महाभारतम्-08-कर्णपर्व-024अ

विकिस्रोतः तः
Jump to navigation Jump to search

त्रिपुरवधोपाख्यानम्

                 ८.२४  /  8.33-34

दुर्योधन उवाच॥
भूय एव तु मद्रेश यत्ते वक्ष्यामि तच्छृणु ।
यथा पुरा वृत्तमिदं युद्धे देवासुरे विभो ॥१॥
यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महानृषिः ।
तदशेषेण ब्रुवतो मम राजर्षिसत्तम ॥२॥
त्वं निबोध न चाप्यत्र कर्तव्या ते विचारणा ॥२॥
देवानामसुराणां च महानासीत्समागमः ।
बभूव प्रथमो राजन्सङ्ग्रामस्तारकामयः ॥३॥
निर्जिताश्च तदा दैत्या दैवतैरिति नः श्रुतम् ॥३॥
निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः ।
ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव ॥४॥
तप उग्रं समास्थाय नियमे परमे स्थिताः ।
तपसा कर्शयामासुर्देहान्स्वाञ्शत्रुतापन ॥५॥
दमेन तपसा चैव नियमेन च पार्थिव ।
तेषां पितामहः प्रीतो वरदः प्रददौ वरान् ॥६॥
अवध्यत्वं च ते राजन्सर्वभूतेषु सर्वदा ।
सहिता वरयामासुः सर्वलोकपितामहम् ॥७॥
तानब्रवीत्तदा देवो लोकानां प्रभुरीश्वरः ।
नास्ति सर्वामरत्वं हि निवर्तध्वमतोऽसुराः ॥८॥
वरमन्यं वृणीध्वं वै यादृशं सम्प्ररोचते ॥८॥
ततस्ते सहिता राजन्सम्प्रधार्यासकृद्बहु ।
सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाब्रुवन् ॥९॥
अस्माकं त्वं वरं देव प्रयच्छेमं पितामह ।
वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् ॥१०॥
विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः ॥१०॥
ततो वर्षसहस्रे तु समेष्यामः परस्परम् ।
एकीभावं गमिष्यन्ति पुराण्येतानि चानघ ॥११॥
समागतानि चैतानि यो हन्याद्भगवंस्तदा ।
एकेषुणा देववरः स नो मृत्युर्भविष्यति ॥१२॥
एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ॥१२॥
ते तु लब्धवराः प्रीताः सम्प्रधार्य परस्परम् ।
पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महासुरम् ॥१३॥
विश्वकर्माणमजरं दैत्यदानवपूजितम् ॥१३॥
ततो मयः स्वतपसा चक्रे धीमान्पुराणि ह ।
त्रीणि काञ्चनमेकं तु रौप्यं कार्ष्णायसं तथा ॥१४॥
काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् ।
आयसं चाभवद्भूमौ चक्रस्थं पृथिवीपते ॥१५॥
एकैकं योजनशतं विस्तारायामसंमितम् ।
गृहाट्टाट्टालकयुतं बृहत्प्राकारतोरणम् ॥१६॥
गुणप्रसवसम्बाधमसम्बाधमनामयम् ।
प्रासादैर्विविधैश्चैव द्वारैश्चाप्युपशोभितम् ॥१७॥
पुरेषु चाभवन्राजन्राजानो वै पृथक्पृथक् ।
काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः ॥१८॥
राजतं कमलाक्षस्य विद्युन्मालिन आयसम् ॥१८॥
त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा ।
आक्रम्य तस्थुर्वर्षाणां पूगान्नाम प्रजापतिः ॥१९॥
तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च ।
कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः ॥२०॥
महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः ॥२०॥
सर्वेषां च पुनस्तेषां सर्वयोगवहो मयः ।
तमाश्रित्य हि ते सर्वे अवर्तन्ताकुतोभयाः ॥२१॥
यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः ।
तस्मै कामं मयस्तं तं विदधे मायया तदा ॥२२॥
तारकाक्षसुतश्चासीद्धरिर्नाम महाबलः ।
तपस्तेपे परमकं येनातुष्यत्पितामहः ॥२३॥
स तुष्टमवृणोद्देवं वापी भवतु नः पुरे ।
शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः ॥२४॥
