनुरालोक्य वराहमतिदूरगम् । । १२
अथाह काचिदभ्येत्य तं तदा हरिणाङ्गना ।
मय्येव पात्यतां बाणः प्रसीदेति पुनः पुनः । । १३
किमनेन हतेनाद्य मामाशु विनिपातय ।
त्वया निपातितो बाणो दुःखान्मां मोक्षयिष्यति । । १४
स्वरोचिरुवाच
न ते शरीरं सरुजमस्माभिरुपलक्ष्यते ।
किन्नु तत्कारणं येन त्वं प्राणान्हातुमिच्छसि । । १५
मृग्युवाच
अन्यास्वासक्तहृदये यस्मिंश्चेतः कृतास्पदम् ।
मम तेन विना मृत्युरौषधं किमिहापरम् । । १६
स्वरोचिरुवाच
कस्त्वां नाभिलषेद्भीरु सानुरागासि कुत्र वा ।
यदप्रात्तौ निजान्प्राणान्परित्यक्तुं व्यवस्यसि । । १७
मृग्युवाच
त्वामेवेच्छामि भद्रं ते त्वया मेऽपहृतं मनः ।
वृणोम्यहमतो मृत्युं मयि बाणो निपात्यताम् । । १८
स्वरोचिरुवाच
त्वं मृगी चञ्चलापाङ्गी नररूपधरा वयम् ।
कथं त्वया समं योगो मद्विधस्य भविष्यति । । १९
मृग्युवाच
यदि सापेक्षितं चित्तं मयि ते मां परिष्वज ।
यदि वाऽसाधु चित्तं ते करिष्यामि यथेप्सितम् । । 66.२०
एतावताहं भवता भविष्याम्यतिमानिता । ।
मार्कण्डेय उवाच
आलिलिङ्ग ततस्तां स स्वरोचिर्हरिणाङ्गनाम् । । २१
तेन चालिङ्गिता सद्यः साभूद्दिव्यवपुर्धरा ।
ततः सविस्मयाविष्टः का त्वमित्थभ्यभाषत । । २२
सा चास्मै कथयामास प्रेमलज्जाजडाक्षरम् ।
अहमम्यर्थिता देवैः काननस्यास्य देवता । । २३
उत्पादनीयो हि मनुस्त्वया मयि महामते ।
प्रीतिमत्यां मयि सुतं भूर्लोकपरिपालकम् । । २४
तमुत्पादय देवानां त्वामहं वचनाद्वदे । ।
मार्कण्डेय उवाच
ततः स तस्यां तनयं सर्वलक्षणलक्षितम् । । २५
तेजस्विनमिवात्मानं जनयामास तत्क्षणात् ।
जातमात्रस्य तस्याथ देववाद्यानि सस्वनुः । ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः । । २६
सिषिचुः शीकरैर्मेघा ऋषयश्च तपोधनाः । । २७
देवाश्च पुष्पवर्षं च मुमुचुश्च समन्ततः ।
तस्य तेजः समालोक्य नाम चक्रे पिता स्वयम् । । २८
द्युतिमानिति येनास्य तेजसा भासिता दिशः ।
स बालो द्युतिमान्नाम महाबलपराक्रमः । । २९
स्वरोचिषः सुतो यस्मात्तस्मात्स्वारोचिषोऽभवत् ।
स चापि विचरन्रम्ये कदाचिद्गिरिनिर्झरे । । 66.३०
स्वरोचिर्ददृशे हंसं निजपत्नीसमन्वितम् ।
उवाच स तदा हंसी साभिलाषां पुनः पुनः । । ३१
उपसंह्रियतामात्मा चिरं ते क्रीडितं मया ।
किं सर्वकालं भोगैस्ते आसन्नं चरमं वयः । । ३२
परित्यागस्य कालो मे तव चापि जलेचरि
हंस्युवाच
अकालः को हि भोगानां सर्वं भोगात्मकं जगत् । । ३३
यज्ञाः क्रियन्ते भोगार्थं ब्राह्मणैः संयतात्मभिः ।
दृष्टादृष्टांस्तथा भोगान्वाञ्छमाना विवेकिनः । । ३४
दानानि च प्रयच्छन्ति पूतान्धर्मांश्च कुर्वते ।
स त्वं नेच्छसि किं भोगान्भोगश्चेष्टफलं नृणाम् । । ३५
विवेकिनां तिरश्चां च किं पुनः संयतात्मनाम्
हंस उवाच
