भूतशुद्धितन्त्रम्
| भूतशुद्धितन्त्रम् [[लेखकः :|]] |
भूतशुद्धितन्त्रे
प्रथमः पटलः
श्रीदेवी उवाच
देव देव महादेव साम्प्रतं कथय प्रभो ! |
भूतशुद्धिं देहशुद्धिं प्राणायामं ततः परम् || १ ||
क्रमेण कथ्यतां देव शूलपाणे पिणाकधृक् |
मन्त्रं यन्त्रं महादेव येन शुध्यति भूतले || २ ||
श्री-ईश्वर उवाच
कथयामि वरारोहे खञ्जनाक्षि शुचिस्मिते |
तत्त्वत्रयं प्रवक्ष्यामि गुह्याद् गुह्यतरं महत् || ३ ||
तत्त्वत्रयं विना देवि ! सिद्धिविद्यां जपेत् तु यः |
तस्य सर्वार्थहानिः स्याज्जपं च विफलं प्रिये || ४ ||
भूतशुद्धिं महेशानि ! न्यासं परमदुर्लभम् |
प्राणायामं ततः कुर्यात् तत्त्वत्रयमिदं स्मृतम् || ५ ||
सर्वं कुर्यान्महेशानि ! मातृकाक्षरसंयुतम् |
अकारादिक्षकारान्तां मातृकाक्षररूपिणीम् || ६ ||
वैदिकं तान्त्रिकं स्नानं कृत्वा सन्ध्यामुपाश्रयेत् |
आगत्य देवदेवेशि ! यागमण्डलसनीधिम् || ७ ||
अन्तःस्नानं ततः कृत्वा अन्तःसन्ध्यामुपाश्रयेत् |
अन्तःस्नानं च सन्ध्यां च कथयामि शृणु प्रिये ! || ८ ||
गुरुध्यानं प्रथमतस्ततः स्नानं समाचरेत् |
प्रणवेन महेशानि ! जीवं धृत्वा शुचिस्मिते || ९ ||
मूलाधारात् समाकृष्य द्वादशार्णं नयेत् सुधीः |
स्नायाच्च विमले तीर्थे पुष्करे हृदयान्विते || १० ||
मूलाधारात् महेशानि सह स्रदलमानयेत् |
सङ्गं परशिवे कृत्वा आनन्द उपजायते || ११ ||
तेनानन्देन देवेशि स्नायाज्जीवमनाहते |
ततस्तु परमेशानि अजपां प्राणरूपिणीम् || १२ ||
अष्टोत्तरशतं जप्त्वा स्नातो भवति पार्वति ! |
अन्तःसन्ध्यां महेशानि ! कुरु यत्नेन पार्वति || १३ ||
शिवशक्तिसमायोगो यस्मिन् काले प्रजायते |
सा सन्ध्या कुलसाधूनां समाधिस्थः प्रतीयते || १४ ||
एवं तु ते महेशानि ! सन्ध्यापूतो भवेद् ध्रुवम् |
श्रीदेवी उवाच
अजपां परमेशान ! कथ्यतां मे दयानिधे ! || १५ ||
श्री-ईशवर उवाच
शृणु वक्ष्यामि देविशि ! गुह्याद् गुह्यतरं प्रिये |
ध्यानमस्याः प्रवक्ष्यामि यथा ध्यात्वा जपेन्नरः || १६ ||
हंसं नित्यमनन्तमक्षयगुणं स्वाभावतो निर्गता |
यान्ती स्वाश्रयमर्ककोटिरुचिरा ध्येया जगन्मोहिनी
इति ध्यानं महेशानि कृत्वा समारभेत् जपम् |
षट्चक्रं मध्यगं कृत्वा अजपां परमाक्षराम् || १७ ||
शिवबीजं समुद्धृत्य भृगुबीजं ततः परम् |
बिन्द्वर्द्धं चन्द्रसंयुक्तं कुरु यत्नेन सुन्दरि ! || १८ ||
एषा विद्या वरारोहे ! चातुर्वर्णेषु शस्यते |
एतज्जपं विना देवि भूतशुद्धिश्च निष्फला || १९ ||
तस्मादादौ जपेद् विद्यामजपां प्राणरूपिणीम् |
अष्टोत्तरशतं जप्त्वा भूतशुद्धिं समाचरेत् || २० ||
षट्चक्रदलसंस्थाने यानि वर्णानि पार्वति ! |
तानि सर्वाणि देवेशि जीवं संन्यस्य पार्वति || २१ ||
भूतशुद्धिं महेशानि यत्नतः समुपास्महे |
मूलाधारान्महेशानि ! मूलपद्मं शुचिस्मिते || २२ ||
चतुर्दलयुतं मूलं दशवर्णेन संयुतम् |
रक्तवर्णं सदा सेव्यं योगिभिः परमेश्वरि ! || २३ ||
त्रिकोणं सुन्दरं शुद्धं पृथ्वीबीजं तु मध्यगम् |
तन्मध्ये भावयेद् देवं शिवं श्यामलसुन्दरम् || २४ ||
अत्र कुण्डलीनी देवि परं प्रकृतिरूपिणी |
शिवं वेष्ट्य महेशानि ! सर्वदा तत्र तिष्ठति || २५ ||
प्रसुप्तभुजगाकारं विद्युत्कोटिनिभां पराम् |
ब्रह्मविष्णुस्तुतां देवीं कुण्डलीं ब्रह्मरूपिणीम् || २६ ||
मूलाधारे मनो देवि विन्यस्य भावयेत् सदा |
चतुर्दलयुतं वर्णं तारणं विघ्ननाशनम् || २७ ||
बिन्द्वर्धसंयुतं कृत्वा दशधा प्रजपेत् ततः |
अजपानां महेशानि ! चतुर्दलगतं कुरु || २८ ||
स्वाधिष्ठाने ततो नीत्वा पुष्पहंससमन्वितम् |
तत्पुरीं च महेशानि ! नीरेण परिपूरितम् || २९ ||
मूलाधारं यथा पृथ्व्या शोभते परमेश्वरि |
नीरेण शोभितं देवि ! स्वाधिष्ठानं शुचिस्मिते || ३० ||
षडङ्गविद्युदाधारं षडक्षरसमन्वितम् |
व - भ - म - य - र - लैर्युक्तं कुन्दपुष्पसमन्वितम् || ३१ ||
स्वाधिष्ठानस्थितं देवि शिवं सर्वज्ञभावनम् |
मूलाधारात् समुत्थाप्य कुण्डलीं ब्रह्मरूपिणीम् || ३२ ||
नीत्वा मणिपुरं देवि ! तद्वर्णं जपमाचरेत् |
बिन्द्वर्धसंयुतं कृत्वा शोभितं शिवमर्चयेत् || ३३ ||
तत्रैव परमेशानि ! षडक्षरजपं कुरु |
षट्पापं नाशयेद् देवि ! तत्क्षणात् परमेश्वरि ! |
षड्दलं षड्गुणं देवि ! गुदं च चतुरङ्गुलम् || ३४ ||
|| इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे प्रथमः पटलः || १ ||
अथ द्वितीयः पटलः
ततस्तु प्रमेशानि ! मणिपूरं विभिद्यते |
वायुं च तत्र वै नीत्वा मनसा परमेश्वरि || १ ||
समानं संयुतं कुर्यादपानं परमेश्वरि ! |
ततो ब्रह्मनदीं भित्त्वा वायुर्मणिपुरं ययौ || २ ||
तत्रस्थं शिवलिङ्गं तु नीलनीरदसन्निभम् |
तत्पात्रं कृष्णवर्णं च अक्षरं कृष्णरूपकम् || ३ ||
तन्मध्यस्थं महादेवं सर्वदेवादिकारणम् |
मणिपूरं महेशानि ! महामरकतप्रभम् || ४ ||
शिवं सम्भाव्य देवेशि ! दशवर्णं मनुं जपेत् |
डकारादिककारान्तं बिन्द्वर्धसंयुतं कुरु || ५ ||
दशपत्रस्थितं वर्णं पूर्वादिक्रमतो जपेत् |
दशपत्रं कृष्णवर्णं अक्षरं कृष्णरूपकम् || ६ ||
तन्मध्यस्थं महादेवं सर्वदेवादिकारणम् |
दशाक्षरजपाद् देवि दशजन्माघनाशदम् || ७ ||
ततो वायुर्महेशानि ! अनाहतपुरीं ययौ |
आदित्यपत्रसंयुक्तं वर्णैर्द्वादशभिर्युतम् || ८ ||
तत्पत्रं परमेशानि ! वर्णं च शुक्लरूपकम् |
कादिठान्ताक्षरैर्वर्णैः शोभितं परमाक्षरम् || ९ ||
हृत्पद्मं परमेशानि शुद्धसत्त्वात्मकं सदा |
प्रदीपकलिकाकारं तन्मध्ये ब्रह्मरूपिणम् || १० ||
वेष्टितं द्वादशवर्णैः सर्वशक्तिमयं प्रिये |
सम्मुखे तस्य देवेशि ! जीवस्तिष्ठति सर्वदा || ११ ||
तत्र जीवो महेशानि सदा तिष्ठति पार्वति ! |
वायुं तेजोयुतं जीवं दृष्ट्वा मनोलयं कुरु || १२ ||
आत्मरूपं वायुरूपं निरीहं निर्मलं सदा |
यकारस्याष्टसंबीजं जीवं हेमप्रभं सदा || १३ ||
तत्रादित्याक्षरं देवि बिन्द्वर्धसंयुतं कुरु |
कृत्वा जपं महेशानि ! यत्नेन कुरु सुन्दरि || १४ ||
जन्मभिश्च द्वादशभिर्देवि यत् [कृतम्] पापमर्जितम् |
तत्सर्वं नाशयत्येव तत्क्षणात् परमेश्वरि || १५ ||
एवं हि मरुतो भित्त्वा विशुद्धं प्रतिगच्छति |
विशुद्धं निर्मलं शुद्धं षोडशस्वरसंयुतम् || १६ ||
धूम्रवर्णं महेशानि ! विशुद्धाख्यं मनोहरम् |
तस्य मध्ये स्थितं देवि आकाशं शक्तिरूपिणम् || १७ ||
क्रमाज्जीवं कुण्डलिन्या प्रणवेण समाहरेत् |
मनस्तत्र महेशानि ! सारथिः सर्वतः सदा || १८ ||
सर्वं मनसि कर्तव्यं भूतशुद्ध्यादिकं प्रिये ! |
स्वरं च षोडशं देवि बिन्द्वर्धसंयुतं कुरु || १९ ||
ततस्तु परमेशानि ! जपेत् षोडशमक्षरम् |
पूर्वादिक्रमतो देवि दशधा प्रजपेत् प्रिये || २० ||
जन्मभिः षोडशभिर्यत् तु (कृतं) पापं शुभाशुभम् |
दहेत् तस्य जपाद् देवि तृणं वह्निर्यथा दहेत् || २१ ||
ततो वायुं महेशानि ! द्रुतमाज्ञापुरीं नयेत् |
तत्पुरीं परमेशानि द्विदलं युगवर्णकम् || २२ ||
वर्णं हेमप्रभं देवि ! पुरीं चन्द्रप्रभं सदा |
बिन्द्वर्धसंयुतं कृत्वा साधको जपमाचरेत् || २३ ||
मनःसारथिना देवि ! जीवं कुण्डलिनीं प्रिये |
आज्ञां पुरीं नयेत् शीघ्रं मनो मनसि भावनम् || २४ ||
मनसः परमेशानि ! आज्ञापुर्यां स्थितिः सदा |
गुरोराज्ञाधारणात् तु आज्ञापुरमिमं स्मृतम् || २५ ||
सदाशिवपुरद्वारं गवाक्षं परमेश्वरि ! |
एवं प्रपञ्चं भित्त्वा वै कुण्डलीं जीवसंयुताम् || २६ ||
मनःसारथिना देवि सदाशिवपुरं नयेत् |
पञ्चप्राणसमायुक्ता चतुर्विंशतिसंयुता || २७ ||
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च |
बुद्ध्यहङ्कारचित्तानि नयेत् शिवपुरं प्रति || २८ ||
सहस्रारे ततो नीत्वा मनसा योजयेत् सदा |
श्रीदेवी उवाच
तत्र गत्वा महेशान कुण्डली किमकरोत् प्रभो || २९ ||
श्री-ईश्वर उवाच
चतुर्विंशतितत्त्वेन पञ्चप्राणेन सुन्दरि |
इन्द्रियैरक्षरैर्देवि ! एकत्वं जायते यदा || ३० ||
तत्र देवि महेशानि कुण्डलीं भावतत्पराम् |
पूर्वोक्तध्यानमार्गेण परां तत्र विभावयेत् ||
सर्वात्मसम्पुटं देवि ! सर्वविद्याभिधारणम् || ३१ ||
इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे द्वितीयः पटलः || २ ||
अथ तृतीयः पटलः
श्री-ईश्वर उवाच
शृणु पार्वति ! वक्ष्यामि रहस्यं परमाद्भुतम् |
गुह्याद् गुह्यतरं देवि सुगोप्यं भुवनत्रये || १ ||
ब्रह्मरन्ध्रे सहस्रारे यत्र देवः सदाशिवः |
संवेष्ट्य परमा देवी यत्रास्ते परमेश्वरि ! || २ ||
कुण्डलीं योजयेत् तत्र एकत्वं जायते तदा |
अकारादिक्षकारान्ताः सर्वबीजे नियोजयेत् || ३ ||
आदौ मनसि देवेशि ! प्राणविद्यां वरानने |
प्रजप्य दशधा देवि ! कुण्डलीं परमां व्रजेत् || ४ ||
पुरीं शक्तिमयीं देवि नित्यानन्दमयं सदा |
सहस्रदलसंयुक्तं पद्मं नित्यागमं प्रिये || ५ ||
पद्ममध्ये महेशानि ! पुरीं शक्तिमयीं प्रिये |