स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः ।
ससृजे तत्र वापीं तां मृतानां जीवनीं प्रभो ॥२५॥
येन रूपेण दैत्यस्तु येन वेषेण चैव ह ।
मृतस्तस्यां परिक्षिप्तस्तादृशेनैव जज्ञिवान् ॥२६॥
तां प्राप्य त्रैपुरस्थास्तु सर्वाँल्लोकान्बबाधिरे ।
महता तपसा सिद्धाः सुराणां भयवर्धनाः ॥२७॥
न तेषामभवद्राजन्क्षयो युद्धे कथञ्चन ॥२७॥
ततस्ते लोभमोहाभ्यामभिभूता विचेतसः ।
निर्ह्रीकाः संस्थितिं सर्वे स्थापितां समलूलुपन् ॥२८॥
विद्राव्य सगणान्देवांस्तत्र तत्र तदा तदा ।
विचेरुः स्वेन कामेन वरदानेन दर्पिताः ॥२९॥
देवारण्यानि सर्वाणि प्रियाणि च दिवौकसाम् ।
ऋषीणामाश्रमान्पुण्यान्यूपाञ्जनपदांस्तथा ॥३०॥
व्यनाशयन्त मर्यादा दानवा दुष्टचारिणः ॥३०॥
ते देवाः सहिताः सर्वे पितामहमरिंदम ।
अभिजग्मुस्तदाख्यातुं विप्रकारं सुरेतरैः ॥३१॥
ते तत्त्वं सर्वमाख्याय शिरसाभिप्रणम्य च ।
वधोपायमपृच्छन्त भगवन्तं पितामहम् ॥३२॥
श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह ।
असुराश्च दुरात्मानस्ते चापि विबुधद्विषः ॥३३॥
अपराध्यन्ति सततं ये युष्मान्पीडयन्त्युत ॥३३॥
अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः ।
अधार्मिकास्तु हन्तव्या इत्यहं प्रब्रवीमि वः ॥३४॥
ते यूयं स्थाणुमीशानं जिष्णुमक्लिष्टकारिणम् ।
योद्धारं वृणुतादित्याः स तान्हन्ता सुरेतरान् ॥३५॥
इति तस्य वचः श्रुत्वा देवाः शक्रपुरोगमाः ।
ब्रह्माणमग्रतः कृत्वा वृषाङ्कं शरणं ययुः ॥३६॥
तपः परं समातस्थुर्गृणन्तो ब्रह्म शाश्वतम् ।
ऋषिभिः सह धर्मज्ञा भवं सर्वात्मना गताः ॥३७॥
तुष्टुवुर्वाग्भिरर्थ्याभिर्भयेष्वभयकृत्तमम् ।
सर्वात्मानं महात्मानं येनाप्तं सर्वमात्मना ॥३८॥
तपोविशेषैर्बहुभिर्योगं यो वेद चात्मनः ।
यः साङ्ख्यमात्मनो वेद यस्य चात्मा वशे सदा ॥३९॥
ते तं ददृशुरीशानं तेजोराशिमुमापतिम् ।
अनन्यसदृशं लोके व्रतवन्तमकल्मषम् ॥४०॥
एकं च भगवन्तं ते नानारूपमकल्पयन् ।
आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि ॥४१॥
परस्परस्य चापश्यन्सर्वे परमविस्मिताः ॥४१॥
सर्वभूतमयं चेशं तमजं जगतः पतिम् ।
देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः ॥४२॥
तान्स्वस्तिवाक्येनाभ्यर्च्य समुत्थाप्य च शङ्करः ।
ब्रूत ब्रूतेति भगवान्स्मयमानोऽभ्यभाषत ॥४३॥
त्र्यम्बकेणाभ्यनुज्ञातास्ततस्तेऽस्वस्थचेतसः ।
नमो नमस्तेऽस्तु विभो तत इत्यब्रुवन्भवम् ॥४४॥
नमो देवातिदेवाय धन्विने चातिमन्यवे ।
प्रजापतिमखघ्नाय प्रजापतिभिरीड्यसे ॥४५॥
नमः स्तुताय स्तुत्याय स्तूयमानाय मृत्यवे ।
विलोहिताय रुद्राय नीलग्रीवाय शूलिने ॥४६॥
अमोघाय मृगाक्षाय प्रवरायुधयोधिने ।
दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे ॥४७॥
ईशानायाप्रमेयाय नियन्त्रे चर्मवाससे ।
तपोनित्याय पिङ्गाय व्रतिने कृत्तिवाससे ॥४८॥
कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे ।
प्रपन्नार्तिविनाशाय ब्रह्मद्विट्सङ्घघातिने ॥४९॥
वनस्पतीनां पतये नराणां पतये नमः ।
गवां च पतये नित्यं यज्ञानां पतये नमः ॥५०॥
नमोऽस्तु ते ससैन्याय त्र्यम्बकायोग्रतेजसे ।
मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः ॥५१॥
ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य तान् ।
प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः ॥५२॥
पितृदेवर्षिसङ्घेभ्यो वरे दत्ते महात्मना ।
सत्कृत्य शङ्करं प्राह ब्रह्मा लोकहितं वचः ॥५३॥ 8.34.1

