मयमतम्/अध्याय १६-२०

विकिस्रोतः तः

अथ षोडशोऽध्यायः[सम्पाद्यताम्]

उत्तरादिवृतेरन्तं प्रस्तारावयवं क्रमात्
संवक्ष्येक्षिप्य सर्वेषां हर्म् याणामथ योग्यकम् 1

उत्तरं त्रिविधं पादविस्तारं तत्समोँमम्
त्रिपादोदयमध्योच्चं विस्तारं पादतः समम् 2

खण्डोत्तरं पत्रबन्धं रूपोत्तरमिति त्रिधा
त्रिपादं वा त्रिभागोनमर्धंवा कर्णनिर्गमम् 3

स्वस्तिकं वर्धमानं च नन्द्यावर्तसमाकृतिः
सर्वतोभद्रवृत्तिर्वाप्रत्युत्तरनिवेशनम् 4

त्रिभागैकं चतुर्भा गं वाजनं निर्गमोँमम्
चतुरश्रं सपर्णा ग्रं तदूध्ध्वेमु ष्टिबन्धनम् 5

तुलाच्छेदेन वा कुर्यात् पृथग्वा वाजनोपरि
स्तम्भार्धविपुलं स्वार्धंतीव्रं पट्टाम्बुजक्रियम् 6

सनालिकमधस्तात् तुवाजनाद् दण्डनिर्गमम्
मूलाग्रयोः शिखोपेता तदूध्ध्वेतुप्रमालिका 7

स्तम्भव्याससमोच्चा वा त्रिचतुर्भा गतीव्रका
कु म्भमण्दियुताग्रा च हस्तिमुण्डक सन्निभा 8

दण्डिकासमनिष्क्रान्ता तदूध्ध्वेदण्डिका भवेत्
स्तम्भार्धविपुला स्वार्धतीव्रा नीव्रार्धनिष्क्रमा 9

मु ष्टिबन्धसमाकारचतुरश्रा यथा तथा
यथेष्टविपुलोत्तुङ्गं तत्तुङ्गसमवेशनम् 10

वलयं स्यात् तदूध्ध्वेतुगोपानं वा तदूध्ध्वतः
मु ष्टिबन्धविशालोच्चा पिट्टकाक्षेपणाम्बुजा 11

छित्त्वार्पिताविशिष्टा तुदण्डिकोपरि पिट्टका
तस्यां छित्त्वा तुतन्मानं गोपानं चार्पयेद् बुधः 12

उत्तरान्तावलम्बं वा यथायु क्ति यथारुचि
वाजनोध्ध्वेतुलोध्ध्वेवा गोपानं योजयेद् बुधः 13

तुलान्तरसमं गोपानान्तरं प्रविधीयते
गोपानदण्डिकोध्ध्वंचेद् वाजनान्तावलम्बनम् 14

दण्डार्धविपुलं स्वार्धंतीव्रं गोपानमूध्ध्वतः
कम्पं समान्तरं कुर्याद् वलयच्छिद्रमन्तरे 15

दण्डिकावाजनान्तस्थं कायपादं यथां शकम्
पादविस्तारमर्धार्धनिष्क्रान्तं साग्रपिट्टकम् 16

पादानामन्तरं छाद्यं घ्नकः सारदारुजैः
अष्टां शबहलं छन्नघ्नकाच्छाद्यमूध्ध्वतः 17

गोपानस्योपरिष्टात्तुच्छादयेल्लोहलोष्टकः
कपोतपालिकोत्सेधनिष्क्रान्तं द्वित्रिदण्डकम् 18

एकहस्तं द्विहस्तं वा क्षुद्रेमहति मन्दिरे
यथाशोभं यथाचित्रं कपोतेकर्णपालिका 19

तथा मध्यस्थिता वाऽपि सौधेलेसमाहिता
विधेया वाजनस्योध्ध्वेभूतहं सादिकावलिः 20

दण्डोच्चा वा त्रिपादोच्चा वाजनं पूर्ववद् भवेत्
कपोतालम्बनं तत् स्याद् दण्डार्धंवाऽथ दण्डकम् 21

अध्यर्धा दित्रिदण्डान्तं कपोतोच्चविनिर्गतम्
वसन्तकं वा निद्रा वा विधेया वाजनोपरि 22

त्रिपादोच्चा तदूध्ध्वंस्यात् कपोतोच्चं तुपूर्ववत्
एवं स्याद् दृढकल्प्यं तच्छिलयेष्टकमात्रकः 23

यथाप्रयोगं स्थैर्यंतुतथा योज्यं विचक्षणैः
कपोतोच्चत्रिभागं वा पादं वा क्षुद्रनिष्कृतिः 24

कपोतेनासिका क्षुद्रेनीव्रोध्ध्वेस्थितकर्णिका
सपाददण्डा वाध्यर्धंद्विदण्डं विस्तृता स्थिता 25

सिं हश्रोत्रशिखालिङ्गं पिट्टकान्तस्य पिट्टका
विधेया स्वस्तिकाकृत्या नासिकोध्ध्वेतुनासिका 26

कु क्षिमानं शिखामानं यथाशोभनमेववा
प्रतिवाजनकस्योध्ध्वेनेष्यतेनासिकोच्छ्रयम् 27

आलिङ्गं पादपादोच्चं पादात् पादविनिर्गतम्
तस्मादन्तरितं चोध्ध्वेनिष्क्रान्तावेशनक्रियम् 28

त्रिपट्टाग्रं हि पादोच्चं पादेपादान्तरेस्थितम्
दण्डं त्रिपादमर्धंवा प्रत्यु त्सेधं तदूध्ध्वतः 29

स्वोच्चत्रिपादनिष्क्रान्ता प्रतिरर्धेन वा तथा
दन् डः सपादः सार्धो वा प्रतिवक्त्रं विनिर्गमः 30

तावदूध्ध्वोँतिस्तस्याः प्रागु क्तविधिना कुरु
सव्याला वा ससिं हेभा अज्वी वा स्यात् प्रतेः कृतिः 31

तदुच्चत्रिचतुर्भा गं वाजनं निर्गमोँमम्
समकरं चित्रखण्डं नागवक्त्रमिति त्रिधा 32

नागवक्त्रं नागफणं स्वस्त्याकृतिशिरःक्रियम्
तै तिलानां द्विजातीनां भवेत् समकरा प्रतिः 33

चतुरश्रं तुखण्डाग्रं मकरं चित्रखण्डकम्
नृपाणां वणिजां शूद्रजन्मनामर्धचन्द्रकम् 34

हस्तिरूपं भवेन्मुण्डं प्रत्यग्रं चित्रसन्निभम्
ककरं ककटं बन्धमन्यदप्येवमूह्यताम् 35

वाजनोध्ध्वेवलीकोध्ध्वेतुलां सम्यङि् नवेशयेत्
दण्डोच्चं वा त्रिपादोच्चमर्धतारसमन्वितम् 36

त्रिचतुष्पञ्चदण्डे न दीर्घंतत् साग्रनालिकम्
सव्यालाग्रं सम्भृताग्रं पाश्श्वाङ्गस्थतरङ्गवत् 37

वलीकं स्याद् वलीक्कोध्ध्वेकर्तव्या वर्णपिट्टका
दण्डार्धार्धविशालोच्चा निश्छिद्रं स्यात् तदन्तरे 38

घ्नकश्च तदूध्ध्वेतुदण्डोत्सेधा तुला स्थिरा
त्रिपादविस्तृता न्यस्ता प्रवेशानु गता शुभा 39

तुलाविस्तारतारोच्चा जयन्ती स्यात् तुलोपरि
अर्धदण्डे न तत्रोच्चा जयन्त्यूध्ध्वेऽनुमार्गकम् 40

तदूध्ध्वेघ्नका पादपादषड् भागतीव्रकाः
इष्टकाचूर्णसङ्घातप्रस्तरस्तम्भविस्तरम् 41

करालमुँगिु ल्मासकल्कचिक्कणकर्मवान्
उत्तरं वाजनं चै व तत्पाश्श्वानु गतं भवेत् 42

तुला द्वारानुयाता हि जयन्ती तिर्यगागता
अनुमार्गंतदूध्ध्वेतुद्वारस्यानु गतं शुभम् 43

द्वारतिर्यग्गता वाऽथ तुला देवनृपेशयोः
त्रिदण्डं वा द्विदण्डं वा स्याद् वलीकतुलान्तरम् 44

द्विदण्डं सार्धमध्यर्धंजयन्त्यन्तरमिष्यते
दण्डान्तरमनुमार्गंनिश्छिद्रं स्यात् तदूध्ध्वतः 45

अथ चित्रविचित्राङ्गा विधेया प्रस्तरक्रिया
क्षुद्राणां तुतुलादीनि यथा स्थैर्यंतथाचरेत् 46

विरूपं वा सरूपं वा सर्वमङ्गं प्रयोजयेत्
तुलाद्रव्योपरिष्टात् तुघ्नकाच्छादनं तुवा 47

इष्टका वा पिधातव्या शेषं पूर्ववदाचरेत्
पङ्क्त्यष्टभागविकलं हि मसूरकोच्चा-न्मञ्चोन्नतं मतमथो तलिपार्धकं वा
यावद् बलं विपुलसुन्दरतां समेति
तावद् विधेयमधुना विधिना विधिज्ञैः 48

मधुघृतदधिदुग्धं माषयूषं च चर्मकदलिघ्नगुलं च त्रै घ्नं
नालिके रम्
क्रमवशमनुभागै र्वर्धिह् तं लब्धचूर्णंशतमथ कृतमस्य द्वै गुणं शकरास्तु 49

हस्तस्तम्भतुलादिकान् नरगृहेयु ञ्ज्यादयु ग्मं यथा
यु ग्मायु ग्मकसं ख्यया सुरगृहेयुञ्जीत हस्तादिकान्
मध्येद्वारमनिन्दितं सुरमहीदेवक्षितीशालये
शेषाणामुपमध्यमेव विहितं तत् सम्पदामास्पदम् 50

प्रतेरुपरि वेदिः स्यात् सार्धद्वित्र्यङि् घ्रणोदयम् 51

द्वौ षट् चत्वारि कम्पानि पादपादघनानि च
पद्मशैवलपत्रादिचित्राङ्गा वेदिका मताः 52

कम्पाधस्तात् प्रयोज्या हि स्तम्भास्तत्रै वयु क्तितः
ऊध्ध्वाधः कम्पवत् पद्मपिट्टकं चाग्रबन्धनम् 53