सदाशिवो महेशानि ! यत्रास्ते परमेश्वरि || ६ ||
शुद्धतत्त्वादिकं देवं निर्मलं निश्चलं सदा |
शिवं प्राप्य महेशानि ! कुण्डली शिवसन्निधौ || ७ ||
शिवस्य मुखपद्मं हि चुचुम्बे कुण्डली प्रिये |
सर्वत्र सम्पुटं दत्त्वा मोहयेत् परमं शिवम् || ८ ||
सदाशिवः शिवस्तत्र शान्तो भवति सुप्रिये |
पद्ममध्ये स्थितं देवं निरीहं शवरूपवत् || ९ ||
शवरूपो महादेवो हृद्यो नास्ति कदाचन |
शक्तिसंयोगमात्रेण कर्मकर्ता स उच्यते || १० ||
तस्मात् तत् परमेश्वानि ! शक्तेः प्राधान्यमुच्यते |
शक्तिं विना महेशानि न किञ्चिदपि वर्तते || ११ ||
सदाशिवो महाप्रेतः केवलं निश्चयं प्रिये |
सदाशिवपुरं देवि वैकुण्ठं परमं पदम् || १२ ||
सदाशिवपुरं गत्वा कुण्डली परदेवता |
सदाशिवेन च समं क्षणमात्रं रमेत् प्रिये ! || १३ ||
सदाशिवेन देवेशि सङ्गमं जायते प्रिये |
अमृतं जायते देवि तत्क्षणात् परमेश्वरि |
तेनामृतेन देवेशि षट्चक्रं प्लावयेत् क्रमात् || १४ ||
श्री-ईश्वर उवाच
शृणु पार्वति ! वक्ष्यामि रहस्यं भुवि दुर्लभम् |
गुह्याद् गुह्यतरं रम्यं त्रिषु लोकेषु दुर्लभम् || १५ ||
अपानमूर्धगं कृत्वा दिव्यमर्थं प्रपूर्य च |
प्राणमन्त्रेण देवेशि ! शक्तिं कुण्डलिनीं पराम् || १६ ||
क्रमाच्चक्राणि निर्भिद्यं जीवात्मानमनोहरात् |
सहस्रारे शिरःपद्मे परे ब्रह्मणि योजयेत् || १७ ||
बुद्ध्यहङ्कारचित्तानि तत्त्वानि प्रकृतिर्वपुः |
तस्मात् सर्वाणि तत्त्वानि बीजरूपेण भावयेत् || १८ ||
ततः शून्ये शरीरे च कुक्षौ वामे विचिन्तयेत् |
सर्वपापात्मकं क्रूरं पुरुषं पिङ्गमूर्धजम् || १९ ||
ततो नाभौ वायुबीजं धूम्रं सञ्चिन्त्य तज्जपेत् |
दशधा वायुमुत्षाद्य वपुः पापं विशोधयेत् || २० ||
स पापं तु ततो मन्त्री हृदये वह्निबीजकम् |
रक्तं विभाव्य दशधा तज्जपाच्च हुताशनम् || २१ ||
समुत्पाद्य दहत्येनं सपापं तद्वपुः प्रिये |
ललाटे वारुणं बीजं शुद्धं सञ्चिन्त्य तज्जपात् || २२ ||
दशधामृतविष्टिन्तु समुत्पाद्य शुचिस्मिते |
सर्वव्यथाविनिर्मुक्तं जातं दिव्यवपुस्ततः || २३ ||
निष्पापं प्लावयेत् तस्मात् तथा भावेन तत्परः |
अवगत्य धराबीजं मूलाधारे विचिन्तयेत् || २४ ||
दशधा तज्जपाद् देवि ! पृथ्वीमुत्पाद्य सुन्दरि |
ततः सर्वाणि बीजानि तत्त्वानि च शुचिस्मिते || २५ ||
यथास्थाने न्यसेद् बीजं आज्ञाचक्रात् शुचिस्मिते |
आज्ञादिगुणपद्मान्तं संस्थाप्य परमेश्वरि ! || २६ ||
क्रमं तस्य प्रवक्ष्यामि सावधानाऽवधारय |
एतद् रहस्यं परमं सदा मम हृदि स्थितम् || २७ ||
यन्मन्त्रसहितं देवि क्रमात् सुन्दरि तत् शृणु |
बीजं कुण्डलिनीं देवि आज्ञाचक्रं समानयेत् || २८ ||
तस्मिन् चक्रे महेशानि आत्मा मनःसमन्वितः |
पञ्चाशन्मातृकामन्त्रं दशधा प्रजपेत् प्रिये || २९ ||
तत्र युग्मकलां ध्यात्वां मूलमन्त्रेण तर्पयेत् |
लम्बयेत् परमेशानि जीवं कुण्डलिनीसह || ३० ||
मनसा संयुतं कृत्वा विशुद्धौ लम्बयेत् प्रिये ! |
तच्चक्रे परमेशानि मातृकावर्णमुत्तमम् || ३१ ||
प्रजपेद् दशधा देवि ! मनःसारथिना प्रिये |
सर्वं हि मनसा कार्यं मनः सर्वार्थसाधकम् || ३२ ||
तत्रस्थां षोडशकलां मूलमन्त्रेण तर्पयेत् |
लम्बयेत् प्रणवैर्देवि पुरीं[प्रति]ध्वनिमयीं प्रति || ३३ ||
तत्रस्थं देवदेवेशं महादेवं च तर्पयेत् |
प्रणवेन तु मन्त्रेण तर्पयेत् शिवरूपिणम् || ३४ ||
तत्रस्थां द्वादशकलां तडित्कोतिसमप्रभाम् |
तर्पयेत् मूलमन्त्रेण मातृकाजपपूर्वकम् || ३५ ||
लम्बयेत् मणिपूरे च शिवं तत्र प्रतर्पयेत् |
तत्रस्थां दशकलां देवि ! मूलमन्त्रेण तर्पयेत् || ३६ ||
मातृकां प्रथमे जप्त्वा तर्पयेत् परमां कलाम् |
तदधः परमेशानि ! स्वाधिष्ठानेषु लम्बयेत् || ३७ ||
स्वाधिष्ठानं महेशानि ! शुक्लं हीरकसन्निभम् |
तत्रस्थं शिवदेवं च मूलमन्त्रेण तर्पयेत् || ३८ ||
मूलमन्त्रं महेशानि ! प्रासादं परमं शिवम् |
तत्रस्थां षट्कलां दिव्यां मायाबीजेन तर्पयेत् || ३९ ||
मूलाधारं ततो नीत्वा बीजं कुण्डलिनीसह |
मनःसारथिना देवि ! शिवं सम्भाव्य यत्नतः || ४० ||
तर्पयेन्मूलमन्त्रेण प्रासादेन शिवं प्रिये ! |
ततो युगकलां नित्यां मूलमन्त्रेण तर्पयेत् || ४१ ||
मातृकां दशधा जप्त्वा शिवं सन्तोषयेत् सदा |
स्वस्थानं प्राप्य देवेशि ! कुण्डली परदेवता || ४२ ||
ब्रह्मविष्णुशिवयुता विषतन्तुतनीयसीम् |
जवासिन्दूरसङ्काशामुद्यद्भास्करसन्निभाम् || ४३ ||
शिवस्य युवतीं योग्यां वह्निरूपधरां प्रिये ! |
ततस्तु परमेशानि ! जीवं पुष्करमानयेत् || ४४ ||
हृदिस्थं पुष्करं पद्मं जीवस्थां सदा स्मृतम् |
ब्रह्मस्थानं च तद् देवि ! सूर्यमण्डलसन्निभम् || ४५ ||
शब्दब्रह्म परं ब्रह्म शब्दास्तिष्ठन्ति तत्र वै |
प्रदीपकलिकाकारं शब्दब्रह्म शुचिस्मिते || ४६ ||
प्रदीपकलिकाकारं जीवं च परमेश्वरि ! |
शब्दब्रह्म परं ब्रह्म शक्तियुक्तं सदा प्रिये ! || ४७ ||
जलसूर्याग्निचन्द्रेषु शक्तिः सर्वत्र वर्तते |
शक्तिः सर्वेषु देवेषु देवीषु च शुचिस्मिते || ४८ ||
शक्तियुक्तं जायते सर्वं यो न जानाति पामरः |
प्रेतलोकं स गत्वा वै शूकरत्वं प्रजायते || ४९ ||
|| इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे तृतीयः पटलः || ३ ||
अथ चतुर्थः पटलः
श्री-ईश्वर उवाच
नाभिमध्ये तु वामा च ज्येष्ठा च हृदि संस्थिता |
रौद्री च परमेशानि ! सदा शिरसि संस्थिता || १ ||
वामा ब्रह्मा महेशानि ! ज्येष्ठा च विष्णुरीरिता |
रौद्री रुद्रं तु विज्ञेया बिन्दुत्रयमितीरिता || २ ||
ब्रह्मा विष्णुश्च रुद्रश्च सदा प्रकृतिरूपिणी |
बिन्दुना परमेशानि ! कर्मकर्ता सदा प्रिये || ३ ||
ब्रह्मविष्णुमहेशानां बिन्दुबीजं शुचिस्मिते ! |
बिन्दुना जायते सृष्टिः पालनं च शुचिस्मिते || ४ ||
बिन्दुना हरते सृष्टिं क्रमतः परमेश्वरि ! |
बिन्दुं विना महेशानि ! सकलं प्रेतवत् प्रिये || ५ ||
अतः परं प्रवक्ष्यामि रहस्यं परमाद्भुतम् |
मूलाधारे महेशानि ! त्र्यक्षरीं दशधा जपेत् || ६ ||
त्र्यक्षरीं शृणु देवेशि ! सावधानाऽवधारय |
शिवबीजं समुद्धृत्य पृथ्वीबीजपुटं कुरु || ७ ||
बिन्द्वर्धसंयुतं कृत्वा साधको जपमारभेत् |
हृत्पद्मे रञ्जितशिवा समुद्धृत्य शुचिस्मिते || ८ ||
शिवबीजे पुटीकृत्य बिन्द्वर्धसंयुतं कुरु |
ललाटे परमेशानि ! रलबीजं समुद्धर || ९ ||
कलावती पुटीकृत्वा बिन्द्वर्धसंयुक्तं कुरु |
एता विद्या महेशानि ! भूतशुद्धेस्तु कारणम् || १० ||
श्रीदेवी उवाच
कथ्यतां देवदेवेश ! ज्ञानचक्षुस्तपोमयम् |
कृपया कथयेशान ! यद्यहं तव वल्लभा || ११ ||
वामपार्श्वे स्थितं देवं संदह्य परमेश्वर ! |
जीवः शुद्धात्मको भूत्वा मनसा परमेश्वर || १२ ||
पूजयेदिष्टदेवं च जपेद् विद्यां प्रसन्नधीः |
पुनस्तु पुरुषं पापं कथमुत्पद्यते तथा || १३ ||
एतत्तु संशयं देव हृदये शाल्यवन्मम |
संशयं मे महादेव ! छिन्धि देव दयानिधे || १४ ||
श्री-ईश्वर उवाच
शृणु कमलपत्राक्षि ! रहस्यं परमाद्भुतम् |
शोषणैर्दहनैर्देवि ! पुरुषं पापरूपकम् || १५ ||
संदह्य परमेशानि ! पुनरुत्पद्यते सदा |
इडा तु वामदेशे हि सदा तिष्ठति पार्वति || १६ ||
वामनाड्या कृतं पापं वामकुक्षौ स्थितं प्रिये |
नाडीसंयोगमात्रेण पापमूलं निकृन्तति || १७ ||
अत एव महेशानि ! पुरुषं कृष्णमूर्धजम् |
पुनरुत्पद्यते देवि ! जपपूजाविधेरनु || १८ ||
शृणु कमलपत्राक्षि ! रहस्यं हृदये स्थितम् |
दहन्तं शेषपापं च नाशनं यदि चेच्छसि || १९ ||
तत् पापस्यापनोदे च विद्यामेनां जपं कुरु |
कामनया तथा देवि ! मन्मथं परमेश्वरि || २० ||
अष्टोत्तरशतं जप्त्वा तस्मात् पापाद् विमुच्यते |
मनो जीवात्मनोः शुद्धिः प्राणयामेन सुन्दरि || २१ ||
एतत् शुद्धिर्महेशानि सर्वतन्त्रेषु शस्यते |
सर्वेषु विष्णुमन्त्रेषु शिवमन्त्रे गणाधिपे || २२ ||
शक्तौ सूर्ये महेशानि ! अन्यदेवगणेषु च |
एवं ते कथितं देवि ! रहस्यं परमाद्भुतम् || २३ ||
आधारं पृथ्वीतत्त्वं वै स्वाधिष्ठानं जलं प्रिये |
मणिपुरम् अग्नितत्त्वं वायुतत्त्वमनाहते || २४ ||
कण्ठे च परमेशानि ! शून्यतत्त्वं सदा स्मृतम् |
मनस्तत्त्वं तदूर्ध्वं च मनः सर्वत्र व्यापकम् || २५ ||
विभुत्वाद् व्यापकत्वाच्च साक्षाद् बिन्दुमयं मनः |
यावस्ति परमेशानि भूतशुद्ध्यांदि यानि च || २६ ||
तानि सर्वाणि देवेशि ! मनसैव प्रणीयते |
सर्वगामी सर्ववेत्ता सर्वसाक्षी सदा मनः || २७ ||
पापपुण्ये महेशानि रक्षकं स्यात् मनः प्रिये |
मनसा वाक्यमुत्पन्नं मनसैव प्रणीयते |
मन्त्रं विद्या महेशानि ! मनसा जपमाचरेत् || २८ ||
|| इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे चतुर्थः पटलः || ४ ||
अथ पञ्चमः पटलः
श्री-ईश्वर उवाच
मनसा जीवन्संयुक्तः कर्मकर्ता सदा प्रिये |
मनः प्रविभवे देवि ! उन्मनीसहिता यतः || १ ||
उन्मनी च महेशानि ! भवपापनिकृन्तनी |