तवातिसर्गाद्देवेश प्राजापत्यमिदं पदम् ।
मयाधितिष्ठता दत्तो दानवेभ्यो महान्वरः ॥५४॥
तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति ।
त्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे ॥५५॥
स त्वं देव प्रपन्नानां याचतां च दिवौकसाम् ।
कुरु प्रसादं देवेश दानवाञ्जहि शूलभृत् ॥५६॥
श्रीभगवानुवाच॥
हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः ।
न त्वेकोऽहं वधे तेषां समर्थो वै सुरद्विषाम् ॥५७॥
ते यूयं सहिताः सर्वे मदीयेनास्त्रतेजसा ।
जयध्वं युधि ताञ्शत्रून्सङ्घातो हि महाबलः ॥५८॥
देवा ऊचुः॥
अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव च ।
तेषामिति ह मन्यामो दृष्टतेजोबला हि ते ॥५९॥
भगवानुवाच॥
वध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः ।
मम तेजोबलार्धेन सर्वांस्तान्घ्नत शात्रवान् ॥६०॥
देवा ऊचुः॥
बिभर्तुं तेजसोऽर्धं ते न शक्ष्यामो महेश्वर ।
सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् ॥६१॥
दुर्योधन उवाच॥
ततस्तथेति देवेशस्तैरुक्तो राजसत्तम ।
अर्धमादाय सर्वेभ्यस्तेजसाभ्यधिकोऽभवत् ॥६२॥
स तु देवो बलेनासीत्सर्वेभ्यो बलवत्तरः ।
महादेव इति ख्यातस्तदाप्रभृति शङ्करः ॥६३॥
ततोऽब्रवीन्महादेवो धनुर्बाणधरस्त्वहम् ।
हनिष्यामि रथेनाजौ तान्रिपून्वै दिवौकसः ॥६४॥
ते यूयं मे रथं चैव धनुर्बाणं तथैव च ।
पश्यध्वं यावदद्यैतान्पातयामि महीतले ॥६५॥
देवा ऊचुः॥
मूर्तिसर्वस्वमादाय त्रैलोक्यस्य ततस्ततः ।
रथं ते कल्पयिष्याम देवेश्वर महौजसम् ॥६६॥
तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम् ।
ततो विबुधशार्दूलास्तं रथं समकल्पयन् ॥६७॥
वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम् ।
सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा ॥६८॥
मन्दरं पर्वतं चाक्षं जङ्घास्तस्य महानदीः ।
दिशश्च प्रदिशश्चैव परिवारं रथस्य हि ॥६९॥
अनुकर्षान्ग्रहान्दीप्तान्वरूथं चापि तारकाः ।
धर्मार्थकामसंयुक्तं त्रिवेणुं चापि बन्धुरम् ॥७०॥
ओषधीर्विविधास्तत्र नानापुष्पफलोद्गमाः ॥७०॥
सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे ।
पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे ॥७१॥
दश नागपतीनीषां धृतराष्ट्रमुखान्दृढाम् ।
द्यां युगं युगचर्माणि संवर्तकबलाहकान् ॥७२॥
शम्यां धृतिं च मेधां च स्थितिं संनतिमेव च ।
ग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम् ॥७३॥
सुराम्बुप्रेतवित्तानां पतीँल्लोकेश्वरान्हयान् ।
सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम् ॥७४॥
योक्त्राणि चक्रुर्वाहानां रोहकांश्चापि कण्ठकम् ॥७४॥
कर्म सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः ।
अधिष्ठानं मनस्त्वासीत्परिरथ्यं सरस्वती ॥७५॥
नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः ।
विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयत् ॥७६॥
एवं तस्मिन्महाराज कल्पिते रथसत्तमे ।
देवैर्मनुजशार्दूल द्विषतामभिमर्दने ॥७७॥
स्वान्यायुधानि मुख्यानि न्यदधाच्छङ्करो रथे ।
रथयष्टिं वियत्कृष्टां स्थापयामास गोवृषम् ॥७८॥
ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः ।
परिस्कन्दा रथस्यास्य सर्वतोदिशमुद्यताः ॥७९॥
अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनः ।
ऋग्वेदः सामवेदश्च पुराणं च पुरःसराः ॥८०॥
