माङ्गल्यस्तवः
माङ्गल्यस्तव विष्णुस्तोत्राणि [[लेखकः :|]] |
कार्यारंभेषु सर्वेषु दुःस्वप्नेषु च सत्तम ।
अमाङ्गल्येषु दृष्टेषु यज्जप्तव्यं तदुच्यताम् ॥ १॥
येनारंभाश्च सिद्ध्यन्ति दुःस्वप्नश्चोपशाम्यति ।
अमङ्गलानां दृष्टानां परिहारश्च जायते ॥ २॥
श्री पुलस्त्यः :
जनार्दनं भूतपतिं जगद्गुरुं स्मरन् मनुष्यः सततं महामुने ।
दुष्टान्यशेषण्यपहन्ति साधयति अशेषकार्याणि च यान्यभीप्सति ॥ ३॥
शृणुष्व चान्यत् गदतो ममाखिलं वदामि यत् ते द्विजवर्य।! मङ्गलम् ।
सर्वार्थसिद्धिं प्रददाति यत् सदा निहन्त्य्शेषाणि च पातकानि ॥ ४॥
प्रतिष्टितं यत्र जगच्चराचरं जगत्त्रये यो जगतश्च हेतुः ।
जगच्च पात्यत्ति च यः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ५॥
व्योमाम्बुवाय्वग्निमहीस्वरूपैः विस्तारवान् योऽणुतरोऽणुभावात् ।
अस्थूलसूक्ष्मः सततं परेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ६॥
यस्मात् परस्मात् पुरुषादनन्तात् अनादिमध्यादधिकं न किंचित् ।
स हेतुहेतुः परमेश्वरेश्वरः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ७॥
हिरण्यगर्भाच्युतरुद्ररूपी सृजत्यशेषं परिपाति हन्ति ।
गुणाग्रणीर्यो भगवान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ८॥
परः सुराणां परमोऽसुराणां परो यतीनां परमो मुनीनाम् ।
परः समस्तस्य च यः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ९॥
ध्यातो मुनीनामपकल्मषैर्यो ददाति मुक्तिं परमेश्वरेश्वरः ।
मनोभिरामः पुरुषः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १०॥
सुरेन्द्रवैवस्वतवित्तपाम्बुपस्वरूपरूपी परिपाति यो जगत् ।
स शुद्धशुद्धः परमेश्वरेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ११॥
यन्नामसङ्कीर्तनतो विमुच्यते ह्यनेकजन्मार्जितपापसञ्चयात् ।
पापेन्धनाग्निः स सदैव निर्मलो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १२॥
येनोद्धृतेयं धरणी रसातलात् अशेषसृष्टिस्थितिकारणादिकम् ।
बिभर्ति विश्वं जगतः स मूलं ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १३॥
पादेषु वेदा जठरे चराचरं रोमस्वशेषा मुनयो मुखे मखाः ।
यस्येश्वरेशस्य स सर्वदा प्रभुः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १४॥
समस्त यज्ञाङ्गमयं वपुः प्रभोः यस्याङ्गमीशेश्वरसंस्तुतस्य ।
वराहरूपी भगवान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १५॥
विक्षोभ्य सर्वोदधितोयसंभवं दधार धात्रीं जगतश्च यो भुवम् ।
यज्ञेश्वरो यज्ञपुमान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १६॥
पातालमूलेश्वरभोगिसंहतो विन्यस्य पादौ पृतिवीं च बिभ्रतः ।
यस्योपमानं न बभूव सोऽच्युतो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १७॥
सघर्घरं यस्य च बृंहितं मुहुः सनन्दनाद्यैर्जनलोकसंश्रितैः ।
श्रुतं जयेत्युक्तिपरैः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १८॥
एकार्णवाद् यस्य महीयसौ महीं आदाय वेगेन खमुत्पतिष्यतः ।
नतं वपुर्योगिवरैः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ १९॥
हतो हिरण्याक्षमहासुरः पुरा पुराणपुंसा परमेण येन ।
वराहरूपः स पतिः प्रजापतिः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २०॥
दंष्ट्राकरालं सुरभीतिनाशकं कृतं वपुर्दिव्यनृसिंहरूपिणा ।
त्रातुं जगत् येन स सर्वदा प्रभुः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २१॥
दैत्येन्द्रवक्षःस्थलदारदारुणैः
करेरुहैर्यः क्रकचानुकारिभिः ।
विच्छेद लोकस्य भयानि सोऽच्युतो
ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २२॥
दन्तान्तदीप्तद्युतिनिर्मलानि यः चकार सर्वाणि दिशां मुखानि ।
निनादवित्रासितदानवो ह्यसौ ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २३॥
यन्नामसंकीर्तनतो महाभयात् विमोक्षमाप्नोति न संशयं नरः ।
स सर्वलोकार्तिहरो नृकेसरी ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २४॥
सटाकरालभ्रमणानिलाहताः स्फुटन्ति यस्यांबुधराः समन्ततः ।
स दिव्यसिंहः स्फुरितानलेक्षणो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २५॥
यदीक्षणज्योतिषि रश्मिमण्डलं प्रलीनमीषन्न रराज भास्वतः ।