भोगेष्वासक्तचित्तानां परमार्थान्विता मतिः ।
भविष्यति कदा सङ्गमुपेतानां च बन्धुषु । । ३६
पुत्रमित्रकलत्रेषु सक्ताः सीदन्ति जन्तवः ।
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव । । ३७
किं न पश्यसि वा भद्रे जातसङ्गं स्वरोचिषम् ।
आबाल्यात्कामसंसक्तं मग्नं स्नेहाम्बुकर्दमे । । ३८
यौवनेऽतीव भार्यासु साम्प्रतं पुत्रनप्तृषु ।
स्वरोचिषो मनो मग्नमुद्धारं प्राप्स्यते कुतः । । ३९
नाहं स्वरोचिषस्तुल्यः स्त्रीवश्यो वा जलेचरि ।
विवेकवांश्च भोगानां निवृत्तोऽस्मि च साम्प्रतम् । । 66.४०
मार्कण्डेय उवाच
स्वरोचिरेतदाकर्ण्य जातोद्वेगः खगेरितम् ।
आदाय भार्यास्तपसे ययावन्यत्तपोवनम् । । ४१
तत्र तप्त्वा तपो घोरं सह ताभिरुदारधीः ।
जगाम लोकानमलान्निवृत्ताखिलकल्मषः । । ४२
इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे त्रिषष्टितमोऽध्यायः । ६३ ।
67(64)
अथ चतुःषष्टितमोऽध्यायः.
स्वारोचिषमन्वन्तरवर्णनम्
मार्कण्डेय उवाच
ततः स्वारोचिषं नाम्ना द्युतिमन्तं प्रजापतिम् ।
मनुं चकार भगवांस्तस्य मन्वन्तरं शृणु । । १
तत्रान्तरे तु ये देवा मुनयस्तत्सुताश्च ये ।
भूपालाः क्रौष्टुके ये तान्गदतस्त्वं निशामय । । २
देवाः पारावतास्तत्र तथैव तुषिता द्विज ।
स्वारोचिषेऽन्तरे चेन्द्रो विपश्चिदिति विश्रुतः । । ३
ऊर्जस्तम्बस्तथा प्राणो दत्तोऽलिर्ऋषभस्तथा ।
निश्चरश्चार्ववीरश्च तत्र सप्तर्षयोऽभवम् । । ४
चैत्रकिंपुरुषाद्याश्च सुतास्तस्य महात्मनः ।
सप्तासन्सुमहावीर्याः पृथिवीपरिपालकाः । । ५
तस्य मन्वन्तरं यावत्तावत्तद्वंशविस्तरे ।
भुक्तेयमवनिः सर्वा द्वितीयं वै तदन्तरम् । । ६
स्वरोचिषस्तु चरितं जन्म स्वारोचिषस्य च ।
निशम्य मुच्यते पापैः श्रद्धधानो हि मानवः । । ७
इति श्रीमार्कण्डेयपुराणे स्वारोचिषसमाप्तिर्नाम चतुःषष्टितमोऽध्यायः । ६४ ।
68(65)
पञ्चषष्टितमोऽध्यायः
निधिवर्णनम्
क्रौष्टुकिरुवाच
भगवन्कथितं सर्वं विस्तरेण त्वया मम ।
स्वरोचिषस्तु चरितं जन्म स्वारोचिषस्य तु । । १
या तु सा पद्मिनी नाम विद्या भोगोपपादिका ।
तत्संश्रया ये निधयस्तान्मे विस्तरतो वद । । २
अष्टौ ये निधयस्तेषां स्वरूपं द्रव्यसंस्थितिः ।
भवताभिहितं सम्यक्छ्रोतुमिच्छाम्यहं गुरो । । ३
मार्कण्डेय उवाच
पद्मिनी नाम या विद्या लक्ष्मीस्तस्याश्च देवता ।
तदाधाराश्च निधयस्तन्मे निगदतः शृणु । । ४
यत्र पद्ममहापद्मौ तथा मकरकच्छपौ ।
मुकुन्दो नंदकश्चैव नीलः शङ्खोऽष्टमो निधिः । । ५
सत्यामृद्धौ भवन्त्येते सिद्धिस्तेषां हि जायते ।
एते ह्यष्टौ समाख्याता निधयस्तव क्रौष्टुके । । ६
देवतानां प्रसादेन साधुसंसेवनेन च ।
एभिरालोकितं वित्तं मानुषस्य सदा मुने । । ७
यादृक्स्वरूपं भवति तन्मे निगदतः शृणु ।
पद्मो नाम निधिः पूर्वं स यस्य भवति द्विज । । ८
