मत्तविलासप्रहसनम्

विकिस्रोतः तः
Jump to navigation Jump to search
मत्त-विलास-प्रहसनम्
पल्लववंशीयभूपतिना महेन्द्रवर्मणा विरचितम्[१]

(प्रविश्य) नटी (स-रोषम्) : अय्य ! किं चिरस्स कालस्स जोब्बण-गुण-भर-मत्तविलास-प्फसणं दंसेदुं आअदो सि ?[२]

सूत्रधारः  : यथाह भवती ।

नटी  : ताए एव दाव दंसेहि, जा तुए रम{इ}दब्बा ।[३]

सूत्रधारः  : त्वया सह दर्शयिष्यामीति ।

नटी  : किं ताए एव्व णिउत्तो सि ?[४]

सूत्रधारः  : एवम् एतत् । अपि च, तत्र गता महान्तम् अनुग्रहं लप्स्यसे ।

नटी  : तव एव्व खु एदं जुज्ज{इ} ।

सूत्रधारः  : भवति ! किम् इव न युज्यते ? त्वत्-प्रयोग-परितोषिता परिषद् अनुग्रहीष्यतीति ।

नटी (स-हर्षम्) : एवम् । लद्धो अय्य-मिस्साणं पसादो ।

सूत्रधारः  : बाढं लब्धः ।

नटी  : ज{इ} एवं, किं दे पिअक्खाणिअं देमि ?

सूत्रधारः  : अलं प्रियाख्यानिक-पुनरुक्तेन । पश्य—

उद्भिन्न-रोमाञ्च-कपोल-रेखम् आविर्मयूख-स्मितम् अञ्चित-भ्रु ।
लब्ध्वा प्रिये दुर्लभम् आननं ते भूयोऽपि किं प्रार्थयितव्यम् अस्ति ॥२॥

नटी  : किं दाणि अय्येण प{उ}ज्जिदव्वं ?

सूत्रधारः  : ननु त्वयैवाभिहितं मत्त-विलास-प्रहसनम् इति ।

नटी  : णूणं इमस्सिं पक्खवादी मे कोबो, जेण अभिप्पाआणुरूबं भणाविदह्मि । अय्य, कदमो उण सो कबी, जो इमाए किदीए पआसीअदि ।

सूत्रधारः  : भवति, श्रूयताम् । पल्लव-कुल-धरणि-मण्डल-कुल-पर्वतस्य सर्व-नय-विजित-समस्त-सामन्त-मण्डलस्य आखण्डल-सम-पराक्रम-श्रियः श्रीमहिमानुरूप-दान-विभूति-परिभूत-राज-राजस्य श्री-सिंह-विष्णु-वर्मणः पुत्रः शत्रु-षड्-वर्ग-निग्रह-परः पर-हित-परतन्त्रतया महा-भूत-सधर्मा महाराजः श्री-महेन्द्र-विक्रम-वर्मा नाम । अपि च—

प्रज्ञा-दान-दयानुभाव-धृतयः कान्ति-कला-कौशलं सत्यं शौर्यम् अमायता विनय इत्य् एवम्-प्रकारा गुणाः ।
अप्राप्त-स्थितयः समेत्य शरणं याता यम् एकं कलौ कल्पान्ते जगद्-आदिम् आदि-पुरुषं सर्ग-प्रभेदा इव ॥३॥

किं च—

आकरे सूक्ति-रत्नानां यस्मिन् गुण-गरीयसाम् ।
अर्घन्ति बहु-सूक्तानि सतां सार-लघून्य् अपि ॥४॥

नटी  : किं दाणि अय्येण विलम्बीअदि ? णं अपुरुवदाए तुरिअं अणुट्ठिदव्वो अअं पओओ ।

सूत्रधारः  : अहं तु—

सम्प्रति सङ्गीत-धनः कवि-गुण-कथयास्मि निघ्नतां नीतः ।

नेपथ्ये  : प्रिये ! देवसोमे !

सूत्रधारः  :

युवति-सख एष सुरया कपाल-विभवः कपाली ॥५॥

(निष्क्रान्तौ)

॥ स्थापना ॥

(ततः प्रविशति स-परिग्रहः कपाली ।)

कपाली  : प्रिये ! देवसोमे ! सत्यम् एवैतत् । तपसा काम-रूपता प्राप्यत इति । यत् त्वया परम-व्रतस्य विधिवद् अनुष्ठानेनान्ध एव रूपातिशयः क्षणात् प्रतिपन्नः । तव हि—

उद्भिन्न-श्रम-वारि-बिन्दु वदनं स-भ्रू-लता-विभ्रमं
खेलं यातम् अकारणानि हसितान्य् अव्यक्त-वर्णा गिरः ।
रागाक्रान्तम् अधीर-तारम् अलसापाङ्गं युगं नेत्रयोर्
अंसोपान्त-विलम्बिनश् च विगलन्-माला-गुणा Fमूर्धजाः ॥६॥

देवसोमा  : भअवं ! मत्तं बिअ मत्तं बिअ मं भणासि ।

कपाली  : किम् आह भवती ?

देवसोमा  : ण हु किञ्चि भणामि ।

कपाली  : किं नु खलु मत्तोऽस्मि ?

देवसोमा  : भअवं ! परिब्बम{इ} परिब्बम{इ} पुहुबी । पुरो वदामि बिअ । अलम्ब दाणि मं ।

कपाली  : प्रिये, तथास्तु । (अवलममानः पतनं रूपयित्वा) प्रिये सोमदेवे ! किं त्वं कुपितासि ? यद् अवलम्बितुम् उपसर्पतो मे दूरीभवसि ?

देवसोमा  : अहो णु खु आअदकोबा सोमदेवा । जा तुए सीसेण पणमिअ अणुणीअमाणा बि दूरीहोइ ।[३]

कपाली  : ननु त्वम् एवासि सोमदेवा ! (ध्यात्वा) नहि, देवसोमा !

देवसोमा  : भअवं ! णं तहा वल्लहा सोमदेवा । णार्हदि मम णाम केणाभिधादुं ।

कपाली  : भवति ! सुलभ-पद-स्खलितो मे मदोऽयं न तवात्रापराधः ।

देवसोमा  : दिट्ठिआ ण तुवं ।

कपाली  : कथं मद्य-दोषो माम् एवं सङ्क्रामयति । भवतु भवतु । अद्य प्रभृति मद्य-निषेवणान् निवृत्तोऽस्मि ।

देवसोमा  : भअवं ! मा मा मम कारणादो वद-भङ्गेण तबो खण्डेदुं ।

कपाली (स-हर्षम् उत्थाप्यालिङ्ग्य) : घृर्ण घृर्ण, नमः शिवाय ! प्रिये !