वेदिकोपरि योज्यानि जालकानि विचक्षणैः
त्यक्त्वा भित्त्यङि् घ्रमध्यं तुचतुर्दण्डान्तविस्तृतम् 54

द्विदण्डादिनिजव्यासद्विगुणं तुङ्गमीरितम्
सार्धमङि् घ्रयूयनकं वोच्चं त्यक्त्वा मध्याङि् घ्ररन्ध्रकम् 55

यु ग्मायु ग्माङि् घ्रभिः कम्पैर्युक्तं तुङ्गे च वै पुले
गवाक्षं कुञ्जराक्षं च नन्द्यावर्तमृजु क्रियम् 56

पुष्पखण्डं सकर्णंच योजितव्यं यथोचितम्
दीर्घाश्रं कर्णकच्छिद्रं तद् गवाक्षमिति स्मृतम् 57

युग्माश्रं कर्णकच्छिद्रं कुञ्जराक्षमिति स्मृतम्
पञ्चसूत्रमयच्छिद्रं प्रदक्षिणवशात् कृतम् 58

नन्द्यावर्ताकृतिवशान्नन्द्यावर्तमिति स्मृतम्
स्तम्भतिर्यग्गतं कम्पमृजु त्वात् तदृजु क्रियम् 59

पुष्पखण्डं सकर्णंच नन्द्यावर्तंयथोच्यते
भित्तिमध्याद् बहिस्तस्य स्तम्भयोगं कवाटयुक् 60

कवाटयु गलं वै कं घाटनो द्धाटन क्षमम्
पादवर्गेभवेद् ग्रीवावर्गेवातायन्स्थितिः 61

गुलिकाजालकं धामविन्यासाकृतिरन्ध्रकम्
स्वस्तिकं वर्धमानं च सर्वतोभद्रसन्निभम् 62

द्रुमोपलेष्टकाद्रव्यैर्युक्त्या युञ्जीत बु द्धिमान्
जालकं फालकं कु ड्यष्टकं च त्रिधा मतम् 63

जालकं जालकर्युक्तमिष्टकामयष्टकम्
फालकं घ्नकोपेतं भित्तिमध्येऽङि् घ्रसं युतम् 64

भित्तिबन्धनमूध्ध्वाधःपद्मसङ्घट्टपिट्टकम्
पादपादषडष्टां शबहला घ्नका भवेत् 65

शिबिकाकु ड्यवद् वाऽथ सर्वत्र घ्नकामयम्
एतत् तुघ्नकाकु ड्यं यत् तुयत्र यथोचितम् 66

तदेव तत्र योज्यं स्याद् वस्तु विद्याविचक्षणैः 67

एवं प्रोक्तं प्रस्तरं वेदिताङ्गं
यु क्त्या तज्ज्ञैर्जालकं च त्रिकु ड्यम्
नैवच्छेद्या वेदिका जालकार्थं
न प्रत्यङ्गं सर्वतश्छे दनीयम् 68

इति मयमतेवस्तुशास्त्रेप्रस्तरकरणं नाम षोडशोऽध्यायः

अथ सप्तदशोऽध्यायः[सम्पाद्यताम्]

पाश्श्वगस्थितशयितद्रव्याणां सन्धिरुच्यते
एकस्मिन् वस्तु नि द्रव्यैर्बहुभिश्च निघट्टनात् 1

दुर्बलत्वाद् द्रुमाग्राणामबलेबलवर्धनात्
सन्धिकर्मप्रशस्तं स्यात् सजातीयै र्वरद्रुमैः 2

मल्ललीलं तथा ब्रह्मराजं वै वेणुपर्वकम्
पूकपर्वंदेवसन्धिर्दण्डिका षडि् वधाः स्मृता 3

चतु र्दिक्षुबहिः स्थित्वा निरीच्य स्थपतिर्गृहम्
दक्षिणादक्षिणेदीर्घादीर्घा भ्यां सन्धयेत् क्रमात् 4

मध्येच दक्षिणेचै व यः सन्धिं कर्तु मीहते
मध्येऽतिदीर्घंयुञ्जीयाद् दीर्घमल्पं च पूर्ववत् 5

वामेऽवामेसमद्रव्यं मध्येदीर्घमथापि वा
मध्यद्रव्यं विना वामेऽवामेद्रव्यं समं तथा 6

एतत्सन्धिं बहिः कुर्यात् तथै वाभ्यन्तरेविदुः
स्थपतिहृ दयस्थानेस्थित्या प्रेक्ष्य चतु र्दिशि 7

दीर्घमल्पं समद्रव्यं पूर्ववत् परिकल्पयेत्
आधाराधेयनीत्यै व द्रव्यसन्धानमूह्यताम् 8

मूलेमूलं न युञ्जीयादग्रेचाग्रं तथै वच
मूलाग्रद्रव्ययोगेन सन्धिकर्मसुखप्रदम् 9

मूलं हि शयितं चाधश्चाग्रमूध्ध्वेतुयोजयेत्
द्विद्रव्यमेकसन्धि स्यान्मल्ललीलमिति स्मृतम् 10

त्रिद्रव्यैस्तुद्विसन्धि स्याद् ब्रह्मराजमितीरितम्
चतु र्भिः पञ्चभिद्द्रव्यै स्त्रिचतुः सन्धयः क्रमात् 11

वेणुपर्वमिति प्रोक्तं तैतलानां नृणां गृहे
षडि् भस्तुसप्तभिद्द्रव्यैः सन्धयः पञ्च षट् क्रमात् 12

पूकपर्वेति तत् प्रोक्तं धनधान्यकरं स्मृतम्
अष्टभिर्नवभिद्द्रव्यैः सन्धयः सप्त वाऽष्टधा 13

देवसन्धिरिति प्रोक्तः सर्ववासेषुयोग्यतः
बहुसन्धिर्बहुद्रव्यैर्दीर्घमल्पं च पूर्ववत् 14

दण्डिकेति समाख्याता धनधान्यसुखप्रदा
दक्षिणापरभागेतुद्रव्यमूलं प्रशस्यते 15

अग्रमग्रं तथैशान्येतेषां बन्धनमु च्यते
आधारं प्रथमं प्राच्यां मूलाग्रच्छेदनान्वितम् 16

दक्षिणोत्तरयोरग्रं तस्योपरि निधापयेत्
दक्षिणोत्तरयोर्मू लमूध्ध्वच्छेदनसं युतम् 17

पश्चिमस्थमधश्छे द्यं क्षेप्यमाधेययोगतः
एतत् तुसर्वतोभद्रमवागादि तथा विदुः 18

नन्द्यावर्तविधानेन नन्द्यावर्तंप्रकल्पयेत्
दक्षिणोत्तरगं दीर्घंदक्षिणेतुसकर्णकम् 19

प्राक्प्रत्यग्गतमायामं पश्चिमेतुसकर्णकम्
दक्षिणोत्तरगं दीर्घमुत्तरेतुसकर्णकम् 20

पूर्वपश्चिमगं दीर्घंपूर्वायां तुसकर्णकम्
आधाराधेयनीत्यै व पूर्वादीनि च विन्यसेत् 21

नन्द्यावर्तमिदं तद्वदवागादीनि च क्रमात्
पक्षयोर्बहुभिद्द्रव्यैर्दीर्घंप्रागुदगग्रकम् 22

सशिखैश्च बहुद्रव्यैद्द्वा भ्यां वा तिर्यगग्रकम्
स्वस्त्याकृतिसमायु क्तं स्वस्तिबन्धनमिष्यते 23

परितो बहुभिद्द्रव्यैर्युक्तं तद्वत् तदन्तरे
मध्येऽङ्कणसमायु क्तं बाह्येयु क्त्या सभद्रकम् 24

पूर्वद्रव्यं परद्रव्यं भद्रकं दक्षिणोत्तरम्
शालानां भित्तिमाश्रित्य युक्त्या साधुसमाचरेत् 25

एवं यु ञ्ज्यादिदं बन्धं वर्धमानमितीरितम्
अधोभूमिक्रियायु क्त्या स्यादूध्ध्वोध्ध्वतलं प्रति 26

विपरीतं विपत्त्यैस्यादिति शास्त्रविनिश्चयः
दीर्घादीर्घेषुसं योगद्रव्यसन्धानतर्पणम् 27

यथाबलं यथायोगं तथा योज्यं विचक्षणैः
एवं विधिविशिष्टं स्यात् सम्पत्त्यैद्रव्यबन्धनम् 28

मेषयुद्धं त्रिखण्डं च सौभद्रं चार्धपाणिकम्
महावृत्तं च पञ्चैतेस्तम्भानां सन्धयः स्मृताः 29

षटि् शखा झषदन्तं च सूकरघ्राणमेवच
सङ्कीर्णकीलं वज्राभं पञ्चै वशयितेष्वपि 30

स्वव्यासकर्णमध्यर्धद्विगुणं वा तदायतम्
त्र्यं शै कं मध्यमशिखं मेषयुद्धं प्रकीर्तितम् 31

स्वस्त्याकारं त्रिखण्डं स्यात् सत्रिचूलि त्रिखण्डकम्
पाश्श्वेचतुःशिखोपेतं सौभद्रमिति संज्ञितम् 32

अर्धंछित्त्वा तुमूलेऽग्रेचान्योन्याभिनिवेशनात्
अर्धपाणिरिति प्रोक्तो गृहीतघनमानतः 33

अर्धवृत्तशिखं मध्येतन्महावृत्तमु च्यते
वृत्ताकृतिषुपादेषुप्रयुञ्जीत विचक्षणः 34

स्तम्भानां स्तम्भदै घ्घ्यार्धादधः सन्धानमाचरेत्
स्तम्भमध्योध्ध्वसन्धिश्चेद् विपदामास्पदं सदा 35

कु म्भमण्ड्यादिसं युक्तं सन्धानं सम्पदां पदम्
सालङ्कारेशिलास्तम्भेयथा योगं तथाचरेत् 36

स्थितस्य पादपस्याङ्गप्रवृत्तिवशतो विदुः
ऊध्ध्वमूलमधश्चाग्रं सर्वसम्पद्विनाशनम् 37

अर्धपाणिद्विललाटेलाङ्गलाकारषटि् शखा
घनमध्यस्थकीला या सा मता षटि् शखाह्वया 38

स्वायामतिर्यग्बाहुस्थशिखं तुझषदन्तकम्
ऊध्ध्वाधस्ताद् यथायोग्यं यथाबलशिखान्वितम् 39