स तस्य तत्सुतानां च तत्पौत्राणां च नित्यशः ।
दाक्षिण्यसारः पुरुषस्तेन चाधिष्ठितो भवेत् । । ९
सत्त्वाधारो महाभागो यतोऽसौ सात्त्विको निधिः ।
सुवर्णरूप्यताम्रादिधातूनां च परिग्रहम् । । 68.१०
करोत्यतितरां सोऽथ तेषां च क्रयविक्रयम् ।
करोति च तथा यज्ञान्दक्षिणां च प्रयच्छति । । ११
(संपादयति कामांश्च सर्वानेव यथाक्रमम् ।
सभां देवनिकेतांश्च स कारयति तन्मनाः । ।
सत्त्वाधारो निधिश्चान्यो महापद्म इति श्रुतः । । १२
सत्त्वप्रधानो भवति तेन चाधिष्ठितो नरः ।
करोति पद्मरागादिरत्नानां च परिग्रहम् । । १३
मौक्तिकानां प्रवालानां तेषां च क्रयविक्रयान् ।
ददाति योगशीलेभ्यस्तेषामावसथांस्तथा । । १४
स कारयति तच्छीलः स्वयमेव च जायते ।
तत्प्रसूतास्तथाशीलाः पुत्रपौत्रक्रमेण च । । १५
पूर्वर्द्धिमात्रः सप्तासौ पुरुषांश्च न मुञ्चति ।
तामसो मकरो नाम निधिस्तेनावलोकितः । । १६
पुरुषोऽथ तमःप्रायः सुशीलोऽपि हि जायते ।
बाणखड्गर्ष्टि धनुषां चर्मणां च परिग्रहम् । । १७
दंशनानां च कुरुते योऽतिमैत्री च राजभिः ।
ददाति शौर्यवृत्तीनां भूभुजां ये च तत्प्रियाः । । १८
क्रयविक्रये च शस्त्राणां नान्यत्र प्रीतिमेति च ।
एकस्यैव भवत्येष नरस्य न सुतानुगः । । १९
द्रव्यार्थं दस्युतो नाशं संग्रामे वापि स व्रजेत् ।
कच्छपश्च निधिर्योऽसौ नरस्तेनाभिवीक्षितः । । 68.२०
तमःप्रधानो भवति यतोऽसौ तामसो निधिः ।
व्यवहारानशेषांस्तु पुण्यजातैः करोति च । । २१
कर्मस्थानखिलांश्चैव न विश्वसिति कस्यचित् ।
समस्तानि यथाङ्गानि संहरत्येव कच्छपः । । २२
तथाविष्टभ्य रत्नानि तिष्ठत्याकुलमानसः ।
न ददाति न वा भुङ्क्ते तद्विनाशभयाकुलः । । २३
निधानमुर्व्यां कुरुते निधिः सोऽप्येकपूरुषः ।
रजोगुणमयश्चान्यो मुकुन्दो नाम यो निधिः । । २४
नरोऽवलोकितस्तेन तद्गुणो भवति द्विज ।
वीणावेणुमृदङ्गानामातोद्यस्य परिग्रहम् । । २५
करोति गायतां वित्तं नृत्यतां च प्रयच्छति ।
बन्दिमागधसूतानां विटानां लास्यपाठिनाम् । । २६
ददात्यहर्निशं भोगान्भुङ्क्ते तैश्च समं द्विज ।
कुलटासु रतिश्चास्य भवत्यन्यैश्च तद्विधैः । । २७
प्रयाति सङ्गमेकं च यं निधिर्भजते नरम् ।
रजस्तमोमयश्चान्यो नन्दो नाम महानिधिः । । २८
उपैति स्तम्भमधिकं नरस्तेनावलोकितः ।
समस्तधातुरत्नानां पुण्यधान्यादिकस्य च । । २९
परिग्रहं करोत्येष तथैव क्रयविक्रयम् ।
आधारः स्वजनानां च आगताभ्यागतस्य च । । 68.३०
सहते नापमानोक्तिं स्वल्पमपि महामुने ।
स्तूयमानश्च महतीं प्रीतिं बध्नाति यच्छति । । ३१
यं यमिच्छति .वै कामं मृदुत्वमुपयाति च ।
बह्व्यो भार्या भवन्त्यस्य सूतिमत्योऽतिशोभनाः । । ३२
भजते सप्त च नरान्निधिर्नन्दोऽनुवर्तते ।
प्रवर्द्धमानोऽथ नरमष्टभागेन सत्तम । । ३३