पेया सुरा प्रियतमा-मुखम् ईक्षितव्यं ग्राह्यः स्वभाव-ललितो विकृतश् च वेषः ।
येनेदम् ईदृशम् अदृश्यत मोक्ष-वर्त्म दीर्घायुर् अस्तु भगवान् स पिनाक-पाणिः ॥७॥

देवसोमा  : भअवं ! ण तहा भणिदव्वं । अघन्ते मोक्ख-मग्गं अण्णहा वण्णअन्ति ।

कपाली  : भद्रे ! ते खलु मिथ्या-दृष्टयः । कुतः ?

कार्यस्य निःसंशयम् आत्म-हेतोः सरूपतां हेतुभिर् अभ्युपेत्य ।
दुःखस्य कार्यं सुखम् आमनन्तः स्वेनैव वाक्येन हता वराकाः ॥८॥

देवसोमा  : सन्तं सन्तं पाबं !

कपाली  : शान्तं शान्तं पापम् ! न खलु ते पापा आक्षेप-मुखेनाप्य् अभिधातुम् अर्हन्ति । ये ब्रह्मचर्य-केश-निर्लोटन-मल-धारण-भोजन-वेला-नियम-मलिनपट-परिधानादिभिः प्राणिनः परिक्लेशयन्ति । तद् इदानीं कुतीर्थसङ्कीर्तनोपहतां जिह्वां सुरया प्रक्षालयितुम् इच्छामि ।

देवसोमा  : तेण हि अण्णं दाणिं सुरापाणं गच्छामो ।

कपाली  : प्रिये, तथास्तु ।

(उभौ परिक्रामतः ।)

कपाली  : अहो नु खलु विमान-शिखर-विश्रान्त-घन-रसित-सअन्दिग्ध-मृदङ्गशब्दस्य मधु-समय-निर्माण-मातृकायमाण-माल्यापणस्य कुसुम-शर-विजयघोषणायमान-वर-युवति-काञ्ची-रवस्य काञ्चीपुरस्य पुरा विभूतिः । अपि च—

अनतिशयम् अनन्तं सौख्यम् अप्रत्यनीकं
समधिगत-सतत्त्वा मेनिरे यन् मुनीन्द्राः ।
तद् इह निरवशेषं दृष्टम् एतत् तु चित्रं
यद् उत करण-भोग्यं काम-भोगात्मकं च ॥९॥

देवसोमा  : भअवं, भअवदी वारुणी बिअ अणवगीअ-मुहरा कञ्ची ।[४]

कपाली  : प्रिये, पश्य पश्य ! एष सुरापणो यज्ञ-वाट-विभूतिम् अनुकरोति । अत्र हि ध्वज-स्तम्भो यूपः । सुरा सोमः । शौण्डा ऋत्विजः । चषकाश् चमसाः । शूल्य-मांसप्रभृतय उपदंशा हविर् विशेषाः । मत्त-वचनानि यजूंषि । गीतानि सामानि । उदङ्काः स्रुवाः । तर्पोऽग्निः । सुरापणाधिपतिर् यजमानः ।

देवसोमा  : अह्माअं पि एत्थ भिक्खा रुद्दभाओ भविस्सदि ।[५]

कपाली  : अहो दर्शनीयानि प्रहत-मर्दल-करणानुगतानि विविधाङ्ग-हार-वचनभ्रू-विकाराणि उच्छ्रितैक-हस्तावलम्बितोत्तरीयाणि विगलित-वसन-प्रतिसमाधानक्षण-विषमित-लयानि व्याकुलित-कण्ठ-गुणानि मत्त-विलास-नृत्यानि ।

देवसोमा  : अहो रसिओ खु आअय्यो ।[६]

कपाली  : एषा भगवती वारुणी चषकेष्व् आवर्जिता प्रत्यादेशो मण्डनानाम्, अनुनयः प्रणय-कुपितानां, पराक्रमो यौवनस्य, जीवितं विभ्रमाणाम् । किं बहुना,

मिथ्या त्रिलोचन-विलोचन-पावकेन
भस्मीकृतां मदन-मूर्तिम् उदाहरन्ति ।
स्नेहात्मिका तद्-अभिताप-वशाद् विलीना
सेयं प्रिये मदयति प्रसभं मनांसि ॥१०॥

देवसोमा  : भअवं, जुज्ज{इ} एदं । णहि लोओवआरणिरदो लोअणाहो लोअं विणासेदि ।[७]

(उभौ कपोल-पटहं कुरुतः ।)

कपाली  : भवति भिक्षां देहि ।

नेपथ्ये  : भअवं ! एसा भिक्खा । पडिगण्हदु भअवं ।[८]

कपाली  : एष प्रतिगृह्णामि । प्रिये, क्व मे कपालम् ?

देवसोमा  : अहं बि ण पेक्खामि ।[९]

कपाली (ध्यात्वा) : आ, तस्मिन्न् एव सुरापणे विस्मृतम् इति तर्कयामि । भवतु, प्रतिनिवृत्य द्रक्ष्यावः ।

देवसोमा  : भअवं, अधम्मो खु एसो आदरोवणीदाए भिक्खाए अप्पडिग्गहो, किं दाणि करम्ह ?[१०]

कपाली  : आपद्-धर्मं प्रमाणीकृत्य गो-शृङ्गेण प्रतिगृह्यताम् ।

देवसोमा  : भअवं, तहा । (पर्तिगृह्णाति ।)

(उभौ परिक्रम्यावलोकयतः ।)

कपाली  : कथम् इहापि न दृश्यते । (विषादं रूपयित्वा) भो भो माहेश्वराः ! माहेश्वराः ! अस्मदीयं भिक्षा-भाजनम् इह भवद्भिः किं दृष्टम् ? किम् आहुर् भवन्तः ? न खलु वयं पश्याम इति । हा हतोऽस्मि । भ्रष्टं मे तपः । केनाहम् इदानीं कपाली भविष्यामि । भोः कष्टम् !