जीवस्य परमेशानि ! गुप्ततत्त्वं शृणु प्रिये || २ ||
मूलाधारे स्थितं जीवं प्रदीपकलिकाकृतिम् |
प्रणवेन समाकृष्य द्वादशान्तं लयेत् सुधीः || ३ ||
आकाशे च महेशानि ! सुखमोक्षमवाप्नुयात् |
हृत्पद्मे च महेशानि परं ब्रह्म निरीक्षणम् || ४ ||
आज्ञायां परमेशानि प्रथमं गुरुदर्शनम् |
मणिपूरं ततो गत्वा स्नापयेन्मनसा सह || ५ ||
स्वाधिष्ठानं ततो गत्वा अग्निस्पर्शं समाचरेत् |
ततो जीवं महेशानि ! मूलाधारं लयेत् प्रिये || ६ ||
मनःसारथिना देवि ! उन्मनी भवनाशिनी |
संहत्य सदसत्कर्म जीवः सर्वं करोति हि || ७ ||
शुद्धसत्त्वात्मको जीवः सदसत्कर्मवर्जितः |
वामपार्श्वे स्थितं पापं पुरुषेण यदा प्रिये || ८ ||
संयोगो जायते तत्र असत्कर्म तदाऽकरोत् |
पापस्य परमेशानि ! संयोगो यदि जायते || ९ ||
मनसा जीवसंयोगात् सत्कार्यं कुरुते तदा |
शुद्धसत्त्वात्मको जीवस्तस्य कार्यं कुतः प्रिये || १० ||
मनश्च परमेशानि उन्मनी संयुता यदि |
जीवस्य वामपार्श्वे तु तदा तिष्ठति पापधृक् || ११ ||
दक्षिणे परमेशानि मनश्च उन्मनी यतः |
उन्मज्जन्ति निमज्जन्ति प्रपञ्चेषु शुचिस्मिते || १२ ||
उन्मनीकरणं देवि ! दशासु परमेश्वरि |
जाग्रत्स्वप्नसुषुप्त्यवस्थां चापि परमेश्वरि || १३ ||
सुषुम्नान्तर्गता चित्रा चन्द्रकोटिसमप्रभा |
तत्र कुण्डलिनी देवि यातायातं करोति हि || १४ ||
कदाचित् मासि तं पद्मं कदाचित् रक्तपङ्कजम् |
कदाचित् शुक्लपद्मं हि वह्निपद्मं कदा प्रिये || १५ ||
भित्वा पुरीं याति पुनरायाति कुण्डली सदा |
प्रपञ्चानां महेशानि ! देवानुचरमुत्तमम् || १६ ||
कथयामि महेशानि सर्वतन्त्रेषु गोपितम् |
यज्ज्ञात्वा साधको देवि सर्वसिद्धिमवाप्नुयात् || १७ ||
धर्मार्थकाममोक्षाणां फलभाग् वैष्णवो यतः |
तव स्नेहान्महेशानि ! निगदामि शुचिस्मिते || १८ ||
ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च |
कौमारी वैष्णवी दुर्गा नारसिंही च कालिका || १९ ||
शिवदूती च वाराही माहेशी कौशिकी तथा |
शाङ्करी च जयन्ती च विशुद्धपद्मसंस्थिता || २० ||
मङ्गला कपालिका चैव मेधा च शिवरूपिका |
शाकम्भरी च भीमा च गाण्डा च भ्रामरी तथा || २१ ||
रुद्ररुपिण्यम्बिका च क्षमा च वह्निरूपिणी |
एतास्तु परमेशानि ! हृत्पद्मे संस्थिताः सदा || २२ ||
धात्री च वह्निरूपा च मध्यमा च शुचिस्मिते ! |
अपर्णा च महेशानि तथा वामा महोदरी || २३ ||
घोररूपा महाकाली तथा चैव भयङ्करी |
क्षेमङ्करी च देविशि ! मणिपूरे स्थिता सदा || २४ ||
उग्रचण्डा च देवेशि तथा चण्डावती प्रिये |
चण्डा चैव प्रचण्डा च चण्डनायकसेविता || २५ ||
चण्डिका चैव देवेशि ! स्वाधिष्ठाने स्थिता सदा |
महादेवी महेशानि तथैव मोहरुपिणी || २६ ||
तथा प्रियङ्करी चैव तथा चैव सनातनी |
एतास्तु परमेशानि मूलाधारे स्थिताः सदा || २७ ||
फलविकरिणीरूपा बलप्रमथिनी तथा |
अक्षरं युगलं देवि आज्ञाचक्रे स्थिता सदा || २८ ||
अस्यास्तु परमेशानि विशेषं शृणु पार्वति |
एतज्ज्ञानं महेशानि सदाशिवव्यवस्थितम् || २९ ||
अस्य ज्ञानप्रभावेण संहरामि जगत् त्रयम् |
स्थितिकर्ता भवेद् विष्णुर्ब्रह्मा सृष्टिकरं सदा || ३० ||
यस्य यस्य च देवेशि ! यद् बीजं पूर्वसूचितम् |
तद्बीजे पुटितं कृत्वा देवानां जपमाचरेत् || ३१ ||
भूतशुद्धिस्तदा देवि ! सिद्धो भवति पार्वति |
अन्यथा प्रेतवच्छुद्धिर्जायते कमलेक्षणे || ३२ ||
पञ्चाशन्मातृणां देवि षट्चक्रे क्रमतो जपेत् |
षट्चक्रे परमेशानि ! यत्नतो जपमाचरेत् || ३३ ||
तदैव महती सिद्धिः साधकस्याषि जायते |
कलावृक्षे समो भूत्वा साधकः खेचरो भवेत् || ३४ ||
अणिमादिगुणाधारं तथा भवति साधकः |
अणिमा सूक्ष्मरूपं च लघिमा स्थूलरूपकम् || ३५ ||
सर्वैश्वर्यपदप्राप्तिं प्राप्तिं परममुच्यते |
मनःक्लेशकरं चैव प्राकाश्यं कमलानने || ३६ ||
महिमा सर्वलोकेषु गीयते कमलानने |
तदैव महिमा देवि ! मम ज्ञानेषु वर्तते || ३७ ||
ब्रह्माण्डव्यापकं रूपं ईशित्वं च प्रकीर्तितम् |
ब्रह्माण्डवशरूपं च वशित्वं कथितं प्रिये ! || ३८ ||
कन्दर्पध्वंसजननमेतत् कामवशायिता |
अणिमादिगुणं देवि ! तव भक्त्या प्रकाशितम् || ३९ ||
न कस्मैचित् प्रवक्तव्यं तव योनिं यथा प्रिये |
शृणु देवि प्रवक्ष्यामि भूतशुद्धेस्तु कारणम् || ४० ||
महेशानि ! अष्टोत्तरशतं जपेत् |
तारं व्योमाग्नि गुण्डी तथा ज्योतिर्मनुः स्मृतः |
एतज्ज्ञानप्रभावेण भूतशुद्धेः फलं भवेत् || ४१ ||
|| इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे पञ्चमः पटलः || ५ ||
अथ षष्ठः पटलः
श्री-ईश्वर उवाच
शृणु ज्ञानं महेशानि ! विशेषं कथयामि ते |
यज्ज्ञात्वा परमेशानि शिवोऽहं मृत्युनाशकः || १ ||
यज्ज्ञात्वा परमेशानि ! ब्रह्मा सृष्टिकरः सदा |
यज्ज्ञात्वा विष्णुदेवश्च स्थितिकर्ता शुचिस्मिते || २ ||
यज्ञात्वा तु महेशानि ! नाशकोऽहं महेश्वरि |
चन्द्रः सूर्यो महेशानि यज्ज्ञात्वा परमेश्वरि || ३ ||
प्रकाशं कुरुते विश्वं ब्रह्माण्डं सचराचरम् |
अव्यक्तरूपिणीं रम्यां योगगम्यां सदा प्रिये || ४ ||
सदा शरीरमाश्रित्य वसते कामरूपिणी |
शरीरं द्विविधं देवि ! स्थूलं सूक्ष्मं शुचिस्मिते || ५ ||
मांसास्थिलोमरक्तानि मेदो मज्जा वरानने ! |
विण्मूत्रस्थे हरं चैव वातपित्ते तु सङ्गतम् || ६ ||
एतत् स्थूलमयं देवि सूक्ष्मं च कथयामि ते |
इडा वामे स्थिता नाडी शुक्ला तु चन्द्ररूपिणी || ७ ||
दक्षिणे पिङ्गला नाम्नी पुंरूपा सूर्यविग्रहा |
तन्मध्ये परमेशानि ! सुषुम्ना ब्रह्मरूपिणी || ८ ||
वामावर्तक्रमेणैव वेष्टनं विषतन्तुवत् |
मूलादिब्रह्मरन्ध्रान्तं व्याप्य तिष्ठति सर्वदा || ९ ||
इच्छाज्ञानक्रियारूपा त्रिनाडी सर्वतन्तुषु |
तिस्रः कोट्यः सहस्रं तु शरीरे नाड्यो मताः || १० ||
तासु मुख्या दश प्रोक्ता तासु तिस्रो व्यवस्थिताः |
वामनाड्यां महेशानि ! वायुबीजेन पूरयेत् || ११ ||
वायुं षोड्शधा जप्त्वा पूरयेद् वामवर्तनि |
मणिपूरे महेशानि चतुःषष्ठी च धारयेत् || १२ ||
रेचयेत् कुम्भकार्धेन दक्षनाड्यां शुचिस्मिते |
वह्निबीजं महेशानि ! हृत्पद्मे पूर्ववत् प्रिये || १३ ||
संशोध्य वायुबीजेन वह्निबीजेन सन्दहेत् |
ललाटे वारुणं बीजं शुक्लं सञ्चिन्त्य सुन्दरि || १४ ||
कुम्भकार्धं जपित्वा वै रेचयेद् दक्षिणे पथे |
एवं द्वादशधा देवि भूतशुद्धिं समाचरेत् || १५ ||
बृहच्छुद्धिं महेशानि पञ्चभूतस्य पार्वति ! |
पूर्वोक्तं परमेशानि सामान्यं शुद्धिमेव च || १६ ||
देहस्य परमेशानि भूतशुद्धिरितीरिता |
देहस्य सूक्ष्मरूपस्य भूतशुद्धिरियं प्रिये || १७ ||
मनसः परमेशानि ! उन्मनीसहिता यदि |
जीवेन सह देवेशि सुषुम्नायां निमज्जयेत् || १८ ||
ध्यानधारणयोगेन ब्रह्म साक्षान्न संशयः |
प्रजपेत् परया भक्त्या मालया वर्णसङ्ख्यया || १९ ||
मुहूर्तं भावयेद् विद्यां मनोन्मनीयुता प्रिये |
मनोन्मनीयुते जीवः ब्रह्मरन्ध्रे च संजपेत् || २० ||
ततो ब्रह्मनदीं प्राप्य स्नानं कृत्वा वरानने ! |
जीवः शुद्धो भवेद् देवि गणैः परिकरैः सह || २१ ||
जीवस्य परमेशानि परिवारं शृणु प्रिये |
अक्षिणी नासिके कर्णौ जिह्वा च कमलेक्षणे || २२ ||
हस्तपादौ महेशानि गुह्योपस्थौ क्रमात् प्रिये |
नाभिं च परमेशानि ! मनश्च परमेश्वरि || २३ ||
सर्वेषामिन्द्रियाणां च मनः सर्वत्र सारथिः |
मनश्च परमेशानि ! उन्मनी भवनाशिनी || २४ ||
उन्मनी सारथिर्देवि दशा तु निर्गुणाः प्रिये |
जाग्रत्स्वप्नसुषुप्त्यवस्था एतद् देवि त्रयं स्मृतम् || २५ ||
ततः परं महेशानि तु [सू] र्यावस्था विधीयते |
इन्द्रियाणां तु सर्वेषां मनः परमसारथिः || २६ ||
सदसत्कर्मकर्तृत्वाज्जीवस्य सारथिर्मनः |
स्वकर्म भजते देवि ! उन्मनी सततं प्रिये || २७ ||
असत्कर्म महेशानि पापयोगात् प्रजायते |
रोदनं मोहमूर्च्छे च क्षुधा तृष्णा शुचिस्मिते || २८ ||
पुरुषात् पापमु[स्यो]त्पत्तिर्जायते कमलेक्षणे |
जोबो नित्योऽव्ययः सूक्ष्मः सर्वगः सर्ववित् परः || २९ ||
यथा ब्रह्म तथा जीवः प्रदीपकलिका इव |
प्रदीपकलिकाकारः सर्वः प्राप्य विजृम्भते || ३० ||
मनसा परमेशानि ध्यात्वा नाडीं परां शिवाम् |
कोटिसूर्यप्रतीकाशां स्वर्णदीं पापनाशिनीम् || ३१ ||
तन्मध्ये परमेशानि सुषुम्नां भुवि तत्पराम् |
साक्षाद् ब्रह्मह्रदाकारां नानासुखविहारिणीम् || ३२ ||
सुखसेव्यां सदाराध्यां साक्षाद् ब्रह्मस्वरूपिणीम् |
ज्ञानविज्ञानसंयुक्तां चिदाकारां सनातनीम् || ३३ ||
परं ब्रह्म महेशानि यस्याः पालङ्कमिच्छति |
वामपार्श्वे स्थितां नित्यां ब्रह्मरूपां तडिन्मयीम् || ३४ ||
दक्षिणे पिङ्गलां देवीं पुंरूपां सूर्यसन्निभाम् |
तन्मध्यस्थां महेशानि अमृतभवपूरिताम् || ३५ ||
विचित्रां परमां सूक्ष्मां महामोक्षप्रदायिनीम् |
वामनाडी महेशानि सुप्तिरूपा पुरःस्थिता || ३६ ||
स्वप्नन्तु परमेशानि तुरीया परिगीयते |