सूकरघ्राणमित्यु क्तं सूकरघ्राणसन्निभम्
यथाबलं यथायु क्ति नानाबलशिखान्वितम् 40

नानाकीलैस्तुसङ्कीर्णंस्यात् तुसङ्कीर्णकीलकम्
वज्राकृतिशिखं नाम्ना वज्रसन्निभमेवतत् 41

एतस्मिन् पङ्क्तिसन्धानेसन्धिरेकाकृतिर्भवेत्
उपर्यु परि चै वं स्याद् विपरीतेविपत्करम् 42

अन्तर्मू लं बहिश्चाग्रं पाश्श्वद्रव्येषुयोजयेत्
अन्तरग्रं बहिर्मू लं स्वामिनश्च विनाशनम् 43

शिखा दन्तं च शूलं च विद्धं पर्यायमीरितम्
शल्यं च शङ्कुरणिश्च कीलं पर्यायमु च्यते 44

अष्टसप्तकषडंशकेऽङि् घ्रके भागतारमथ शूलकीलयोः
कीलपाश्श्वमथ पादमध्यमं योजयेत् सममुदग्रबु द्धिमान् 45

स्तम्भान्तं दन्तान्तकं चेद् विनाशं दन्तान्तं चेत् स्तम्भमध्यं तदेव
स्तम्भान्तं चेत् सन्धिमध्यं सरोगं सन्धेर्मध्यं पादमध्यं क्षयं स्यात् 46

दिग्विदिग्द्वारदेवां शं सर्वंत्यक्त्वा प्रयोजयेत्
अर्का कि वरुणेन्दूनां स्थानं दिगिति कीर्तितम् 47

अग्निराक्षसवाय्वीशस्थानं विदिगिति स्मृतम्
गृहक्षतश्च पुष्पाख्यो भल्लाटश्च महेन्द्रकः 48

एतेषामं शकद्वारं तत्र सन्धिं न सन्धयेत्
शल्यं च दन्तं त्यक्त व पूर्वोक्तानां च सम्मतम् 49

मध्यार्धमध्यमध्यं च त्यक्त्वा युञ्जीत बु द्धिमान्
द्रव्यमध्यस्थसूत्रस्य वामेऽवामेतुदन्तकम् 50

द्रव्यविस्तारमध्यस्था शिखा शीघ्रविनाशिनी
अन्योन्यसन्धिविद्धं च शिखा कीलस्य वेधनम् 51

धर्मार्थकामसौख्यानां विपत्तिं नित्यमादिशेत्
वामदक्षिणयोगेन प्रतिसन्धि परित्यजेत् 52

तारतीव्रान्तरस्थं यत् कल्प्यशल्यमिति स्मृतम्
पूर्ववद् विधिना सन्ध्यायाममध्येतुयोजयेत् 53

अज्ञानात् त्वरयानु क्तस्थानेवा योजयेद् यदि
सर्वेषामपि वर्णानां सर्वसम्पत्क्षयो भवेत् 54

पुराणैर्ननवद्रव्यैर्नपुराणैर्नवै रपि
नवै र्नवानां द्रव्याणां योगो जीर्णै श्च जीर्णिनाम् 55

यु क्त्यै व द्रव्यसन्धानं सम्पदामास्पदं सदा
विपरीतेविनाशाय भवेदेवेति निश्चयः 56

ऊध्ध्वद्रव्याणि सर्वा णि वाजनादीनि यान्यपि
सशिखान्यशिखान्येतान्यु क्त्या योज्यानि पूर्ववत् 57

पादोपरि भवेत् सन्धिरन्तरेनै व कारयेत्
ब्रह्मस्थलोध्ध्वगद्रव्यसन्धानं विपदां पदम् 58

ब्रह्मस्थानस्थितः स्तम्भः स्वामिनश्च विनाशनम्
तुलादीन्युपरिद्रव्याण्यत्र दोषो न विद्यते 59

पुंस्त्रीनपुं सकमहीरुहसन्धिकार्येपुं सा च पुंविहितमेवतथै वपुंस्त्री
नै वोभयेन च नपुं सकसङ्गमः स्याज्जात्यैकया शुभद उक्तविधिक्रमं वा 60

एवं युक्त्या द्रव्यसन्धानयोगं प्रोक्तं नॄ णां तै तिलानां निवासे
यु क्त्या युक्तं सम्पदामास्पद तद्यु क्त्यायु क्तं सर्वसम्पत्क्षयं स्यात् 61

छिद्रं स्वल्पतरं विधेयमधुना दीर्घा न्वितच्छेदनं
स्थूलं काष्ठशिलेभदन्तमु दितं निम्नं हि पक्वेष्टकम्
पक्वं निर्गमनं सुधाभिरनिशं कुर्यात् तनु त्वं यथा
पूर्वंमानसमुन्नयेत् तदपरं शिल्प्युत्तमः शातधीः 62

इति मयमतेवस्तुशास्त्रेसन्धिकर्मविधानो नाम सप्तदशोऽध्यायः

अथाष्टादशोऽध्यायः[सम्पाद्यताम्]

गलभूषणमेतेषां शिरश्छन्दमथाधुना
लुपामानं च वक्ष्येऽहं स्थूपिकालक्षणं क्रमात् 1

वेदिकाद्विगुणोत्सेधं कन्धरं शिखरोदयम्
तदि् द्वत्रिगुणतुङ्गं वा वेदिकोच्चं तुवा गलम् 2

गर्भभित्तित्रिभागैकमङ् घ्रेर्वेद्यङि् घ्रवेशनम्
ग्रीवावेशं ततस्तावदेवं दै वेच मानवे 3

पञ्चां शेभित्तिविष्कम्भेभागो वेद्यङि् घ्रवेशनम्
ग्रीवावेशं ततस्तावच्चतुरं शेतथै वच 4

एवं त्रिविधनीत्या तुग्रीवा साध्या प्रयत्नतः
उत्तरं वाजनं चै वमु ष्टिबन्धं मृणालिका 5

दण्डिकावलयं चै व गलभूषणमिष्यते
मु ष्टिबन्धोपरि क्षिप्तव्यालनाटकमूध्ध्वतः 6

दण्डिका च विधातव्या तदूध्ध्वेशिखरक्रिया
शिखरोत्सेधमात्तोच्चा भागमानवशेन वा 7

दण्डिकावधिविस्तारं पञ्चां शं द्व्यं शमानकम्
सप्तनन्दशिवां शेतुत्रयोदशतिथौ तथा 8

सप्तदशां शके बन्धवेदभूतषडंशकम्
सप्ताष्टां शं तुतारार्धमित्यष्टौ शिखरोदयाः 9

पाञ्चालं चापि वै देहं मागधं चापि कौरवम्
कौसलं शौरसेनं च गान्धारावन्तिकं तथा 10

यथाक्रमेण नामानि ज्ञातव्यानि विचक्षणैः
जघनाद् बहिरेवै तेएकाः सर्वेसमाहिताः 11

सर्वेतेतैतलानां स्युरर्धादधस्तुमानुषम्
तद्दशाद्यासप्तदशभागादेकां शवर्धनात् 12

आवन्तिका प्रभृत्यूध्ध्वमष्टाविष्टलुपोदयाः
व्यामिश्रं च कलिङ्गं च तथा कौशिकमेवच 13

वराटं द्राविडं चै वबर्बरं कोल्लकं पुनः
तथा शौण्डिकमित्येतेव्यामिश्रादिलुपोदयाः 14

देवानां प्रथितान्येव पाषण्ड्याश्रमिणामपि
चतुरश्रं च वृत्तं च षडश्राष्टाश्रमेवच 15

द्वादशाश्रं द्विरष्टाश्रं पद्मकु ङ्मलसन्निभम्
तथामलकपक्वाभं दीर्घवृत्तं च गोलकम् 16

अष्टाश्राद्यष्टधाराणि हर्म् यादीनां शिरांसि हि
षडाद्याषष्टिकर्णंच सम्मतं शिखराकृतिः 17

तदु च्छ्रयचतुष्पञ्चभागं स्यात् पद्मतुङ्गकम्
तत्समोच्चत्रिभागा वा तदूध्ध्वेस्थूपिकायतिः 18

अल्पीयसी शिरोर्धावा भागोच्चा वा त्रिभागिके
सङ्क्षेपात् स्थूपिकाभूषा ह्युपरिष्टात् प्रकाश्यते 19

पञ्चाद्येकादशान्ताश्च चतुराद्या दशान्तकाः
चतु र्विधा लुपासं ख्या देवेऽदेवेनिके तने 20

पूर्वोक्तं ह्यन्तरोच्चं तुव्यामिश्रं नाम पुष्करम्
ऊध्ध्वस्थान्यप्यधस्थानि पुष्कराण्यर्धमानतः 21

अर्धमारभ्य संवत्त्यपश्चादु क्तोच्चसीमयुक्
आरोह्याण्यवरोह्याणि गुह्यमेतदुदाहृतम् 22

दण्डिकावधि तारार्धंचतुरश्रीकृतं समम्
कोष्णीषासन सीमाख्यसूत्रयु क्तं खलं नयेत् 23

दण्डिकोत्तरबाहुल्यं सूत्रयेदासनादधः
आसनेचतुरं शाद्यादशां शं बिन्दुविन्यसेत् 24

कोष्णीषसन्धेस्तब्दिन्दुसीमच्छायोच्चमावहेत्
छायोच्चायतमानानि कमूलादासनेन्यसेत् 25

तान्येव दण्डिकादीनां पर्यन्तानि भवन्ति हि
कोष्णीषसङ्गात् पर्यन्तबिन्द्वन्तं तल्लुपायतम् 26

तत्तत्पर्यन्तविस्तारं कसूत्रेविन्यसेत् पुनः
स्वस्वकर्णगतच्छायामानैः सर्वान् विमानयेत् 27

तत्तत्पर्यन्तसूत्राणि मल्लपर्यन्तसूत्रवत्
एवं मध्य लुपा सीम्नो वर्धन्तेवर्णसं ख्यया 28

एवमावत्त्यतत्पश्चादारोह्यै वावरोह्य च
तत्तत्पुष्करसञ्जातं तत्तन्मल्लायतं विदुः 29

