भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः ११

विकिस्रोतः तः

अथैकादशोऽध्यायः

आनन्दगिरिवनशर्मपुरीशर्मउत्पत्तिवर्णनम्

बृहस्पतिरुवाच
पुरा तु नैमिषारण्ये विप्रश्चाजगरोऽभवत्।
वेदान्तशास्त्रनिपुणो ज्ञानवाञ्छम्भुपूजकः।।१।।
द्वादशाब्दान्तरे रुद्रस्तुष्टोऽभूत्पार्थिवार्चनात् ।
तदागत्य ददौ ज्ञानं जीवन्मोक्षत्वमागतः । । २
सङ्कर्षणं समाराध्य तज्ज्ञानेन द्विजोत्तमः ।
तुष्टाव पुष्कलाभिश्च स्तुतिभिः परमेश्वरम् । । ३
अजगर उवाच
सदैव्यं प्रधानं परं ज्योतिरूपं निराकारमव्यक्तमानन्दनित्यम् ।
त्रिधा तत्तु जातं त्रिलिङ्गैक्यभिन्नं पुमान्सत्त्वरूपो रजोरूपनारी । ।
तयोर्यत्तु शेषं तमोरूपमेव ततश्शेषनाम्ने नमस्तेनमस्ते । । ४
रजश्चादिभूतो गुणस्यैव माया तथा मध्यभूतो नरस्सत्त्वरूपम् ।
तथैवान्तभूतो नपुंस्कं तमोवत्सदैवाद्य नागेश तुभ्यं नमस्ते । । ५
नराधाररूपो भवान्कालकर्ता नराकर्षणस्त्वं हि सङ्कर्षणश्च ।
रमन्ते मुनीशास्त्वयि ब्रह्मधाम्नि नमस्तेनमस्ते पुनस्ते नमोऽस्तु । ।
नराङ्गेषु चाधारभूता शिवा या स्मृता योगनिद्रा हि शक्तिस्त्वदीया । । ६
जीव उवाच
एवं हि संस्तुतो देवो द्विजं चाजगरं प्रभुः ।
सायुज्यं कृतवान्स्वाङ्गे रुद्रः सर्पो हि सोऽभवत् । । ७
फणासहस्रसहितो गौराङ्गो गौरविग्रहः ।
क्षीराब्धौ मन्दिरं यस्य बभूव च गुणाकरम् । । ८
तं सर्पाख्यं महारुद्रं प्रत्यागत्यात्मभूः स्वयम् ।
कर्कराशिस्थिते सूर्ये चन्द्रे भगणमण्डले । । ९
तं रुद्रं स्थापयामास चन्द्रमाः स तु चाभवत् ।
इति श्रुत्वा शेषनागो रुद्रः श्रीगुरुभाषितम् । । 3.4.11.१०
वचनं स प्रसन्नात्मा तेज उत्पाद्य वै मुखात् ।
विन्ध्याद्रौ जनयामास देवदत्तद्विजालये । । ११
गिरिशर्मा स वै विप्रो विजित्य विदुषां गणान् ।
काशीपुरीं समायातः शिष्योभूच्छङ्करस्य वै । । १२
इति ते कथितं विप्र यथा रुद्रो बभूव ह ।
पुनः शृणु कथां विप्र यथा जीवेन भाषिताम् । । १३
जीव उवाच
प्रयागे च पुरा ह्यासीद्ब्राह्मणो हरिसेवकः ।
दारिद्र्यार्त्तो मन्दभाग्यो नैर्ऋतो नाम विश्रुतः । । १४
महाकष्टेन तस्यैव भिक्षा प्राप्ता दिनान्तके ।
नैर्ऋतः पुत्रपत्नीको दारिद्र्यार्तो दिनेदिने । । १५
एकदा नारदो योगी सम्प्राप्तो वैष्णवप्रियः ।
पूजितस्तेन विप्रेण विष्णुलोकमुपाययौ । । १६