इतिहासयजुर्वेदौ पृष्ठरक्षौ बभूवतुः ।
दिव्या वाचश्च विद्याश्च परिपार्श्वचराः कृताः ॥८१॥
तोत्त्रादयश्च राजेन्द्र वषट्कारस्तथैव च ।
ओङ्कारश्च मुखे राजन्नतिशोभाकरोऽभवत् ॥८२॥
विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः ।
तस्मान्नॄणां कालरात्रिर्ज्या कृता धनुषोऽजरा ॥८३॥
इषुश्चाप्यभवद्विष्णुर्ज्वलनः सोम एव च ।
अग्नीषोमौ जगत्कृत्स्नं वैष्णवं चोच्यते जगत् ॥८४॥
विष्णुश्चात्मा भगवतो भवस्यामिततेजसः ।
तस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते ॥८५॥
तस्मिञ्शरे तिग्ममन्युर्मुमोचाविषहं प्रभुः ।
भृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम् ॥८६॥
स नीललोहितो धूम्रः कृत्तिवासा भयङ्करः ।
आदित्यायुतसङ्काशस्तेजोज्वालावृतो ज्वलन् ॥८७॥
दुश्च्यावश्च्यावनो जेता हन्ता ब्रह्मद्विषां हरः ।
नित्यं त्राता च हन्ता च धर्माधर्माश्रिताञ्जनान् ॥८८॥
प्रमाथिभिर्घोररूपैर्भीमोदग्रैर्गणैर्वृतः ।
विभाति भगवान्स्थाणुस्तैरेवात्मगुणैर्वृतः ॥८९॥
तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत् ।
जङ्गमाजङ्गमं राजञ्शुशुभेऽद्भुतदर्शनम् ॥९०॥
दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी ।
बाणमादत्त तं दिव्यं सोमविष्ण्वग्निसम्भवम् ॥९१॥
तस्य वाजांस्ततो देवाः कल्पयां चक्रिरे विभोः ।
पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम ॥९२॥
तमास्थाय महादेवस्त्रासयन्दैवतान्यपि ।
आरुरोह तदा यत्तः कम्पयन्निव रोदसी ॥९३॥
स शोभमानो वरदः खड्गी बाणी शरासनी ।
हसन्निवाब्रवीद्देवो सारथिः को भविष्यति ॥९४॥
तमब्रुवन्देवगणा यं भवान्संनियोक्ष्यते ।
स भविष्यति देवेश सारथिस्ते न संशयः ॥९५॥
तानब्रवीत्पुनर्देवो मत्तः श्रेष्ठतरो हि यः ।
तं सारथिं कुरुध्वं मे स्वयं सञ्चिन्त्य माचिरम् ॥९६॥
एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना ।
गत्वा पितामहं देवं प्रसाद्यैवं वचोऽब्रुवन् ॥९७॥
देव त्वयेदं कथितं त्रिदशारिनिबर्हणम् ।
तथा च कृतमस्माभिः प्रसन्नो वृषभध्वजः ॥९८॥
रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः ।
सारथिं तु न जानीमः कः स्यात्तस्मिन्रथोत्तमे ॥९९॥
तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम ।
सफलां तां गिरं देव कर्तुमर्हसि नो विभो ॥१००॥
एवमस्मासु हि पुरा भगवन्नुक्तवानसि ।
हितं कर्तास्मि भवतामिति तत्कर्तुमर्हसि ॥१०१॥
स देव युक्तो रथसत्तमो नो; दुरावरो द्रावणः शात्रवाणाम् ।
पिनाकपाणिर्विहितोऽत्र योद्धा; विभीषयन्दानवानुद्यतोऽसौ ॥१०२॥
तथैव वेदाश्चतुरो हयाग्र्या; धरा सशैला च रथो महात्मन् ।
नक्षत्रवंशोऽनुगतो वरूथे; यस्मिन्योद्धा सारथिनाभिरक्ष्यः ॥१०३॥
तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् ।
तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च ॥१०४॥
कवचानि च शस्त्राणि कार्मुकं च पितामह ॥१०४॥
त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् ।
त्वं हि सर्वैर्गुणैर्युक्तो देवताभ्योऽधिकः प्रभो ॥१०५॥
सारथ्ये तूर्णमारोह संयच्छ परमान्हयान् ॥१०५॥
इति ते शिरसा नत्वा त्रिलोकेशं पितामहम् ।
देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम् ॥१०६॥
ब्रह्मोवाच॥
नात्र किञ्चिन्मृषा वाक्यं यदुक्तं वो दिवौकसः ।
संयच्छामि हयानेष युध्यतो वै कपर्दिनः ॥१०७॥
ततः स भगवान्देवो लोकस्रष्टा पितामहः ।