समध्यं च विमध्यं च लुपाकलनमेवहि
मध्यं च मध्यकर्णंचाप्याकर्णमनुकोटिकम् 30

कोटिरित्येवमु च्यन्तेपञ्च वर्णलुपाः क्रमात्
यु ग्मां शेऽयु ग्मसं ख्याभिरयु ग्मेयु ग्मसं ख्यया 31

कान्तान्तरासिकोष्णीषसीमान्तं स्वां शसं ख्यया
चूलिका भ्रमणीया हि समयासमया च सा 32

तत्तत्सूत्रात् स्थिता दन्तस्तनसूत्राणि सूत्रयेत्
शयितसूत्रादधः पृष्ठवं शसूत्राणि सूत्रयेत् 33

शयितस्थितसूत्रान्तः कीलं तत्कत्न टमूर्धनि
निधायार्धेन्दु वत् सर्वाश्चूलिका विलिखेत् समाः 34

लुपाविलुपमध्यान्तर्गता सा चूलिकाकृतिः
एवं स्याद् अजुकार्यंहि तथा कु क्कुटपक्षवत् 35

बालकत्न टस्य विस्तारस्थितसूत्रस्तनान्तरे
कत्न टमध्यमसूत्रं तुवलयच्छिद्रमध्यगम् 36

पर्यन्तसूत्रकादन्तर्दण्डिकोत्तरजा ततिः
तदन्तर्जानुकव्यासस्तदन्तश्चूलिकास्थितिः 37

लुपातारं तुदण्डं वा सपादं सार्धमेववा
विस्तारत्रिचतुष्पञ्चभागै क्कां शं तुतद्धनम् 38

जानु व्यासं चोत्तरार्धचूलिकार्धार्धमेववा
दण्डिकाविपुलं तावत् त्रिपादार्धंतुतद्धनम् 39

वलयं जानुनीव्रं च दण्डिकाविपुलार्धतः
मल्लमध्यादि चामीली जानुकालम्बनं च यत् 40

पर्यन्तजानुकान्तं च चूलिकाभाग एव सः
शयनात् तावदेव स्यान्नीव्रालम्बनसूत्रकम् 41

कु ठारिकाललाटं च जघनं च समं मतम्
पादविष्कम्भकर्णो वा विष्कम्भद्विगुणोऽथ वा 42

कत्न टव्यासो लुपापिण्डी कर्णस्तदि् द्वगुणायतः
तदर्धंनालिकालम्बमूध्ध्वेमल्लाग्रसङ्गतिः 43

छिद्रं तत्तीव्रमात्रं स्यान्मल्लानां तुप्रवेशनम्
जानुकं च लुपामध्यं मध्यपृष्ठस्थवं शकम् 44

समं स्यात् तीव्रताराभ्यां चूल्यं शो वा लुपान्तरम्
लुपातीव्राष्टगुणं वा वलयो वं शविस्तरः 45

तदर्धंवेशनं तीव्रं घ्नकर्लो हलोष्टकः
मृण्मयै स्तुयथास्थैर्यमिच्छया छादयेत् पुनः 46

लुपोध्ध्वेघ्नकान् न्यस्य वाष्टबन्धमधोध्ध्वतः
लुपामध्यादधश्छिद्रं वलयस्य विधीयते 47

क्रियायां परलेखास्तुकल्प्याः षोडशसं ख्यया
कु क्षिव्यासाष्टभागैकं मात्रामानमिति स्मृतम् 48

तेन भागेन सप्तार्धाद् द्व्यर्धभागविवर्धनात्
आपञ्चदशसं ख्यान्ताः परलेखास्तुषोडश 49

लुपाध ऊध्ध्वबिन्द्वादि मध्येविन्यस्य तद्विधिम्
तब्दिन्द्वादि विलोक्या हि परलेखा विचक्षणैः 50

प्रासादानामिमाः प्रोक्ता गृहादीनां च षोडश
लुपायामाद्याद्विगुणं तन्मानं तेन बु द्धिमान् 51

कोष्णीषासन सूत्राभ्यामधः शफरमालिखेत्
तस्मादुपरि मल्लस्य लेखयेत् तद्विचक्षणः 52

मल्लायतादधोभागेत्रिः पञ्चां शीकृतेः क्रमात्
तत्तदं शावसानं तुमत्स्यं तत्तत् समु ल्लिखेत् 53

सर्वासां परलेखानां क्रमोऽयं परिकीर्तितः
पाञ्चालादिलुपानां च प्रत्येकं प्रोच्यतेबुधैः 54

अजाकार्ययुता मल्लाद् या लेखासनकाग्रयोः
मध्येपरं हि सा प्राज्ञैः परलेखा प्रकीर्तिता 55

लुपाबाहुल्यमानेन घटिकां चतुरश्रिकाम्
वितस्त्यायामिनीमृज्वीं कृतमध्यमसूत्रिताम् 56

चूलिकान्तर्वर्णलुपातिर्यक् सूत्रस्वमध्यमात्
विन्यस्य घटिकां पश्चाच्छिन्नां शमनसूत्रवत् 57

प्रतिवर्णंतुघटिकां तद्वर्णेतां निधापयेत्
क्षिप्तसूत्रस्य शेषां शच्छिन्नेवर्णलुपोदरे 58

दण्डिकोत्तरवलयस्थितसूत्रसमं लिखेत्
उदरायाममध्येतुलिखितेककरं भवेत् 59

हटिकाललाटमध्यं ककरं च समं यथा
तथा निधाय घटिकां लुपोदरवशायताम् 60

तल्ललाटकृतिच्छेद्या वलयाद्या लुपोदरे
इष्टपाश्श्वेक्षिपेच्छायां छिद्रैश्च वलयस्य तु 61

तत्त द्धटिकया तत्तन्मध्यसंहितमध्यया
या ललाटगतच्छाया तासां तासां तुसा भवेत् 62

दण्डिकावलयच्छिद्रस्तनजानूत्तरादिषु
शिरोमध्येऽर्धमध्येच न्यसेन्पुण्डतुलोपरि 63

विटभागशिखोपेततुलापादः सवं शहृत्
सवर्णामत्स्यबन्धाश्च खजू रपत्रसन्निभाः 64

सवलयक्षो विधातव्या लुपाः शिखरकान्तरे
लुपोध्ध्वेघ्नकं वोध्ध्वेतस्याः कम्पं निधाय च 65

इष्टकासुधया वाऽपि प्रच्छादनमलङि् क्रयात्
स्थूपिकाकीलेदीर्घंच पादोत्सेधसमं मतम् 66

अर्धार्धमग्रविस्तारं दण्डार्धंमूलविस्तृतम्
आशङ्कुमूलमुण्डान्तं तस्य मूलस्य वेधनम् 67

वं शाधस्तान्निधातव्या मण्डनागाग्रपिट्टका
बालकत्न टस्तनं शङ्कुमूलमुण्डकमेवच 68

अन्तः स्थवलयं वर्णपिट्टका च सनालिका
मत्स्यबन्धनखजू रपत्रमल्लनिबन्धनात् 69

वलक्षस्वस्तिधाराभिः शिखरान्तरलङि् क्रयात्
विस्तारो मुखपट्ट्याश्च दण्ड्यो वाध्यर्धएव वा 70

नीप्रं षडष्टभागं वा कर्णिकोच्चं तुतत्ततिः
शक्तिध्वजस्य मूलस्य विपुलं दण्डमानतः 71

तत्कण्ठं तावदेवोच्चं सपादं सार्धमेववा
ग्रीवान्तगग्रपत्रं तुस्तम्भव्यासार्धतुङ्गवत् 72

द्विदण्डादित्रिदण्डान्तमन्तरं गग्रपत्रयोः
वाताहतचलच्चारुलतावत् कर्णिकाक्रिया 73

अर्धकर्णमधस्तस्माच्छिरोऽर्धार्धेन चानतिः
ग्रीवोपरि कपोलान्तं त्रिदण्डं सार्धमेव वा 74

तावच्छक्तिध्वजान्तं स्यात् सपत्रं वा सशूलकम्
नेत्रसंश्लिष्टमल्लं तुचूलिकास्तनमण्डलम् 75

शयितस्थितपट्टाभ्यां मृणाल्यादिविभूषितम्
अर्धकर्णोध्ध्वपट्टोध्ध्वप्रत्यूध्ध्वेमु ष्टिबन्धनम् 76

यथोशोभननिष्क्रान्तं त्रिमुखं स्यात् तदूध्ध्वतः
शूलाभं मतलाभं वा सव्यालं वा सनाटकम् 77

तदूध्ध्वेकत्न टकोष्ठादिमण्डितं स्याद् विमानवत्
सपट्टक्षुद्रकम्पाङ्गं मध्यतोरणमेव वा 78

तोरणाभ्यन्तरेलक्ष्मीः साभिषेकाम्बुजासिका
एवंविधैरथान्यैश्च मण्डनीया ललाटिका 79

ललाटवं शसंविद्धमध्यशूलदृढिकृता
स्तम्बविस्तारविस्तीर्णाविधातव्या कु ठारिका 80

तत्कर्णंपत्रमकरं मण्डितं चावलम्बितम्
अर्धकर्णेन चार्धंवा यथायु क्ति यथारुचि 81

अन्तर्गतलुपातिर्यगग्रबन्धनविष्टकम्
तदूध्ध्वेतेन निर्विद्धं स्थूपिका यूपमिष्यते 82

पूर्वोक्तं स्थूपिकामानमलङ्कारमथोच्यते
सार्धमर्धंतदूध्ध्वेऽर्धमर्धमशं शरां शकम् 83

अं शमर्धंच भागं स्यादर्धमं शं तथार्धकम्
भागमर्धंतथार्धांशमं शमर्धंयथार्धकम् 84

चतुरर्धंक्रमेणै वोत्तुङ्गे द्वाविं शदं शके
पद्मं च क्षेपणं वेत्रं क्षेपणं पङ्कजं घटम् 85

पङ्कजं क्षेपणं धृक् च क्षेपणं वेत्रमूध्ध्वतः
क्षेपणं् धृक् च कम्पं तुपद्मं घ्नकमम्बुजम् 86

वेत्रं च मुकुलं चै वक्रमेणोक्तवशान्नयेत्
सप्तद्व्यं शत्रिकद्यं शैः पञ्चनन्देन्द्रियत्रिकः 87

द्वित्रिवेदत्रिकद्व्यं शैर्गुणपञ्चर्तु पञ्चभिः
द्वित्रिभागैः क्रमाद् व्यासं मूलपद्मादिषुन्यसेत् 88