येन मम पान-भोजन-शयनेषु नितान्तम् उपकृतं शुचिना ।
तस्याद्य मां वियोगः सन्-मित्रस्येव पीडयति ॥११॥

(पतितः शिरस् ताडनं रूपयित्वा) भवतु, अस्ति लक्षण-मात्रम् । न मुक्तोऽस्मि कपालिसंज्ञायाः । (उत्तिष्ठति ।)

देवसोमा  : भअवं, केण खु गहीदं कबालं ?[११]

कपाली  : प्रिये, तर्कयामि शूल्य-मांस-गर्भत्वाच् छुना वा शाक्य-भिक्षुणा चेति ।

देवसोमा  : तेण हि अण्णेसण-णिमित्तं सब्बं कञ्चीउरं परिब्भमामो ।[१२]

कपाली  : प्रिये, तथा । (उभौ परिक्रामतः ।)

(ततः प्रविशति शाक्य-भिक्षुः पात्र-हस्तः ।)

शाक्य-भिक्षुः  : अहो उवास अस्स धण-दास-सेट्ठिणो सव्वावास-महादाण-महिमाणो, जहिं मए अभिमद-वण्ण-गन्ध-रसो मच्छ-मंस-प्पआर-बहुलो अअं पिण्डवादो समासादिदो । जाव दाणि राअ-बिहारं एब्ब गच्छामि ।[१३] (परिक्रम्य आत्म-गतं) भोः ! परम-कारुणिएण भअवदा तहागएण पासादेसु वासो, सुबिहि अ सुय्येसु पज्जेङ्केसु सअणं, पुब्बण्हे भोअणं, अवरण्हे सुरसाणि पाणआणि, पञ्च-सुगन्धब्बोहिअं तम्बोल्लं, सण्ह-वसण-परिधाणं ति एदेहि उबदेसेहि भिक्खु-सङ्घस्स अणुग्गहं करन्तेण किण्णुहु इत्थिआ-परिग्गहो सुरावाण-विहाणं च ण दिट्ट्ःं । अहब कहं सब्बणो एदं ण पेक्खदि ? अबस्सं एदेहि दुट्ठ-बुद्ध-थविरेहि णिरुच्छाएहि अह्माणं तरुण-जणाणं मच्छरेण पिडअपुत्थएसु इत्थिआ-सुरावाणविहाणाणि पलामिट्ठाणि त्ति तक्केमि । कणिं णु हु अविणट्ठ-मूल-पाठं समासादएअं । तदो सम्पुण्णं बुद्ध-वअणं लोए पलासअन्तो सङ्घोबआरं करिस्सं ।[१४] (परिक्रामति ।)

देवसोमा  : भअवं ! पेक्ख पेक्ख । एसो रत्त-पडो इमस्सिं विस्सत्थ-पुरिससम्पादे राअ-मग्गे सङ्कुहद-सब्बङ्गो उभय-पक्ख-सञ्चारिद-दिट्ठी सङ्किदपद-विक्खेबो तुरिअ-तुरिअं गच्छ{इ} ।[१५]

कपाली  : प्रिये, एवम् एतत् अपि चास्य हस्ते चीवरान्तः-प्रच्छादितं किम् अप्य् अस्तीव ।

देवसोमा  : भअवं, तेण हि ओलम्बिअ आसादिअ जाणीमो ।[१६]

कपाली  : भवति, तथा । (उपगम्य) भो भिक्षो ! तिष्ठ ।

शाक्य-भिक्षुः  : को णु खु मं एवं भणादि ? (निवृत्यावलोक्य च) अ{इ} अयं एअंब्बावासी दुट्ठ-कबालियो ! भोदु, इमस्स सुराबिब्भमस्स लक्खं ण होमि ।[१७]

कपाली  : प्रिये ! हन्त लब्धं कपालम् । अस्य हि मद्-दर्शन-जनित-भयात् त्वरैव चौर्य-साक्षित्वं प्रतिपन्ना । (द्रुतम् उपगम्याग्रतो रुणद्धि ।) आः धूर्त ! क्वेदानीं गमिष्यसि ।

शाक्य-भिक्षुः  : कबालिआउस ! मा मा एवं । किं एदं ? (आत्म-गतम्) अहो ललिअ-रूबा उबासिआ ।[१८]

कपाली  : भो भिक्षो ! दर्शय तावत् । यावद् एतत् ते पाणौ चीवरान्तः-प्रच्छादितं द्रष्टुम् इच्छामि ।

शाक्य-भिक्षुः  : किं एत्थ पेक्खिदब्बं भिक्खा-भाअणं खु एदं ।[१९]

कपाली  : अत एव द्रष्टुम् इच्छामि ।

शाक्य-भिक्षुः  : आ उस, मा मा एवं । पच्छण्णं खु एदं णेदब्बं ।[२०]

कपाली  : नूनं एवम् आदि-प्रच्छादन-निमित्तं बहु-चीवर-धारणं बुद्धेनोपदिष्टम् ।

शाक्य-भिक्षुः  : सच्चं एदं ।[२१]

कपाली  : इदं तत् संवृत्त-सत्यम् । परमार्थ-सत्यं श्रोतुम् इच्छामि ।

शाक्य-भिक्षुः  : भोदु, एत्तओ परिहासो । अदिक्कमदि भिक्खा-वेला । साहेमि अहं ।[२२] (प्रतिष्ठते ।)

कपाली  : आः, धूर्त ! क्व गमिष्यसि ? दीयतां मे कपालम् । (चीवरान्तम् आलम्बते ।)

शाक्य-भिक्षुः : णमो बुद्धाअ ।[२३]

कपाली  : नमः खर-पटायेति वक्तव्यं, येन चोर-शास्त्रं प्रणीतम् । अथवा खरपटाद् अप्य् अस्मिन्न् अधिकारे बुद्ध एवाधिकः । कुतः ?

वेदान्तेभ्यो गृहीत्वार्थान् यो महा-भारताद् अपि ।
विप्राणां मिषताम् एव कृतवान् कोश-सञ्चयम् ॥१२॥

शाक्य-भिक्षुः  : सन्तं पापं सन्तं पापं ।[२४]

कपाली  : एवं सुवृत्तस्य तपस्विनः कथम् इव पापं न शाम्यति ?

देवसोमा  : भअवं, परिस्सन्तो बिअ लक्खीअसि । ण एदं सुहोबाअसुलहं कपालं । ता एदिणा गोसिङ्गेण सुरं पिबिअ जाद-बलो भविअ इमिणा सह विवादं करेहि ।[२५]

कपाली  : तथास्तु ।

(देवसोमा कपालिने सुरां प्रयच्छति ।)

कपाली (पीत्वा) : प्रिये, त्वयापि श्रमापनोदः कर्तव्यः ।

देवसोमा  : भअवं ! तह । (पिबति ।)

कपाली  : अयम् अस्माकम् अपकारी । संविभाग-प्रधानः स्व-सिद्धान्तः । शेषम् आचार्याय प्रदीयताम् ।

देवसोमा  : जं भअवं आणबेदि । गह्णदु भअवं ।२८

शाक्य-भिक्षुः (आत्म-गतम्) : अहो सुहोबणदो अब्भुदओ । एत्तओ दोसो । महाजणो पेक्खिस्सदि । (प्रकाशम्) भोदि ! मा मा एवं । बड्ढेदि अह्माणं ।[२६] (सृक्वणी लेढि ।)

देवसोमा  : धंस ! कुदो दे एत्तिआणि भाअधेआणि ?[२७]

कपाली  : प्रिये ! इयम् अस्येच्छा-विरोधिनी वाग् मुख-प्रसेकेन स्खलति ।

शाक्य-भिक्षुः  : इदाणिं बि णत्थि दे करुणा ?[२८]

कपाली  : यद्य् अस्ति करुणा, कथं वीत-रागो भविष्यामि ?