कुतः शशाङ्कस्य स दिव्यरूपधृक् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २६॥
अशेषदेवेशनरेश्वरेश्वरैः सदा स्तुतं यच्चरितं महाद्भुतम् ।
स सर्वलोकार्तिहरो महाहरिः ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २७॥
द्रवन्ति दैत्याः प्रणमन्ति देवताः नश्यन्ति रक्षांसि अपयान्ति चारयः ।
यत्कीर्तनात् सोऽद्भुतरूपकेसरी ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २८॥
ऋक्पावितं यो यजुषा हि श्रीमत् सामध्वनिध्वस्तसमस्तपातकम् ।
चक्रे जगत् वामनकः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ २९॥
यत्पादविन्यासपवित्रतां मही ययौ वियच्चर्ग्यजुषामुदीरणात् ।
स वामनो दिव्यशरीररूपदृङ् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३०॥
यस्मिन् प्रयातेऽसुरभूभृतोऽध्वरात् ननाम खेदादवनिः ससागरा ।
स वामनः सर्वजगन्मयः सदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३१॥
महाद्भुते दैत्यपतेर्महाध्वरे यस्मिन् प्रविष्टे क्षुभितं महासुरैः ।
स वामनोऽन्तस्थितसप्तलोकधृङ् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३२॥
संघैः सुराणां दिवि भूतलस्थितैः तथा मनुष्यैर्गगने च खेचरैः ।
स्तुतः क्रमाद् यः प्रच्चार सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३३॥
क्रान्त्वा धरित्रीं गगनं तथा दिवं मरुत्पतेर्यः प्रददौ त्रिविष्टपम् ।
स देवदेवो भुवनेश्वरेश्वरो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३४॥
अनुग्रहं चापि बलेरनुत्त्मं चकार यश्चेन्द्रपदोपमं क्षणात् ।
सुरांश्च यज्ञांशभुजः स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३५॥
रसातलाद् येन पुरा समाहृताः समस्तवेदा जलचाररिरूपिणा ।
स कैटभारिमधुहाऽम्बुशायी ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३६॥
निःक्षत्रियं यश्च चकार मेदिनीं अनेकशो बाहुवनं तथाऽच्छिनत् ।
यः कार्तवीर्यस्य स भार्गवोत्तमो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३७॥
निहत्य यो वालिनमुग्रविक्रमं
निबद्ध्य सेतुं जलधौ दशाननम् ।
जघान चान्यान् रजनीचरान् असौ
ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३८॥
चिक्षेप बालः शकटं।, बभञ्ज यो यमार्जुनं।, कंसमरिं जघान च ।
ममर्द चाणूरमुखान् स सर्वदा ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ३९॥
प्रातः सहस्रांशुमरीचिनिर्मलं करेण बिभ्रत् भगवान् सुदर्शनम् ।
कौमोदकी चापि गदामनन्तो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ४०॥
हिमेन्दुकुन्दस्फटिकाभनिर्मलं मुखानिलापूरितमीश्वरेश्वरः ।
मध्याह्नकालेऽपि स शन्खमुद्वहन् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ४१॥
तथापराह्णे प्रविकासि पङ्कजं वक्षस्थलेन श्रियमुद्वहन् हरिः ।
विस्तारिपद्मायतपत्रलोचनो ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ४२॥
सर्वेषु कालेषु समस्तदेशेषु अशेषकार्येषु तथेश्वरेश्वरः ।
सर्वैः स्वरूपैर्भगवान् अनादिमान् ममास्तु माङ्गल्यविवृद्धये हरिः ॥ ४३॥
एतत् पठन् दाल्भ्य समस्तपापैः
विमुच्यते विष्णुपरो मनुष्यः ।
सिद्ध्यन्ति कार्याणि तथाऽस्य सर्वान्
अर्थानवाप्नोति यथेच्छते तान् ॥ ४४॥
दुःस्वप्नः प्रशममुपैति पठ्यमाने
स्तोत्रेऽस्मिन् श्रवणविधौ सदोद्यतस्य ।
प्रारम्भो द्रुतमुपयाति सिद्धिमीशः
पापानि क्षपयति चास्य देवदेवः ॥ ४५॥
माङ्गल्यं परमपदं सदाऽर्थसिद्धिं
निर्विघ्नामधिकफलां श्रियं ददाति ।
किं लोके तदिह परत्र चापि पुंसां
यद्विष्णुप्रवणधियां न दाल्भ्य।! साध्यम् ॥ ४६॥
देवेन्द्रस्त्रिभुवनमर्थमेकपिंगः
संसिद्धिं त्रिभुवनगां च कार्तवीर्यः ।
वैदेहः परमपदं प्रसाद्य विष्णुं
संप्राप्ताः सकलफलप्रदो हि विष्णुः ॥ ४७॥
सर्वारम्भेषु दाल्भ्यैतद् दुःस्वप्नेषु च पण्डितः ।
जपेदेकमना विष्णौ तथाऽमङ्गल्यदर्शने ॥ ४८॥
शमं प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः ।
कर्मारम्भाश्च सिद्ध्यन्ति पुण्यमाप्नोति चोत्तमम् ॥ ४९॥
हरिर्ददाति भद्राणि मङ्गल्यस्तुतिसंस्तुतः ।
करोत्यखिलरूपैस्तु रक्षामक्षतशक्तिभृत् ॥ ५०॥
॥ श्रीविष्णुधर्मोत्तरान्तर्गतः माङ्गल्यस्तवः संपूर्णः ॥