दीर्घायुष्ट्वं च सर्वेषां पुरुषाणां प्रयच्छति ।
बन्धूनामेव भरणं ये च दूरादुपागताः । । ३४
तेषां करोति वै नन्दः परलोके न चादृतः ।
भवत्यस्य न च स्नेहः सहवासिषु जायते । । ३५
पूर्वमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च ।
तथैव सत्त्वरजसी यो बिभर्ति महानिधिः । । ३६
स नीलसंज्ञस्तत्सङ्गी नरस्तच्छीलवान्भवेत् ।
वस्त्रकार्पासधान्यादिफलपुष्पपरिग्रहम् । । ३७
मुक्ताविद्रुमशङ्खानां शुक्त्यादीनां तथा मुने ।
काष्ठादीनां करोत्येष यच्चान्यज्जलसम्भवम् । । ३८
क्रयविक्रयमन्येषां नान्यत्र रमते मनः ।
तडागान्पुष्करिण्योऽथ तथारामान्करोति च । । ३९
बन्धं च सरितां वृक्षांस्तथारोपयते नरः ।
अनुलेपनपुष्पादिभोगभुग्वाभिजायते । । 68.४०
त्रिपौरुषश्चापि निधिर्नीलो नामैष जायते ।
रजस्तमोमयश्चान्यः शङ्खसंज्ञो हि यो निधिः । । ४१
तेनापि नीयते विप्र तद्गुणित्वं निधीश्वरः ।
एकस्यैव भवत्येष नरं नान्यमुपैति च । । ४२
यस्य शङ्खो निधिस्तस्य स्वरूपं क्रौष्टुके शृणु ।
एक एवात्मना सृष्टमन्नं भुङ्क्ते तथाम्बरम् । । ४३
कदन्नभुक्परिजनो न च शोभनवस्त्रधृक् ।
न ददाति सुहृद्भार्याभ्रातृपुत्रस्नुषादिषु । । ४४
स्वपोषणपरः शङ्खी नरो भवति सर्वदा ।
इत्येते निधयः ख्याता नराणामर्थदेवताः । । ४५
मिश्रावलोकनान्मिश्राः स्वभावफलदायिनः ।
यथाख्यातस्वभावस्तु भवत्येव विलोकनात् । ।
सर्वेषामाधिपत्ये च श्रीरेषां द्विजपद्मिनी । । ४६
इति श्रीमार्कण्डेयपुराणे निधिवर्णनं नाम पञ्चषष्टितमोऽध्यायः । ६५ ।
69(66)
षट्षष्टितमोऽध्यायः
ऋषिदर्शनवर्णनम्
क्रौष्टुकिरुवाच
विस्तरात्कथितं ब्रह्मन्मम स्वारोचिषं त्वया ।
मन्वन्तरं तथैवाष्टौ ये पृष्टा निधयो मया । । १
स्वायम्भुवं पूर्वमेव मन्वन्तरमुदाहृतम् ।
मन्वन्तरं तृतीयं मे कथयौत्तमसंज्ञितम् । । २
मार्कण्डेय उवाच
उत्तानपादपुत्रोऽभूदुत्तमो नाम नामतः ।
सुरुच्यास्तनयः ख्यातो महाबलपराक्रमः । । ३
धर्मात्मा च महात्मा च पराक्रमधनो नृपः ।
अतीत्य सर्वभूतानि बभौ भानुपराक्रमः । । ४
समः शत्रौ च मित्रे च परे पुत्रे च धर्मवित् ।
दुष्टे च यमवत्साधौ सोमवच्च महामुने । । ५
बाभ्रव्यां बहुलां नाम उपयेमे स धर्मवित् ।
उत्तानपादतनयः शचीमिन्द्र इवोत्तमः । । ६
तस्यामतीव तस्यासीद्द्विजवर्य मनः सदा ।
स्नेहवच्छशिनो यद्वद्रोहिण्यां निहितास्पदम् । । ७
अन्यप्रयोजनासक्तिमुपैति न हि तन्मनः ।
स्वप्ने चैव तदालम्बि मनोऽभूत्तस्य भूभृतः । । ८
स च तस्याः सुचार्वङ्ग्या दर्शनादेव पार्थिवः ।
ददाह लोचनैर्गात्रे गात्रस्पर्शश्च तन्मयः । । ९
श्रोत्रोद्वेगकरं वाक्यं प्रियमप्यवनीपतेः ।
तस्यापि भूरि सन्मानं मेने परिभवं ततः ।। 69.१०
अवमेने स्रजं दत्तां शुभान्याभरणानि च ।
उत्तस्थावर्धपीतेव पिबतोऽस्य वरासवम्. ।। ११