शाक्य-भिक्षुः  : एवं वीद-रागिणा वीद-रोसेण विहोदव्वं ।[२९]

कपाली  : वीत-रोषो भविष्यामि, यदि मे स्वकं दास्यति ।

शाक्य-भिक्षुः  : किं दे सअं ?३३

कपाली  : कपालम् ।

शाक्य-भिक्षुः  : कहं कबालं ?

कपाली  : कथं कपालम् इत्य् आह ! अथवा युक्तम् एतत्—

दृष्टानि वस्तूनि मही-समुद्र-महीधरादीनि महान्ति मोहात् । : अपह्णुवानस्य सुतः कथं त्वम् अल्पं न निह्नोतुम् अलं कपालम् ॥१३॥

देवसोमा  : भअवं ! केवलं लालीयमाणो ण द{इ}स्सदि । ता एदस्स हत्थादो आच्छिन्दिअ गच्छामो ।[३०]

कपाली  : प्रिये, तथा । (आच्छेत्तुं व्याप्रियते ।)

शाक्य-भिक्षुः  : धंस दुट्ठ-कबालिअ !३५ (हस्तेन नुदन् पादेन ताडयति ।)

कपाली  : कथं पतितोऽस्मि ?

देवसोमा  : मुदो ह्मि दासीए-उत्त ।[३१] (केशापकर्षणं रूपयित्वा निरालम्बना पतिता ।)

शाक्य-भिक्षुः (आत्म-गतम्) : अघं बुद्धस्स विण्णाणं, जेण मुण्डनं दिट्ठं । (प्रकाशम्) उट्ठेहि उट्ठेहि उसिए । उट्ठेहि ।[३२] (इति देवसोमाम् उत्थापयति ।)

कपाली  : पश्यन्तु पश्यन्तु माहेश्वराः । अनेन दुष्ट-भिक्षु-नाम-धारकेण नागसेनेन मम प्रियतमा-पाणि-ग्रहणं क्रियमाणम् ।

शाक्य-भिक्षुः  : आ बुस ! मा मा एवं । धम्मो खु अह्माणं विसमपदिदाणुकम्पा ।[३३]

कपाली  : किम् अयम् अपि सर्वज्ञ-धर्मः, नन्व् अहं पूर्वं पतितोऽस्मि । भवतु, किम् अनेन । इदानीं तव शिरः-कपालं मम भिक्षा-कपालं भविष्यति ।

(सर्वे कलहं रूपयन्ति ।)

शाक्य-भिक्षुः  : दुक्खं दुक्खं ।[३४]

कपाली  : पश्यन्तु पश्यन्तु माहेश्वराः । एष दुष्ट-भिक्षु-नाम-धारको मम भिक्षा-कपालं मुषित्वा स्वयम् एवाक्रन्दति । भवतु, अहम् अप्य् आक्रोशयिष्ये । अब्रह्मण्यम् अब्रह्मण्यम् !

(ततः प्रविशति पाशुपतः ।)

पाशुपतः  : सत्यसोम ! किम्-अर्थम् आक्रन्दसि ?

कपाली  : भो बभ्रुकल्प ! अयं दुष्ट-भिक्षु-नाम-धारको नागसेनो मम भिक्षाकपालं चोरयित्वा दातुं नेच्छति ।

पाशुपतः (आत्म-गतम्) : यद् अस्माभिर् अनुष्ठेयम्, गन्धर्वैस् तद् अनुष्ठितम् । एष दुरात्मा—

तां क्षौरिकस्य दासीं मम दयितां चीवरान्त-दर्शितया ।
आकर्षति काकण्या बहुशो गां ग्रास-मुष्ट्यैव ॥१४॥

तद् इदानीं प्रतिहस्ति-प्रोत्साहनेन शत्रु-पक्षं ध्वंसयामि । (प्रकाशम्) भो नागसेन ! अप्य् एवम् एतद् यथायम् आह ?

शाक्य-भिक्षुः  : भअवं ! तुवं पि एवं भणासि ? अदिण्णादाणा वेरमणं सिक्खापदं । मुधा-वादा वेरमणं सिक्खा-पदं । अब्बम्हचय्या वेरमणं सिक्खापदं । पाणादि-पादा वेरमणं सिक्खा-पदं । अकाल-भोअणा वेरमणं सिक्खापदं । अह्माअं बुद्ध-धम्मं सरणं गच्छामि ।[३५]

पाशुपतः  : सत्यसोम ! ईदृश एषां समयः । किम् अत्र प्रतिवचनम् ?

कपाली  : नन्व् अस्माकम् अनृतं न वक्तव्यम् इति समयः ।

पाशुपतः  : उभयम् अप्य् उपपन्नम् । कोऽत्र निर्णयोपायः ?

शाक्य-भिक्षुः  : बुद्ध-बअणं पमाणीकरअन्तो भिक्खू सुराभाअणं गण्हादि त्ति को एत्थ हेदू ?[३६]

पाशुपतः  : नहि प्रतिज्ञा-मात्रेण हेतु-वादिनः सिद्धिर् अस्ति ।

कपाली  : प्रत्यक्षे हेतु-वचनं निरर्थकम् ।

पाशुपतः  : कथं प्रत्यक्षम् एव ?