दक्षिणे पिङ्गलाश्रिता || ३७ ||
सुषुम्ना परमेशानि जागद्रूपा सनातनी |
विचित्रा परमेशानि तुरीया परिगीयते || ३८ ||
चित्रा मध्यगता भूत्वा जीवः शुद्धमना भवेत् |
शुद्धः सत्त्वात्मको जीव इष्टदेवीं हृदि न्यसेत् || ३९ ||
हृदि ध्यात्वा महेशानि जीवो ब्रह्मपरं भवेत् |
वारत्रयं महेशानि यातायातं करोति हि || ४० ||
एतद्रहस्यं परमं ब्रह्मलोके सुदुर्लभम् |
न कस्मैचित् प्रवक्तव्यं पशवे कमलेक्षणे || ४१ ||
एतत् प्रकाशनाद्देवि हानिः स्यादुत्तरोत्तरम् |
एतत्तत्वं महेशानि हृदये कुरु यत्नतः || ४२ ||
एतत्तत्वं महेशानि ब्रह्म जानाति केशवः |
एतत्तत्त्वं विना देवि मन्त्रसिद्धिर्न जायते |
एतत्तत्त्वं महेशानि ब्रह्मविष्णुशिवात्मकम् || ४३ ||
|| इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे षष्ठः पटलः || ६ ||
अथ सप्तमः पटलः
श्रीदेवी उवाच
भूतशुद्धेर्महेशान रहस्यं परमाद्भुतम् |
अन्यद् वद महेशान यद्यहं तव वल्लभा || १ ||
यदि न कथ्यते देव विमुञ्चामि तदा तनुम् |
शूलपाणे महादेव कृपया कथय प्रभो || २ ||
गणसुन्दर देवेश हृदयान्मम साम्प्रतम् |
रहस्यं न हि देवेशि सम्पुटं हृदये मम |
तव स्नेहान्महेशानि निगदामि पुनः पुनः || ३ ||
हृदये सम्पुटे देवि ब्रह्मरन्ध्रे च वर्त्तते |
यानि यानीह तिष्ठन्ति रहस्यं कमलेक्षणे || ४ ||
सदा मयि महेशानि गौरवं विहितः प्रिये |
त्रयोदशात्मकं [देवि] बिन्द्वर्द्धचन्द्रसंयुतम् || ५ ||
कुरु ब्रह्मविष्णुशिवात्मकं प्रणवं त्रिगुणान्वितं तत्त्वसुखम् |
ब्रह्मस्थानं सदा सेव्यमानं परमेश्वरि || ६ ||
ब्रह्मा विष्णुशिवोपरि स्थितम् |
अर्द्धयोनिं तदुपरि बिन्दुं निर्विकारं निरीहम् || ६ ||
ज्योतिर्मयी सदा संसेव्यमानं ब्रह्मादिभिर्या मूर्ध्नि धत्ते परमेश्वरि |
तं बिन्दुं सदा भावय पार्वति || ७ ||
नान्यथा वचनं मम हृदि संस्थितं निरञ्जनं पुरं बिन्दुम् |
बिन्दुं भावय देवेशि किं जपेन शुचिस्मिते || ८ ||
श्री-ईश्वर उवाच
इति सञ्चिन्त्य हृदये सर्वं पूजाफलं लभेत् |
पूजाभावे महेशानि हृदये चिन्तयेत् शिवाम् || ९ ||
सर्वपूजाफलं देवि प्राप्नोति पूजकः प्रिये |
किं तस्य ध्यानपूजायां बिन्दुं भावय पार्वति || १० ||
सर्वेषामिन्द्रियाणाञ्च तत्त्वानाञ्च शुचिस्मिते |
जीवोन्मनी च देवेशि सर्वाणि ब्रह्म कारणम् || ११ ||
यानि यानीह देवेशि इन्द्रियाणीह पार्वति |
तानि सर्वाणि देवेशि प्रकृतेः परमं वपुः || ११ ||
ब्रह्मणः कारणं देवि सदा प्रकृतिरूपिणी |
प्रकृतिः परमेशानि ब्रह्मणोऽव्यक्तमव्ययम् || १२ ||
स्वस्त्यर्थे परमेशानि भिन्नतां सततं गता |
शक्तिं विना महेशानि ब्रह्म वै शवरूपवत् || १३ ||
निरञ्जनं निराकारं सदा पश्यन्ति योगिनः |
प्रकृत्या सह संयोगं सदा याति निरञ्जनः || १४ ||
सृष्टिकर्ता सदा नित्यं जायते कमलानने |
अत एव महेशानि शक्तिप्राधान्यमुच्यते || १५ ||
अनन्ताः शक्तयः प्रोक्ता व्याप्य ते सचराचरम् |
शक्तिं बिना महेशानि ब्रह्माण्डं शवरूपवत् || १६ ||
या शक्तिः परमेशानि मुक्तिस्तु परिगीयते |
सा स्त्रीरूपा महादेवि हेतुभूता सनातनी || १७ ||
यत्किञ्चित् क्रियते कार्यं सर्वं तेजसि लीयते |
श्री-ईश्वर उवाच
शृणु वक्ष्यामि देवेशि रहस्यं परमाद्भुतम् |
सारात्सारतरं रम्यं आत्ममध्यस्थितं सदा || १८ ||
ततो जीवो महेशानि ध्यायेत् परमसुन्दरीम् |
शिवस्य युवतीं भद्रां कोटिकन्दर्पसंयुताम् || १९ ||
तस्या कटाक्षमात्रेण ब्रह्माद्या जडवत् प्रिये |
तन्त्रोक्तविधिना देवि ध्यायेत् परमसुन्दरीम् || २० ||
इष्टविद्यां महेशानि अष्टोत्तरशतं जपेत् |
मूलादिब्रह्मरन्ध्रान्तं नदीं ब्रह्मस्वरूपिणीम् || २१ ||
तत्र नद्यां महेशानि स्नातो जीवः सदा शुचिः |
वायुं वह्निं तदा देवि वरुणं तदनन्तरम् || २२ ||
बिन्द्वर्द्धसंयुतं कृत्वा सदा मनसि भावयेत् |
भूतशुद्धिर्महेशानि तत्क्षणादपि जायते || २३ ||
ततो जीवः प्रसन्नात्मा सूक्ष्मशुद्धिमवाप्नुयात् |
इन्द्रियाणाञ्च सर्वेषां सर्वतत्त्वं शुचिस्मिते || २४ ||
तानि सर्वाणि सूक्ष्माणि प्रकृतिस्था सदा शिवे |
शरीरं द्विविधं देवि स्थूलं सूक्ष्ममिदं स्मृतम् || २५ ||
सूक्ष्मञ्च प्रकृते रूपं स्थूलञ्च परमेश्वरि |
सूक्ष्मं संशोध्य विधिवत् स्थूलञ्च तदनन्तरम् || २६ ||
शृणु कमलपत्राक्षि भावयेदिष्टदेवताम् |
जीवञ्च परमेशानि ब्रह्मनद्यां शुचिस्मिते || २७ ||
स्नानं हि विधिवत् कृत्वा सदा शिवपुरं व्रजेत् |
ततो जीवो महेशानि वामनासापुटे प्रिये || २८ ||
विशुद्धां परमां सुक्ष्मां विषतन्तुतनीयसीम् |
समानीय वह्निरूपं साक्षात् परमसुन्दरीम् || २९ ||
सदा शिवपुरे भद्रे भावयेत् परदेवताम् |
तत्र गत्वा महेशानि भावयेदिष्टदेवताम् || ३० ||
तन्त्रोक्तविधिना देवि ध्यात्वामृतमयीं शिवाम् |
सदा षोडशवर्षीयां नवयौवनसंयुताम् || ३१ ||
पूर्णचन्द्रनिभां रक्तां सदा चञ्चललोचनाम् |
शुक्लकृष्णारुणयुतां पीतां नीलसमावृताम् || ३२ ||
नानारत्नयुतां रम्यां पादौ नूपुरशोभिताम् |
किङ्किणी च तथा कट्यां रत्नकाञ्चनमण्डिताम् || ३३ ||
योगिनीकोटिभिर्युक्तां नानासुखविहारिणीम् |
कन्दर्पकोटिलावण्यां सदामृतविवर्द्धिनीम् || ३४ ||
प्रफुल्लचञ्चलापाङ्गि प्रबोध्य परमं शिवम् |
मुखारविन्दगन्धेनामोदितं परमं शिवम् || ३५ ||
प्रबोध्य परमेशानि तत्रोप(चोप)विशेत् प्रिये |
शक्तिसंयोगमात्रेण सारत्वं तस्य नश्यति |
शिवशक्तिसमायोगादानन्दं जायते द्रुतम् || ३६ ||
|| इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे सप्तमः पटलः || ७ ||
अथ अथाष्टमः पटलः
श्री-ईश्वर उवाच
एतस्मिन् समये देवि स्वविद्यां प्रजपेत् सुधीः |
अष्टोत्तरशतं जप्त्वा सिद्धो भवति नान्यथा || १ ||
मनःसारथिना जीवः उन्मनी मनसारथिः |
तस्मिन् क्षणे महेशानि पुरुषं पापरुपिणम् || २ ||
सखावत् मनसा देवि जीवो ब्रह्मपुरं यदा |
पापस्य गमनं नास्ति सदाशिवपुरं प्रिये || ३ ||
सदाशिवपुरं देवि सर्वशक्तिमयं स्मृतम् |
षट्चक्रे परमेशानि क्षणं ध्यात्वा जपेन्मनुम् || ४ ||
तदनु परमेशानि प्रतिचक्रेषु संजपेत् |
षट्चक्रं परमं दिव्यं सदा शिवपुरीसमम् || ५ ||
षट्चक्रे परमेशानि षट्शक्तिर्विद्यते नृणाम् |
मुहूर्ताभ्यन्तरे देवि यातायातं करोति यः || ६ ||
स शिवः स च विष्णुश्च स सिद्धः परमेश्वरि |
यः करोति प्रसन्नात्मा सुषुम्नामध्यवर्तिनि || ७ ||
यो जपेत् परया भक्त्या स्वविद्यां कमलेक्षणे |
एकोच्चारेण गिरिजे कोटिपूजाफलं लभेत् || ८ ||
किं तस्य बाह्यपूजायां सर्वं व्यर्थं कदर्थनम् |
मानसोच्चारणाद् देवि जपात् सिद्धिः प्रजायते || ९ ||
मनसा ध्यानमात्रेण सर्वसिद्धिर्न संशयः |
अन्तःपूजा महेशानि बाह्यकोटिसमं स्मृतम् || १० ||
पूजा हि परमेशानि द्विविधं कमलानने |
अन्तः सूक्ष्मं बहिः स्थूलं सर्वागममतं प्रिये || ११ ||
एकं हि सूक्ष्मपूजायां कोटिस्थूलं भवेत् प्रिये |
न शुद्धिं परमेशानि वस्त्रादीनि शुचिस्मिते || १२ ||
सर्वासु बाह्यपूजासु अन्तःपूजा विधीयते |
अन्तःपूजा महेशानि तेजःपुञ्जस्य भावनम् || १३ ||
तेजःपुञ्जं महेशानि अनन्तशक्तिसंयुतम् |
सूक्ष्मदेहे महेशानि सूक्ष्मपूजा विधीयते || १४ ||
स्थूलपूजा स्थूलदेहे पूजाद्वयमिहोच्यते |
सुक्ष्मा तु परमा पूजा साक्षात् प्रकृतिरूपिणी || १५ ||
या पूजा परमेशानि स्त्रीरूपा शक्तिरूपिणी |
ब्रह्मविष्णुशिवादीनां सा पूजा इष्टदेवता || १६ ||
विष्णुं वा पूजयेद् यस्तु शिवं वा कमलेक्षणे |
सर्वं हि परमेशानि परतेजसि लीयते || १७ ||
यानि यानि महेशानि नैवेद्यं दीपमुत्तमम् |
सर्वं तदक्षयं याति परतेजसि अर्पणात् || १८ ||
निश्चयं परमं ब्रह्म कुतः प्रीतिः कुतः सुखम् |
निराकारं निरीहञ्च रहितमिन्द्रियेण च || १९ ||
सर्वं हि परमेशानि व्याप्य तिष्ठति मोहिनी |
यद् यत् कर्मकृतं पुण्यं तत्तदक्षयमाप्नुयात् || २० ||
ब्रह्मरूपं महेशानि शक्तिश्च निश्चयं प्रिये |
तस्य पूजा महेशानि कदाचिन्नास्ति पार्वति || २१ ||
अत एव महेशानि ब्रह्मणः शक्तिकारणम् |
कार्यञ्च परमेशानि शक्तिश्च सततं प्रिये || २२ ||
अतः परं महेशानि न कार्यकारणं प्रिये |
यस्तु सततं देवि ईश्वरे निश्चलः सदा || २३ ||
शक्तियुक्तं जपेद् देवं ईश्वरं सततं प्रिये |
अत एव महेशानि ब्रह्मशक्तिः परा सदा || २४ ||
शक्त्या बिना महेशानि न हि मुक्तिः प्रजायते |
तस्माच्छक्तिश्च मुक्तिश्च स्त्रीरूपी शक्तिरूपिणी || २५ ||
भक्त्या बिना महेशानि न हि मुक्तिः प्रजायते |
मुक्तेस्तु कारणं देवि भक्तिः परमदुर्लभा || २६ ||
अतस्त्रयं महेशानि स्त्रीमयं सचराचरम् |
श्री-ईश्वर उवाच
षट्चक्राणां महेशानि क्रमाद् वक्ष्यामि शोधनम् |
मूलाधारस्थितं भूमिं स्वाधिष्ठानस्वरूपकम् || २७ ||
मणिपूरे जलं देवि ततश्च मरुतं तथा |
विशुद्धौ च महेशानि आकाशं कमलानने || २८ ||