मुकुलाग्रमं शमर्धार्धंयथाशोभवशान्नयेत्
चतुरष्टद्विरष्टाश्रं साधारं वर्तु लं तुवा 89

तदाकृतिः शिरश्छन्दमलङ्कारवशात् तुवा
तदाकृतिः सुरोर्वीशविप्राणां च विशां मतम् 90

सुरद्विजनृपाणां तुवैश्यानां नै व शूद्रके
तत्सम्बन्धं समापाद्य ध्वजदण्डं तदूध्ध्वगम् 91

एवं लक्षणसम्पन्नं विमानं सम्पदां पदम्
करालमुीँ गु ल्माषकल्कचिक्कणसाह्वयाः 92

चूर्णो पयु क्ताः पञ्चैतेसर्वकर्मसनातनाः
अभयाक्षबीजमात्रशकराः स्युः करालकाः 93

मुँबीजसमा क्षुद्रशकरा मुँमिष्यते
सार्धत्रिपादद्विगुणकिञ्जल्कसिकतान्वितम् 94

चूर्णस्य शकराशु क्त्योर्यद् गु ल्माषं तदु च्यते
करालं चापि मुीँं च तेन मानेन योजयेत् 95

पूर्वोक्तमात्रसिकताचणकश्चूर्णमानतः
क्रियार्थंपेषितं कल्कं चिक्कणमस्तुकेवलम् 96

निश्छिद्रमिष्टमानेन गोत्रमिष्टकया दृढम्
पूर्वोक्तानां च पञ्चानां विधातव्यं पृथक् पृथक् 97

तत्र तत्र तदु क्ते न द्रव्येण परिकल्पयेत्
केवलेनाम्भसा पूर्वंपूर्वां स्त्रिस्त्रिः प्रकुट्टयेत् 98

क्षीरद्रुमकदम्बाम्राभयाक्षत्वग्जलैः पुनः
त्रिघ्नोदैस्ततस्तद्वन्माषयूषैस्ततस्तथा 99

सं यम्य शकराशु क्तिं चूर्णंतत्खातवारिणि
खुरसङ्कुट्टनं कृत्वा स्रावयित्वाऽथ वाससा 100

कल्कं च चिक्कणं तेन कल्कनीयं विचक्षणैः
दधिदुग्धमाषयूषगुडाज्यकदलीघ्नैः 101

जलैश्च नालिके रस्य चूतपक्वरसैः सह
कल्पितं शिल्पिभिर्यत् तद् बन्धोदकमिति स्मृतम् 102

शु द्धिं शुद्धोदके नादौ कृत्वा बन्धाम्भसा ततः
आलिप्य सुधया कार्यानानारूपान्वितक्रिया 103

दग्धैश्च मृण्मयै श्चापि लोहलोष्टैर्यथोचितम्
गोपानस्योपरिष्टात् तुच्छादनीयं विचक्षणैः 104

करालच मुँगिु ल्माषघनमेककमङ्गुलम्
कल्कमानं तदर्धेन तदर्धार्धंतुचिक्कणम् 105

जलस्थलप्रयु क्ते तुयथेष्टं घनमिष्यते
षण्मासमुत्तमं प्रोक्तं चतुर्मासं तुमध्यमम् 106

अधमं तुद्विमासं स्यादेषामु षितमिष्यते
ततो बन्धोदकरेतान् संक्लेद्य क्रमशः कृतिः 107

लुपोपरीष्टकास्तारेचै वं चूर्णक्रियां पुनः
आच्छादनीयं यत्नेन त द्धनं छादनं विदुः 108

देवानां च द्विजानां चावासेयोग्यं सनातनम्
बहिरन्तश्च सर्वेषां चित्रं युञ्जीत बु द्धिमान् 109

सुमङ्गलकथोपेतं श्रद्धानृत्तक्रियान्वितम्
विप्रादीनां च वर्णानां निवासं सम्पदां पदम् 110

संग्रामं मरणं दुःखं देवासुरकथान्वितम्
नग्नं तपस्विलीलां चामयाव्यादि न योजयेत् 111

अन्येषामन्यथा वासेसाधनीयं यथेष्टतः
पञ्चां शं माषयूषं स्यान्नवाष्टां शं गुडं दधि 112

आज्यं द्व्यं शं तुसप्तां शं क्षीरं चर्मषडंशकम्
त्रैघ्नं दशभागं स्यान्नालिके रं यु गां शकम् 113

क्षौद्रमेकां शकं त्र्यं शं कदलीघ्नमिष्यते
लब्धेचूर्णेदशां शेतुयुञ्जीतव्यं सुबन्धनम् 114

सर्वेषामधिकं शस्तं गुडं च दधि दुग्धकम्
चूर्णद्व्यं शं करालं मधुघृतकदलीनालिके रं च माषं
शु क्ते स्तोयं च दुग्धं दधिगुडसहितं त्रैघ्नं तत् क्रमेण
लब्धेचूर्णेशतां शेंऽशकमिदमधुना चानु वृद्धिं प्रकुर्या-देतद् बन्धं दृषत्सादृशमिति कथितं तन्त्रविद्भिर्मु नीन्द्रैः 115

देवानां द्विजभूमीशवैश्यानां भवनेऽधुना 116

मूध्ध्नेष्टका विधातव्याश्चतस्रो लक्षणान्विताः
सु स्निग्धाः समदग्धाश्च सुस्वनास्ताः सुशोभनाः 117

स्त्रीलिङ्गाश्चापि पु ल्लिङ्गा भिन्नच्छिद्रदिवर्जिताः
विस्तारायामतीव्रैस्तुप्रथमेष्टकया समाः 118

शिलामयेशिला प्रोक्ता सर्वदोषविवर्जिता
जन्माद्याशिखरान्तं च यै द्द्रव्यैश्च विनिर्मितम् 119

तैरेवादौ तथान्तेच न्यस्तव्याश्चेष्टकाः शुभाः
मिश्रद्रव्यैश्च सङ्कीर्णेयै द्द्रव्यैरुपरि स्थितम् 120

तैरेव मूध्ध्निविन्यासं रहस्यमिदमीरितम्
लोहजं दारुजं वाऽपि स्थूपिकाकीलमिष्यते 121

ऊध्ध्वभूम्यङि् घ्रणायामविस्तारं पादतः समम्
अग्रमङ्गुलविस्तारमानुपूव्व्याकृशं तथा 122

चतुरश्रसमं कुर्यात् त्रिभागैकमधस्तथा
वृत्तमूध्ध्वमधः कुर्या च्छिखिपादं न्यसेदधः 123

विस्तारत्रिगुणायामं व्यासोच्चं पदतः समम्
अभ्रमं तुयथा भूमौ पञ्चमूर्तिसमन्वितम् 124

अथवा तच्छिखायामद्विगुणं कीलदै र्घिकम्
स्तम्भव्यासार्धविस्तारत्रिचतुर्भा गमेव वा 125

अग्रमर्धाङ्गुलव्यासं शिखिपादं यथाबलम्
शिखराकृतिवत् कीलं लिङ्गच्छन्दमथापि वा 126

एवं त्रिधा समु द्दिष्टं स्थूपिकाकीलमार्यकः
सद्मनश्चोत्तरेपाश्श्वेमण्डपेतुसुसंस्कृते 127

चतुष्प्रदीपसं युक्ते वस्त्रैश्च परिवेष्टिते
सर्वमङ्गलसं युक्ते शुद्धशाल्यास्तरेशुभे 128

स्थण्डिलेचाण्डितं कृत्वा मण्ड कं वाथ तत्परम्
विन्यस्य देवान् ब्रह्मादीन् श्वेततण्डुलधारया 129

आराध्य गन्धपुष्पाद्यैर्भुवनाधिपतिं जयेत्
देवताभ्यो बलिं दत्त्वा तत्तन्नाम्ना यथाविधि 130

स्थपतिः कलशान् न्यस्य पञ्च पञ्च सलक्षणान्
सु गन्धोदकसम्पूर्णान् पञ्चरत्नसमायुतान् 131

ससूत्रान् वस्त्रकत्न र्चालान् सापिधानान् सहेमकान्
उपपीठां शदेवानां स्वस्वनाम्नाभिधाय च 132

प्रणवादिनमोन्तेन गन्धाद्यैरर्चयेत् क्रमात्
प्रक्षाल्य पञ्चगव्यैस्तुनवरत्नकुक्शोदकः 133

इष्टकाश्च यथाकीलं सूत्रैरावेष्टयेत् क्रमात्
कु म्भस्य दक्षिणेशुद्धशालीस्थण्डिलमण्डले 134

आराध्य गन्धपुष्पैश्च बलिं दत्त्वा यथाविधि
इष् तकाश्चै वकीलां श्च वेष्टयेदम्बरैः शुभैः 135

श्वेतवस्त्रास्तरस्योध्ध्वेन्यसेद् दर्भास्तरेशुचिः
स्थपतिर्वरवेषाढ्यः शु क्लमाल्यानुलेपनः 136

सितवस्त्रपरिच्छिन्नोत्तरीयो हैममु द्रिकः
पीत्वा शुद्धं पयो रात्रावुपोष्याधिवसेत् सुधीः 137

कलशस्योत्तरेपाश्श्वेसितवस्त्रपरिस्तरे
ततः प्रभातेविमलेनक्षत्रकरणान्विते 138

सुमुहूर्तेसुलग्नेच स्थपतिः स्थापके न तु
पुष्पकत्न ण्डलहारादिकटकरङ्गुलीयकः 139

पञ्चाङ्गभूषणैर्हेमनिर्मितैस्तुविभूषितः
हेमयज्ञोपवीतस्तुनववस्त्रपरिच्छदः 140

श्वेतानुलेपनश्चै व सितपुष्पशिराः शु चिः
ध्यात्वा धरातलं सर्वंदिग्द्विपेन्द्रसमायुतम् 141

ससागरं सशै लेन्द्रमनन्तस्योपरि स्थितम्
सृष्टिस्थितिलयाधारं भु वनाधिपतिं जपेत् 142

स्नापयित्वेष्टकाकीलं पूर्वोक्तः कलशोदकः
आराध्य गन्धपु ष्पैश्च धूपदीपसमन्वितैः 143

बलिं दत्त्वा यथान्यायं जयशब्दादिमङ्गलैः
बिप्रस्वाध्यायघोषैश्च शङ्खभेर्या दिनिःस्वनैः 144

स्थापयेदिष्टकाः सम्यक् पूर्वदक्षिणतः क्रमात्
शिखरार्धेविमनस्य गग्रपत्रान्तरेऽपि वा 145