भुञ्जता च नरेन्द्रेण क्षणमात्रं करे धृता ।
बुभुजे स्वल्पकं भक्ष्यं द्विज नातिमुदावती ।। १२
एवं तस्यानुकूलस्य नानुकूला महात्मनः ।
प्रभूततरमत्यर्थं चक्रे रागं महीपतिः ।। १३
अथ पानगतो भूपः कदाचित्तां मनस्विनीम् ।
सुराभृतं पानपात्रं ग्राहयामास सादरः ।। १४
पश्यतां भूमिपालानां वारमुख्या समन्वितः ।
प्रगीयमानो मधुरैर्गेयगायनतत्परैः ।। १५
सा तु नेच्छति तत्पात्रमादातुं तत्पराङ्मुखी ।
समक्षमवनीशानां ततः क्रुद्धः स पार्थिवः ।। १६
उवाच द्वाःस्थमाहूय निश्वसन्नुरगो यथा ।
निराकृतस्तया देव्या प्रियया पतिरप्रियः ।। १७
द्वास्थैनां दुष्टहृदयामादाय विजने वने ।
परित्यज्याशु नैतत्ते विचार्यं वचनं मम ।। १८
मार्कण्डेय उवाच
ततो नृपस्य वचनमविचार्यमवेक्ष्य सः ।
द्वाःस्थस्तत्याज तां सुभ्रूमारोप्य स्यन्दने वने ।। १९
सा च तं विपिने त्यागं नीता तेन महीभृता ।
अपश्यमाना तं मेने परं कृतमनुग्रहम् ।।69.२०
सोऽपि तत्रानुरागार्तिदह्यमानात्ममानसः ।
औत्तानपादिर्भूपालो नान्यां भार्यामविन्दत ।।२ १
सस्मार तां सुचार्वङ्गीमहर्निशमनिर्वृतः ।
चकार च निजं राज्यं प्रजाधर्मेण पालयन् । । २२
प्रजाः पालयतस्तस्य पितुः पुत्रानिवौरसान् ।
आगत्य ब्राह्मणः कश्चिदिदमाहार्त्तमानसः । । २३
ब्राह्मण उवाच
महाराज भृशार्त्तोऽस्मि श्रूयतां गदतो मम ।
नृणामार्तिपरित्राणमन्यतो न नराधिपात् । । २४
मम भार्या प्रसुप्तस्य केनाप्यपहृता निशि ।
गृहद्वारमनुद्धाट्य तां समानेतुमर्हसि । । २५
राजोवाच
न वेत्सि केनापहृता क्व वा नीता तु सा द्विज ।
यतामि विग्रहे कस्य कुतो वाप्यानयामि ताम् । । २६
ब्राह्मण उवाच
तथैव स्थगिते द्वारि प्रसुप्तस्य गृहे मम ।
हृता हि भार्या किं केनेत्येतद्विज्ञायते भवान् । । २७
त्वं रक्षिता नो नृपते षड्भागादानवेतनः ।
धर्मस्य तेऽतो निश्चिन्ताः स्वपन्ति मनुजा निशि । । २८
राजोवाच
न ते दृष्टा मया भार्या यादृग्रूपा च देहतः ।
वयश्चैव समाख्याहि किंशीला ब्राह्मणी च ते । । २९
ब्राह्मण उवाच
कठोरनेत्रा सात्युच्चा ह्रस्वबाहुः कृशानना ।
( लम्बोदरीं हस्वस्फिजं तथा ह्रस्वस्तनीं नृप) । ।
विरूपरूपा भूपाल न निन्दामि तथैव ताम् । । 69.३०
वाचि भूपातिपरुषा न सौम्या सा च शीलतः ।
इत्याख्याता मया भार्या सा करालनिरीक्षणा । । ३१
मनागतीतं भूपाल तस्याश्च प्रथमं वयः ।
तादृग्रूपा हि मे भार्या सत्यमेतन्मयोदितम् । । ३२
राजोवाच
अलं ते ब्राह्मण तया भार्यामन्यां ददामि ते ।
सुखाय भार्या कल्याणी दुःखहेतुर्हि तादृशी । । ३३
अल्पा कुरूपता विप्र कारणं शीलमुत्तमम् ।
रूपशीलविहीना या त्याज्या तेऽन्येन सा हृता । । ३४
ब्राह्मण उवाच
रक्ष्या भार्या महीपाल इति च श्रुतिरुत्तमा ।
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता । । ३५