आज्ञाचक्रे महेशानि मनः सर्वार्थसाधकम् |
तदूर्ध्वे परमेशानि पद्ममूर्ध्वमुखं तथा || २९ ||
शक्तिपुरं महेशानि सदाशिवपुरोपरि |
सदाशिवपुरं प्राप्य शुद्धस्फटिकसन्निभम् || ३० ||
सहस्रादित्यसङ्काशं महाकालेन सङ्गतम् |
महानन्दिगणाकीर्णं मनसा भावयेत् सदा || ३१ ||
|| इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे अष्टमः पटलः ||
अथ नवमः पटलः
श्री-ईश्वर उवाच
एवं हि मनसा जीवं दृष्ट्वा हि परमं शिवम् |
आनन्दपुलकोद्भूते जीवो भवति सुन्दरि || १ ||
सदाशिवं महेशानि शुद्धस्फटिकसन्निभम् |
बहुरत्नसमाकीर्णं दीर्घबाहुं मनोहरम् || २ ||
सुखप्रसन्नवदनं स्वैराप्यं सततं प्रिये |
श्रवणे कुण्डलोपेते रत्नहारेण शोभितम् || ३ ||
गोलपद्मसहस्रेण मालया शोभितं वपुः |
अष्टबाहु/ त्रिनयनं शिवं पद्मदलेक्षणम् || ४ ||
पादयोर्नूपुरं रम्यं शब्दञ्च शब्दब्रह्मवत् |
एवं स्थूलवपुस्तस्य भावयेत् कमलानने || ५ ||
शिरसोपरि देवेशि भावयेज्जीवशतं शिवम् |
सूक्ष्मन्तु परमं दिव्यं निरीहं जडवत् सदा || ६ ||
सूक्ष्मे ध्यानं महेशानि कदाचिन्न हि जायते |
स्थूलध्यानं महेशानि कृत्वा मोक्षमवाप्नुयात् || ७ ||
स्थूलं हि प्रकृते रूपं ध्यानञ्च प्रकृतेः प्रिये |
आदौ स्थूलतनुं देवि सम्पूज्य कमलानने || ८ ||
ततस्तु परमेशानि परतेजश्च भावयेत् |
तेजश्च परमेशानि प्रकृतिर्मोहिनीति च || ९ ||
प्राधान्यं परमेशानि प्रकृतेः शिवपूजने |
तस्मात् सर्वासु पूज्सासु शक्तिः प्राधान्यमुच्यते || १० ||
यदा तु परमेशानि हृदये चिन्तयेद्धरिम् |
ध्यानं कृत्वा सूक्ष्मतनोः स्थूलं विन्यस्य तत्र वै || ११ ||
ततः स्थूलतनुं ध्यात्वा हरिं पद्मदलेक्षणम् |
श्यामलं पीतवासञ्च वनमालाविभूषितम् || १२ ||
किरीटिनं कुण्डलिनं प्रसन्नमुखपङ्कजम् |
श्रीवत्सशोभितं वक्षो रत्नहारेण शोभितम् || १३ ||
कौस्तुभोद्भासि वरदं दीर्घबाहुमरिन्दमम् |
प्रसन्ननेत्रकमलं चरणे नूपुरं प्रिये || १४ ||
वेणुवीणानिनादेन शब्दब्रह्मेण सुन्दरि |
पूरयन्तं जगद् देवि सततं कमलानने || १५ ||
श्री-ईश्वर उवाच
हरेः सूक्ष्मं महेशानि विभाव्य ध्यानमाचरेत् |
सूक्ष्मं हि निश्चलं देहं सूक्ष्मा प्रकृतिरूपिणी || १६ ||
तथापि हरिपूजायां शक्तिप्राधान्यमुच्यते |
यत्तु ध्यानं धारणञ्च समाधिश्च शुचिस्मिते || १७ ||
सर्वं हि प्रकृते रूपं नान्यथा वचनं मम |
ध्यानञ्च परमेशानि सर्वाङ्गचिन्तनं प्रिये || १८ ||
तदनु परमेशानि एकाङ्गचिन्तनं प्रिये |
इदन्तु धारणाख्यातं शृणु पार्वति सादरम् || १९ ||
ध्याञ्च धारणं देवि त्यक्त्वा यद्भावयेत् हृदि |
एषा समाधिर्विज्ञेयो नात्र कार्या विचारणा || २० ||
ध्यानञ्च धारणञ्चैव समाधिश्च शुचिस्मिते |
मयोक्तं यत् तद् देवेशि सर्वं शक्तिमयं स्मृतम् || २१ ||
सूक्ष्मं स्थूलं महेशानि तथा शक्तिद्वयं प्रिये |
श्रीदेव्युवाच
देवदेव महादेव षट्चक्रे परमेश्वर |
यथा पूजां यथा ध्यानं कृत्वा जपं समाचरेत् || २२ ||
रहस्यं परमं गुह्यं मम हर्षविवर्द्धनम् |
कृपया कथय मे नाथ तवाहं परिचारिका || २३ ||
श्री-ईश्वर उवाच
देवेशि तव दासोऽहं कथयामि शुचिस्मिते |
क्षणार्द्धं न हि जीवामि त्वां विना कमलेक्षणे || २४ ||
त्वद्वक्त्राम्बुजपानेन अमृतेन शुचिस्मिते |
शिवोऽहं परमेशानि मृत्युं जित्वा वरानने || २५ ||
शृङ्गाररससंयोगात् कालकूटं पिबाम्यहम् |
ममापि परमेशानि तनुवज्रसमं सदा || २६ ||
देवेशि तव दासोहऽमन्तर्बाह्ये शुचिस्मिते |
अन्तरे त्वां महेशानि विभाव्य सूक्ष्मरूपिणी || २७ ||
भावनात् परमेशानि लक्षवर्षो गतो मम |
बाह्यज्ञानं मया देवि जायते मम योगिनी || २८ ||
मयि च परमेशानि त्वमेव सूक्ष्मरूपिणी |
दृष्ट्वा तच्चरणद्वन्द्वं तव वक्त्रं वरानने || २९ ||
आत्मज्ञानं परित्यज्य चरणे पतितो ह्यहम् |
प्रकाराच्च महेशानि शृणु सम्प्रति मद्वचः || ३० ||
यदुक्तं भूतशुद्ध्यादि सर्वं त्वं नगनन्दिनि |
सद्योगत्वं महेशानि स्वागमं कथयामि ते || ३१ ||
स्घागमं परमं ज्ञानं चक्षुः प्रज्ञानसंयुतम् |
विज्ञानेन मतं देवि देवमातरमेव च || ३२ ||
वेदाश्च परमेशानि यानि यानि यथा तथा |
दर्शनानि तथा देवि सकलानि पृथक् पृथक् || ३३ ||
चतुर्दशानि तन्त्राणि तथा नानाविधानि च |
स्वागमाश्च प्रसूयन्ते सततं परमेश्वरि || ३४ ||
मम प्राणसमं देवि स्वागमं मम सम्पुटम् |
हृदये मम देवेशि संस्थितं कमलानने || ३५ ||
यस्मिन् क्षणे महेशानि अन्तर्ध्यात्वा हरो ह्यहम् |
स्वागमं भावितं देवि तत्क्षणे परमेश्वरि || ३६ ||
अन्तर्ध्यानं हृतं देवि स्वागमं हृदये स्थितम् |
अन्तर्ध्यानं समाहृत्य बाह्यदृष्टिं सदा मम || ३७ ||
तदाहं सहसा देवि कथयामि तवाग्रतः |
विभाव्य परमेशानि स्वागमं हृदयात्मनि || ३८ ||
अन्यथा परमेशानि स्वागमं कथयामि ते |
स्वागमं लक्षग्रन्थं हि नाना विद्या शुचिस्मिते || ३९ ||
महेषु परमेशानि निर्मितं ब्रह्मरूपिणम् |
स्वागमं परमं पुण्यं ब्रह्माण्डबीजमव्यम् || ४० ||
स्वागमं शृणु वक्ष्यामि गिरिजा च त्रिलोचने |
नानाशास्त्रे च विद्यासु स्वागमस्तु प्रशस्यते || ४१ ||
स्वागमं परमां विद्यां नानातन्त्रविनिर्मिताम् |
शिवे विष्णौ महेशानि सूर्ये च नगनन्दिनि || ४२ ||
तथा च सर्वदेवेषु वन्ह्यादिषु शुचिस्मिते |
तथा च सर्वशास्त्रेषु शक्तेः प्राधान्यमुच्यते |
शङ्खाव(संख्ययैव)क्रमाद्देवि शक्तिः सर्वत्र गीयते || ४३ ||
|| इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे नवमः पटलः || ९ ||
अथ दशमः पटलः
श्री-ईश्वर उवाच
वनमालादिकं देवि विष्णोर्मतं शुचिस्मिते |
तत्सर्वं परमेशानि शक्तिरूपं न चान्यथा || १ ||
सहस्रारे शक्तिपुरे भावयेत् परमेश्वरि |
जीवस्य ब्रह्मणश्चापि एकतां यत्नतश्चरेत् || २ ||
ततो ध्यानं प्रकुर्वीत स्वागमे रूढितञ्च यत् |
जपञ्च परमेशानि मनसा च समाचरेत् || ३ ||
जपेत् समाहितो भूत्वा मालया वर्णसङ्ख्यया |
तत आज्ञापुरीं नीत्वा भावयेदिष्टदेवताम् || ४ ||
ध्यात्वा जप्त्वा च देवेशि साक्षात् सुरगुरुर्भवेत् |
विशुद्धं प्रति देवेशि लम्बयेन्मनो विद्यया || ५ ||
विशुद्धं परमं पद्मं षट्चक्रं तत्तु गम्यते |
षट्चक्रे परमेशानि ध्यात्वा जगन्मयीं शिवाम् || ६ ||
तडित्कोटिप्रभां तन्वीं ब्रह्माण्डरूपिणीं शिवाम् |
निरीहां निश्चलां रम्यां महायोगमयीं पराम् || ७ ||
मोहिनीं सर्वदेवानां आनन्दार्थियुतां पराम् |
विषतन्तुमयीं देवीं साक्षादमृतरूपिणीम् || ८ ||
शिवस्य युवतीं योग्यां विभाव्य शुद्धवर्तिनि |
मनसा परमेशानि जपेदष्टशतं प्रिये || ९ ||
हृत्पद्मं प्रति देवेशि न स्वपेत् परमां पराम् |
शुद्धध्यानञ्च वर्णानां योगपद्मस्थितां पराम् || १० ||
योगपद्मे महेशानि जीवो मनसि भावयेत् |
भुजङ्गरूपिणीं देवीं नित्यां कुण्डलिनीं पराम् || ११ ||
अव्यक्तरूपिणीं रम्यां ध्यानगम्यां वरानने |
योगपथे महेशानि जपेदष्टशतं पुनः || १२ ||
न स्वपेज्जीवमनसा मणिपूरं प्रति प्रिये |
भुजङ्गभृङ्गसङ्काशं मणिपूरं महाप्रभम् || १३ ||
तत्रस्थशिवलिङ्गेन योजयेत् कुण्डलीं पराम् |
ततो जीवो महेशानि तत्क्षणाद् ब्रह्मचाप्नुयात् || १४ ||
ततस्तु परमेशानि जीवस्तु मनसा वृतः |
ध्यात्वा ब्रह्ममयीं शुद्धां जपेदष्टशतं प्रिये || १५ ||
तदनु परमेशानि स्वाधिष्ठानं लयेत् पराम् |
स्वाधिष्ठानं महेशानि शुद्धस्फटिकसन्निभम् || १६ ||
भावयेत् तत्र देवेशं शङ्खकुन्दसमप्रभम् |
संयोज्य परमां दिव्यां शिवेन सह पार्वति || १७ ||
सर्वं हि परमेशानि मनसा कुरु यत्नतः |
इन्द्रियाणां प्रधानं हि मनः सर्वत्र गीयते || १८ ||
तत्र देवं शिवं शान्तं विचिन्त्य मनसा क्षणात् |
परं ब्रह्ममयं भूत्वा जपेदष्टशतं तथा || १९ ||
तदनु परमेशानि मूलाधारात् व्रजेत् परम् |
गुदपद्मं महेशानि मूलाधारं प्रकीर्तितम् || २० ||
चतुर्दलयुतं रम्यं तरुणारुणविग्रहम् |
भावयेत् परमेशानं सिन्धुवरुणविग्रहम् || २१ ||
संयोज्य परमां नित्यां निष्फलां ज्ञानरूपिणीम् |
शिवसंयोगमात्रेण जीवो ब्रह्ममयो भवेत् ||
मनसा संयुतो भूत्वा जपेदष्टशतं तथा || २२ ||
|| इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे दशमः पटलः || १० ||
अथ एकादशः पटलः
श्री-ईश्वर उवाच
एवं द्वादशधा देवि यतायातः करोति यः |
स सिद्धः स गमः सोऽपि मम तुल्यः सदा प्रिये || १ ||
वचोमात्रेण देवेशि तस्य विद्या हि सिद्धये |
सप्तानां कोटिविद्यानां मन्त्राणाञ्च वरानने || २ ||
सिद्धमाध्यादिकं देवि अतिगुह्यतरं प्रिये |
अप्रकाश्यमिदं तत्त्वं पशोर्गोप्यं सदा प्रिये || ३ ||
हृदये मम देवेशि अजपा सम्पुटे स्थितम् |
सर्वासां नरनारीणां सम्पुटं हंसपक्षिणम् || ४ ||
निःसरन्ति महेशानि विद्यामन्त्राणि पार्वति |
शक्तिप्रसादाद् देवेशि लक्षवर्षं गतस्तदा || ५ ||
लक्षवर्षं महेशानि भावयामि शुचिस्मिते |
सम्पुटे परमां विद्यां सर्वविद्यास्वरूपिणीम् || ६ ||