शिखरत्रिचतुर्भा गावसानेवाम्बुजदधः
तदाद्यात् स्थूपिकायामात् कीलदै घ्घ्यंप्रगृह्यताम् 146

पूर्वमेवेष्टकास्थानं निश्छिद्रं तुदृढीकृतम्
तन्मध्येनवरत्नानि विन्यसेच्च यथाक्रमम् 147

ऐन्द्रेमरकतं विद्याद् ड र्यंवह्निगोचरे
इन्द्रनीलं तुयाम्यायां मौक्तिकं पितरि स्मृतम् 148

वारुणेस्फाटिकं विद्यन्महानीलं समीरणे
वज्रं तुसौम्यदेशेस्यादैशान्यां तुप्रवालकम् 149

माणिक्यं मध्यमेभागेहाटकं च विनिक्षिपेत्
रसोपरसबीजैश्च धान्यान्यप्यौषधानि च 150

तदूध्ध्वेस्थूपिकाकीलं स्थापयेदचलं समम्
तस्मात् प्रकृतिभूम्यन्तमुदग्दिशि महाध्वजम् 151

ग्रथितं क्षौमवस्त्रैश्च कार्पासै र्वामनोहरैः
लम्बयेत् तदुदक्प्राच्यौ प्रागुदग्विदिशं ततः 152

संस्पृशेद् यदि सर्वेषां प्राणिनां सम्पदृद्धये
भवनं स्थूपिकीलं च पट्टैरवेष्ट्य शु भ्रकः 153

चतु र्दिक्षुचतु र्गाश्च सवत्साः सन्निवेशयेत्
द्वारालङ्करणं कुर्यात् सु विचित्राम्बरै र्नवैः 154

यजमानो विशुद्धात्मा प्रणम्य शिरसा गुरुम्
विमानस्थूपिकास्तम्भद्वारालङ्करणानि च 155

वस्त्राणि धनधान्यैश्च पशूनपि सवत्सकान्
मुदा स्थपतयेदत्त्वा शेषान् भक्त्या तुतर्पयेत् 156

एवं मु निवरैः प्रोक्तं प्रासादानां तुमूर्धनि
हर्म् याणां गर्भसं युक्तौ नेत्रभित्तौ तलान्तरे 157

मण्डपेमध्यदेशेतुसभादीनामधोऽम्बुजात्
प्रासादवद् विधातव्यं गोपुराणां तुमूर्धनि 158

एवं तुविधिना सम्यक् सम्पन्नं सम्पदां पदम्
येन यत् कर्मचारब्धमादौ तदवसानके 159

तेनै वनिष्ठितं कर्मश्रीसौभाग्यायुरेधनम्
तस्याभावेतुतत्पुत्रः शिष्यो वा तं गुरुं पटे 160

लिखित्वा तन्नियोगेन सर्वकर्मसमाचरेत्
अज्ञानात् त्वरितेनापि यद्वस्त्वन्येन भावितम् 161

करोति स्वामिनं शीघ्रमन्यथेति ह निश्चयः
प्रथमं कृतवान् विधिं यथावत्
कृतवानेव करोति निष्ठितान्तम्
अथ वा विधिरन्यथा भवेच्चेऽ
दशुभं स्वामिनमन्यथा करोति 162

एवं ग्रीवालङ्कृतं पुष्कराभं
मानं मल्लानां शिखाभूषणं च
यु क्त्या सर्वेषां करालादिबन्धं
प्रोक्तं सम्यक् चेष्टकाबन्धमूध्ध्वे 163

खदिरसरलसालस्तम्बकाशोकवृक्षाः
पनस तिमिसनिम्बाः सप्तपर्णाश्च सर्वे
पुरुषवकुलवह्निक्षीरिणीत्येवमाद्याः
सुदृढविमलसाराः स्थूपिकीलाः प्रसिद्धाः 164

अथ हम्म्येपरिनिष्ठितेतदा यजमानोऽपिगुरुश्च वर्धकिः
उदगायनशोभनक्क्षपक्षेजलसम्प्रोक्षणकर्मचारभेत् 165

नवसप्तत्रिकपञ्चरात्रिके विधिना चाङ्कुरार्पणं कुरु
भवनस्योत्तरपूर्वदेशतः स्वधिवासाहमण्डपं चरेत् 166

नवसप्तेषुकरै र्युगाश्रकं वसुपादं नववस्त्रशोभितम्
सवितानं सुपटै र्निवेष्टितं सुमनोज्ञं सितपुष्पशोभितम् 167

तस्य मध्येतुशालीभिः स्थण्डिलं दण्डमानतः 168

कृत्वाष्टाष्टपदं न्यस्य ब्रह्मादीन् वस्तुनायकान्
श्वेततण्डुलधाराभिर्विन्यस्याराध्य पुष्पकः 169

गन्धैर्धू पैश्च दीपैश्च बलिं दत्त्वा विधानतः
तदूध्ध्वंपञ्चपञ्चै व कलशान् वस्त्रशोभितान् 170

मणिहेमसमायु क्तान् ससूत्रान् सापिधानकान्
निष्कलङ्कानसु षिरान् हाटकोदकपूरितान् 171

उपपीठपदस्थां स्तान् स्वस्वनाम्नाभिधाय च
ओङ्कारादिनमोन्तेन चार्चयित्वा न्यसेत् ततः 172

कलशस्योत्तरेपाश्श्वेदर्भासनपरिस्तरे
चतुष्प्रदीपसं युक्ते सर्वमङ्गलशोभिते 173

पूतचेता विशुद्धात्मा स्थपतिर्व्रतमास्थितः
पीत्वा शुद्धं पयो रात्रावुपोष्याधिवसेत् ततः 174

प्रासादस्याग्रतो यागमण्डपं विधिनाचरेत्
चतुद्द्वारसमायु क्तं चतुस्तोरणभूषितम् 175

वासोभिर्दर्भमालाभिः स्रक्सुमैः समलङ्कुतम्
तन्मध्येवेदिकां कुर्यात् तद्व्यासत्र्यं शमानतः 176

चतुरश्रं चतु र्दिक्षुविदिक्ष्वश्वत्थपत्रवत्
सुरेन्द्रेशानयोर्मध्येकुण्डमष्टाश्रमिष्यते 177

त्रिमेखलासमायु क्तं वै कमेखलयान्वितम्
स्थापको मूर्तिपैः सार्धंविधिना होममाचरेत् 178

शालिभिः स्थण्डिलं कृत्वा वेदिमध्येविचक्षणः
मूर्तिकु म्भं न्यसेत् सम्यग् बीजमन्त्रमनु स्मरन् 179

प्रासादस्य चतु र्दिक्षुवृत्तकुण्डविधानतः
सन्तप्प्यस्थापको जातवेदसं निवसेत् तदा 180

विमानं जन्मतः स्थूपिकान्तं वस्त्रै र्निवेष्टयेत्
कुशास्तीर्णै र्नवै र्वस्त्रैः स्थूपिकीलमलङि् क्रयात् 181

बल्यन्नं पायसान्नं च मुाँन्नं च यवान्नकम्
कृसरं गुलशुद्धान्नं पीतं कृष्णं तथारुणम् 182

गृहीत्वा सकलस्याग्रेहेमपात्रेनिधाय च
दधिदुग्धघृतक्षौद्ररत्नपुष्पाक्षताम्बु भिः 183

कदलीघ्नसं युक्तं पात्रं चै वान्यशिल्पिभिः
धारयित्वाम्बुभी रात्रौ वास्तुदेवबलिं चरेत् 184

ततः प्रभातेविमलेनक्षत्रकरणान्विते
स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः 185

धृतहाटकयज्ञोपवीतः श्वेतानुलेपनः
श्वेतपुष्पशिरःप्राप्तेओष्णीषश्चाहतवस्त्रयुक् 186

दिशामूत्त्यपरां श्चक्षुर्मो क्षणं विधिनाचरेत्
स्नापयेत् कलशाम्भोभिरर्चयेद् गन्धपुष्पकः 187

प्रथमं हेमया तत्र सूच्या नयनमण्डलम्
लिखित्वा तीक्ष्णशस्त्रेण मण्डलत्रयमु ल्लिखेत् 188

आच्छाद्य नववस्त्रेण ब्राह्मणान् धान्यसञ्चयान्
धेनुं सवत्सां कन्यां च दर्शयित्वा यथाक्रमम् 189

विमानं पुनरारुह्य स्थपतिः स्थापकाज्ञया
शङ्खकाहलतूर्या दिघोषणैः स्वस्तिवाचनैः 190

स्थूप्यग्रादाप्रकृत्यन्तं चतु र्दिशि महाध्वजम्
लम्बयेत् क्षौमपट्टै र्वाकार्पासै र्ग्रथितं नरम् 191

चन्दनागरुतोयेन सर्वगन्धोदके न च
कलशोदैः कुशाम्भोभिरुपरिष्टात् समन्ततः 192

प्रोक्षयेत् स्थपतिः प्राज्ञो भु वनाधिपतिं जपेत्
तैतलानां विमानानां पाञ्चभौतिकसंश्रितात् 193

स्थूपिकु म्भं सु वर्णेन ताम्रेण रजतेन वा
उपलेष्टकसौधै र्वाकृत्वेष्टं कीलवत् स्मृतम् 194

सुसंस्थाप्याचलं यावत् प्रोक्षयेद् गन्धवारिणा
विमानादवरुह्याथ गर्भगेहं च मण्डपम् 195

प्रोक्षयित्वा मुखेस्थित्वा नत्वा देवं वदेदिदम्
धाराधिपातात् सलिलप्रकोपाद्
दं ष्ट्र्या निपातात् पवनप्रकोपात्
अग्नेश्च दाहान्मु षितापचाराद्
रक्षत्विदं सद्म शिवं च मेऽस्तु 196

निरुजा मु दिता सधना प्रथिता यशसा महदद्भुतवीर्ययुता
सततं निरुपद्रवकर्मयुता पृथिवी पृथुजीवतुधर्मविधेः 197

ब्रह्मा विष्णुः शङ्करः सर्वदेवाः क्षोणी लक्ष्मीर्वाग्वधूः सिं हके तुः
ज्येष्ठा विश्वेदेवदेव्यः प्रजानां श्रीसौभाग्यारोग्यभोग्यं कृषीरन् 198