दृष्ट्वा नारायणं देवं नमस्कृत्य पुनःपुनः ।
वचनं प्राह नम्रात्मा सदैव भगवत्प्रियः । । १७
भगवन्ये सुराः सर्वे सदा त्वत्पूजने रताः ।
तेषां भक्ताश्च ये भूमौ धनधान्यसमन्विताः । । १८
त्वद्भक्ताश्च मया दृष्टा दारिद्यार्ताः सदा भुवि ।
किमर्थं ब्रूहि मे स्वामिञ्जनार्दन नमोऽस्तु ते । । १९
इत्युक्तो नारदेनैव भगवान्भक्तवत्सलः ।
तमाह वचनं रम्यं तच्छृणु त्वं सुरोत्तम । । 3.4.11.२०
मद्भक्तो भगवान्ब्रह्मा दृष्ट्वा नारायणप्रियान् ।
जनाँश्च स्ववशीकृत्य लोककार्यं करोति हि । । २१
धर्मोऽधर्मस्तेन कृतो धर्मो वेदमयः स्मृतः ।
सप्त लोकाश्च धर्मस्य निर्मितास्तेन धीमता । । २२
भूर्भुवः स्वो महश्चैव जनश्चैव तपस्तथा ।
सत्यं तथैव क्रमतो नृणां द्विगुणदं सुखम् । । २३
अधर्मो वेदरहितो भुवि शब्दान्यकर्तृकः ।
ये शब्दाश्च महावाण्या दूषितास्ते हि लोकगाः । । २४
वेदेतर पापमया दैत्यवृद्धिकराः सदा ।
अधर्मः स तु विज्ञेयः सप्तलोकाश्च तस्य वै । । २५
भूमिगर्तेषु विधिना निर्मिताः सुखदायकाः ।
अतलं वितलं चैव सुतलं च तलातलम् । ।
महातलं रसा चैव पातालं चान्यधर्मजम् । । २६
अन्यधर्मो ह्यधर्मश्च देवास्त्वन्ये हि तेऽसुराः ।
धर्मपक्षाः सुरा ज्ञेया असुराश्चान्यधर्मजाः । । २७
तयोर्विहीनो यो धर्मो देवैर्देत्यैश्च दूषितः ।
विधर्मः स नु विज्ञेयस्तत्र लोका व्यथाकुलाः । । २८
तामिस्रमन्धतामिस्रं कुम्भीपाकश्च रौरवम् ।
महारौरवमेवापि तथामूर्तिरयस्तथा । । २९
इक्षुयन्त्रं शाल्मलं च ह्यसिपत्रवनं तथा ।
ज्ञेयमित्येव रचितं विधिना चैकविंशतिः । । 3.4.11.३०
ब्रह्माण्डोऽयं लोकमयः परं तस्माच्च मत्पदम् ।
मद्भक्ता भूतले ये वै ते गच्छन्ति परं पदम् । । ३१
देवभक्ताश्च ये लोकाः सप्त लोकान्व्रजन्ति ते ।
ये तु वै तामसा लोका दैत्यपूजनतत्पराः । ।
ते गच्छन्ति भहीलोकानतलादिमयाँस्तथा । । ३२
पातालाद्योजनं लक्षमधोलोकः प्रकीर्तितः ।
विधर्मतत्परा लोकास्ते गच्छन्ति ह्यधोगतिम् । ।
अतो वै विधिना भ्रष्टा मद्भक्ताश्च दरिद्रगाः । । ३३
ये मद्भक्ताः सुरान्पूर्वं पूजयित्वा भजन्ति माम् ।
लक्ष्मीवन्तश्च ते ज्ञेया भुक्तिमुक्तिपरायणाः । । ३४
प्रयागे नैर्ऋतो विप्रस्त्यक्त्वा देवान्मम प्रियान् ।
भजत्यनन्यभावेन तस्मात्स हि दरिद्रवान् । । ३५
देवैर्दत्तं हि यद्द्रव्यं भोक्तव्यं सर्वदा जनैः ।