देवसोमा  : भअवं ! एदस्स हत्थे चीवरान्त-प्पच्छादिदं कबालं ।[३७]

पाशुपतः  : श्रुतं भवता ।

शाक्य-भिक्षुः  : भो भअं ! एदं कबालं ण परकेरअं ।[३८]

कपाली  : तेन हि दर्शय तावत् ।

शाक्य-भिक्षुः  : तह ।[३९] (दर्शयति ।)

कपाली  : पश्यन्तु पश्यन्तु माहेश्वराः ! कापालिकेन कृतम् अन्याय्यम् अस्य भदन्तस्य साधु-वृत्ततां च ।

शाक्य-भिक्षुः  : अदिण्णादाणा वेरमणं सिक्खा-पदं ।[४०] (इति पुनस् तद् एव पठति ।)

(उभौ नृत्यतः ।)

शाक्य-भिक्षुः  : हद्धि ! लज्जिदब्बे काले णच्चदि ।[४१]

कपाली  : आः को नृत्यति ? (सर्वतो विलोक्य) आ मम नष्ट-भिक्षा-भाजन-दर्शनकुतूहल-मलयानिल-प्रयुक्ताया ध्रुवम् अस्य नृत्त-बुद्धिः प्रीति-लताया विलसितेषु ।

शाक्य-भिक्षुः  : भअवं, केण कारणेण पदं ण लक्खीअदि ? भो ! आचिक्खदु भअवं । इमस्स अअं वण्णो ।[४२]

कपाली  : किम् अत्र वक्तव्यम् ? ननु मया दृष्टम् । काकाद् अपि कृष्णम् इदं कपालम् ।

शाक्य-भिक्षुः  : तेण हि एदं ममकेरअं ति सअं एव अब्भुबगदं ।[४३]

कपाली  : सत्यम् अभ्युपगतं तव वर्णान्तर-करणे नैपुण्यम् । पश्य—

यद् एतद् आसीत् प्रथमं स्वभावतो मृणाल-भङ्ग-च्छवि-चोरम् अम्बरम् ।
ननु त्वया नीतम् अचिन्त्य-कर्मणा तद् एव बालारुण-राग-ताम्रताम् ॥१५॥

अपि च—

आवृत्तं बहिर् अन्तश् च कषायेणानपायिना ।
त्वां प्राप्तं स्यात् कथं नाम कपाल-कषायितम् ॥१६॥

देवसोमा  : हा हदह्मि मन्द-भाआ ! सब्ब-लक्खण-सम्पण्णदाए कमलासणसीसक-बालाणुभावस्स पुण्णमासि-सोम-दंसणस्स णिच्च-सुरा-गंधिणो एदस्स मलिण-पड-संसग्गेण इअ ईदिसी अवत्था संवुत्ता ।[४४] (इति रोदिति ।)

कपाली  : प्रिये, अलम् अलं सन्तापेन । पुनः शुचिर् भविष्यति । श्रूयन्ते हि महान्ति भूतानि प्रायश्चित्तैर् अपनीत-कल्मषाणि भवन्ति । तथा हि—

आस्थाय प्रयतो महा-व्रतम् इदं बालेन्दु-चूडामणिः
स्वामी नो मुमुचे पितामह-शिरश् छेदोद्भवाद् एनसः ।
नाथोऽपि त्रिदिवौकसां त्रिशिरसं त्वष्टस् तनूजं पुरा
हत्वा यज्ञ-शतेन शान्त-दुरितो भेजे पुनः पुण्यताम् ॥१७॥

भो बभ्रु-कल्प ! नन्व् एवम् एतत् ।

पाशुपतः  : आगमानुगतम् अभिहितम् ।

शाक्य-भिक्षुः  : भो वण्णो दाव मए किदो । इमस्स सण्ठाण-परिमाणं केण णिम्मिदं ?[४५]

कपाली  : ननु माया-सन्तान-सम्भवाः खलु भवन्तः ?

शाक्य-भिक्षुः  : केत्तिअं वेलं भवन्तं अक्कोसामि । गण्हदु भअवं ।५१

कपाली  : नूनम् एवं बुद्धेनापि दान-पारमिता पूरिता ।

पाशुपतः  : एवं गदे किं दाणिं मे सरणं ?५२

कपाली  : ननु बुद्ध-धर्म-सङ्हाः ।

पशुपतः  : नायं व्यवहारो मया परिच्छेत्तुं शक्यते । तद् अधिकरणम् एव यास्यामः ।

देवसोमा  : भअवं, ज{इ} एवं, णमो कबालस्स ।[४६]

पाशुपतः  : कोऽभिप्रायः ?

देवसोमा  : एसो उण अणेअ-विहार-भोअ-समधिगद-वित्त-सञ्चओ जहा-कामं अधिकरण-कारुणिआणं मुहाणि पूरेदुं पारेदि । अह्माअं पुण अहि-चम्म-भूदिमत्त-विभवस्स दरिद्द-कबालिअस्स परिआरिआणं को एत्थ विभवो अधिकरणं पविसिदुं ।[४७]

पाशुपतः  : नैतद् एवम् ।

अजिह्मैः सारगुरुभिः स्थिरैः श्लक्ष्णैः सुजन्मभिः ।
तैर् धर्मो धार्यते स्तम्भैः प्रासाद इव साधुभिः ॥१८॥

कपाली  : कृतम् अनेन । कुतश्चिद् अपि न्याय्य-वृत्तेर् भयं नास्ति ।

शाक्य-भिक्षुः  : भो भअवं ! तुमं दाव अग्गदो होहि ।[४८]

पाशुपतः  : बाढम् । (ततः परिक्रामति ।)

(ततः प्रविशति उन्मत्तकः ।)

उन्मत्तकः  : एशे एशे दुट्ठ-कक्कुले ! शुल्ल-मंश-गब्भं कबालं गण्हिअ धावशि । दाशीए पुत्त ! कहिं गमिश्शिशि ? एशे दाणिं कबालं णिक्खिबिअ मं खायिदुकामो अहिमुहं आहाव{इ} ।[४९]

(दिशो विलोक्य) इमिणा पत्थलेण दन्ताणि शे भंजिश्शं । कहं कबालं उज्झिअ पलाअशि ? उम्मत्ते दुट्ठ-कुक्कुले ईदिशेण णाम शूलत्तणेण मए शह बि लोशं कलेशि । गाम-शूगलं आलुहिअ गगणम् उप्पदिदेण शागलेण पडिभैञ्जिअ लावणं बला गहीदे शक्कुशुदे तिमिङ्गले । अ{इ} एलण्ड-लुक्ख । किं भणाशि ? अलिअं अलिअं त्ति । णं एशे मुशल-शम-विशाल-लम्ब-हत्थे दद्दुले मे सक्खी । अहब तेल्लोक्क-विदिअ-पलक्कम् अश्श शक्खिणा किं कय्यं । एवं कलिश्शं । कुक्किल-खादिअ-शेशं मंश-खण्डं खादिश्शं ।[५०]