पुंरूपां प्रकृतिरूपां चन्द्रसूर्यसमप्रभाम् |
वेदमातां सदा वन्ध्यां योगिनीं योगरूपिणीम् || ७ ||
संसारतारिणीं देवीं महामोक्षप्रदायिनीम् |
प्रणमामि सदा शुद्धां नित्यां विग्रहरूपिणीम् || ८ ||
प्रणम्य परमां दिव्यां निगदामि शुचिस्मिते |
ईश्वर उवाच
काञ्चनाख्यं समुद्धृत्य रोमञ्च तदनन्तरम् |
सरिहरिं समुद्धृत्य तदनु काञ्चनं प्रिये || ९ ||
बिन्द्वर्द्धसंयुतं कृत्वा षट्पद्मे जपमाचरेत् |
अष्टोत्तरशतं जप्त्वा षट्पद्मे कमलेक्षणे || १० ||
दशधा प्रजपेद् वापि भूतशुद्धिफलं लभेत् |
एकधा तु समुद्धृत्य भूतशुद्धिं समाचरेत् || ११ ||
भूतशुद्धिं महेशानि तदा साङ्गं भवेत् प्रिये |
अन्यथा विफला पूजा जपञ्च विफलं प्रिये || १२ ||
युगाक्षरं जपेद् देवि चतुर्युगफलं लभेत् |
चतुर्युगजपाद्देवि यत्फलं लभते नृणाम् || १३ ||
तत्फलं समवाप्नोति एकोच्चारेण पार्वति |
एकोच्चारेण देवेशि मम तोषो न संशयः || १४ ||
सम्पुटं परमेशानि नित्यां सर्वस्वरूपिणीम् |
विभाव्य सततं देवि षट्चक्रं सततं शिवे || १५ ||
एकामुपास्य देवेशि महाविद्यामुपास्महे |
अन्यथा परमेशानि महाविद्यां वरानने || १६ ||
तदनु परमेशानि महाविद्यामुपास्महे |
अन्यथा परमेशानि प्रेतवत् सकलं भवेत् || १७ ||
श्री-ईश्वर उवाच
अन्यतन्त्रं महेशानि निगदामि पुनः प्रिये |
तन्त्रं तन्त्रस्य वक्ष्यामि भूतशुद्धिं भवेद् यथा || १८ ||
पापस्य कारणं देवि पुरुषं पापसंयुतम् |
क्रोधमोहयुतं कृष्णं ईषत्पिङ्गं वरानने || १९ ||
तस्य शुद्धिं प्रवक्ष्यामि नीरजायतलोचने |
पञ्चानामपि वायूनां शुद्धिं नास्ति वरानने || २० ||
स्वभावतः सदा शुद्धिं पञ्चभूतात्मकं वपुः |
रोदनञ्च तथामूर्च्छां भ्रमञ्च कमलानने || २१ ||
पुरुषात् पापरूपाच्च जायते कमलानने |
भूतशुद्धेस्तु मन्त्राणि निगदामि शृणु प्रिये || २२ ||
प्रणवं त्रिविधं देवि वामा ज्येष्ठा च पार्वति |
ततो रौद्री महेशानि त्रिप्रकारं वरानने || २३ ||
आद्यन्ते प्रणवं दत्त्वा पञ्चाशन्मातृकां जपेत् |
बिन्द्वर्द्धसंयुतं कृत्वा विद्यां भव विमोचिनीम् || २४ ||
माता हि मन्त्रविद्यानां पिता चैव शुचिस्मिते |
सर्वासां मन्त्रविद्यानां पिता माता च मातृका || २५ ||
पिता माता च सन्तुष्य अन्यक्रोधो निरर्थकः |
पुरातनीमविज्ञाय भूतशुद्धिं करोति यः || २६ ||
विफलं तस्य देवेशि भूतशुद्धिं वरानने |
भूतशुद्धिं महेशानि जपपूजां न शंशते || २७ ||
|| इति श्रीभूतशुद्धितन्त्रे हरगौरीसंवादे एकादशः पटलः || ११ ||
अथ द्वादशः पटलः
श्री-ईश्वर उवाच
एतज्ज्ञानं महेशानि यः कुर्यात् सततं प्रिये |
महायोगेश्वरः सोऽपि मम तुल्यो न संशयः || १ ||
तस्य सर्वाणि मन्त्राणि विद्या च परमेश्वरि |
शीघ्रं सिध्यति देवेशि नात्र कार्या विचारणा || २ ||
एतद्रहस्यं परमं सदा ब्रह्मविनिर्णयम् |
योगज्ञानं तपः शास्त्रं विद्या शिल्पानि यानि च || ३ ||
सर्वं हि प्रकृते रूपं निश्चयं वचनं मम |
शृणु पार्वति वक्ष्यामि रहस्यं परमव्यम् || ४ ||
भूतशुद्धेर्महेशानि विद्यां परमगोपिताम् |
निगदामि शृणु प्राज्ञे नीरजायतलोचने || ५ ||
श्री-ईश्वर उवाच
अवश्यं भावयेद् देवि विद्यां भागवताभिधाम् |
कामबीजं महेशानि त्रिरुच्चार्य शुचिस्मिते || ६ ||
धीमहीति ततो देवि वह्निजायां समुद्धरेत् |
ततस्तु परमेशानि त्रिविधं काममुद्धरेत् || ७ ||
भगवत्या इदं देवि तेन भागवतं स्मृतम् |
भागवताख्यां महाविद्यां दशधा जपमाचरेत् || ८ ||
दिवसे दिवसे देवि प्रजपेत् यदि मानवः |
तदेव परमेशानि दीक्षाफलमवाप्नुयात् || ९ ||
नित्यां कर्म महेशानि विद्यां भागवताभिधाम् |
विद्यां कल्पद्रुमाकारां धर्मकामार्थमोक्षदाम् || १० ||
सर्ववेदेषु तन्त्रेषु विद्यां भागवताभिधाम् |
गीयते परमेशानि नित्या प्रकृतिरूपिणी || ११ ||
अत एव महेशानि विद्यां भागवताभिधाम् |
अज्ञानाद् यदि वा मोहात् कामाद्वा कमलेक्षणे || १२ ||
न जपेद् यदि देवेशि द्विजः शूद्रत्वमाप्नुयात् |
सर्वं तस्य वृथा देवि कुतः पूजा कुतः सुखम् || १३ ||
क्षत्रियोऽपि वरारोहे न जपेद् यदि पामरः |
वैश्यत्वं सहसायाति वैश्यः शूद्रत्वमाप्नुयात् || १४ ||
क्षत्रियोऽपि वरारोहे प्रजपेद्यदेकधा |
ब्राह्मणत्वं ततो याति सहसा परमेश्वरि || १५ ||
वैश्यस्तु परमेशानि क्षात्रत्वं याति तत्क्षणात् |
ब्राह्मणोऽपि नरश्रेष्ठः साक्षाद् ब्रह्म न संशयः || १६ ||
शूद्रस्तु परमेशानि वैश्यत्वं याति पार्वति |
इयं विद्या वरारोहे सदा भागवताभिधा || १७ ||
इमां विद्यां महेशानि मात्रामेकादशाक्षरीम् |
अज्ञात्वा परमेशानि पुराणं यस्तु वाचयेत् || १८ ||
स याति नरकं घोरं सदा संसर्गिणा सह |
तस्माद् यत्नेन देवेशि वर्जनीयः स तु द्विजः || १९ ||
श्रीदेव्युवाच
शूद्रस्य परमेशानि नाधिकारो वृषध्वज |
वह्निजायान्वितां विद्यां शूद्रस्य कथमुच्चरेत् || २० ||
श्री-ईश्वर उवाच
तन्त्रोक्तं प्रणवं देवि वह्निजायाञ्च सुन्दरि |
प्रजपेत् सततं देवि नात्र कार्या विचारणा || २१ ||
शक्तिविद्यान्विता देवि जायते यदि पार्वति |
प्रजपेत् सहसा देवि तदा सिद्धिश्च जायते || २२ ||
गायत्र्यक्षरसंयुक्तं न जपेद् भागवताभिधाम् |
शूद्रस्य परमेशानि विद्यां भागवतीं शृणु || २३ ||
मन्मथं त्रिगुणं देवि समुद्धृन्य वरानने |
प्रथमं चतुर्दशं दत्त्वा स्वयं प्रणवरूपिणीम् || २४ ||
वह्निजायां परे दत्त्वा प्रजपेत् दशधा यदि |
शूद्रोऽपि परमेशानि वैश्यत्वं याति तत्क्षणात् || २५ ||
तदैव महती सिद्धिः शूद्रस्य कमलेक्षणे |
इमां भागवतीं विद्यां स्वागमं विद्धि पार्वति || २६ ||
स्वागमं परमं ब्रह्म अनन्तशक्तिसंयुतम् |
तव स्नेहात् समाख्यातं सुगोप्यं कमलेक्षणे || २७ ||
सारात्सारं महेशानि विद्यां भागवताभिधाम् |
शूद्रस्य सकलं देवि कथयामि वरानने || २८ ||
मन्मथत्रयमुद्धृत्य धीकारं तदनन्तरम् |
वह्निजायां परे दत्त्वा मन्मथत्रयमुद्धरेत् || २९ ||
इयं भागवती विद्या शूद्रवाच्या विधीयते |
इति ते कथितं तत्त्वं महाभक्त्या वरानने || ३० ||
कस्मैचित् प्रवक्तव्यं यदीच्छेदात्मनः सुखम् |
शान्ताय ऋजवे देवि भक्तिश्चाण्डालजातिषु || ३१ ||
अभक्ताय महेशानि ब्राह्मणाय न दापयेत् |
अभक्तभ्योऽपि पुत्रेभ्यो न दद्यात् कमलेक्षणे || ३२ ||
भक्ताय शान्तचित्ताय दद्याद् विद्यां वरानने |
अभक्तेभ्योऽपि पुत्रेभ्यस्तत्र मृत्युमवाप्नुयात् || ३३ ||
यत् किञ्चिद् दृश्यते देवि त्रैलोक्यं सचराचरम् |
तत्सर्वं परमेशानि शक्तियुक्तं सुनिश्चितम् || ३४ ||
सर्वतत्त्वं महेशानि परा शक्तिश्च मोहिनी |
रूपादि यानि तत्त्वानि तानि तत्त्वानि कुण्डली || ३५ ||
रूपं हि षड्विधं देवि सर्वतन्त्रेषु निश्चितम् |
रसस्तु षड्विधः स्वाहा नानास्वादः स्यान्निश्चितम् || ३६ ||
गन्धं हि द्विविधं देवि सर्वशक्तियुतं प्रिये |
अन्यानि यानि तत्त्वानि चतुर्विंशति सुन्दरि || ३७ ||
सर्वं शक्तिमयं विज्ञे क्रमेण कमलेक्षणे |
शुक्लं रक्तं तथा पीतं हरितं कृष्णमेव च || ३८ ||
विचित्राणि क्रमतो वर्णं कृष्णवर्णं प्रकीर्तितम् |
रसस्तु द्विविधं देवि सुगन्धि प्रतिगन्धकम् ||
एवं सर्वं विजानीयात् सदा शक्तिमयं प्रिये || ३९ ||
|| इति श्रीभूतशुद्धितन्त्रे हरगौरिसंवादे द्वादशः पटलः || १२ ||
अथ त्रयोदशः पटलः
श्री-ईश्वर उवाच
अथ वक्ष्यामि देवेशि विद्यां शक्तिमयीं प्रिये |
प्रणवं प्रथमं देवि उद्धृत्य कमलानने || १ ||
ततः कामं समुद्धृत्य प्रणवं तदनन्तरम् |
ततः प्रणवमुद्धृत्य मायाबीजं समुद्धरेत् || २ ||
प्रणवं पुनरुच्चार्य शृणु देवि वरानने |
कामबीजं समुद्धृत्य प्रणवमुद्धरेत् ततः || ३ ||
ततो मायां समुद्धृत्य (वित्तोद्धारं) वरानने |
ततः परं महेशानि कन्दर्पमुद्धरेत् प्रिये || ४ ||
सर्वान्ते वह्निललनां दत्त्वा जपं समारभेत् |
एषा तु परमेशानि विद्या सप्तदशाक्षरी || ५ ||
वैष्णवे गाणपत्ये च शैवे च परमेश्वरि |
शाक्तेषु परमेशानि दशविद्या सुशस्यते || ६ ||
एषा विद्या वरारोहे सर्वशक्तिमयी प्रिये |
सर्वशक्तिमयीं विद्यां न जपेत् यदि पामरः || ७ ||
सर्वं तस्य वृथा देवि हानिः स्यादुत्तरोत्तरम् |
वृथा पूजा महेशानि जपस्तस्य वृथा भवेत् || ८ ||
न्यासञ्च विफलं तस्य भूतशुद्धिश्च पार्वति |
प्राणायामं महेशानि तथैवाचमनं प्रिये || ९ ||
सर्वाणि तस्य विफलं जायते कमलानने |
तस्मादादौ जपेद् विद्यां सप्तदशाक्षरीं प्रिये || १० ||
न जपेद् यदि देवेशि ज्ञात्वा पूजां समाचरेत् |
सर्वशास्त्रेषु देवेशि वैष्णवे च विशेषतः || ११ ||
शैवे च गाणपत्ये च प्रशस्ता शक्तिरूपिणी |
आदौ विद्या महेशानि दशधा जपमाचरेत् || १२ ||
भूतशुद्ध्यादिकं सर्वं ततः साधक आरभेत् |
श्री-ईश्वर उवाच
भूतशुद्धि विधायेत्थं मातृकान्यासमाचरेत् |
ततः परं महेशानि प्राणायामं वरानने || १३ ||
प्राणायामं विना देवि नहि पूजां समाचरेत् |