उक्त्वै वं स्थपतेः कर्मण्यत्रै व परिनिष्ठिते 199

स्थापको विधिना शु द्धिं कुर्याद् यागादिकर्मभिः
प्रोक्षयित्वा घटाम्भोभिः पञ्चगव्यैः कुशोदकः 200

अर्चयेद् गन्धपुष्पाद्यैर्नैवेद्यं च प्रदापयेत्
प्रासादबीजमन्त्रां स्तुन्यसेत् सौधाधिदेवताम् 201

प्रासादाभिमुखेस्थित्वा यजमानः प्रसन्नधीः
स्थपतेर्धर्मसर्वस्वं क्लेशेन सह यद् भवेत् 202

तत् सर्वंपरिगृह्णीत सु प्रीत्या स्थापकाज्ञया
पूजयेत् तुयथाशक्ति स्थापकं स्थपतिं ततः 203

पुत्रभ्रातृकलत्रैश्च यजमानो मुदा धनैः
धान्यैश्च पशु भिर्वस्त्रै र्वाहनैर्भूमिदानकः 204

शेषानपि च तक्षादिविष्टिसर्वान् स कर्मणि
सन्तर्पयेद्धिरण्यैश्च वस्त्रै र्वाऽपि मनोहरैः 205

विमानस्थूपिकास्तम्भमण्डपालङ्कृतान्यपि
वस्त्रादीनि ध्वजं धेनुं प्रीत्या स्थपतयेददेत् 206

एवमेवं कृतं वस्तुवर्धयेन्नित्यमा यु गात्
यजमानस्त्विहामुत्र घ्नं सम्यग् लभेद् दृढम् 207

अन्यथा चेत् घ्नं नै व लभतेतत्र वस्तु नि
भूतप्रेतपिशाचादिराक्षसाश्च वसन्त्यलम् 208

तस्मात् प्रासादनिष्पन्नेसर्वथा प्रोक्षणं चरेत्
मण्डपेच सभायां वा रङ्गे विहारशालके 209

हेमगर्भसभायां तुतत्तुलाभारकत्न टके
विश्वकोष्ठे प्रपायां च धान्यागारेमहानसे 210

वास्तुदेवबलिं दत्त्वाधिवास्य विधिना तथा
स्थपतिः पूतचित्तात्मा प्राप्तपञ्चाङ्गभूषणः 211

नवाम्बरधरश्चै व नववस्त्रौत्तरीयकः
सर्वमङ्गलघोषैश्च जलसम्प्रोक्षणं चरेत् 212

उत्तरायणमासेतुकृतं चेदुत्तमोत्तमम्
त्वरितेऽप्येवमेवं तुकुर्यात् तद् दक्षिणायने 213

त्रिरात्रमेकरात्रं वा सद्योऽधिवासमेववा
तत्रै वाविकलेद्रव्येलभेत् कर्तामहत् घ्नम् 214

एकत्रिपञ्चकलशेषुतथाधिदेवा एकत्रिपञ्च कथिता इह मूर्तयस्ताः
तत्तत् स्वमन्त्रसहितं तदधः सहेमरत्नं निधाय विधिना कलशान् न्यसेत्
तत् एवं मुदा भवनकर्मसमाप्तिमत्र कुर्याज्जनेशजनगोकुलसम्पदृद्ध्यै
यद् परीत्यमसमाप्तिकवस्तु वेशं तद्वास्तुदेवबलिहीनमनर्थदं स्यात् 216

इति मयमतेवस्तुशास्त्रेशिखरकरणभवनकर्मसमाप्तिविधानं नाम अष्टादशोऽध्यायः

अथैकोनविं शोऽध्यायः[सम्पाद्यताम्]

एकभौमं चतुर्मानं वक्ष्येसंक्षिप्य शास्त्रतः
त्रिचतुर्हस्तमारभ्य नव पङ्क्त्यन्तविस्तृतम् 1

तारेसप्तदशोत्सेधमध्यर्धंतत्रिपादकम्
द्विगुणं तुतदु त्सेधं शान्तिकं पौष्टिकं भवेत् 2

जयदं चाद्भुतं चै वचतुर्धो दयमीरितम्
चतुरं वृत्तमायामं द्व्यश्रवृत्तं षडश्रकम् 3

अष्टाश्रमाकृतिह्ह्येषां शिखरेऽपि तथै वच
समं त्रिपादमर्धंवा मुखमण्डपमिष्यते 4

समं तन्मण्डपं तस्य सान्तरालं सवेशकम्
यु ग्मस्तम्भसमायु क्तं युक्त्या सर्वाङ्गशोभितम् 5

सार्धहस्तं द्विहस्तं वा प्रासादस्यां शमेववा
अन्तरालस्य विस्तारं द्विदण्डं तस्य वेशनम् 6

सावकाशान्तरालं चेद् द्वित्रिहस्तान्तरं तुवा
पाश्श्वेसोपानसं युक्तं हस्तिहस्तविभूषितम् 7

धाम्नः कु ड्यस्यार्धकं तत्समं वा पादोनं वा भित्तिविष्कम्भमानम्
पाश्श्वेचैतद् द्वित्रिदण्डैस्तुवेशं दुर्यादग्रेमण्डपस्यास्य धीमान् 8

तत्युन्नतायतकरेषुच हस्तमानाद्धीनं त्रिपादकरमर्धमथापि पादम्
तत्रै ववस्तु नि यथोचितमाचरेद् वै हानिं च वृद्धिकमनिन्द्यमनेकशास्त्रैः 9

विमानं भवनं हम्म्यंसौधं धाम निके तनम्
प्रासादं सदनं सद्म गेहमावासकं गृहम् 10

आलयं निलयं वासमास्पदं वस्तुवास्तुकम्
क्षेत्रमायतनं वेश्म मन्दिरं धिष्ण्यकं पदम् 11

लयं क्षयमगारं च तथोदवसितं पुनः
स्थानमित्येवमु क्ताश्च पर्यायाख्या हि पण्डितैः 12

हम्म्यतारत्रिभागैकं भूतां शेषुगुणां शकम्
धातुभागेयु गां शः स्याद् बाणां शं नवभागिके 13

रुद्रां शेरसभागं तुधातुत्रयोदशां शके
तिथ्यं शेवसुभागं तुसप्तदश नवां शकम् 14

विस्तारार्धंतुतेसर्वेनालीगृहविशालताः
फलिके पञ्चभागेतुयु गार्धंपद्मविस्तृतम् 15

पद्मतारत्रिभागैकं कु म्भतारमिति स्मृतम्
कु म्भतारत्रिभागैकं कु म्भस्याधो वलग्नकम् 16

वलग्नस्य त्रिभागैकं कु म्भस्योपरि कन्धरम्
कन्धरत्रिगुणं पाली तत्रिभागेन कु ड् मलम् 17

समं त्रिपादमर्धंवा महानासीविनिर्गमम्
तद्व्यासत्रिचतुर्भा गहीनं स्कन्धान्ततुङ्गकम् 18

शक्तिध्वजं तदर्धो च्चं त्रिपादं वा विधीयते
कन्धरोच्चत्रिभागकं वेदिकोदयमीरितम् 19

सार्धदण्डं द्विदण्डं वा क्षुद्रनास्या विशालकम्
पादोत्सेधेपङ्क्तिनन्दाष्टभागेद्वारोत्सेधं तत्तदेकां शहीनम्
विस्तारं स्यात् तत्तदुच्चार्धमानं द्वारं कुर्याद्धम्म्यमध्येनृपाणाम् 20

योगव्यासं पादविष्कम्भमानं पादाधिक्यं वा तदर्धंत्रिपादम्
बाहुल्यं स्यादु च्छ्रयेवेदभागेबाह्येसाब्जक्षेपणं तत्रिभागैः 21

भित्तिव्यासेद्वादशां शेतुबाह्येपञ्चां शान्तद्वारयोगस्य मध्यम्
तद्वच्चान्तः स्तम्भमध्यं तयोस्तन्मध्यं प्रोक्तं भित्तिमध्यं विधिज्ञैः 22

जन्मान्तं वा जगत्यन्तं करवान्तं गलान्तकम् 23

पिट्टकान्तं तलं पञ्चभेदं सर्वेषुधामसु
छिद्रं विद्यादधश्चोध्ध्वेबाह्येनालं प्रयोजयेत् 24

द्वादशाङ्गुलमारभ्य त्रित्र्यङ्गुलविवर्धनात्
चतु र्विंशाङ्गुलं यावदायामं पञ्चधा भवेत् 25

अष्टाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात्
तारं षोडशमात्रान्तं पञ्चधा परिकीर्तितम् 26

समं त्रिपादमर्धंवा घनं छिद्रं तुमध्यमे
त्रिचतुष्पञ्चषण्मात्रं तारं तत्समनिम्नकम् 27

मूलात् पञ्चत्रिभागं स्यादग्रं धारासमन्वितम्
घटितं सिं हवक्त्रेण किञ्चिन्मूलान्नताग्रकम् 28

एवं नालं प्रकर्तव्यं वामेप्रासादमध्यमे
अन्तः पीठस्य नालस्य समं वा बहिरिष्यते 29

विस्तारायाममु त्सेधं सर्वाण्यङ्गानि च क्रमात्
सं क्षेपतः समादिष्टान्यलङ्कारमथोच्यते 30

वृत्तग्रीवामस्तकं वै जयन्तं श्रीभोगं स्यात् कर्णकत्न टोपयु क्तम्
मध्येभद्रं श्रीविशालं तदेव वस्वश्रं चेच्छीर्षकं स्वस्तिबन्धम् 31

वेदाश्राभं तच्छिरः श्रीकरं स्याद् द्व्यश्रं वृत्तं हस्तिपृष्ठं हि नाम्ना
अत्वश्राभं शीर्षकं स्कन्दकान्तं तत्तन्नाम्ना तत्तदायामयु क्ते 32

मध्येभद्रयुतं कर्णकत्न टयु क्तं तुमस्तके
कोष्ठकं भद्रनास्यङ्गं वृत्तं वा गलमस्तकम् 33

नाम्नैतत् के सरं प्रोक्तं यु गाश्रं वा गलं शिरः
पञ्चसप्तर्तु भागेतुत्रिद्व्यं शै र्मध्यभद्रकम् 34

नागरं द्राविडं चै ववेसरं च त्रिधां मतम्
चतुरश्रायताश्रं यन्नागरं परिकीर्तितम् 35

अष्टाश्रं च षडश्रं च तत्तदायाममेवच
सौधं द्राविडमित्यु क्तं वेसरं तुप्रकथ्यत ते 36