मया दत्तं हि यद्वस्तु ब्रह्माण्डे नास्ति नारद । ।
अतो मदाज्ञया विप्र देहि तस्मै वरं शुभम् । । ३६
इत्युक्तो नारदो योगी हरिणा विश्वकारिणा ।
द्विजपत्नी स्थिता गेहे तत्र प्राप्य वचोऽब्रवीत् । । ३७
वरं वरय हे साध्वि त्वया यद्वाञ्छितं हृदि ।
साह देहि वरं स्वामिन्भूपराज्ञी भवाम्यहम् । । ३८
इत्युक्त्वा वचनं तत्र दिव्यरूपा बभूव सा ।
आगतस्तत्र नृपतिर्गृहीत्वा गेहमाययौ । । ३९
सायङ्काले तु सम्प्राप्ते द्विजस्तत्र समागतः ।
नारदस्तं वचः प्राह शृणु विप्र हरिप्रिय । । 3.4.11.४०
वरदानाच्च ते पत्नी भूपराज्ञी हि वर्तते ।
त्वया किं वाञ्छितं वस्तु मत्तः प्राप्य सुखी भव । । ४१
इति श्रुत्वा दैववशो वचः प्राह रुषान्वितः ।
क्रोष्ट्री भवेच्च मत्पत्नी देहि विप्र वरं मम । । ४२
इत्युक्त्वा वचनात्क्रोष्ट्री सा बभूव द्विजप्रिया ।
एकस्मिन्नन्तरे प्रास्तस्तत्पुत्रो गुरुपूजकः । । ४३
श्रुत्वा तत्कारणं सर्वं नारदं स वचोऽब्रवीत् ।
मम माता यथा स्वामिंस्तथा शीघ्रं वराद्भवेत् । । ४४
एतत्त्रिभिर्वरैः प्राप्तं दैवमायाविमोहितैः ।
तदा तु नारदो दुःखी नैर्ऋतं प्राह वै वचः । । ४५
ब्रह्माण्डोऽयं देवमयो भवस्तस्य महेश्वरः ।
अतो भवं भजाशु त्वं स ते कार्यं करिष्यति । । ४६
इत्युक्तवचनो विप्रो भवं तं पार्थिवार्चनैः ।
तुष्टाव परया भक्त्या वर्षमात्रं हि नैर्ऋतः । । ४७
तदा प्रसन्नो भगवान्महेशो भक्तवत्सलः ।
कुबेरसदृशं दिव्यं ददौ तस्मै महद्धनम् । । ४८
तद्धनेन स वै विप्रो धर्मकार्यं चकार ह ।
प्रसिद्धोऽभून्महीपृष्ठे नाम्ना पुण्यजनो धनैः । । ४९
शिवभक्तिप्रभावेण प्राप्य द्रव्यमकण्टकम् ।
सहस्राब्दवपुर्भूत्वा त्यक्त्वा प्राणान्दिवं ययौ । । 3.4.11.५०
वृषराशिस्थिते सूर्ये राजा चन्द्रस्य सोमवत् ।
नैर्ऋतो नाम विख्यातो रुद्रः सर्वजनप्रियः । । ५१
इति श्रुत्वा नैर्ऋतस्तु भृगुवर्य गुरूदितम् ।
स्वांशाद्भूतलमागम्य गिरिनालगिरौ वने । । ५२
योगिनः सिद्धसाङ्ख्यस्य पुत्रोऽभूद्वनवासिनः ।
वनशर्मेति विख्यातो वेदशास्त्रपरायणः । । ५३
द्वादशाब्दवपुर्भूत्वा जित्वा विद्वज्जनान्बहून् ।
काशीमागम्य तत्त्वार्थी शङ्कराचार्यमुत्तमम् । ।
प्रणम्य तस्य शिष्योऽभूद्वनशर्मा विशारदः । । ५४
बृहस्पतिरुवाच
वसुशर्मा द्विजः कश्चिन्माहिष्मत्यां पुराभवत् ।
