मध्यमकशास्त्रम्/पूर्वपरीक्षा नवमं प्रकरणम्

विकिस्रोतः तः
← मध्यमकशास्त्रम्/कर्मकारकपरीक्षा अष्टमं प्रकरणम् मध्यमकशास्त्रम्
पूर्वपरीक्षा नवमं प्रकरणम्
नागार्जुन
मध्यमकशास्त्रम्/अग्नीन्धनपरीक्षा दशमं प्रकरणम् →

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति यस्य प्रागेभ्यः सोऽस्तीत्येके वदन्त्युत ॥ ९.१ ॥
कथं ह्यविद्यमानस्य दर्शनादि भविष्यति ।
भावस्य तस्मात्प्रागेभ्यः सोऽस्ति भावो व्यवस्थितः ॥ ९.२ ॥
दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च ।
यः प्राग्व्यवस्थितो भावः केन प्रज्ञप्यतेऽथ सः ॥ ९.३ ॥
विनापि दर्शनादीनि यदि चासौ व्यवस्थितः ।
अमून्यपि भविष्यन्ति विना तेन न संशयः ॥ ९.४ ॥
अज्यते केनचित्कश्चित्किंचित्केनचिदज्यते ।
कुतः किंचिद्विना कश्चित्किंचित्कंचिद्विना कुतः ॥ ९.५ ॥
सर्वेभ्यो दर्शनादिभ्यः कश्चित्पूर्वो न विद्यते ।
अज्यते दर्शनादीनामन्येन पुनरन्यदा ॥ ९.६ ॥
सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते ।
एकैकस्मात्कथं पूर्वो दर्शनादेः स विद्यते ॥ ९.७ ॥
द्रष्टा स एव स श्रोता स एव यदि वेदकः ।
एकैकस्माद्भवेत्पूर्वमेवं चैतन्न युज्यते ॥ ९.८ ॥
द्रष्टान्य एव श्रोतान्यो वेदकोऽन्यः पुनर्यदि ।
सति स्याद्द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत् ॥ ९.९ ॥
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते ॥ ९.१० ॥
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
न विद्यते चेद्यस्य स न विद्यन्त इमान्यपि ॥ ९.११ ॥
प्राक्च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वमेव च ।
न विद्यतेऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः ॥ ९.१२ ॥