वृत्तं वृत्तायतं द्व्यश्रं वृत्तं चान्यं प्रकथ्यते
स्थूप्यन्तं चतुरश्रं यन्नागरं परिकीर्तितम् 37

ग्रीवात् प्रभृति वस्वश्रं विमानं द्राविडं भवेत्
ग्रीवात् प्रभृति वृत्तं यद् वेसरं तदुदाहृतम् 38

तलेतलेविमानानां दिक्षुदेवान् न्यसेत् क्रमात्
पूर्वायां द्वारपालौ तुनन्दिकालौ च विन्यसेत् 39

दक्षिणेदक्षिणामूर्तिंपश्चिमेऽच्युतमेवहि
अथवा लिङ्गसम्भूतमुत्तरेतुपितामहम् 40

मण् डपेमध्यदेशेतुदक्षिणेतुविनायकम्
तत्पूर्वेपश्चिमेवाऽपि नृत्तरूपं विशेषतः 41

कात्यायनीमुदग्भागेक्षेत्रपालं तथै वच
स्थानकासनसं युक्ता दिशामूर्ती न्न्यसेद् बुधः 42

विशेषेण कथोपेतं रूपाण्यपि विधानतः
एवं मूलतलेप्रोक्तमुपर्यु परि वच्यते 43

पुरन्दरं न्यसेत् पूर्वेसु ब्रह्मण्यमथापि वा
दक्षिणेवीरभद्रः स्यान्नारसिं हश्च पश्चिमे 44

उत्तरेतुविधाता स्याद् धनदो वा विधीयते
एवं द्वितलविन्यासं त्रितलेतुमरुँणान् 45

तलेतलेऽमरान् सिद्धान् गन्धर्वा दिमुनीन् न्यसेत्
षोडश प्रतिमाश्चै वसर्वत्र परिकीर्तिताः 46

ग्रीवाधस्तात् प्रतेरूध्ध्वेकोणेकोणेवृषान् न्यसेत्
सर्वेषामपि देवानां तत्तद्वाहनमीरितम् 47

प्रदक्षिणावृतं तस्य सर्वदेवालयेतथा
इत्येवमादिभिर्युक्तं विमानं सम्पदां पदम् 48

कत्न टैर्नीडैस्तोरणैर्मध्यभद्रैर्युक्तायु क्तं तत्तुसर्वाङ्गशोभम्
नानाधिष्ठानाङि् घ्रवेद्यादियोगं धाम प्रोक्तं तै तिलानां मयेह 49

इति मयमतेवस्तुशास्त्रेएकभूमिविधानं नाम एकोनविं शोऽध्यायः

अथ विंशोऽध्यायः[सम्पाद्यताम्]

द्वितलं पञ्चधा मानं वक्ष्येसं क्षेपतः क्रमात्
पञ्चषड्ढस्तमारभ्य द्विद्विहस्तविवर्धनात् 1

सैकाकमनुहस्तान्तमु त्सेधं पूर्ववद् भवेत्
तारेसप्तर्तु भागेतुभागं सौष्ठिकविस्तृतम् 2

कोष्ठं तुद्विगुणायामं शेषं हारं सपञ्जरम्
विमानोत्सेधं विभजेदष्टाविं शतिसङ्क् ख्यया 3

ईशदृगृतुबन्धां शै र्भू तनेत्रशिवां शकः
नेत्रसार्धचतुर्भा गैरध्यर्धेन यथाक्रमम् 4

मसूरकङि् घ्रकं मञ्चाङि् घ्रमञ्चवितर्दिकम्
कन्धरं शिखरं कु म्भं मूलतः परिकल्पयेत् 5

चतुरश्रमधिष्ठानं तद्वत् कन्धरमस्तकम्
चतुष्कत्न टसमायु क्तं चतुष्कोष्ठसमन्वितम् 6

दभ्रनीडानुपर्यष्टौ षडष्टै वाल्पनासिकम्
शिखरं चोरुनीडाभिर्वेदसङ्ख्याभिरन्वितम् 7

हारान्तरस्य मध्येतुकड्यं क्कु म्भलतान्वितम्
तोरणै र्वेदिकाद्यैस्तुनानाचित्रै र्विचित्रितम् 8

सर्वदेवार्हकं शस्तं नाम्नैतत् स्वस्तिकं भवेत्
तदेवसौष्ठिकं निम्नगुन्नतं कोष्ठकं यदि 9

अन्तरप्रस्तरोपेतमेतद् विपुलसुन्दरम्
अं शमं शत्रयं सत्रिपादां शं साङि् घ्रभागिकम् 10

भागत्रयं वितद्द्यङि् घ्रप्रस्तरग्रीवमस्तकम्
पादोदयेदशां शेतुद्वितलादिविमानके 11

अन्तरप्रस्तरोपेतं कत्न टशालोन्नतं मतम्
तदेवकोष्ठकं निम्नं सौष्ठिकं चोन्नतं यदि 12

अन्तरप्रस्तरोपेतमेतत् कलासमु च्यते
तदेववर्तु लं वेदिकन्धरं शिखरं घटम् 13

अष्टकत्न टं चतुश्शालोपेतं सप्ताष्टनासिकम्
कोष्ठकान्निर्गमं मध्येद्वित्रिदण्डे न सौष्ठिकात् 14

समग्रीवाशिरोयु क्तं कत्न टकोष्ठकमीरितम्
नानाधिष्ठानसं युक्तं नानापादैरलङ्कृतम् 15

नाम्नैतत् पर्वतं प्रोक्तं विमानं सार्वदेशिकम्
तदेव शिखरेचार्धकोष्ठकं तुचतुष्टयम् 16

चतुरश्रशिरोयु क्तं च् तुष्कत्न टसमन्वितम्
नानाधिष्ठानसं युक्तं षडष्टै वाल्पनासिकम् 17

नाम्नैतत् स्वस्तिबन्धं स्यान्नानावयवशोभितम्
तदेवसौष्ठिकं कोष्ठमन्तरप्रस्तरै र्यु तम् 18

हाराल्पपञ्जरं निम्नं नवाष्टै र्वाल्पनासिकम्
नानालङ्कारसं युक्तं कल्याणमिति पठ्यते 19

तदेव शिखरेचार्धकोष्ठकं रहितं तुचेत्
चतुर्नीडासमायु क्तमेतत् पाञ्चालमिष्यते 20

तदेवाष्टाश्रकं वेदीकन्धरं शिखरं घटम्
शिखरेऽष्टमहानासि नाम्नैतद् विष्णुकान्तकम् 21

तदेवकत्न टशालानामन्तरप्रस्तरं विना
तच्चतुर्भा गमाधिक्यमायतं चतुरश्रकम् 22

आयताश्रं तथा वेदीकन्धरं शिखरं भएत्
स्थूपित्रयसमायु क्तमेतन्नाम्ना सुमङ्गलम् 23

तदेवायतवृत्तं चेद् वेदिकाकन्धरं शिरः
सर्वा वयवसं युक्तमेतद् गान्धारमिष्यते 24

तारादर्धांशमाधिक्यमायतं चतुरश्रकम्
द्व्यश्रवृत्तशिरोयु क्तं नेत्रशालामुखान्वितम् 25

हस्तिपृष्ठामिदं द्व्यश्रं वृत्तं वापि मसूरकम्
चतुरश्रमधिष्ठानं वृत्तं स्याद् गर्भगेहकम् 26

सर्वालङ्कारसं युक्तमेतन्नाम्ना मनोहरम्
तदेव जन्माद्या कु म्भाद् वृत्तं चेति बहिर्बहिः 27

शेषं पूर्ववदु द्दिष्टमिष्टमीश्वरकान्तकम्
तदेवचतुरश्रं स्याद् गर्भगेहं मसूरकम् 28

वर्तु लं जन्मतः स्थूपिकान्तं चेद् वृत्तहम्म्यकम्
आयताश्रमधिष्ठानं षडश्रं कन्धरं शिरः 29

तदेवपूर्ववत् सर्वंनाम्ना कुबेरकान्तकम्
मानं पञ्चविधं धाम्नां भेदं पञ्चदशैव हि 30

द्वितलानां यथा प्रोक्तं तथा कुर्याद् विचक्षणः
सञ्चितासञ्चितं चै वोपसञ्चितमिति त्रिधा 31

स्त्रीपुं नपुंसकं चै वत्रिविधं तत् प्रवक्ष्यते
इष्टकाभिः शिलाभिर्वासञ्चितं यद् घनीकृतम् 32

कपोतादिशिरोयु क्तं तत्तत् पुंस्त्वं समीरितम्
ऐष्टकं दारुजं सौधं भोगयु क्तागसं युतम् 33

स्त्रीत्वं ह्यसञ्चितं भोगाभोगयु क्तं द्रुमेष्टकः
घनाघनाङ्गयुक् षण्डमुपसञ्चितमिष्यते 34

ऊध्ध्वतलपादनिजदै घ्घ्यमु निभागेस्थूप्युदयमेकमथ कं प्रति गुणां शम्
द्व्यंशि गलमं शकवितर्दिकमधस्तात्खण्डभवनस्य विधिरुक्तमुरुधीभिः 35

पादोदयेदशनवाष्टविभाजितेतत्सप्तर्तु पञ्चरणायतमत्र भागम्
शेषं झषां शमुदयार्धविशालकं वा षट् पञ्चवेदचरणेन भवेद् विशालम् 36

नीडस्य तावदुदयं च विशालमङ् घ्रेर्मू लात्रिपादविपुलं तलिपं तयोश्च
हारान्तरेसदनमध्यपदेच कत्न टेकोष्ठे च तोरणमलङ्कृतमेवकुर्यात् 37

द्वारस्योभयपाश्श्वेद्वारसमीपेतुवाथ पदमध्ये
द्वारपवासगुहा स्यादुत्तरमण्डान्तकं तुवोच्चं तत् 38

खण्डान्तपोतिकान्तं तोरणमात्रोदयं तुवा कथितम्
यु क्त्या प्रवेशयु क्त्या सर्वस्मिन् धाम्नि कर्तव्याः 39

इति मयमतेवस्तुशास्त्रेद्विभूमिविधानं नाम विंशोऽध्यायः
"https://sa.wikisource.org/w/index.php?title=मयमतम्/अध्याय_१६-२०&oldid=165037" इत्यस्माद् प्रतिप्राप्तम्