प्राणायामत्रयं दत्त्वा आसनानि समाचरेत् || १४ ||
|| इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे त्रयोदशः पटलः || १३ ||
अथ चतुर्दशः पटलः
मन्त्रार्थं मन्त्रचैतन्यं योनिञ्चापि न वेत्ति यः |
शतकोटि जपेनापि तस्य विद्या न सिध्यति || १ ||
देवदेव महादेव रहस्यं पूर्वसूचितम् |
एतत्तत्त्वं महादेव कृपया वद शङ्कर || २ ||
श्री-ईश्वर उवाच
मन्त्रार्थं परमेशानि सावधानावधारय |
तथा च मन्त्रचैतन्यं निर्वाणपदमुत्तमम् || ३ ||
प्रसङ्गात् परमेशानि निवदामि तवाज्ञया |
मूलाधारे मूलविद्यां भावयेदिष्टदेवताम् || ४ ||
शुद्धस्फटिकसङ्काशां भावयेत् परमाक्षरीम् |
भावयेदक्षरश्रेणीमिष्टविद्यां सनातनीम् || ५ ||
मूहूर्त्तार्द्धं विभाव्यैतां पञ्चध्यानपरो भवेत् |
ध्यानं कृत्वा महेशानि मुहूर्त्तार्द्धं ततः परम् || ६ ||
ततो जीवो महेशानि मनसा कमलेक्षणे |
स्वाधिष्ठानं ततो गत्वा भावयेदिष्टदेवताम् || ७ ||
बन्धूकारुणसङ्काशां जपासिन्दूर आकृतिम् |
विभाव्य अक्षरश्रेणीं पद्ममध्यगतां शुभाम् || ८ ||
ततो जीवः प्रसन्नात्मा पक्षिणा सह सुन्दरी |
मणिपूरं ततो गत्वा भावयेदिष्टदेवताम् || ९ ||
विभ्राम अक्षरश्रेणीं पद्ममध्यगतां पराम् |
शुद्धस्फटिकसङ्काशां शिववक्षोपरि स्थिताम् || १० ||
ततो जीवो महेशानि पक्षिणा सह पार्वति |
हृत्पद्मं प्रययौ शीघ्रं नीरजायतलोचने || ११ ||
इति विद्यां महेशानि भावयेत् कमलोपरि |
विभाव्य अक्षरश्रेणीं महामरकतप्रभाम् || १२ ||
ततो जीवो वरारोहे विशुद्धं प्रययौ प्रिये |
तत्पद्मगहनं गत्वा पक्षिणा जीव पार्वति || १३ ||
इष्टविद्यां महेशानि आकाशोपरि भावयेत् |
विभाव्य अक्षरश्रेणीं हरिद्वर्णं वरानने || १४ ||
तत्र आज्ञापुरं देवि प्रययौ जीव पार्वति |
पक्षिणा सह देवेशि खञ्जनाक्षि शुचिस्मिते || १५ ||
इष्टविद्यां महेशानि साक्षाद् ब्रह्मस्वरूपिणीम् |
विभाव्य अक्षरश्रेणीं चतुर्वर्णानुरञ्जिताम् || १६ ||
आज्ञाचक्राणि (सम्भाव्य) विभाव्य वरवर्णिनि |
षट्चक्रे परमेशानि ध्यानं कृत्वा शुचिस्मिते || १७ ||
ध्यानेन परमेशानि यद्रूपं समुपस्थितम् |
तदेव परमेशानि मन्त्रार्थं विद्धि पार्वति || १८ ||
प्रषञ्चानि ततोऽतीत्य जीवस्तु पक्षिणा सह |
प्रययौ परमं रम्यं निर्वाणं परमं पदम् || १९ ||
सहस्रारं शिवपुरं तन्मध्ये सात्त्विकीं पुरीम् |
कौशिकीं सततं देवि पुरीं शक्तिमयीं प्रिये || २० ||
पक्षिणा सह देवेशि जीवः शीघ्रं प्रयाति हि |
विभाव्य अक्षरश्रेणीममृतान्तु रसायनीम् || २१ ||
तत् सदा शिवपुरं रम्यं कल्पवृक्षतलस्थितम् |
नानारत्नसमाकीर्णं तन्मूलं कमलानने || २२ ||
वृक्षञ्च परमेशानि सततं त्रिगुणात्मकम् |
पञ्चभूतात्मकं वृक्षं पञ्चशाखासमन्वितम् || २३ ||
चतुःशाखा चतुर्वेदं चक्रतत्त्वसमन्वितम् |
चतुर्वर्णयुतं पुष्पं शुक्लं रक्तं शुचिस्मिते || २४ ||
पीतं कृष्णं महेशानि पुष्पद्वयं परं शृणु |
हरितञ्च महेशानि विचित्रं सर्वमोहनम् || २५ ||
षट्पुण्यञ्च महेशानि------------- मिदं स्मृतम् |
अन्यानि यानि शाखानि क्षुद्राणि नीललोचने || २६ ||
तानि सर्वाणि पत्राणि सर्वशास्त्राणि सुन्दरि |
त्वगस्थिमेधामज्जानि वृक्षशाखानि च प्रिये || २७ ||
तानि सर्वाणि देवेशि इन्द्रियाणि प्रकीर्तितम् |
सर्वशक्तिमयीं देवि दिव्यां नीरजलोचने || २८ ||
एवंभूतं महावृक्षं भ्रमरैः परिशोभितम् |
इतिहासपुराणानि सर्वाणि वृक्षसंस्थितम् || २९ ||
कोकिलैः परमेशानि शोभितं बहुपक्षिभिः |
नानापक्षियुतं रम्यं दिव्यस्त्रीगणसंयुतम् || ३० ||
देवदानवगन्धर्वशोभितं कमलानने |
बन्धुभिः शोभितं देवि गणैरत्नादिकाङ्क्षभिः || ३१ ||
सूक्ष्मं हि परमं दिव्यं पर्यङ्कं सर्वमोहनम् |
चन्द्रकोटिसमं देवि सर्वकोटिसमप्रभम् || ३२ ||
शीतांशुरश्मिसंयुक्तं नानागन्धानुमोदितम् |
नानापुष्पसमूहेन रचितं हेममालया || ३३ ||
ततः परं महेशानि सदाशिवः स्वयं पुनः |
जीवः पक्षियुतो देवि भावयेत् तत्र पार्वति || ३४ ||
सदाशिवो महेशानि महाकुण्डलिनीयुतः |
एवं कल्पद्रुमं ध्यात्वा तदधो रत्नवेदिकाम् || ३५ ||
तत्रोपरि महेशानि पर्यङ्कं भावयेत् प्रिये |
कामिनीकोटिसंयुक्तं चामरैर्हस्तसंस्थितम् || ३६ ||
एवं विभाव्य मनसि सदाजीवं शुचिस्मिते |
यस्य यस्य महेशानि यदिष्टं कमलानने || ३७ ||
तस्य ध्यानसमायुक्तो मनसा परमेश्वरि |
जीवो ध्यानपरो भूत्वा जपेदष्टशतं प्रिये || ३८ ||
मन्त्राक्षराणि देवेशि मातृकापुटितं क्रमात् |
कृत्वा जीवः प्रसन्नात्मा जपेदष्टशतं प्रिये || ३९ ||
अनुलोमविलोमेन कुर्यात् परमयत्नतः |
अनेन क्रमतो देवि चैतन्यं विद्धि सुन्दरि || ४० ||
मन्त्रार्थं मन्त्रचैतन्यं कथितं तव भक्तितः |
न कस्मैचित् प्रवक्तव्यं यदीच्छेच्छुभमात्मनः || ४१ ||
इदं रहस्यं परमं गोपनीयं वरानने |
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् || ४२ ||
वैष्णवेऽपि महेशानि कुर्याच्चैतन्यमद्तम् |
विष्णुमन्त्रे महेशानि शिवमन्त्रेऽप्युपासते || ४३ ||
चैतन्यं बहुरत्नेन वैष्णवो यत्नतश्चरेत् |
ततः सिद्धो भवेन्मन्त्रो विद्या च कमलानने || ४४ ||
सिद्धमन्त्रस्तु यः कुर्यात् स शिवो नात्र संशयः |
ब्रह्माण्डभाण्डमध्ये तु विहरेत् स च साधकः || ४५ ||
शतकोटि महेशानि तत्पुरश्चरणं स्मृतम् |
चैतन्यरहितं देवि यो जपेत् न च पापकृत् || ४६ ||
मन्त्रार्थं मन्त्रचैतन्यं सुगोप्यं भुवनत्रये |
तव भक्त्या मयाख्यातं दासोऽहं तव सुन्दरि || ४७ ||
अहं मृत्युञ्जयो देवि प्रसादात् तव सुन्दरि |
त्वद्वक्त्राम्बुजपीयूषपानेन कमलानने || ४८ ||
वज्रतुल्यं मम वपुः सदाविभववर्द्धनम् |
ब्रह्माण्डं सकलं देवि तव रूपमयं सदा || ४९ ||
या शक्तिः परमेशानि सा त्वं भवसि सर्वदा |
कृपामयि महेशानि प्रकृतिः शरीरमाश्रिता || ५० ||
सती त्वं परमेशानि पार्वतीत्वं गता प्रिये |
सतीत्वं परमं प्राप्ता इदानीं पार्वती प्रिये || ५१ ||
सती स्नेहं महेशानि त्यक्त्वा सुन्दरि यत् कृता |
पार्वंतीत्वं गता भद्रे मेनकायां शुचिस्मिते || ५२ ||
एतस्मिन्नन्तरे काले सदा ध्यानपरो ह्यहम् |
इति ध्यानं समागच्छन् भूत्वा तिष्ठामि सुन्दरि || ५३ ||
ध्यानमार्गपरो भूत्वा करोमि स्वागमं जपम् |
स्वावासं शक्तिरूपं सदा यत् हृदि संस्थितम् || ५४ ||
स्वावासं वर्णपुञ्जानि नानाविद्यानि पार्वति |
नानाविद्यासु देवेशि दश विद्या प्रगीयते || ५५ ||
एतानि स्वागमं देवि सारात्सारं परात्परम् |
जपित्वा लक्षवर्षाणि स्वागमं शक्तिरूपिणम् || ५६ ||
सिद्धिं गता महेशानि स्वागमे परमेश्वरि |
ध्यानमार्गं परित्यज्य तव पादेषु गीयते || ५७ ||
यदिष्टं ध्यानमार्गेण तत्सर्वं कथयामि ते |
स्वागमं हि विना देवि न किञ्चिद् वर्त्तते प्रिये || ५८ ||
सर्वं हि परमेशानि ब्रह्माण्डं स्वागमे स्थितम् |
स्वागमाच्च प्रसूयन्ते कोटिशः कुण्ड (म) ग्नयः || ५९ ||
ब्रह्माण्डं कोटिशो देवि निर्माणं स्वागमात् प्रिये |
पुराणानि महेशानि तन्द्रणि विविधानि च || ६० ||
यत् किञ्चिद् दृश्यते देवि स्थूलसूक्ष्मं शुचिस्मिते |
तत् सर्वं परमेशानि स्वागमात् कमलानने || ६१ ||
सृष्टिञ्च कुरुते देवि ब्रह्मा स्वागमात् कमलानने |
स्थितिञ्च कुरुते विष्णुः स्वागमात् नगनन्दिनि || ६२ ||
संहरामि जगत् सर्वं त्रैलोक्यं सचराचरम् |
ब्रह्मा विष्णुश्च रुद्रश्च सर्वे स्वागमरूपिणः || ६३ ||
स्वागमो ब्रह्मणो रूपं स्वागमं परमं पदम् |
तेजःपुञ्जं महेशानि यदुक्तं कमलानने || ६४ ||
तेजःपुञ्जन्तु देवेशि स्त्रीरूपं स्वागमं प्रिये |
स्वागमं मुक्तिकैवल्यं निर्वाणपदमव्ययम् || ६५ ||
स्वागमन्तु विना देवि सदेवासुरमानुषम् |
स्वागमं परमेशानि मम इष्टं सदा प्रिये ||
रहस्यं स्वागमोपेतं प्रसङ्गात् कथितं मया || ६६ ||
|| इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे चतुर्दशः पटलः || १४ ||
अथ पञ्चदशः पटलः
श्री-ईश्वर उवाच
धन्यं यशस्यमायुष्यं कलिकल्मषनाशनम् |
यः कुर्यान्मातृकान्यासं स एव श्रीसदाशिवः || १ ||
विना न्यासं महेशानि यो जपेन्मातृकाक्षरम् |
स याति नरकं घोरं विघ्नस्तस्य पदे पदे || २ ||
ब्रह्मादयोऽपि यां कृत्वा सृष्टिस्थित्यन्तकारकाः |
द्वारकानायकः कृष्णःयां कृत्वापि युगे युगे || ३ ||
यां कृत्वा परमेशानि श्रीकृष्णः स्त्रीषु मोहनः |
मातृकावर्णमाश्रित्य श्रीकृष्णः कमलानने || ४ ||
षोडशस्त्रीसहस्राणि स रेमे मातृकाकारणात् |
श्रीरामश्च महेशानि अयोध्यायां वरानने || ५ ||
वीर्याधिकारी देवेशि भुङ्क्ते राज्यमकण्टकम् |
दशवर्षसहस्राणि रामो राज्यमाचीकरत् || ६ ||
हत्वा च त्रिविधान् वीरान् वारणादिनिशाचरान् |
मातृकावर्णमाश्रित्य सर्वं कुर्याद्रघूत्तमः || ७ ||
पञ्चाशन्मातृकां देवीं जननीं विश्वमोहिनीम् |
पूर्वोक्ततन्त्रवद् देवि सर्वं कुर्याद् विचक्षणः || ८ ||