आत्मा हि जायते तस्य सा रक्ष्यातो नरेश्वर ।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः । । ३६
तस्यामरक्ष्यमाणायां भविता वर्णसङ्करः ।
स पातयेन्महीपाल पूर्वान्स्वर्गादधः पितॄन् । । ३७
अनुज्ञाय गुरुं राजन्दत्त्वान्यां जातवेदसे । । ३८
समिधं तु मया भार्या वृतेयं कर्कशा यतः ।
कथमेतां विहायान्यभार्यया सह सञ्चरे । । ३९
गृह्यधर्मो यतो ब्रह्म प्राप्यते शाश्वतं नरैः ।
पूर्वोढया तु धर्मेण गृही कुर्वन्न सीदति । । 69.४०
त्यक्त्वा तां च क्रियां कुर्वन्नैव कर्मफलं लभेत् ।
अग्निना सह या नूनं सा जगाम गृहं शुभा । ।४ १
धर्मस्य ग्रहणे सा तु पूर्वोढैव प्रशस्यते ।
शठायाचारणात्तस्या जायते वर्णसङ्करः । । ४२
धर्महानिश्चानुदिनमभार्यस्य भवेन्मम ।
नित्यक्रियाणां विभ्रंशात्स चापि पतनाय मे । । ४३
तस्यां च पृथिवीपाल भवित्री मम सन्ततिः ।
तव षड्भागदात्री सा भवित्री धर्महेतुकी । । ४४
तदेतत्ते मया ख्याता पत्नी या मे हृता प्रभो ।
तां समानय रक्षायां भवानधिकृतो यतः । । ४५
मार्कण्डेय उवाच
स तस्यैवं वचः श्रुत्वा विमृश्य च नरेश्वरः ।
सर्वोपकरणैर्युक्तमारुरोह महारथम् । । ४६
इतश्चेतश्च तेनासौ परिबभ्राम मेदिनीम् ।
ददर्श च महारण्ये तापसाश्रममुत्तमम् । । ४७
अवतीर्य च तत्रासौ प्रविश्य ददृशे मुनिम् ।
कौश्यां बृष्यां समासीनं ज्वलन्तमिव तेजसा । । ४८
स दृष्ट्वा नृपतिं प्राप्य समुत्थाय त्वरान्वितः ।
सम्मान्य स्वागतेनैव शिष्यमाहार्घ्यमानय । । ४९
तमाह शिष्यः शनकैर्दातव्योऽर्घ्योऽस्य किं मुने ।
तदाज्ञापय सञ्चिन्त्य तवाज्ञां हि करोम्यहम् । । 69.५०
ततोऽवगतवृत्तान्तो भूपतेस्तस्य स द्विजः ।
सम्भाषासनदानेन चक्रे सम्मानमात्मवान् । । ५१
ऋषिरुवाच
किं निमित्तमिहायातो भवान्किं ते चिकिर्षितम् ।
उत्तानपादतनयं वेद्मि त्वामुत्तमं नृप । । ५२
राजोवाच
ब्राह्मणस्य गृहाद्भार्या केनाप्यपहृता मुने ।
अविज्ञातस्यरूपेण तामन्वेष्टुमिहागतः । । ५३
पृच्छामि यत्ते तन्मे त्वं प्रणतस्यानुकम्पया।।
अभ्यागतस्याथ गृहं भगवन्वक्तुमर्हसि।।५३।।
ऋषिरुवाच।।
पृच्छ मामवनीपाल यत्प्रष्टव्यमशङिकितः।।
वक्तव्यं चेत्तव मया कथयिष्यामि तत्त्वतः।।५४।।
राजोवाच।।
गृहागताय यो मह्यं प्रथमे दर्शने मुने।।
त्वया समुद्यतो दातुं कथं सोऽर्घ्यो निवर्तितः।।५५।।
ऋषिरुवाच।।
त्वद्दर्शनेन रभसादज्ञप्तोऽयं मया नृप।।
यदा तदाहमेतेन शिष्येण प्रतिबोधितः।।५६।।
एष वेत्ति जगत्यत्र मत्प्रसादादनागतम्।।
यथाहं समतीतञ्च वर्तमानञ्च सर्वतः ॥ ६९.५३ ॥
आलोच्याज्ञापयेत्युक्ते ततो ज्ञातं मयापि तत् ।
ततो न दत्तवानर्घमहं तुभ्यं विधानतः॥६९.५४॥
सत्यं राजन् ! त्वमर्घार्हः कुले स्वायम्भुवस्य च ।
तथापि नार्घयोग्यं त्वां मन्यामो वयमुत्तमम्॥६९.५५॥

