मायापञ्चकम्

विकिस्रोतः तः

 

निरुपमनित्यनिरंशकेऽप्यखण्डे

   मयि चिति सर्वविकल्पनादिशून्ये ।

घटयति जगदीशजीवभेदं

  त्वघटितघटनापटीयसी माया ॥ १॥

श्रुतिशतनिगमान्तशोधकान

   प्यहह धनादिनिदर्शनेन सद्यः ।

कलुषयति चतुष्पदाद्यभिन्ना

   नघटितघटनापटीयसी माया ॥ २॥

सुखचिदखण्डविबोधमद्वितीयं

  वियदनलादिविनिर्मिते नियोज्य ।

भ्रमयति भवसागरे नितान्तं

  त्वघटितघटनापटीयसी माया ॥ ३॥

अपगतगुणवर्णजातिभेदे

   सुखचिति विप्रविडाद्यहंकृतिं च ।

स्फुटयति सुतदारगेहमोहं

  त्वघटितघटनापटीयसी माया ॥ ४॥

विधिहरिहरविभेदमप्यखण्डे

   बत विरचय्य बुधानपि प्रकामम् ।

भ्रमयति हरिहरभेदभावा

   नघटितघटनापटीयसी माया ॥ ५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छङ्करभगवतः कृतौ

मायापञ्चकम्

संपूर्णम् ॥

 

"https://sa.wikisource.org/w/index.php?title=मायापञ्चकम्&oldid=329156" इत्यस्माद् प्रतिप्राप्तम्