सारथ्ये कल्पितो देवैरीशानस्य महात्मनः ॥१०८॥
तस्मिन्नारोहति क्षिप्रं स्यन्दनं लोकपूजिते ।
शिरोभिरगमंस्तूर्णं ते हया वातरंहसः ॥१०९॥
महेश्वरे त्वारुहति जानुभ्यामगमन्महीम् ।
अभीशून्हि त्रिलोकेशः सङ्गृह्य प्रपितामहः ।
तानश्वांश्चोदयामास मनोमारुतरंहसः ॥१११॥
ततोऽधिरूढे वरदे प्रयाते चासुरान्प्रति ।
साधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत ॥११२॥
याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितः ।
पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे ॥११३॥
ततस्तांश्चोदयामास वायुवेगसमाञ्जवे ।
येन तत्त्रिपुरं राजन्दैत्यदानवरक्षितम् ॥११४॥
अथाधिज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम् ।
युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् ॥११५॥
तस्मिन्स्थिते तदा राजन्क्रुद्धे विधृतकार्मुके ।
पुराणि तानि कालेन जग्मुरेकत्वतां तदा ॥११६॥
एकीभावं गते चैव त्रिपुरे समुपागते ।
बभूव तुमुलो हर्षो दैवतानां महात्मनाम् ॥११७॥
ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः ।
जयेति वाचो मुमुचुः संस्तुवन्तो मुदान्विताः ॥११८॥
ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान् ।
अनिर्देश्योग्रवपुषो देवस्यासह्यतेजसः ॥११९॥
स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः ।
त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति ॥१२०॥
तत्सासुरगणं दग्ध्वा प्राक्षिपत्पश्चिमार्णवे ॥१२०॥
एवं तत्त्रिपुरं दग्धं दानवाश्चाप्यशेषतः ।
महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा ॥१२१॥
स चात्मक्रोधजो वह्निर्हाहेत्युक्त्वा निवारितः ।
मा कार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीच्च तम् ॥१२२॥
ततः प्रकृतिमापन्ना देवा लोकास्तथर्षयः ।
तुष्टुवुर्वाग्भिरर्थ्याभिः स्थाणुमप्रतिमौजसम् ॥१२३॥
तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम् ।
कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः ॥१२४॥
यथैव भगवान्ब्रह्मा लोकधाता पितामहः ।
संयच्छ त्वं हयानस्य राधेयस्य महात्मनः ॥१२५॥
त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च विशेषतः ।
विशिष्टो राजशार्दूल नास्ति तत्र विचारणा ॥१२६॥
युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ ।
तस्माच्छक्तौ युवां जेतुं मच्छत्रूंस्ताविवासुरान् ॥१२७॥
यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम् ।
प्रमथ्य हन्यात्कौन्तेयं तथा शीघ्रं विधीयताम् ॥१२८॥
त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः ॥१२८॥
इमं चाप्यपरं भूय इतिहासं निबोध मे ।
पितुर्मम सकाशे यं ब्राह्मणः प्राह धर्मवित् ॥१२९॥
श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थसंहितम् ।
कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा ॥१३०॥
भार्गवाणां कुले जातो जमदग्निर्महातपाः ।
तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः ॥१३१॥
स तीव्रं तप आस्थाय प्रसादयितवान्भवम् ।
अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः ॥१३२॥
तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च ।
हृद्गतं चास्य विज्ञाय दर्शयामास शङ्करः ॥१३३॥
ईश्वर उवाच॥
राम तुष्टोऽस्मि भद्रं ते विदितं मे तवेप्सितम् ।
कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि ॥१३४॥
दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसि ।
अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव ॥१३५॥
इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना ।
प्रत्युवाच महात्मानं शिरसावनतः प्रभुम् ॥१३६॥
यदा जानासि देवेश पात्रं मामस्त्रधारणे ।
तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति ॥१३७॥
दुर्योधन उवाच॥
ततः स तपसा चैव दमेन नियमेन च ।
पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः ॥१३८॥
आराधयितवाञ्शर्वं बहून्वर्षगणांस्तदा ।
प्रसन्नश्च महादेवो भार्गवस्य महात्मनः ॥१३९॥
अब्रवीत्तस्य बहुशो गुणान्देव्याः समीपतः ।
भक्तिमानेष सततं मयि रामो दृढव्रतः ॥१४०॥
एवं तस्य गुणान्प्रीतो बहुशोऽकथयत्प्रभुः ।
देवतानां पितॄणां च समक्षमरिसूदनः ॥१४१॥
एतस्मिन्नेव काले तु दैत्या आसन्महाबलाः ।
तैस्तदा दर्पमोहान्धैरबाध्यन्त दिवौकसः ॥१४२॥
ततः सम्भूय विबुधास्तान्हन्तुं कृतनिश्चयाः ।
चक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव ते ॥१४३॥
अभिगम्य ततो देवा महेश्वरमथाब्रुवन् ।
प्रसादयन्तस्तं भक्त्या जहि शत्रुगणानिति ॥१४४॥
प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् ।
रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः ॥१४५॥
रिपून्भार्गव देवानां जहि सर्वान्समागतान् ।
लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च ॥१४६॥
राम उवाच॥
अकृतास्त्रस्य देवेश का शक्तिर्मे महेश्वर ।
निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान् ॥१४७॥
ईश्वर उवाच॥
गच्छ त्वं मदनुध्यानान्निहनिष्यसि दानवान् ।
विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान् ॥१४८॥
दुर्योधन उवाच॥
एतच्छ्रुत्वा च वचनं प्रतिगृह्य च सर्वशः ।
रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति ॥१४९॥
अवधीद्देवशत्रूंस्तान्मददर्पबलान्वितान् ।
वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः ॥१५०॥
स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमः ।
संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समजायत ॥१५१॥
प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै ।
वरान्प्रादाद्ब्रह्मविदे भार्गवाय महात्मने ॥१५२॥
उक्तश्च देवदेवेन प्रीतियुक्तेन शूलिना ।
निपातात्तव शस्त्राणां शरीरे याभवद्रुजा ॥१५३॥
तया ते मानुषं कर्म व्यपोढं भृगुनन्दन ।
गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितम् ॥१५४॥
ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान् ।
लब्ध्वा बहुविधान्रामः प्रणम्य शिरसा शिवम् ॥१५५॥
अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः ।
एवमेतत्पुरावृत्तं तदा कथितवानृषिः ॥१५६॥
भार्गवोऽप्यददात्सर्वं धनुर्वेदं महात्मने ।
कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना ॥१५७॥
वृजिनं हि भवेत्किञ्चिद्यदि कर्णस्य पार्थिव ।
नास्मै ह्यस्त्राणि दिव्यानि प्रादास्यद्भृगुनन्दनः ॥१५८॥
नापि सूतकुले जातं कर्णं मन्ये कथञ्चन ।
देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम् ॥१५९॥
सकुण्डलं सकवचं दीर्घबाहुं महारथम् ।
कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति ॥१६०॥
पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ ।
वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम् ॥१६१॥