शिवव्रतपरो नित्यं पुत्रार्थी पार्थिवार्चक. । । ५५
चतुर्विंशतिवर्षाणि पूजतस्तस्य धीमत ।
व्यतीतानि सुरास्तत्र न प्रसन्नोऽभवच्छिवः । । ५६
तदा तु दुःखितो विप्रो वह्निं प्रज्वाल्य भैरवम् ।
जुहाव स्वाङ्गमांसानि मुखतश्चरणान्तकम् । । ५७
न प्रसन्नोभवद्रुद्रस्तदा विप्रः शुचान्वितः ।
गृहीत्वा चोत्तमं मेषं संस्कारं कृतवाञ्छुचिः । ।
तेन मेषेण सहितो ज्वलदग्नौ समाययौ । । ५८
प्रसन्नो भगवान्रुद्रस्तत्रागत्य गणैर्युतः ।
स्वरूपं दर्शयामास शुद्धस्फटिकसुन्दरम् । ।
वरं ब्रूहि वचः प्राह वसुशर्माणमुत्तमम् । । ५९
तच्छ्रुत्वा स प्रसन्नात्मा नत्वा पार्वतिवल्लभम् ।
प्रश्रयावनतो भूत्वा वचनं प्राह शङ्करम् । । 3.4.11.६०
देहि मे तनयं स्वामिञ्छरणागतवत्सल ।
इत्युक्तश्शङ्करस्तेन विहस्योवाच तं द्विजम् । । ६१
पुत्रदाता स्वयं ब्रह्मा भाग्यकर्त्ता परात्परः ।
तुभ्यं च शतजन्मान्तं तेन पुत्रो न निर्मितः । ।
तस्मादहं सुतं स्वांशात्तव विप्र ददामि भोः । । ६२
इत्युक्त्वा स्वमुखात्तेजो निराकृत्य महेश्वरः ।
तत्पत्न्यां जनयामास सकाशाद्वसुवर्मणः । । ६३
दशमासान्तरे जातः सुपुत्रो मधुराननः ।
अजस्येव पदश्चैको द्वितीयो नरवत्ततः । ।
अजैकपाद इति स प्रसिद्धोऽभून्महीतले । । ६४
चतुश्शताब्दवपुषि प्राप्ते तस्मिन्सुते प्रिये ।
सम्प्राप्तो भगवान्मृत्युस्तदा रोगगणैर्युतः । । ६५
तस्य तैरभवद्युद्धमजैकचरणस्य वै । । ६६
वर्षमात्रेण तान्सर्वाञ्जित्वा मल्लरणोत्कटः ।
मृत्युञ्जयः स वै नाम्ना प्रसिद्धोऽभून्महीतले । । ६७
दुःखितो भगवान्मृत्युस्तेन विप्रेण निर्जितः ।
परमेष्ठिनमागम्य कथयामास कारणम् । । ६८
तदा तु भगवान्ब्रह्मा सर्वदेवगणैर्युतः ।
कुम्भगे द्युमणौ देवे चन्द्रमण्डलगं नृपम् । ।
तं द्विजं च चकाराशु रुद्ररूपं भयापहम् । । ६९
सूत उवाच
इति श्रुत्वा महादेवः स विप्रश्च तदाजपाद् ।
पुरीं माहिष्मतीं प्राप्तः कलिशुद्धिकरः प्रभुः । ।
पुरीशर्मेति विख्यातो यतिदत्तस्य वै सुतः । । 3.4.11.७०
षोडशाब्दवपुर्भूत्वा जित्वा वेद परायणान् ।
शङ्कराचार्यमागम्य तस्य शिष्यो बभूव ह । ।
इति ते कथितं विप्र यथा मृत्युञ्जयोभवत् । । ७

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये आनन्दगिरिवनशर्मपुरीशर्मउत्पत्तिवर्णनं नामैकादशोऽध्यायः । ११