(खादन् भ्रान्तः ।) हा हा मालिदो म्हि बप्फेण मालिदो ह्मि । (रुदित्वा विलोक्य) के एशे मं तालेशि ? (विलोक्य) दुट्ठ-दालआ ! जश्श वा कश्श वा भाउणेओ खु अहं, भीमशेणश्श घटुक्कओ बिअ । अबिअ शुणाथ[५१]

गहीद-शूला बहु-वेश-धालिणो शदं पिशाआ उदले वहन्ति मे ।
शदं च बग्घाण णिशग्गभीशणं मुहेण मुञ्चामि अहं महोलए ॥१९॥[५२]

कहं म बाहन्ति ? पशीदन्तु पशीदन्तु दालअ-भट्टा । इमश्श मंश-खण्डश्श कालणादो मा मं बाहेह । (अग्रतो विलोक्य) एशे खु अम्हाणं आआलिए शूलनन्दी । जाव णं उबशप्पामि ।[५३]

पाशुपतः  : अये, अयम् उन्मत्तक इत एवाभिवर्तते । य एषः—

निर्विष्टोज्झित-चित्र-चीवर-धरो रुक्षैर् नितान्ताकुलैः
केशैर् उद्धत-भस्म-पांसु-निचयैर् निर्मौल्य-मालाकुलैः ।
उच्छिष्टाशन-लोलुपैर् बलिभुजाम् अन्वास्यमानो गुणैर्
भूयान् ग्राम-कसार-सञ्चय इव भ्राम्यन् मनुष्याकृतिः ॥२०॥

उन्मत्तकः  : जाव णं उबशप्पामि । (उपसृत्य) महाशाहुणो चण्डाल-कुक्कुलश्श शआशादो अहिअदं एदं कपालं पडितण्डदु भअवं ।६१

पाशुपतः (स-दृष्टि-क्षेपम्) : पात्रे प्रतिपाद्यताम् ।

उन्मत्तकः  : महा-बम्हण ! कलिअदु पशादो ।[५४]

शाक्य-भिक्षुः  : एसो महा-पासुबदो एदस्स जोग्गो ।६३ [५५] उन्मत्तकः (कपालिनम् उपगम्य कपालं भूमौ निक्षिप्य प्रदक्षिणीकृत्य पादयोः पतित्वा) : महादेव ! कलिअदु पशादो । एशो दे अञ्जली ।[५६]

कपाली  : अस्मदीयं कपालम् ।

देवसोमा  : एवं एदं ।[५७]

कपाली  : भगवत्-प्रसादात् पुनर् अपि कपाली संवृत्तः ।

उन्मत्तकः  : दासीए पुत्त ! विशं खादेहि ।[५८] (कपालम् आच्छिद्य गच्छति ।)

कपाली (अनुसृत्य) : एष यम-पुरुषो मे जीवितं हरति । अभ्यवपद्येतां भवन्तौ ।

उभौ  : होदु । अम्हे दे सआआ होम ।[५९]

(सर्वे रुन्धन्ति ।)

कपाली  : भोः, तिष्ठ तिष्ठ !

उन्मत्तकः  : किश्श मं लुन्धन्ति ।[६०]

कपाली  : अस्मदीयं कपालं दत्त्वा गम्यताम् ।

उन्मत्तकः  : मूढ ! किं ण पेक्खशि, शुबण्ण-भाअणं खु एदं ?[६१]

कपाली  : एवं विधं सुवर्ण-भाजनं केन कृतम् ?

उन्मत्तकः  : एदिणा शुवण्ण-वण्ण-पडाबुदेण शुबण्ण-काराबुत्तएण किदं त्ति भवअं । शुवण्ण-भाअणं त्ति भणामि ।[६२]

शाक्य-भिक्षुः  : किं भणसि ?

उन्मत्तकः  : शुवण्ण-भाअणं त्ति ।

शाक्य-भिक्षुः  : किम् अअं उम्मत्तओ ?[६३]

उन्मत्तकः  : उम्मत्तओ त्ति बहुशो एदं शद्दं शुणोमि । एदं गण्हिअ दलिशेहि उम्मत्तअं ।[६४]

कपाली (कपालं गृहीत्वा) : अयम् इदानीं कुड्येनान्तर्हितः । शीघ्रम् अनुगम्यताम् ।

उन्मत्तकः  : लद्ध-प्पशादे ह्मि ।[६५] (निष्क्रान्तो जवेनोन्मत्तकः ।)

शाक्य-भिक्षुः  : अहो अच्छरिअं । पर-बक्खस्स लाभेण अहं परितुट्ठो ह्मि ।

कपाली (कपालं परिष्वज्य) :

चिरं मया चरितम् अखण्डितं तपो
महेश्वरे भगवति भक्तिर् अस्ति मे ।
तिरोहितः स तु सहसा सुखेन नस्
त्वम् अद्य यत् कुशलि कपाल दृश्यसे ॥२१॥

देवसोमा  : भअवं ! चन्दसमागदं बिअ पओसं भअवन्तं पेक्खन्तीए अज्ज आणन्ददी बिअ मे दिट्ठी ।[६६]

पाशुपतः  : दिष्ट्या भवान् वर्धते ।

कपाली  : नन्व् अभ्युदयो भवताम् एव ।

पाशुपतः (आत्म-गतं) : सत्यम् एतत् । नास्त्य् अदोषवतां भयम् इति । यद् अयम् अद्य भिक्षुर् व्याघ्र-मुखात् परिभ्रष्टः । (प्रकाशम्) यावद् अहम् इदानीम् एव सुहृदभ्युदय-कृतम् आनन्दं पुरोधाय भगवतः पूर्व-स्थली-निवासिनो धूमलेखां प्रतिपालयामि । अयं चाद्य-प्रभृति—

विरोधः पूर्व-सम्बद्धो युवयोर् अस्तु शाश्वतः ।
परस्पर-प्रीतिकरः किराटार्जुनयोर् इव ॥२२॥

(निष्क्रान्तः पाशुपतः ।)

कपाली  : भो नागसेन ! यन् मयापराधः कृतः, तत् प्रसन्न-हृदयं त्वाम् इच्छामि ।

शाक्य-भिक्षुः  : किं एदं पि अब्भत्थणीअं । किं दे पिअं करेमि ?७५

कपाली  : यदि मे भगवान् प्रसन्नः । किम् अतः परम् अहम् इच्छामि ?