राजोवाच

किं कृतं हि मया ब्रह्मन् ! ज्ञानादज्ञानतोऽपि वा ।
येन त्वत्तोर्ऽघमर्हामि नाहमभ्यागतश्चिरात्॥६९.५६॥

ऋषिरुवाच

किं विस्मृतन्ते यत्पत्नी त्वया त्यक्ता च कानने ।
परित्यक्तस्तया सार्धं त्वया धर्मो नृपाखिलः॥६९.५७॥
पक्षेण कर्मणो हान्या प्रयात्यस्पर्शतां नरः ।
विण्मूत्रैर्वार्षिकी यस्य हानिस्ते नित्यकर्मणः॥६९.५८॥
पत्न्यानुकूलया भाव्यं यथाशीलेऽपि भर्तरि ।
दुः शीलापि तथा भार्या पोषणीया नरेश्वर॥६९.५९॥
प्रतिकूला हि सा पत्नी तस्य विप्रस्य या हृता ।
तथापि धर्मकामोऽसौ त्वामुद्योतितवान् नृप॥६९.६०॥
चलतः स्थापयस्यन्यान् स्वधर्मेषु महीपते ।
त्वां स्वधर्माद्विचलितं कोऽपरः स्थापयिष्यति॥६९.६१॥

मार्कण्डेय उवाच

विलक्ष्यः स महीपाल इत्युक्तस्तेन धीमता ।
तथेत्युक्त्वा च पप्रच्छ हृतां पत्नीं द्विजन्मनः॥६९.६२॥
भगवन् ! केन नीता सा पत्नी विप्रस्य कुत्र वा ।
अतीतानागतं वेत्ति जगत्यवितथं भवान्॥६९.६३॥

ऋषिरुवाच

तां जहाराद्रितनयो बलाको नाम राक्षसः ।
द्रक्ष्यसे चाद्य तां भूप ! उत्पलावतके वने॥६९.६४॥
गच्छ संयोजयाशु त्वं भार्यया हि द्विजात्तमम् ।
मा पापास्पदतां यातु त्वमिवासौ दिने दिने॥६९.६५॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे एकोनसप्ततितमोऽध्यायः

70(67)

सप्ततितमोऽध्यायः- ७०

मार्कण्डेय उवाच

अथारुरोह स्वरथं प्रणिपत्य महामुनिम् ।
तेनाख्यातं वनन्तच्च प्रययावुत्पलावतम्॥७०.१॥
यथाख्यातस्वरूपाञ्च भार्यां भर्त्रा द्विजस्य ताम् ।
भक्षयन्तीं ददार्शाथ श्रीफलानि नरेश्वरः॥७०.२॥
पप्रच्छ च कथं भद्रे ! त्वमेतद्वनमागता ।
स्फुटं ब्रवीहि वैशालेरपि भार्या सुशर्मणः॥७०.३॥

ब्राह्मण्युवाच

सुताहमतिरात्रस्य द्विजस्य वनवासिनः ।
पत्नी विशालपुत्रस्य यस्य नाम त्वयोदितम्॥७०.४॥
साहं हृता बलाकेन राक्षसेन दुरात्मना ।
प्रसुप्ता भवनस्यान्ते भ्रातृमातृवियोजिता॥७०.५॥
भस्मीभवतु तद्रक्षो येनास्म्येवं वियोजिता ।
मात्रा भ्रातृभिरन्यैश्च तिष्टाम्यत्र सुदुः खिता॥७०.६॥
अस्मिन् वनेऽतिगहने तेनानीयाहमुज्झिता ।
न वेद्मि कारणं कि तन्नोपभुङ्क्ते न खादति॥७०.७॥

राजोवाच

अपि तज्ज्ञायते रक्षस्त्वामुत्सृज्य क्व वै गतम् ।
अहं भर्त्रा तवैवात्र प्रेषितो द्विजनन्दिनि॥७०.८॥

ब्राह्मण्युवाच

अस्यैव काननस्यान्ते स तिष्ठति निशाचरः ।
प्रविश्य पश्यतु भवान् न बिभेति ततो यदि॥७०.९॥

मार्कण्डेय उवाच

प्रविवेश ततः सोऽथ तया वर्त्मनि दर्शिते ।
ददृशे परिवारेण समवेतञ्च राक्षसम्॥७०.१०॥
दृष्टमात्रे ततस्तस्मिन् त्वरमाणः स राक्षसः ।
दूरादेव महीं मूर्ध्ना स्पृशन् पादान्तिकं ययौ॥७०.११॥

राक्षस उवाच

ममात्रागच्छता गेहं प्रसादस्ते महान् कृतः ।
प्रशाधि किं करोम्येष वसामि विषये तव॥७०.१२॥
अर्घञ्चेमं प्रतीच्छ त्वं स्थीयताञ्चेदमासनम् ।
वयं भृत्या भवान् स्वामी दृढमाज्ञापयस्व माम्॥७०.१३॥

राजोवाच

कृतमेव त्वया सर्वं सर्वामेवातिथिक्रियाम् ।
किमर्थं ब्राह्मणवधूस्त्वयानीता निशाचर॥७०.१४॥
नेयं सुरूपा सन्त्यन्या भार्यार्थञ्चेद् हृता त्वया ।
भक्ष्यार्थं चेत्कथं नात्ता त्वयैतत्कथ्यतां मम॥७०.१५॥