प्रथमं मातृकागायत्रीं ध्यानपूर्वां शुचिस्मिते |
ततो जपं मातृकायाः कुर्यात् साधकयत्नतः || ९ ||
षडङ्गयुगलं देवि ततः कुर्यात् समाहितः |
ततस्तु मातृकाध्यानं बहिर्न्यासं ततः परम् || १० ||
ततः परं महेशानि मातृकापानमुत्तमम् |
एवमष्टमकं देवि मातृकान्यासमाचरेत् || ११ ||
पठित्वा कवचं देवि देहेषु न्यासमाचरेत् |
न्यासस्य परमेशानि वरस्य गुरुरूपकम् || १२ ||
यन्नोक्तं सर्वतन्त्रेषु प्रसङ्गात् कथयामि ते |
त्रिगुणस्य महेशानि न्यासं वक्ष्यामि संशृणु || १३ ||
यं विना परमेशानि व्यर्थ-------------------------------|
शिवविष्णुब्रह्मयुतं बिन्द्वर्ध्वचन्द्रसंयुतम् || १४ ||
रजः सत्त्वं तमो देवि अर्द्ध योनी शुचिस्मिते |
सर्वोपरि महेशानि बिन्दु ब्रह्मस्वरूपिणम् || १५ ||
न्यासश्च त्रिगुणोपेतं विन्यसेत् तस्य सन्धिषु |
पञ्चाशन्मातृकास्थाने त्रिगुणं न्यासमाचरेत् || १६ ||
ततो भावय देवेशि न्यासं त्रैलोक्यमोहनम् |
न्यासस्य परमेशानि रहस्यं परमाद्भुतम् || १७ ||
प्रपञ्चानां महेशानि दलेषु त्रिगुणं न्यसेत् |
गतञ्च परमेशानि त्रिधा वर्तनतो भवेत् || १८ ||
अष्टधा त्रिगुणं देवि सहस्रारे ततो न्यसेत् |
अष्टोत्तरशतं देवि भिन्नायां त्रिगुणं न्यसेत् || १९ ||
न्यासाधिकारी देवेशि ततो भवति साधकः |
त्रिगुणन्यासमात्रेण अधिकारीति गीयते || २० ||
अन्यथा विफलं न्यस्यं जपञ्च विफलं भवेत् |
न्यासञ्च विविधं देवि नानातन्त्रेषु गीयते || २१ ||
मातृकापरमाध्यानं सदा ब्रह्मादिभिः प्रिये |
न्यासानां परमेशानि मातृका विश्वमोहिनी || २२ ||
स्रष्टा च परमेशानि गीयते आगमैः प्रिये |
तस्मात्तु यत्नतो देवि मातृकान्यासमाचरेत् || २३ ||
रहस्यं परमं दिव्यं त्रिगुणन्यासकर्मणि |
अतः परं मातृकायाः षोढा मोक्षप्रदायिनी || २४ ||
अकृत्वा मातृकां षोढां न्यासमन्यं करोति यः |
षोढा च विफलं तस्य मातृका विफलं भवेत् || २५ ||
कृत्वा तु परमेशानि यानि न्यासानि आचरेत् |
सफलानि सदा तस्य अन्यथा रोदनं वने || २६ ||
तस्मात्तु यत्नतः षोढां शृणु देवि वरानने |
षोढा तु परमेशानि साक्षाद् ब्रह्मस्वरूपिणी || २७ ||
निरक्षरा साक्षरा वा कोटिचन्द्रसमप्रभाम् |
ब्रह्मविष्णुनुतां रम्यां मम सम्पुटसंस्थिताम् || २८ ||
मम प्राणसमां विद्यां साक्षाज्ज्योतिर्मयीं शिवाम् |
मातृषोढां वरारोहे सावधानावधारय || २९ ||
मन्त्रौङ्कारक्रमेणैव प्रसङ्गात् कथयामि ते |
त्रिगुणे पुटितां कृत्वा पञ्चाशन्मातृकां प्रिये || ३० ||
परयत्नेन देवेशि पञ्चाशत् स्थानसन्धिषु |
प्रथममनुलोमे तु विलोमं तदनन्तरम् || ३१ ||
ततः परं वरारोहे त्रिगुणं न्यासमाचरेत् |
अष्टोत्तरशतं कृत्वा सर्वसिद्धीश्वरो भवेत् || ३२ ||
न्यासमात्रेण देवेशि जीवन्मुक्तो भवेन्नरः |
प्रपञ्चानां दले देवि प्रथमं न्यासमाचरेत् || ३३ ||
ततः परं महेशानि बाह्यन्यासं समाचरेत् |
शूद्रस्तु परमेशानि चतुर्दशस्वरं न्यसेत् || ३४ ||
कवचं हि विना देवि प्रथमं न्यासमाचरेत् |
चतुर्दशस्वरं पुण्यं दीर्घप्रणवमुच्यते ||
तस्मात् सर्वत्र शूद्रस्तु दीर्घप्रणवमुच्यते || ३५ ||
|| इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे पञ्चदशः पटलः || १५ ||
अथ षोडशः पटलः
श्री-ईश्वर उवाच
प्राणायामं महेशानि प्रसङ्गात् कथयामि ते |
जीवशुद्धिं मनःशुद्धिं प्राणायाममिदं स्मृतम् || १ ||
द्विविधं परमेशानि प्राणायामं समाचरेत् |
प्राणायामं विना देवि न पूजां न जपञ्चरेत् || २ ||
सगर्भञ्च विगर्भञ्च प्राणायामं वरानने |
जपध्यानादिभिर्युक्तं सगर्भं कमलानने || ३ ||
विगर्भञ्च तथा देवि वर्णहीनं भवेद् ध्रुवम् |
पूरयेत् षोडशैर्वायुमिडया परमेश्वरि || ४ ||
चतुषष्ट्या धारयेत्तु चित्रामध्यगतां प्रिये |
रेचयेत् कुम्भकार्धेन नाड्या मध्यमया सदा || ५ ||
एवं द्वादशाद् देवि प्राणायामं समाचरेत् |
प्राणायामं महेशानि महायोगमयं सदा || ६ ||
योगं विना महेशानि मन्त्रसिद्धिर्न जायते |
द्वयोर्द्वयोर्नामयोगो ब्रह्मसंसिद्धिकारणम् || ७ ||
एवं हि मनसा देवि सदा योगं समभ्यसेत् |
यस्य यस्य च देवस्य यथा भूषणवाहनम् || ८ ||
तदेव पूजने तस्य चिन्तयेत् पूरकादिभिः |
पूरकं धारकं देवि रेचकं नगनन्दिनि || ९ ||
सर्वशक्तिमयं देवि सर्वतन्त्रेषु निश्चितम् |
वेदान्ते ब्रह्म निर्णितम् || १० ||
वैशेषिके तु देवेशि परमाणुर्निगीयते |
न्यासे च परमेशानि ईश्वरं न्याससम्मतम् || ११ ||
------------------- --पुरुषं कूटरूपिणम् |
मीमांसया तथा देवि ब्रह्मकर्म प्रगीयते || १२ ||
वेदादौ तुर्यचैतन्यं गीयते सततं प्रिये |
तत्पुरोऽप्यस्ति देवेशि गुप्तब्रह्म सनातनम् || १३ ||
निरिन्द्रियं निश्चलं हि साक्षात् सुप्तमिव स्थितम् |
एतत् सर्वं महेशानि शवरूपं निरिन्द्रियम् || १४ ||
सर्वेषां परमेशानि शक्तिः प्रकृतिरूपिणी |
तस्मात् सर्वेषु देवेषु शक्तेः प्राधान्यमुच्यते || १५ ||
शक्तिः कुण्डलिनी समस्तजननी शतधा वर्तनमयी |
सदा ताञ्च नमाम्यात्मभूतये कमलेक्षणे || १६ ||
ततः शक्तिं विना देवि ब्रह्माद्याः शवरूपवत् |
शवत्वं सर्वदेवेषु विना शक्तिं शुचिस्मिते || १७ ||
शवरूप इवायाति परं ब्रह्म सदा प्रिये |
शक्तियुक्तं यदा ब्रह्म तदा देवत्वमाप्नुयात् || १८ ||
स्वागमं हि महेशानि प्रकृतिं विद्धि पार्वति |
स्वागमे सर्ववेदानि नानातन्त्राणि विद्यते || १९ ||
स्वागमं हि विना देवि न किञ्चिद् विद्यते प्रिये |
तस्मात्तु परमेशानि सर्वं प्रकृतिमयं स्मृतम् || २० ||
ब्रह्माण्डं कोटिनिर्माणं सर्वशक्तियुतं सदा |
आधारञ्च तथा देयं पाण्डित्यं यस्तु पार्वति || २१ ||
मूकत्वं कवितां देवि यद्यदन्यं शुचिस्मिते |
तत्सर्वं परमेशानि शक्तिं विद्यात् शुचिस्मिते || २२ ||
शक्तिहिं परमेशानि ब्रह्मद्वन्द्वं सदा प्रिये |
शब्दब्रह्म परंब्रह्म शक्तियुक्तं सदा प्रिये || २३ ||
एवं ब्रह्मा महेशानि शब्दब्रह्म प्रशस्यते |
शब्दस्य कारणं देवि मातृकां ब्रह्मरूपिणीम् || २४ ||
अत एव महेशानि सदा मम हृदि स्थितम् |
तव भक्त्या मया ख्यातं सुगोप्यं हि शुचिस्मिते |
न कस्मैचित् प्रवक्तव्यं यदीच्छेत् शुभमात्मनः || २५ ||
इति श्रीभूतशुद्धितन्त्रे हरपार्वतीसंवादे षोडशः पटलः || १६ ||
अथ सप्तदशः पटलः
श्री-ईश्वर उवाच
एतत् तन्त्रं महेशानि स्वर्गमर्त्यरसातले |
प्रशस्तं स्यात् सदा देवि नान्यथा मम भाषितम् || १ ||
यस्मिन् राज्ये महेशानि एतत् तन्त्रं हि वर्तते |
नोत्पातस्तत्र देवेशि न च भीतिः कदाचन || २ ||
नाशयुर्व्याधयो देवि तस्मिन् राज्ये न कुत्रचित् |
न च मारीभयं तत्र न च रोगस्तदा प्रिये || ३ ||
सर्वधर्मेषु यद्धर्मः सर्वयज्ञेषु यत् फलम् |
तत्फलं लभते देवि पुस्तकस्य च पूजनात् || ४ ||
यद्गृहे विद्यते देवि पुस्तकं मम दुर्लभम् |
कामरूपसमं देवि तद्गृहं भुवि दुर्लभम् || ५ ||
पुस्तकञ्च महेशानि यद्गृहे विद्यते सदा |
काश्यादीनि च तीर्थानि सर्वाणि तस्य मन्दिरे || ६ ||
यद्गृहे पुस्तकं देवि विद्यते कमलानने |
सर्वदेवमयः सर्वदेवमयः सदा || ७ ||
एतत् तन्त्रं महेशानि सततं यस्य मन्दिरे |
सर्वागममयं सोऽपि स नान्यथा तु कदाचन || ८ ||
सततं मन्दिरे यस्य एतत् तन्त्रं वरानने |
सर्वशास्त्रसमः सोऽपि नान्यथा वचनं मम || ९ ||
संक्षेपेण भूतशुद्धिविवरणम्
रमिति जलधारया वह्निप्राकारं विचिन्त्य स्वाङ्के उत्तानौ करौ कृत्वा सोऽहमिति जीवात्मानं हृदयस्थं दीपकलिकाकारं मूलाधारस्थ कुलकुण्डलिन्या सह सुषुम्नावर्त्मना मूलाधारस्वाधिष्ठानमणिपूरकानाहत विशुद्धाज्ञाख्यषट् चक्राणि भित्वा शिरोऽवस्थिताधोमुख सहस्रदलकमलकर्णिकान्तर्गतपरमात्मनि संयोज्य तत्रैव पृथिव्यप्तेजोवायवाकाशगन्धरसरूपस्पर्शशब्द नासिका - जिह्वा - चक्षुस्त्वक्श्रोत्रवाक्पाणिपादपायुपस्थप्रकृतिमनोबुद्ध्याहङ्कार-रूपचतुर्विंशतितत्त्वानि लीनानि विभाव्य यमिति वायुबीजं धूम्रवर्णं वामनासापुटे विचिन्त्य तस्य षोडशवारजपेन | वायुना देहमापूर्य नासापुटौ धृत्वा तस्य चतुःषष्ठिवारजपेन कुम्भकं कृत्वा वामकुक्षिस्थकृष्णवर्णं पापपुरुषेण सह देहं संशोष्य तस्य द्वात्रिंशद्वारजपेन दक्षिणनासया वायुं रेचयेत्, दक्षिणनासापुटे रमिति वह्निबीजं रक्तवर्णं ध्यात्वा तस्य षोडशवारजपेन वायुना देहमापूर्य नासापुटौ धृवा तस्य चतुःषष्टिवारजपेन कुम्भकं कृत्वा पापपुरुषेण सह देहं मूलाधारोत्थितवह्निना दग्ध्वा तस्य द्वात्रिंशद्वारजपेन वामनासया भस्मना सह ठमिति चन्द्रबीजं शुक्लवर्णं वामनासायां ध्यात्वा तस्य षोडशवारजपेन ललाटे चन्द्रं नीत्वा नासापुटौ धृत्वा रमिति वरुणबीजस्य चतुःषष्टिवारजपेन तस्माल्ललाटस्थचन्द्राद् गलितसुधया मातृकावर्णात्मिकया समस्तदेहं विरच्य लमिति पृथ्वीबीजस्य द्वात्रिंशद्वारजपेन देहं सुदृर्ढ विचिन्त्य दक्षिणेन वायुं रेचयेत् |
इति श्रीभूतशुद्धितन्त्रं समाप्तम् |