शाक्य-भिक्षुः : गच्छामि दाव अहं ।[६७]

कपाली  : गच्छतु भवान् पुनर् दर्शनाय ।

शाक्य-भिक्षुः  : तह होदु ।[६८] (निष्क्रान्तः ।)

कपाली  : प्रिये देवसोमे ! गच्छावस् तावत् ।

(भरत-वाक्यम्)

शश्वद् भूत्यै प्रजानां वहतु विधि-हुताम् आहुतिं जात-वेदा
वेदान् विप्रा भजन्तां सुरभि-दुहितरो भूरि-दोहा भवन्तु ।
उद्युक्तः स्वेषु धर्मेष्व् अयम् अपि विगत-व्यापादाचन्द्र-तारं
राजन्वानस् तु शक्ति-प्रशमित-रिपुणा शत्रु-मल्लेन लोकः ॥२३॥
(निष्क्रान्तौ ।)
इति मत्त-विलास-प्रहसनं समाप्तम् ।

सन्दर्भाः[सम्पाद्यताम्]

[१] Edition used: (ed.) Kapiladeva Giri Sahityacharya. Vidyabhavan Sanskrit Series, no. 135. Varanasi : Chowkhamba Vidya Bhavan, 1966. Text entered, Jan Brzezinski, Dec. 7, 2003.

[२] आर्य ! किं चिरस्य कालस्य यौवन-गुण-भर-मत्त-विलास-प्रहसनं दर्शयितुम् आगतोऽसि ? ३ तयैव तावद् दर्शय, या त्वया रमयितव्या । ४ किं तयैव नियुक्तोऽसि ?

[३] अहो, न खल्व् आगत-कोपा सोमदेवा या त्वया शीर्षेण प्रणम्यानुनीयमानापि दूरीभवति ।

[४] भगवन्, भगवती वारुणीवानवगीत-मधुरा काञ्ची ।

[५] आवयोर् अप्य् अत्र भिक्षा रुद्र-भागो भविष्यति ।

[६] अहो रसिकः खल्व् आचार्यः ।

[७] भगवन्, युज्यत एतत् । हनि लोकोपकार-निरतो लोकनाथो लोकं विनाशयति ।

[८] भगवन्, एषा भिक्षा । प्रतिगृह्णातु भगवान् ।

[९] अहम् अपि न पश्यामि ।

[१०] भगवन्, अधर्मः खल्व् एष आदरोप्नीताया भिक्षाया अप्रतिग्रहः । किम् इदानीं कुर्वः ?

[११] केन खलु गृहीतं कपालम् ?

[१२] तेन ह्य् अन्वेषण-निमित्तं सर्वं काञ्ची-पुरं परिभ्रमावः ।

[१३] अहो उपासकस्य धन-दास-श्रेष्ठिनः सर्वावास-महा-दान-महिमा, यस्मिन् मयाभिमत-वर्णगन्ध-रसो मत्स्य-मांस-प्रकार-बहुलोऽयं पिण्ड-पातः समासादितः । यावद् इदानीं राज-विहारम् एव गच्छामि ।

[१४] भोः ! परम-कारुणिकेन भगवता तथागतेन प्रासादेषु वासः, सुविहित-शय्येषु पर्येङ्केषु शयनं, पूर्वाह्ने भोजनं, अपराह्ने सुरसानि पानकानि, पञ्च-सुगन्धोपोहितं तम्बूलं, श्लक्ष्ण-वसन-परिधानम् इति एतैर् उपदेशैर् भिक्षु-सङ्घस्य अनुग्रहं कुर्वता किं नु खलु स्त्रीपरिग्रहः सुरा-पान-विधानं च न दृष्टम् । अथवा कथं सर्वज्ञो इदं न प्रेक्षते । अवश्यं एतैर् दुष्ट-बुद्ध-स्थविरैर् निरुत्साहैर् अस्माकं तरुण-जनानां मत्सरेण पिटक-पुस्तकेषु स्त्री-सुरापान-विधानानि परामृष्टानि तर्कयामि । कुतो नु खल्व् अविनष्ट-मूल-पाठं समासादय्यम् । ततः सम्पूर्णं बुद्ध-वचनं लोके प्रकाशयन् सङ्घोपकारं करिष्यामि ।

[१५] भगवन् ! पश्य पश्य । एष रक्त-पटो अस्मिन् विश्वस्त-पुरुष-सम्पाते राज-मार्गे सङ्कुचित-सर्वाङ्ग उभय-पक्ष-सञ्चारित-दृष्टिः शङ्कित-पद-विक्षेपस् त्वरित-त्वरितं गच्छति ।

[१६] भगवन्, तेन हि अवलम्ब्यासाद्य जानीवः ।

[१७] को नु खलु माम् एवं भणति । अयि अयम् एकाम्र-वासी दुष्ट-कापालिकः । भवतु, अस्य सुराविभ्रमस्य लक्ष्यं न भवामि ।

[१८] कापालिकोपासक ! मा मैवं, किम् एतत् ? अहो ललित-रूपा उपासिका ।

[१९] किम् अत्र द्रष्टव्यम् । भिक्षा-भाजनं खल्व् एतत् ।

[२०] आः, उपासक ! मा मैवं । प्रच्छन्नं खल्व् एतन् नेतव्यम् ।

[२१] सत्यम् एतत् ।

[२२] भवत्व् एतावान् परिहासः । अतिक्रामति भिक्षा-वेला । साधयाम्य् अहम् ।

[२३] नमो बुद्धाय ।

[२४] शान्तं पापं शान्तं पापं ।

[२५] भगवन्, परिश्रान्त इव लक्ष्यसे । नैतत् सुखोपाय-सुलभं कपालम् । तद् एतेन गो-शृङ्गेण सुरां पीत्वा जात-बलो भूत्वानेन सह विवादं कुरु । २८ यद् भगवान् आज्ञापयति । गृह्णातु भगवान् ।

[२६] अहो सुखोपनतोऽभुदयः । एतावान् दोषः—महाजनो द्रक्ष्यति । भवति, मा मैवम् । न वर्धतेऽस्माकम् ।

[२७] ध्वंसस्व । कुतस् ते एतावन्ति भाग-धेयानि ?

[२८] इदानिम् अपि नास्ति ते करुणा ?

[२९] एवं वीतरागेण वीत-रोषेण भवितव्यम् । ३३ किं ते स्वकम् ?

[३०] भगवन् ! केवलं लाल्यमानो न दास्यति तद् एतस्य हस्ताद् आच्छिद्य गच्छावः । ३५ ध्वंसस्व दुष्ट-कपालिक !

[३१] मृतास्मि दास्याः पुत्र !