राक्षस उवाच

न वयं मानुषाहारा अन्ये ते नृप ! राक्षसाः ।
सुकृतस्य फलं यत्तु तदश्नीमो वयं नृप॥७०.१६॥
स्वभावञ्च मनुष्याणां योषिताञ्च विमानिताः ।
मानिताश्च समश्नीमो न वयं जन्तुखादकाः॥७०.१७॥
यदस्माभिर्नृणां क्षान्तिर्भुक्ता क्रुध्यन्ति ते तदा ।
भुक्ते दुष्टे स्वभावे च गुणवन्तो भवन्ति च॥७०.१८॥
सन्ति नः प्रमदा भूप ! रूपेणाप्सरसां समाः ।
राक्षस्यस्तासु तिष्ठत्सु मानुषीषु रतिः कथम्॥७०.१९॥

राजोवाच

यद्येषा नोपभोगाय नाहाराय निशाचर ।
गृहं प्रविश्य विप्रस्य तत्किमेषा हृता त्वया॥७०.२०॥

राक्षस उवाच

मन्त्रवित् स द्विजश्रेष्ठो यज्ञे यज्ञे गतस्य मे ।
रक्षोघ्नमन्त्रपठनात् करोत्युच्चाटनं नृप॥७०.२१॥
वयं बुभुक्षितास्तस्य मन्त्रोच्चाटनकर्मणा ।
क्व यामः सर्वयज्ञेषु स ऋत्विग् भवति द्विजः॥७०.२२॥
ततोऽस्माभिरिदन्तस्य वैकल्यमुपपादितम् ।
पत्न्या विना पुमानिज्याकर्मयोग्यो न जायते॥७०.२३॥

मार्कण्डेय उवाच

वैकल्योच्चारणात्तस्य ब्राह्मणस्य महामतेः ।
ततः स राजातिभृशं विषण्णः समजायत॥७०.२४॥
वैकल्यमेवं विप्रस्य वदन्मामेव निन्दति ।
अनर्हमर्घस्य च मां सोऽप्याह मुनिसत्तमः॥७०.२५॥
वैकल्यं तस्य विप्रस्य राक्षसोऽप्याह मे यथा ।
अपत्नीकतया सोऽहं सङ्कटं महदास्थितः॥७०.२६॥

मार्कण्डेय उवाच

एवं चिन्तयतस्तस्य पुनरप्याह राक्षसः ।
प्रणामनम्रो राजानं बद्धाञ्जलिपुटो मुने॥७०.२७॥
नरेन्द्राज्ञाप्रदानेन प्रसादः क्रियतां मम ।
भृत्यस्य प्रणतस्य त्वं युष्मद्विषयवासिनः॥७०.२८॥

राजोवाच

स्वभावं वयमश्नीमस्त्वयोक्तं यन्निशाचर ।
तदर्थिनो वयं येन कार्येण शृणु तन्मम॥७०.२९॥
अस्यास्त्वयाद्य ब्राह्मण्या दौः शील्यमुपभुज्यताम् ।
येन त्वयात्तदौः शील्या तद्विनीता भवेदियम्॥७०.३०॥
नीयतां यस्य भार्येयं तस्य वेश्म निशाचर ।
अस्मिन् कृते कृतं सर्वं गृहमभ्यागतस्य मे॥७०.३१॥

मार्कण्डेय उवाच

ततः स राक्षसस्तस्याः प्रविश्यान्तः स्वमायया ।
भक्षयामास दौः शील्यं निजशक्त्या नृपाज्ञया॥७०.३२॥
दौः शील्येनातिरौद्रेण पत्नी तस्य द्विजन्मनः ।
तेन सा संपरित्यक्ता तमाह जगतीपतिम्॥७०.३३॥
स्वकर्मफलपाकेन भर्तुस्तस्य महात्मनः ।
वियोजिताहं तद्धेतुरयमासीन्निशाचरः॥७०.३४॥
नास्य दोषो न वा तस्य मम भर्तुर्महात्मनः ।
ममैव दोषो नान्यस्य सुकृतं ह्युपभुज्यते॥७०.३५॥
अन्यजन्मनि कस्यापि विप्रयोगः कृतो मया ।
सोऽयं ममाप्युपगतः को दोषोऽस्य महात्मनः॥७०.३६॥

राक्षस उवाच

प्रापयामि तवादेशादिमां भर्तृगृहं प्रभो ।
यदन्यत्करणीयन्ते तदाज्ञापय पार्थिव॥७०.३७॥

राजोवाच

अस्मिन् कृते कृतं सर्वं त्वया मे रजनीचर ।
आगन्तव्यञ्च ते वीर ! कार्यकाले स्मृतेन मे॥७०.३८॥

मार्कण्डेय उवाच

नथेत्युक्त्वा तु तद्रक्षस्तामादाय द्विजाङ्गनाम् ।
निन्ये भर्तृगृहं शुद्धां दौः शोल्यापगमात्तदा॥७०.३९॥

इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे सप्ततितमोऽध्यायः