[३२] अर्हं बुद्धस्य विज्ञानम् येन मुण्डनं दृष्टम् । उत्तिष्ठोत्तिष्ठ उपासिके, उत्तिष्ठ ।

[३३] आ उपासक मा मैवं । धर्मः खल्व् अस्माकं विषम-पतितानुकम्पा ।

[३४] दुःखं दुःखं ।

[३५] भगवन् ! त्वम् अपि एवं भणसि ? अदत्तादानाद् विरमणं सिक्षा-पदम् । मृषा-वादाद् विरमणं सिक्षा-पदम् । अब्रह्मचर्याद् विरमणं सिक्षा-पदम् । प्राणातिपाताद् विरमणं सिक्षा-पदम् । अकालभोजनाद् विरमणं सिक्षा-पदम् । अस्माकं बुद्ध-धर्मं शरणं गच्छामि ।

[३६] बुद्ध-वचनं प्रमाणीकुर्वन् भिक्षुः सुरा-भाजनं गृह्णातीति कोऽत्र हेतुः ?

[३७] भगवन् ! एतस्य हस्ते चीवरान्त-प्रच्छादितं कपालम् ।

[३८] भो भगवन् ! इदं कपालं न परकीयं ।

[३९] तथा ।

[४०] अदत्तादानाद् विरमणं सिक्षा-पदम् ।

[४१] हा धिक् ! लज्जितव्ये काले नृत्यति ।

[४२] भगवन्, तेन कारणेनैतन् न लक्ष्यते ? भोः, आचष्टां भगवान् अस्यायं वर्णः ।

[४३] तेन ह्य् एतन् मदीयम् इति स्वयम् एवाभ्युपगतम् ।

[४४] हा हतास्मि मन्द-भागा ! सर्व-लक्षण-सम्पन्नतया कमलासन-सीर्ष-कपालानुभावस्य पौर्णमासि-सोम-दर्शनस्य नित्य-सुरा-गन्धिन एतस्य मलिन-पट-संसर्गेणेयम् ईदृश्य् अवस्था संवृत्ता ।

[४५] भो वर्णस् तावत् मया कृतः । अस्य संस्थान-परिमाणं केन निर्मितम् ? ५१ कियतीं वेलां भवन्तम् आक्रोशामि ? गृह्णातु भगवान् । ५२ एवं गते किम् इदानीं मम शरणम् ?

[४६] भगवन्, यद्य् एवं, नमो कपालाय ।

[४७] एष पुनर् अनेक-विहार-भोग-समधिगत-वित्त-सञ्चयो यथा-कामम् अधिकरण-कारुणिकानां मुखानि पूरयितुं पारयति । अस्माकं पुनर् अहि-चर्म-भूति-मात्र-विभवस्य दरिद्र-कपालिकस्य परिचारिकानां कोऽत्र विभवोऽधिकरणं प्रवेष्टुम् ।

[४८] भो भगवन् ! त्वम् तावद् अग्रतो भव ।

[४९] एष एष दुष्ट-कुक्कुरः । शूल्य-मांस-गर्भं कपालं गृहीत्वा धावसि । दास्याः पुत्र ! कुत्र गमिष्यसि ? एष इदानीं कपालं निक्षिप्य मां खादितु-कामोऽभिमुखम् आधावति ।

[५०] अनेन प्रस्तरेण दन्तानस्य भङ्क्ष्यामि । कथं कपालं उज्झित्वा पलायसे ? उन्मत्तो दुष्टकुक्कुर ईदृशेन नाम शूरत्वेन मया सहापि रोषं करोषि । ग्राम-शूकरम् आरुह्य गगनम् उत्पतितेन सागरेण प्रभञ्ज्य रावणं बलाद् गृहीतः शक्र-सुतस् तिमिङ्गलः । अयि एरण्ड-वृक्ष ! किं भणसि ? अलीकम् अलीकम् इति । नन्व् एष मुसल-सम-विशाल-लम्ब-हस्तो दर्दुरो मे साक्षी । अथवा त्रैलोक्य-विदित-पराक्रमस्य साक्षिणा किं कार्यम् । एवं करिष्यामि । कुक्कुर-खादित-शेषं मांसखण्डं खादिष्यामि ।

[५१] हा हा मारितोऽस्मि बाष्पेन मारितोऽस्मि । क एष मां ताडयसि ? दुष्ट-दारकाः ! यस्य वा कस्य वा भागिनेयो खल्व् अहं, भीमसेनस्य घटोत्कच इव । अपि च शृणुथ ।

[५२] गृहीत-शूला बहु-वेष-धारिणः शतं पिसाचा उदरे वहन्ति मे । शतं च व्याघ्राणं निसर्गभीषणं मुखेन मुञ्चाम्य् अहं महोरगान् ।

[५३] कथं मां बाधन्ते ? प्रसीदन्तु प्रसीदन्तु दारक-भर्तारः । अस्य मांस-खण्डस्य कारणान् मा मां बाधध्वम् । एष खलु अस्माकम् आचार्यः शूरनन्दी । यावद् एनं उपसर्पामि । ६१ यावद् एनम् उपसर्पामि । महा-साधोश् चण्डाल-कुक्कुरस्य सकाशाद् अधिगतम् एतत् कपालं प्रतिगृह्णातु भगवान् ।

[५४] महा-ब्राह्मण, क्रियतां प्रसादः ।

[५५] एष महा-पाशुपत एतस्य योग्यः ।

[५६] महादेव, क्रियतां प्रसादः । एष तेऽञ्जलिः ।

[५७] एवम् एतत् ।

[५८] दास्याः पुत्र, विषं खाद !

[५९] भवतु । आवां ते सहायौ भवावः ।

[६०] कस्मान् मां रुन्धन्ति ।

[६१] मूढ, किं न पश्यसि सुवर्ण्-भाजनं खल्व् इदम् ?

[६२] एतेन सुवर्ण-वर्ण-पाटावृतेन सुवर्ण-कारावुत्तेन कृतम् इति भगवन् । सुवर्ण-भाजनम् इति भणासि ।

[६३] किम् अयं उन्मत्तकः ?

[६४] उन्मत्तक त्ति बहुश एतं शब्दं शृणोमि । एतद् गृहीत्वा दर्शयोन्मत्तकम् ।

[६५] लब्ध-प्रसादोऽस्मि ।

[६६] भगवन् ! चन्द्र-समागतं इव प्रदोषं भगवन्तं प्रेक्षन्त्या अद्यानन्दातीव मे दृष्टिः । ७५ किम् एतद् अप्य् अभ्यर्थनीयम् । किं ते प्रियं करोमि ?

[६७] गच्छामि तावद् अहम् ।

[६८] तथा भवतु ।

स्रोतम्[सम्पाद्यताम्]

अन्यानि स्थलानि[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=मत्तविलासप्रहसनम्&oldid=145665" इत्यस्माद् पुनः प्राप्तिः